पुरुषसूतविधिः
नारदः—
शेषशेष महादेव श्रोतुमिच्छामि तत्त्वतः।
सूक्ताना मुत्तमं सूक्तं वद मे भक्तवत्सल ॥
शेषः—
सूक्तानामुत्तमं सूक्तं मोक्षश्रीज्ञानवर्धनम्।
वक्ष्ये पुरुषसूक्तं हि तद्विधानं सुदुर्लभम् ॥
पुरुषसूक्तं जपेत्सद्यो महापातकराशयः।
नश्यन्ति तत्क्षणात्तस्य द्विजस्य विधिनाब्जज ॥
ब्रह्मत्वं वा शिवत्वं वा इन्द्रत्वं वा भवेत्सदा।
पुरुषसूक्तं जपेद्विष्णोः सिध्यन्ति सकलाशशुभाः ॥
ब्रह्महत्त्यादियुक्तानां महापातकिनां तथा।
महारोगप्रयुक्तानां उपपातकिनां तथा ॥
शत्रुक्षयं जिगीषूणामायुष्यारोग्यकाङ्क्षिणाम्।
राज्यश्रीकांक्षिणां तद्वदष्टैश्वर्यविचारिणाम् ॥
अष्टैश्वर्यप्रयुक्तानां ब्रह्मादिफलकांक्षिणाम्।
सृष्टिस्थित्यन्तमिच्छूनां नित्यनैमित्तिकात्मनाम् ॥
मुमुक्षूणां प्रपन्नानां परमैकान्तिनां सदा।
पुरुषसूक्तं जपेत्तद्वत्तेन पूजादिहोमकान् ॥
पौरुषेण च सूक्तेन सव सिद्ध्यत्यसंशयः।
ब्रह्मयज्ञः न चेत्तस्य सर्ववेदफलं भवेत्॥
त्रिसंध्यं यो जपेत्तस्य मोक्षधर्मादिकं लभेत्।
पुरुषसूक्तं जपन् रुद्रः शिवोभवति निश्चयः ॥
पुरुषसूक्तजपध्यानात् तत्पादोदकधारणात्।
नीलकण्ठः कपाली च शिवो भवति निश्चयः ॥
ऋषयो देवताश्चैव ब्रह्मा रुद्रादयस्सदा।
पुरुषसूक्तजपात्सद्यः ते वै शुद्धा भवन्ति हि ॥
नित्यं पुरुषसूक्तं तु जपन् मोहान् गुणागुणैः।
स सर्वलोकान् जयति स याति परमं पदम् ॥
अयुतं जपमात्रेण तस्य सिद्धिर्भविष्यति।
ब्रह्महत्त्यादिकं सर्वं शतावृत्त्यैव नश्यति ॥
महारोगादिकं सम्यक् सहस्रेण प्रशाम्यति।
पुरुषसूक्तं हरिं ध्यायन् जप्त्वाऽयुतमतन्द्रितः ॥
चातुरङ्गविधानेन सर्वं सिध्यति सर्वदा।
दशांशं पूजयेत्पद्मैः दशांशं तर्पयेद्बधः ॥
दशांशं भोजयेद्भक्ष्यैः दशांशं जुहुयाच्छुचिः।
गोघृतैः पायसैः पूर्वैः अपामार्गैर्मधुत्रयैः ॥
ऋग्भिः समस्तकैः कुर्यात् होमं पुरुषसूक्तकैः।
तत्क्षणादेव सिद्धिस्स्यात् नात्रकार्या विचारणा ॥
पुरुषसूक्तस्य मन्त्रस्य ब्रह्मा ऋषिरुदाहृतः।
छन्दश्च देवी गायत्री देवता विष्णुरुच्यते ॥
नीं बीजं शक्तिश्रीं तद्वत् कीलकं ह्रीं चतुर्मुख।
ऐं कवचं रमस्त्रं श्वेतवर्णमुदाहृतम् ॥
प्रणवेन करन्यासं षट्स्वरैर्मन्न्रवित्तमः।
प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे ॥
तृतीयां वामपादे तु चतुर्थीं दक्षिणे तथा।
पञ्चमीं वामजानौ तु षष्ठीं दक्षिणतस्तथा ॥
सप्तमं वामपादे तु अष्टमीं दक्षिणे तथा।
नवमीं नाभिमध्ये तु दशमीं हृदये तथा ॥
एकादशीं बामबाहौ द्वादशीं दक्षिणे तथा।
त्रयोदशीं कण्ठदेशे आस्यदेशे चतुर्दशीम् ॥
