१५

–––––––

सदाचारः

शेषः —

सुदर्शननृसिंहादिमन्त्राणां सिद्धये तथा ।
पौरश्चरणसिद्ध्यादीन् वक्ष्यामि विधिना यथा ॥

ब्राह्मे मुहूर्ते संप्राप्ते मौनेन विधिना सदा ।
कैङ्कर्यादीन् करिष्यामि श्रीमद्भगवदाज्ञया॥

तत्कैङ्कर्यं गुरोर्नित्यं सङ्कल्प्य च सदा शुचिः \।
प्रक्षाल्य पाणिपादादीन् आचम्य प्रणमेद्गुरून् ॥

आचार्यकीर्तनं कृत्वा भगवन्नामकीर्तनम् ।
हृत्पुण्डरीकतन्मध्ये यन्त्रेमन्त्रं स्मरेद्बुधः॥

चन्द्रमण्डलमध्यस्थं हयग्रीवविभुं तथा ।
श्वेतं स्मरन् तथा मौनी गच्छेद्वाथ नदीं द्विजः॥

उदक् दिवा सन्ध्ययोश्च निशि याम्यमुखः द्विजः ।
दुर्भूमौ निर्जने देशे तृणपर्णोपरि द्विजः॥

धृत्वा कर्णे यज्ञसूत्रं त्यक्त्वामूत्रपुरीषकम् ।
सन्मृदं पूर्वमादाय नदीतीरे निधाय च ॥

तन्मृदं तु त्रिधा कृत्वा शौचमेकेन कारयेत् ।
अष्टादशं गुदे सम्यक् लिङ्गे षण्मृत्तिकां तथा॥

ततो वामे षोडश स्यात् उभयोः करयोस्तथा ।
प्रत्येकं पादयोर्दद्यान्मृत्तिकाष्षोडश स्मृताः॥

करे षण्मृत्तिकां दद्यात् क्षालयेच्छुद्धवारिणा ।
गण्डूषणत्रयं कृत्वा आचम्य विधिपूर्वकम्॥

तृणपर्णैस्सदा कुर्यात् दन्तधावनमादितः ।
जिह्वाशोधनकं कृत्वा त्रिंशद्गण्डूषणं पुनः॥

मुखप्रक्षालनं कृत्वा आचम्य च समन्त्रकम् ।
अन्यं भागं मृदो देहे लेपयित्वा सुशोधयेत् ॥

स्नात्वाऽऽचम्याथ सङ्कल्प्य श्रीविष्णोराज्ञयेति च ।
अन्यं भागं वामहस्ते त्रिधा कृत्वा समन्त्रकम् ॥

मूलमन्त्रेण तत्कुर्यात् नरसिंहं स्मरेद्द्विजः ।
दशदिग्बन्धनं कुर्यादेकेन च ततः परम्॥

प्रक्षाल्य पीठमन्येन कुर्यादन्येन मन्त्रवित् ।
पौरुषेण तु सूक्तेन मूर्ध्न्यादौलेपयेत्स्मरन्॥

भगवत्पादपद्मोत्थतीर्थस्नानं यथाक्रमम् ।
अधमर्षणसूक्ताद्यैः पुंसूक्तेन च सर्वदा॥

पञ्चगव्यैस्तिलैस्स्नानं पुंसूक्तेन तु कारयेत् ।
समृत्तिकैरामलकैः देहज्ञानात्मशुद्धये ॥

यथोक्तं तर्पयित्वाऽथ प्रोक्षितं तीरमाविशेत् ।
कौपीनं कटिसूत्रं च वस्त्रयुग्मं च धारयेत्॥

सच्छिद्रमूर्ध्वपुण्ड्राणि पवित्राणि द्विजोत्तमः ।
पद्माक्षतुलसीमालां पवित्रं च सदर्भकम्॥

विशुभ्रया मृत्तिकया सान्तरालं मनोहरम् ।
धारयेदूर्ध्वपुण्ड्राणि मोक्षधर्मार्थसिद्धये ॥

ऊर्ध्वपुण्ड्रस्यतन्मध्ये हरिद्राचूर्णमुत्तमम् ।
लक्ष्मीनिवाससिद्ध्यर्थं ललाटे धारयेद्धरेः ॥

स्नानं वा तप्ततोयेन दोषवैषम्यसंभवे ।
नाभेरधस्ताद्वा भेदात् क्षालयेदात्मनस्तनुम्॥

तत्राप्यशक्तश्चेत्कुर्यात् स्नानं मानसमेव हि ।
यथाचम्य हतं वासः परिधाय सुखासने ॥

प्राणानायम्य मां ध्यायेत् हृदयाम्भोरुहे स्थितम् ।
स्नानं मानसमेतत् स्यात् स्नात्वा च हरिमर्चयेत्॥

आदौ मानससिद्ध्यर्थं आग्नेयं स्नानमाचरेत् ।
वाय्वग्न्यमृतबीजैश्च शोषणादिक्रमेण च॥

तदाग्नेयं भवेत् स्नानं शोधनं परमं स्मृतम् ।
पूर्वोक्ततन्त्रमार्गेण गायत्र्याद्यैश्च मन्त्रकैः ॥

पञ्चरात्रेण मन्त्रेण प्रणवेन मदुक्तकैः ।
शुद्धसात्विकमन्त्राद्यैः विष्णुमन्त्रैस्समस्तकैः॥

नित्यनैमित्तिकं कुर्यात् स्वगृह्योक्तविधानतः ।
पर्वताग्रेनदीतीरे गवां गोष्ठेऽथवा वने॥

