१७

श्रीसूक्तविधिः

शेषः—

श्रीसूक्तस्य विधिं वक्ष्ये दृष्टादृष्टार्थसिद्धये।
विष्णुसायुज्यसिद्ध्यर्थं अष्टैश्वर्यादिसिद्धये ॥

सर्वेषां हितकामानां सिद्धिज्ञानात्मसिद्धये।
श्रीसूक्तस्य ऋषिः ब्रह्मा तद्ध्यानेन तथाब्जज ॥

छन्दश्च देवी गायत्री विष्णुरेव च देवता।
श्रीं बीजं तु क्लीं शक्तिः कीलकं ऐं चतुर्मुख ॥

ह्रीं कवचं क्षौमित्यस्त्रं रक्तवर्णं हिरण्मयम्।
श्रीमन्नारायणेत्युक्त्वाप्रीत्यर्थे विनियोजयेत्॥

श्रीबीजेन करन्यासं कुर्यात्तत्प्रणवेन तु।
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ॥

ज्ञानादिकं न्यसेद्विद्वान् हृदादिध्यानयोगतः।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह ॥

इति कृत्वा शिरसि तां मध्ये ह्यावाह्य चान्ततः।
शिखायां तु न्यसेन्मन्त्री श्रियै जातेति मन्त्रतः ॥

बाह्वोर्न्यस्य च नेत्राभ्यां गन्धद्वारेति मन्त्रतः।
महादेव्यै च तद्दिक्षु कुर्यादिग्बन्धनं क्रमात् ॥

व्याप्यं तद्व्यापकं चैव श्रीबीजेन न्यसेद्बुधः।
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ॥

विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व।
इति ध्यानं प्रकुर्वीत श्रीसूक्तमयुतं जपेत् ॥

चतुरङ्गं प्रकुर्वीत अष्टैश्वर्यादिसिद्धये।
अयुतं बिल्वपत्रेण गुग्गुलेन मधुत्रयैः ॥

श्रीसूक्तयजनात्सम्यक् चक्रवर्तित्वमाप्नुयात्।
तत्पुष्पैरेवमिन्द्रत्वं शिवत्वं तत्फलैस्सदा ॥

ब्रह्मत्वं तु च तत्काष्ठैः तत्पत्रैर्वाञ्छितं भवेत्।
कमलैः पूजयेत्तद्वत्तर्पयेत् चन्दनाम्भसा ॥

एवमेव प्रकुर्वीत धर्मकामार्थमुक्तये।
मध्ये श्रीबीजमालिख्य बिन्दुसाध्यसमन्वितम् ॥

तद्बहिः परितो लेखः श्रीसूक्तेनैव मन्त्रवित्।
चतुर्विंशद्दलान्येव दलेषु विलिखेद्बुधः ॥

विष्णुगायत्रिया मन्त्री मायया वेष्टयेद्बुधः।
द्वात्रिंशद्दलमालिख्य तद्बहिस्तलेषु च ॥

पुण्डरीकाक्षमन्त्रेण मान्त्रिको विलिखेकमात्।
स्वराण्येतद्व्यञ्जनानि हंसहंसेतिसंयुतम् ॥

साध्यं तु परितो लेस्व्यं नीलाबीजेन वेष्टयेत्।
पाशाङ्कुशेन संवेष्ट्य इन्द्रायष्टदले लिखेत् ॥

गुह्याद्गुह्यतमं ब्रह्मन् कुर्यात्तत्सर्वसिद्धये।
एतस्य सदृशो नास्ति सर्वसूक्तेषु सर्वदा ॥

इति श्रीपाञ्चरात्रे शेषसंहितायां सप्तदशोऽध्यायः