अक्षणोः पञ्चदशीं न्यस्य षोडशीं मूर्ध्नि विन्यसेत्।
एवं न्यासविधिं कृत्वा पञ्चाङ्गानि समारभेत् ॥
प्रायश्चित्ते जपे चैव विष्णोराराधने तथा।
सहस्रशीर्षेतिऋचा ज्ञानाद्यैर्हदि विन्यसेत् ॥
यज्ञेन यज्ञऋचा शिरसि न्यासमाचरेत्।
एतावानस्यऋच्या तु कुर्याद्दिग्भन्धनं क्रमात् ॥
कृत्वैवं हि षडङ्गन्तु प्रणवेन महामते।
न्यसेद्व्याप्यं व्यापकञ्च ध्यानं कृत्वा जपेद्बुधः ॥
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥
ध्यात्वा जपेत्पुरुषसूक्तं मोक्षधर्मार्थसिद्धये।
मध्ये तारं सबिन्दु स्यात् तत्कोष्ठं तद्बहिर्लिखेत् ॥
कोणषु विलिखेद्विष्णुं षडक्षरमतन्द्रितः।
बहिरिश्रया च संवेष्ट्य बहिरष्टदलं लिखेत् ॥
दलेषु बिलिखेन्मूलं मायया वेष्टयेद्बुधः।
तद्बहिर्द्वादशदलं वासुदेवमनुं लिखेत् ॥
दलेषु माययाऽऽवेष्ट्य तद्बहिष्षोडशं दलम्।
ऋचां दलेषु संलिख्य नीलाबीचेन वेष्टयेत् ॥
द्वात्रिंशद्दलमालिख्य दलेषु विलिखेत्सुधीः।
पुण्डरीकाक्षस्य मनुं वेष्टयेत्प्रणवेन तु ॥
हंसेतिपदसंयुक्तं स्वरान्तर्व्यञ्जनान्बहिः।
संलिखेत्परितस्तद्वद्वेष्टयेज्जायया सह ॥
पाशाङ्कुशेन संवेष्ट्य अष्टदिक्षु लिखेत्क्रमात्।
इन्द्रबीजादिकं लिख्य प्रतिष्ठां कारयेद्बुधः ॥
यन्त्रराजमिदं प्रोक्तं सर्वसिद्धिप्रदायकम्।
धारयेत्पूजयेद्भक्त्या सर्वबन्धविमुक्तये ॥
गुरुणाकारयेद्भक्तया क्षत्रविछूद्रजातिकम्।
सर्वान्कामानवाप्नोति तत्क्षणान्नात्र संशयः ॥
इदं रहस्यं परमं सर्वेषाञ्च चतुर्मुख।
सम्यक्पुरुषसूक्तस्य अङ्गसूक्तानि तज्जपेत् ॥
कार्यार्थी विधिवद्ब्रह्मन् श्रीपुंसूक्तानि तत्त्वतः।
रुद्रसूक्तं जपेद्ध्यायन् क्रूरकर्मसु तत्त्ववित् ॥
धर्मः मोक्षः पुरुषसूक्ते सौम्ये श्रीभूमिसूक्तके।
जपेत्क्रूरतमे रुद्रसूक्तान्येव तथाब्जज ॥
श्रीभूसूक्तं चान्नसूक्तं रुद्रसूक्तं तथा भवेत्।
पुरुषसूक्तस्यांगमात्रात्तत्कर्मफलप्रदम् ॥
घृतान्नशुद्धिसिद्ध्यर्थं तत्सूक्तान्येव सद्विधौ।
नित्यनैमित्तिके मोक्षे पुंसूक्तं तु जपेत्सदा ॥
श्रीभूसूक्तान्नसूतं च जपेत्तद्वद्विजोत्तमः।
जपेत्क्रूरतमे रुद्रसूक्तान्येव न संकरः ॥
जपेत्तु पौरुषं सूक्तं श्रीभूसूक्तादि वैष्णवः।
न्यासमूलनृसिंहाद्याः कृष्णरामवराहकाः ॥
सुदर्शनहयग्रीवमत्स्यश्रीभूमिगारुडाः।
वासुदेवादि नीला च गायत्री केशवादिका ॥
एते सर्वे महामन्त्राः सात्त्विका भुक्तिमुक्तिदाः।
महामन्त्रस्याङ्गहीने लभेत्सर्वफलं सदा ॥
न लभेदङ्गहीनं चेदङ्गस्य फलमुत्तमम्।
अङ्गी विष्णुर्भवेत्सर्वे अङ्गा रुद्रायस्तथा ॥
इति मत्वा जपेन्मन्त्री मोक्षधर्मार्थसिद्धये।
इति शेषसंहितायां षोडशोध्यायः.