विष्ण्वालये गृहे रम्ये ज्ञात्वा मन्त्रं शुचिर्जपेत् ।
शुचौ देशे समं कृत्वा गोमयेनानुलिप्य च ॥
नात्युच्छ्रिते नातिनीचे चेलाजिनकुशोत्तरे॥

तार्तीयोज्ज्वलकर्णिकं स्वरयुगैराविर्भवत्केसरं
वर्गोल्लासिवसुच्छिदं वसुमतीगेहेन सम्प्रेषितम् ।
ताराधीश्वरवारिवर्णविलसद्दिक्कोणताराङ्कितं
यन्त्रं वर्णमनोहरं निगदितं सर्वामयघ्नंपरम्॥

सौवर्णे राजते ताम्रे यन्त्रमेतत्प्रकल्पयेत् ।
सर्वरोगविनाशार्थं जपहोमार्थसिद्धये ॥

एतद्यन्त्रोपरि स्थित्वा जपेन्मन्त्रविदब्जज।
उदङ्मुखः प्राङ्मुखो वा आसीनस्सुसमाहितः॥

अक्षतैस्सिकतैर्वापि तिलं वा पुष्पमेव वा।
यथोपपन्नमुत्सृज्य यतवाक्कायमानसः ॥

अपक्रामन्तु भूतानि पिशाचोरगराक्षसाः ।
सर्वे ते भूमिपालाश्च सर्वेषामविरोधकम्॥

गच्छतां दोषजुष्टानां ब्रह्मकर्मसमारभेत् ।
नदीजलेन संप्रोक्ष्य वाग्यतो नियतेन्द्रियः॥

अस्य श्र्यासनमन्त्रस्य पृथिव्याः पदमुच्चरेत् ।
मेरुपृष्ठऋषीत्युक्ता श्रीकूर्मो देवता वदेत्॥

सुतलं छन्द इत्युक्ता ओं बीजं शक्तिह्रींवदेत् ।
क्लीं कीलकं श्रीं कवचं ऐंअस्त्रं रक्तवर्णकम्॥

अखिलजगदाधाराय उच्चरेत्कूर्मरूपिणे ।
अनन्तपद्मनाभाय हुंफट्स्वान्ततः परम्॥

आसने विनियोगं च ध्यानमन्त्रविदब्जज\।
विंविमलासनायेति अंअनन्तासनाय च ॥

पंपद्मासनाय पदं कुंकूर्मादि ततः परम् ।
कमलपर्यन्तमित्युक्त्वातद्वत्सर्वासनेभ्यः ॥

गुंगुरुभ्यस्तथा तद्वत् नमान्तं चास्मदुच्चरेत् ।
नमो गुरुभ्यस्ततश्च अस्मत्परमगुरुभ्योपि च॥

ऐैंपदं तत्ततो नीं च नीलायै पदमुच्चरेत् ।
ततो ह्रीं भूमथेत्युक्त्वाभूम्यैपदमनन्तरम्॥

श्रीमित्युक्त्वाश्रियै तद्वदों तन्नारायणेति च ।
अंपदं चात्मने तद्वत् नमोन्तं प्रणवादिकम्॥

उच्चरन्बुद्धिमान् तद्वत् कूर्माय इदमासनम् ।
तत्तद्भ्रुवौ स्मरन् ब्रह्मन् नमेन्मन्त्रार्थसिद्धये॥

येऽन्तरिक्षगता भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारः ते नश्यन्त्यच्युताज्ञया॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

उत्तिष्ठन्तु भूतपिशाचा ये ते स्युः भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे॥

ततोन्तरितं तद्वद्रक्षोन्तरिता अरातयः ।
विष्णोः स्थानमसीत्युक्त्वाचक्रमुद्रां प्रदर्श्य च॥

पृथिव्यै नम इति ख्यातं गुरुवन्दनपूर्वकम् ।
प्रार्थयेन्नारसिंहं तं ज्ञानमन्त्रार्थसिद्धये ॥

अतितीक्ष्णमहाकाय कल्पान्तदहनोपम \।
नृसिंहाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि॥

ईशान्यदेशे संस्थाप्याः दुर्वासा नारदस्तथा ।
व्यासं पराशरं शक्तिं दक्षिणे संस्मरेत् शुकम्॥

मन्त्रमन्त्रेश्वरं नत्वा ऋषिकल्पान् तथैव च ।
प्राणायामं ततः कुर्यान्मन्त्रवित्कमलासन॥

सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामस्स उच्यते॥

नुषुम्नानाडिमार्गेण पद्मतन्तुसुसूक्ष्मया ।
उपर्यारोहयेद्विष्णुःकुम्भकेन नभस्वता॥

भित्वा च ब्रह्मणो रन्ध्रंबहिर्देहाद्विनिर्गतम् ।
प्रविश्य भास्करस्यापि मण्डलान्निर्गतं बहिः॥

अशरीरं तथा जीवं परस्मिन् ब्रह्मणि ध्रुवे ।
स्थितं ध्यायेत् स्थितं तत्र स्वदेहं योनिजं दहेत्॥

तत्पञ्चोपनिषन्मन्त्रान् स्वदेहे सम्यगब्जज।
तत्संहारक्रमेणैवन्यस्य मूलेन मन्त्रवित्॥

नाभिचक्रस्य मध्यस्थवायुना चण्डवायुना।
वायुबीजेन मूलेन शोषयेन्मन्त्रवित्तमः ॥

तद्दहेदग्निमूलेन हृच्चक्रस्थितवह्निना ।
क्षीराब्धिमध्यसंभूताऽमृतेन च समन्त्रकम्॥

कुर्यात्तत्प्लावनं सम्यक् अमृतेनैव साधकः ।
सृष्ट्यन्ते क्षालनं कुर्याद्वारुणेन समन्त्रकम्॥

पर्यायेण प्रकुर्वीत जपपूजादिसिद्धये ।
द्वात्रिंशन्मात्रया कुक्षौ पुरं यदिडयानिलम्॥

कुम्भयेद्वायुबीजेन चतुष्षष्ट्या तु मात्रया ।
शनैश्शनैः पिङ्गलया अग्निबीजेन पूर्ववत्॥

इडया पूरयेत्पश्चात् पूर्वोक्तेनैव संख्यया ।
तथाचामृतबीजेन पूरणादि यथाक्रमम् ॥

शोषणं दाहनं चैव प्लावनं क्षालनं तथा ।
नृत्तबीजं च खे ध्यायेत् पूर्णचन्द्रामृतोपमम्॥

तदुत्थपीयूषनिधौ जाते पाण्डरपङ्कजे ।
स्मरेज्जीवं समुत्पन्नं सकाशाद्ब्रह्मणस्तथा॥

जीवात्प्रधानं तस्मात्तु बुद्ध्यादिगुणसंयुतम् ।
आत्मन आकाशसम्भूतः आकाशाद्वायुः वायोरग्निः॥

अग्नेरापः अद्भ्यः पृथिवी पञ्चविंश आत्मा भवति ॥
इति सृष्टिक्रमेणैव तत्तन्मात्रादिभिः क्रमात्॥

पञ्चभूतमयं सर्वं जीवात्मपरमात्मकम् ।
इत्थं शरीरमात्मीयं सृज्यं मह्यादिभूतजम्॥

प्रविश्य पङ्कजं बद्ध्वाप्रबुद्धं तद्विनिर्गतैः ।
शातकुम्भमयैः कुम्भैः पूर्णैरमृतवारिभिः ॥

स्नापितं शुद्धमनसा मार्जयित्वा निजं वपुः ।
आराधने हरेर्योग्यंपरस्य परमात्मनः॥

श्रिया तत्सायुधैस्साङ्गैः ज्ञानैश्वर्यादिभिस्सह ।
अकारादिक्षकारान्तं केशवादीन् स्मरन् द्विजः॥

प्रणवादिनमोन्तं तु प्रत्येकं तच्चतुर्मुख ।
करबाह्यान्तश्शुध्यर्थं मातृकादीन्यसेद्बुधः॥

करतलौ करपृष्ठौ च सम्यक्प्रक्षाल्य च द्विजः ।
अनन्तरं बहिर्न्यासं मातृकां तद्वदब्जज॥

आननवृत्तद्व्यक्षिश्रुतिनासागंडोष्ठदन्तमूर्धास्यं ।
दोस्संध्यग्रहेषु हृदादिपाणिपादयुगे ॥

जठराननयोर्व्यापकसंज्ञां न्यसेद्दक्षरान्क्रमशः ।
षडङ्गं षट्स्वरैस्सम्यक् पञ्चवर्णान् क्रमेण च॥

शेषमस्त्रे न्यसेन्न्यासं षडङ्गं मातृकां द्विजः ।
ततोन्तश्शुद्धिसिद्ध्यर्थं तत्तद्देवैस्सुमन्त्रवित्॥

आधाराद्यादिचक्रेषु अन्तर्न्यासाख्यमातृका ।
आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूले ललाटे
ले पत्रे षोड़शारे विशदशतदले द्वादशाद्ये चतुष्के।

वासान्ते बालमध्ये डपकठसहिते कर्णदेशे स्वराणां
भं क्षं तत्त्वार्थयुक्तं सकलमुनिगणा ब्रह्ममार्गं वदन्ति ॥
सङ्कर्षणं त्वथाधारे लिङ्गे प्रद्युम्नरूपिणम् ॥

नाभिचक्रे वैनतेयं हृदि नारायणं विभुम् ।
तालुमूले तथा विष्णुं वासुदेवं ललाटके॥

मातृका वर्णचक्रेषु मोक्षार्थी सततं स्मरेत् ।
पञ्चोपनिषदां न्यासं कुर्यात्सृष्टिक्रमेण च॥

सर्वमन्त्रप्रसिद्ध्यर्थं मोक्षज्ञानात्मसिद्धये ।

पञ्चोपनिषन्न्यासः

षौं नमश्शिरसि स्थाने परायेति पदन्ततः॥

परमेष्ठ्यात्मने तद्वन्नमोन्तं विन्यसेत् मनुम् ।
यां नमः पराय पदं वक्त्रेपुरुषात्मने नमः॥

रां नमः पराय हृदि न्यसेद्विश्वात्मने नमः ।
वां नमः पराय लिङ्गे तन्निवृत्त्यात्मने नमः ॥

लां नमः पराय पदोः न्यसेत्सर्वात्मने नमः ।
जपपूजादिहोमेषु न्यसेदिदमतन्द्रितः ॥

ततः कुर्याद्विशेषज्ञो मोक्षार्थी द्विजसत्तमः ।
ब्रह्महत्त्यादिनाशार्थं रोगपापादिनाशने॥

सर्ववश्यादिसिद्ध्यर्थं महैश्वर्यादिसिद्धये ।
पुत्रपौत्राभिवृद्ध्यर्थं सर्वमन्त्रार्थसिद्धये ॥

सर्वविद्यादिसिद्ध्यर्थं सर्वोत्पातादिशान्तये ।
सर्वशान्तिप्रसिद्ध्यर्थं मन्त्रलोपादिनाशने॥

क्रियालोपविनाशार्थं तन्त्रलोपादिनाशने ।
कर्मलोपादिशान्त्यर्थं पूजालोपादिशान्तये॥

अन्नदोषविनाशार्थं सर्वदोषादिशान्तये ।
भुक्तिमुक्तिप्रसिद्ध्यर्थं स्मरेन्मन्त्रविदब्जज॥

पुरुषसूक्तन्यासः

भक्त्या पुरुषसूक्तस्य न्यासं कुर्याज्जपादिषु ।
प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे॥

तृतीयाां वामपादे च चतुर्थीं दक्षिणे तथा ।
पञ्चमीं वामजानौ तु षष्ठीं दक्षिणस्तथा ॥

सप्तमीं वामकट्यां तु अष्टमीं दक्षिणे तथा ।
नवमीं नाभिमध्ये तु दशमीं हृदये तथा ॥

एकादशीं वामबाहौ द्वादशीं दक्षिणे तथा ।
त्रयोदशीं कर्णदेशे आस्यदेशे चतुर्दशीम्॥

अक्ष्णोः पञ्चदशीं न्यस्य षोडशीं मूर्ध्नि विन्यसेत् ।
एवं न्यासविधिं कृत्वा पञ्चाङ्गानि समारभेत्॥

प्रायश्चित्ते जपे चैव विष्णोराराधने तथा ।
इदमेकं तथा कुर्यात् यन्त्रमन्त्रार्थसिद्धये ॥

करादिमातृकास्थाने न्यसेद्रक्षार्थमुत्तमम् ।
नारायणं नृसिंहं वा रामं कृष्णं सुदर्शनम्॥

महायन्त्रं स्मरेद्देहे सुदर्शननृसिंहकम् ।
हृत्पुण्डरीकयन्त्रे तु स्वमन्त्रोक्तादिदैवतम्॥

ध्यायन्जपेत्पूजयंश्च विष्णुसायुज्यहेतवे ।
तुन्दमध्ये पद्ममिष्टं तन्मध्ये नाभिरिष्यते ॥

तत्र चक्रं द्वादशारं आहुर्मासाक्षराणि च ।
विष्ण्वादिमूर्तयस्तेषु द्वादश द्वादशस्वपि॥

अब्दं चक्रस्थितं चक्रं भ्रामयामि स्वमायया ।
अरेषु भ्रमते जीवः क्रमेण कमलासन॥

इति ज्ञात्वा जपेत् ध्यायेत् स मुक्तस्सर्वदा भवेत् ।
विष्णोः पदं स्यात्तद्देशं एतद्विद्वदधिष्ठितम्॥

तस्मात्सर्वात्मना ब्रह्मन् जपध्यानपरो भव ।
तस्मिन् यदन्तस्तदुपासितव्यम्॥

नारायण परं ब्रह्म ब्रह्मा नारायणः परः।

आवरणन्यासः

आनन्दादिमयं ब्रह्म तद्ब्रह्मण इत्युपासीत ।
प्राणायामं ततः कृत्वा न्यासान्ते तद्यथाविधि॥

सुदर्शननृसिंहस्य शक्तयो रुद्रमातरः ।
आज्ञा धृतिर्मोहिनी च भीमा कामा च चञ्चला॥

प्रज्ञा कीर्तिश्च विज्ञेयाः तत्तद्गुणविशिष्टकाः ।
सुदर्शननृसिंहस्य शक्तयो रुद्रमातरः ॥

न्यसेत् प्रथमावरणे सर्वबन्धविमुक्तये ।
ओं नमः केशवायेति नमो नारायणाय च॥

ओं नमो माधवायेति गोविन्दायेति राशिषु।
ओं नमः श्रीविष्णवे च मधुसूद नमोऽस्तु ते॥

ओं नमस्त्रिविक्रमाय वामनाय नमोऽस्तु ते ।
नमस्ते श्रीधरायेति हृषीकेश नमोऽस्तु ते॥

ओं नमः पद्मनाभाय नमो दामोदराय च ।
इति सञ्चिन्त्य सन्मन्त्री द्वितीयावरणे न्यसेत्॥

ओं नमस्संकर्षणाय वासुदेव नमोऽस्तु ते ।
प्रद्युम्नाय नमस्तुभ्यं अनिरुद्ध नमोऽस्तु ते ॥

नमः पुरुषोत्तमाय अधोक्षजाय नमोऽस्तु ते ।
ओं नमो नारसिंहाय अच्युताय नमोऽस्तु ते॥

नमो जनार्दनायेति उपेन्द्राय नमोऽस्तु ते ।
ओं नमो हरये तुभ्यं श्रीकृष्णाय नमोस्तु ते ॥

इति बुद्ध्वाविशेषज्ञः तृतीयावरणे न्यसेत् ।
मत्स्यः कूर्मो वराहश्च नारसिंहश्च वामनः ॥

रामो रामश्च रामश्च कृष्णः कल्कीति च क्रमात् ।
इति विश्वासपूर्वेण चतुर्थावरणे न्यसेत्॥

भीमश्चोग्रस्तपो नीलश्चण्डश्चैव भयंकरः ।
विश्वेश्वरः कमलश्च नवव्यूहभिदाः स्मृताः ॥

भीमादिनृहरिं ध्यायेत् वश्यादिक्रमभेदतः ।
स्वदेहे भीमनृहरिं सौम्ये सौम्यं विचिन्तयेत्॥

क्रूरकर्मसु यन्त्रेषु क्रूरध्यानं च योजयेत् ।
यस्य स्मरणमात्रेण वाग्विभूतिर्विजृम्भते ॥

ततः क्षोभयते लोकान् दर्शनादेव साधकः ।
ध्यानभेदेन सिध्यन्ति मोक्षधर्मादिकास्सदा॥

इति शोध्य द्विजश्रेष्ठः पञ्चमावरणे न्यसेत् ।
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः ॥

शङ्कुकर्णः सर्पनेत्रः सुमुखस्सुप्रतिष्ठितः ।
इति ज्ञात्वा च पूर्वादि षष्ठे चावरणे न्यसेत् ॥

चण्डप्रचण्डौ प्राग्द्वारे याम्ये भद्रसुभद्रकौ ।
वारुण्यां जयविजयौ सौम्ये धातृविधातरौ॥

तत्तद्रूपं तथाध्यात्मा सप्तमावरणे न्यसेत् ।
गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः॥

नागान्तको विष्णुरथस्सुपर्णः पन्नगाशनः ।
नाभौ तु गरुडं ध्यायेत् शेषान् त्वष्टक्रमे क्रमात्॥

हनुमानञ्जनासूनुः वायुपुत्रो महाबलः ।
रामेष्टःफल्गुनसखः पिङ्गाक्षोऽमितविक्रमः॥

उदधिक्रमणश्चैव सीताशोकविनाशनः ।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा॥

मेषादिराशौ विन्यस्य रामेष्टं संस्मरेद्द्विजः ।
रूपभेदादिमार्गेण नवमावरणे न्यसेत्॥

सायुधैर्वेदघोषैश्च ब्रह्माणं दक्षिणे अजम् ।
सायुधैश्शिवमत्युग्रं वामभागे महेश्वरम् ॥

स्वदेहे विष्णुमूर्तिं च वासुदेवं परात्परम् ।
तद्रूपादिविशिष्टेन दशमावरणे न्यसेत्॥

इन्द्रो वह्निः पितृपतिः नैर्ऋतो वरुणो मरुत् ।
कुबेर ईशः पतयः पूर्वादिक्रमशो न्यसेत्॥

साङ्गैश्च सायुधैस्सम्यक् न्यसेदेकादशे बुधः ।
अर्जुनः फल्गुनः पार्थः किरीटी श्वेतवाहनः॥

बीभत्सुः विजयः कृष्णः सव्यसाची धनंजयः ।
दशदिक्षु न्यसेद्विद्वान् सन्नद्धं चार्जुनं स्मरन्॥

क्रोधादिभावभेदेन द्वादशावरणे न्यसेत् ।
आदित्यमिन्दुं भौमं च बुधं जीवं कविं शनिम्॥

राहुं केतुं न्यसेद्ध्यायन् प्राकारे तु त्रयोदशे ।
आदित्यं तु स्वदेहे तु चक्ररूपं स्मरन् सदा॥

मरीचिमङ्गिरं तद्वत् पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं भृगुं नारदं च न्यसेत्क्रमात्॥

स्वदेह अङ्गिरं ध्यायेत् द्विसप्तावरणे न्यसेत् ।
अगस्त्यं च भृगुं कुत्सं वसिष्ठं गौतमं तथा ॥

काश्यपं चाङ्गिरसं च न्यसेत्पञ्चदशे पुनः ।
ईशान्ये संस्मरेत् सम्यक् अगस्त्यं पूर्वकल्पके॥

चक्रं शङ्खं गदां चैव पद्मं शार्ङ्गं तथाङ्कुशम् ।
पाशं बाणं च परशुं असिं शूलं हलं तथा॥

शक्तिं च वज्रखेटं च कुन्तं बिभ्राणमेव च ।
न्यसेद्दिक्षु विदिक्ष्वपि षोडशावरणे स्मरन्॥

दुर्गां सरस्वतीं मायांपिङ्गलां पार्वतीं तथा ।
विनायकं क्षेत्रपालं शिवं सप्तदशे न्यसेत्॥

अचक्राय नमश्चैव विचक्राय नमस्तथा ।
ओं नमः पञ्चचक्राय ज्वालाचक्राय ते नमः ॥

ओं नमो महाचक्राय सुचक्राय नमस्तथा ।
नमस्त्रैलोक्यचक्राय असुरान्तचक्राय च॥

नम आधारचक्राय कालचक्राय ते नमः ।
प्रणवादिनमोन्तं च नमेत्सात्त्विकदेवताः ॥

यजेत्सत्त्वपरीवारान् कल्पयेदितरान् बुधः ।
सभार्याय च साङ्गाय सायुधायेति तद्वदेत्॥

तथा सपरिवाराय कल्पयेत्पूजनादिकम् ।
न्यसेदष्टादशे ब्रह्मन् दशचक्रादिकं मतम्॥

कुर्यात् वारुणबीजेन जलप्राकारमुत्तमम् ।
चायुबीजेन तत्कुर्याद्वायुप्राकारमुत्तमम्॥

अभिबीजेन तत्कुर्यात् अग्निप्राकारमुत्तमम् ।
तत्क्रमेण प्रकुर्वीत एकविंशतिकं शुचिः ॥

परयन्त्रादि तन्त्रादि मन्त्राद्यौषध शान्तये ।
कल्पयेदात्मरक्षार्थं जयायावरणं तथा ॥

प्राणप्रतिष्ठा

प्राणप्रतिष्ठां कुर्वीत जपज्ञानात्मशुद्धये ।
प्राणप्रतिष्ठाकाले च प्राणानायम्य पूर्ववत् ॥

न्यासं कृत्वा विधानेन प्रणवस्य द्विजोत्तमः ।
तालत्रयं च दिग्बन्धः अष्टोत्तरशतं जपेत्॥

प्राणप्रतिष्ठामन्त्रस्य अस्य श्रीपदमादितः ।
ब्रह्मविष्णुमहेश्वरा ऋषयो ऋग्यजुस्साम इत्यपि॥

आधर्वाणि च छन्दांसि क्रमेणैवोद्धरेद्बुधः ।
सकलजगत्स्रष्ट्रुश्च प्राणशक्तिपदं ततः ॥

विष्णुपत्नी देवता च ओं बीजं शक्तिश्रीं ततः ।
ह्रीं कीलकं ऐं कवचं क्लीमस्त्रं रक्तवर्णकम्॥

सकलजगत्सृष्टिं च क्रमेणैव च योजयेत् ।
प्राणप्रतिष्ठाकाले च देहे तु विनियोजयेत्॥

कृत्वा करषडङ्गंतु षट्स्वरैस्सम्यगब्जज ।
कवर्गं सम्यगुद्धृत्य मनो बुद्धिः ततःपरम्॥

अंकारं चित्तात्मने आं नमआद्यन्तसंयुतम् ।
ज्ञानाय हृदयायेति नमो हृदि तु विन्यसेत्॥

चवर्गं च तदोद्धृत्य शब्दस्पर्शेति रूपकम् ।
रसगन्धात्मनेत्युक्त्वाऐश्वर्यायेति चोद्धरेत्॥

मूर्ध्नि तत् शिरसे स्वाहा इति तत्पूर्ववद्भवेत् ।
टवर्गमुद्धरेद्विद्वान् श्रोत्रं तच्चक्षुरेव च ॥

जिह्वाघ्राणात्मनेत्युक्त्वाममूं योज्य च पूर्ववत् ।
शक्त्यै शिखायै संयोज्य शिखायां तु वषण्ण्यसेत्॥

तवर्गं पूर्वमुद्धृत्य वाक्पाणीतिपदं ततः ।
पादपायूपस्थात्मने हैमं संयोज्य मन्त्रवित्॥

बलाय कवचाय हुं बाह्वोर्न्यस्य ततःपरं ।
पवर्गं च समाहृत्य पृथिव्यप्तेज एव च॥

वाय्वाकाशात्मने तद्वदोमौं पूर्ववदब्जज ।
तेजसे नेत्रतया च न्यसेद्वौषट्सुनेत्रयोः ॥

यादि क्षान्तं समुद्धृत्य विष्णुनारायणेति च ।
वासुदेवरूपी भगवान् परमात्मात्मने ततः ॥

अंकारं पूर्ववदभ्यस्य वीर्यायास्त्राय फट् ततः ।
दिक्षु दिग्बन्धनं कुर्याद्दशप्रागादिमन्त्रवित्॥

ककारादिक्षकारान्तं प्रत्येकं बिन्दुसंयुतम् ।
प्रणवाद्यन्तकं कृत्वा षडङ्गन्यासमुत्तमम् ॥

एतद्धि विपरीतेन संहारे न्यासमाचरेत् ।
ध्यानं कुर्यान्महाविष्णोः श्रीसूक्तोक्तविधानतः॥

तत्क्षणात्प्राणशक्तिस्तु व्याप्ता भवति विष्णुना ।
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ॥

विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ।
तारं पाशं ततो मायां अङ्कुशं यरलवेति च ॥

शषसहोन्ततः क्षं लं हं सः सोहं सहों स्थितः ।
अमुष्य प्राणा इह अमुष्य जीव इह स्थितः ॥

अमुष्य सर्वेन्द्रियाणि मनोबुद्धिस्ततः परम् ।
अहङ्कारचित्तवाक्पाणिपादपायूपस्थं च॥

शब्दस्पर्शरूपरसगन्धपृथिव्यप्तेजश्च ।
वाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणमेव च ॥

प्राणा इहैवागत्यागत्य सुखं चरन्तु तिष्ठन्तु स्वाहा ।

मन्त्रजपः

पुनरङ्कुशं च मायां पाशं यरलवेति च ।
शषसहों षं लं हं सं ओमौमैंह्रीं ततो रमाम् ॥

मान्मथं नारसिंहं च नमो नारायणाय च ।
मां रक्ष रक्ष स्वाहा हंसस्सोहं चतुर्मुख॥

भेदं ज्ञात्वा विधानेन जीवात्मपरमात्मनोः ।
शेषशेषिप्रकारेण संस्मरन् मन्त्रमुच्चरन्॥

त्रिरावर्त्य पुनर्मन्त्रंजपेद्बीजान्तसंयुतम् ।
अष्टाविंशतिसङ्ख्येन स्वमन्त्रं प्रत्यहं जपेत्॥

मोक्षमन्त्रादिसिद्ध्यर्थं कृत्वेदं जपमाचरेत् ।
धेनुमुद्रां प्रदर्श्याथ चक्रमुद्रां प्रदर्शयेत्॥

प्राणायामं ततः कृत्वा मूलमन्त्रं यथाविधि।
मन्त्ररत्नं जपेद्भक्त्या सुदर्शनमथापि वा ॥

अन्तर्यागः

सुदर्शननृसिंहस्य न्यासं कुर्याद्विचक्षणः ।
मुद्रां धृत्वा ततो ध्यायेन्मानसेनार्चयेद्धरिम्॥

षोडशैरुपचारैश्च परिवारान् समर्चयेत् ।
आत्मरक्षां जपेदादौ चक्रमन्त्रेण मन्त्रवित्॥

परमन्त्रग्रासमन्त्रेण चक्रराजेन चिन्तयेत्।

सुदर्शननृसिंहन्तु तज्जपेन्मन्त्रवित्तमः॥

उपसंहारमेतत्स्यात् यन्त्रतन्त्रादिसंयुतम् ।
अन्तर्यागमिदं ब्रह्मन् परमैकान्तिनां विधिः॥

बाह्ययागः

बाह्यपूजां तद्वदेव पुरुषसूक्तेन सर्वदा ।
तत्तद्बिम्बादिमन्त्राद्यैरर्चयेन्मोक्ष सिद्धये ॥

सुवर्णताम्रकै रत्नैर्मृदा पाषाणचित्रकैः ।
सुदर्शननृसिंहस्य बिम्बं कुर्याद्यथाविधि ॥

शिल्पिहस्तेन कुर्वीत अमन्त्रकविधानतः ।
नयनोन्मीलनं कृत्वा पश्चाद्विप्रस्समन्त्रकैः॥

तद्बिभ्बंपञ्चगव्येन प्रायश्चित्तादिपूर्वकम् ।
पञ्चरात्रोक्तमार्गेण स्नपनं कारयेद्बुधः॥

प्रतिष्ठाद्युत्सवान्तं च कारयेन्मन्त्रवित्तमः ।
पूर्वोक्तनिष्ठकस्सम्यक् शापानुग्रहसाधकः॥

पट्टणाद्याच्च बिम्बस्य गृहाद्यार्चादिकं तथा ।
धर्मकर्मार्थमोक्षार्थं बाह्यपूजां यथाविधि॥

प्रतिष्ठाद्युत्सवान्तं च यावज्जीवं समन्त्रकम् ।
मुमुक्षुः पूजयेद्विप्रो गृहस्थो वा विशेषतः ॥

मन्त्रादिशयनान्तं च पूजयेन्मोक्षचिन्तकः ।

संग्रहयागः

तद्बाह्याराधनं वक्ष्ये संग्रहेण चतुर्मुख!!
कूर्मादीन् दिव्यलोकं तदनु मणिमयं मण्टपं तत्र शेषं
तस्मिन् धर्मादिपीठं तदुपरि कमलं चामरग्राहिणीश्च ।
विष्णुं देवीविभूषायुधगणमुरगं पादुके वैनतेयं
सेनेशं द्वारपालान् कुमुदमुखगणान् विष्णुभक्तान् प्रपद्ये ॥

द्विहस्तमेकवक्त्रंच शुद्धस्फटिकसन्निभम् ।
सहस्ररविवह्नीन्दुलक्षकोटिसमप्रभम्॥

मरीचिचक्रमध्यस्थं चक्रायुधसुलाञ्छितम् ।
श्रीवत्सकौस्तुभोरस्कं मनमालाविभूषितम्॥

किरीटहारकेयूरवलयादिविभूषितम् ।
पीताम्बरधरं सौम्यरूपमाद्यमनामयम्॥

स वासुदेवो विज्ञेयः सृज्यं सर्वं च तन्मुखात् ।
ध्येयश्च योगिभिर्नित्यं हृत्पद्मासनविष्ठरे ॥

पश्यन्ति सूरयश्शश्वत् तद्विष्णोः परमं पदम् ।
नित्यमुक्तैस्सायुधाद्यैरेवं ध्यात्वा सुवैष्णवः॥

स्वाचान्तः स्वोर्ध्वपुण्ड्रःप्रणमनमजिनाद्यासनं चासुयामः
साङ्गन्यासो जपस्स्यात् हृदयकमलके मानसी देवपूजा।
वामस्थं वारिपात्रं कुसुममितरतश्चान्यदग्रेऽर्घ्यपाद्या
चामस्नानीयमर्घ्याद्धरितनुकुसुमस्वात्मनां प्रोक्षणं स्यात् ॥

आह्वानं चासनार्घ्यं पदसलिलमथाचामपुंसूक्तयुक्त–
स्नानं वस्त्रोपवीते मलयजकुसुमे धूपदीपौ क्रमेण ।.
मध्वादिः पर्क आदावुपरि च सलिलं पायसाद्यन्नजातं
पानीयाचामपूगं परिगतिनमनोद्वासनं विष्णुपूजा॥

स्वमन्त्रजपः

कृत्वैवं बाह्यपूजां तु स्वमन्त्रन्यासमाचरेत् ।
अस्य श्रीपदमुच्चार्य सुदर्शननृसिंह च॥

मन्त्रस्यास्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ।
सुदर्शननृसिंहश्च देवता बीजमोन्ततः ॥

स्वाहा शक्तिः कीलकं श्रीं आं कवचं रं जं अस्त्रकम् ।
रक्तवर्णं जपेद्विद्वान् जपध्यानादिकं सदा ॥

सुदर्शननृसिंहस्य प्रीत्यर्थे विनियोगतः ।
तन्मन्त्रेण करन्यासं पदैः कुर्याच्चतुर्मुख॥

महाचक्रसुचक्राय चतुर्थ्यन्तैः सुमन्त्रवित् ।
ज्ञानादिषड्गुणैस्तद्वदाधाराख्येति चक्रे के॥

ततस्त्रैलोक्यचक्राय ज्वालाचक्राय चेति च ।

असुरान्तकचक्राय षडङ्गन्यासमाचरेत्॥

व्याप्यं तद्व्यपकं देहे कुर्यान्मन्त्रेण संस्मरन् ।

ध्यानम् —

बिभ्राणं शक्तिखड्गं ज्वलनमथसृणिं दन्तकुन्तौ कुठारान्
शङ्खं चक्राब्जपाशान् हलमुसलगदाखेटशूलांश्च दोर्भिः ।
प्रत्यालीढं समीडे त्रिनयनमरुणं पिङ्गकेशं सुदंष्ट्रं–
देवं पश्चार्घयोगासनलसितचतुश्चक्रमास्वन्नृसिंहम्॥

तत्तन्मुद्रां कर्मभेदे जपे ज्ञात्वा विधानतः ।
आत्मरक्षां जपेदादौ चक्रमन्त्रेण मन्त्रवित्॥

ओंनमो भगवते चैव ओं प्रं सुदर्शनाय च ।
दुष्टं दारयदारय दुरितं हनहनेति च ॥

पापं मथ मथ तद्वदारोग्यं कुरु कुरु उभौ ।
हाहा हुंफठ्स्वाहा इत्यष्टाविंशतिर्जपेत्॥

परमन्त्रग्रासमन्त्रेण चक्रराजेन तत्तथा ।
ओंब्रह्मासुदर्शनेति चक्रराजपदं ततः ॥

सर्वदुष्टभयंकर द्वौ च द्वौ छिन्धि छिन्धि च ।
विदारयविदारय परमन्त्रान्ग्राहयन्तथा ॥

भूतानि त्रासय द्वौ च तत्परमन्त्रतन्त्रं च ।
तन्त्रान् दह द्वौ सन्मन्त्री भस्मीकुरु तद्विधान्॥

सर्वशत्रून् हन हन हुंफट्स्वाहामनुं जपेत् ।
ततो जपेत्स्वमन्त्रं तु उद्धरेतारमादितः ॥

सहस्रारपदमुच्चार्य ज्वालावर्तिनेति च ।
नृसिंहैकाक्षरं द्वौ च हन द्वौ द्रेमिति क्रमात्॥

हन द्वौ हुंफडित्युक्त्वास्वाहामनुमिदं जपेत् ।
सुदर्शननृसिंहस्य मनुरिष्टार्थसाधक ॥

अयुतं जपमात्रेण नात्र कार्या विचारणा ।
चातुरङ्गविधानेन षट्कर्माणि प्रयोजयेत्॥

जपतर्पणहोमाश्च तथा ब्राह्मणभोजनम् ।
मन्त्राणां फलसिद्ध्यर्थं चातुरङ्गामति स्मृतम्॥

अपामार्गेण जुहुयात् सर्वकामार्थसिद्धये ।
अष्टैश्वर्यप्रसिद्ध्यर्थं जुहुयाद्गोघृतैस्तिलैः ॥

कर्मभेदेन तद्रुच्यातत्तत्कर्म यजेद्बुधः ।
यन्त्रमुद्धृत्य विधिवत् जपध्यानविशारदः॥

ओंतद्ब्रह्मेत्युपासीत सृष्टिस्थित्यन्तहेतवे ।
ज्ञानभक्त्योश्च कर्मार्थे मोक्षार्थे तन्नमोन्तकम् ।
सर्वसिद्धिकरं नृृणां सर्वोपद्रवनाशनम् ॥

सर्वसम्पत्प्रदं सौम्यं यन्त्रतन्त्रौ तथाब्जज ।
प्रणवानष्ट तन्मन्त्री वल्लवानष्ट बुद्धिमान् ॥

तत्तत्कर्मसु तन्नाम आद्यन्तं योजयेन्मनोः ।
मन्त्रादौ योजयेद्वश्ये द्वौ वश्यं कुरु मन्त्रकम्॥

सम्पुटं द्विगुणीकृत्य आकर्षय पदद्वयम् ।
आकर्षे सर्वमन्त्राणां विधिरेष चतुर्मुख॥

विद्वेषयद्वे मन्त्रान्ते विद्वेषे सन्त्रविच्छुचिः ।
स्तम्भने स्तम्भयद्वौ च प्रथितौ मन्त्रमध्यमे ॥

उच्चाटयद्वावुच्चाटे विदहेद्व्यन्तरीयकम् ।
मारणं मारयद्वौ च आदिमध्यान्तरोधकम्॥

नक्षत्रनामकामादीन् कुर्याद्योज्यक्रमेण च ।
पूर्वाह्णेसौम्यकर्माणि क्रूरकर्माणि मन्त्रवित्॥

उभयोस्सन्ध्ययोः काले घटिकादशकं जपेत् ।
पौरश्चरणकं कृत्वा पश्चादेव समाचरेत्॥

दिश्यैन्द्यांमण्डले च स्यात्पर्थिवे स्तम्भने जपेत् ।
आग्नेय्यां दिशि विद्वेषे तद्वदाग्नेयमण्डले॥

याम्ये जपेत्तथाऽऽकर्षे नैरृत्यां मोहने तथा ।
वश्ये च पौष्टिके चैव भवेच्च कमलासन॥

वारुण्यां शान्तिके मन्त्रीं कुर्यादम्भसि मण्डले ।
वायव्यां मण्डले तच्च उच्चाटं संस्मरन् जपेत्॥

सौम्ये तद्ध्यानयोगेन वश्ये तद्वायुमण्डले ।
ऐशान्यां मारणे क्षोभे अङ्गं तद्वायुमण्डले॥

योनिमुद्रा वश्यकर्मण्याकर्षे तद्वदङ्कुशम् ।
पल्लवं तु तथा द्वेषे स्तम्भने चक्रमुद्रिकाम्॥

दृष्टिमुद्रा मारणे स्यादुच्चाटे संहृतिः बुधः ।
मन्त्रस्य मोदकं कृत्वा कृत्वा द्रावकमब्जज॥

मुद्रादर्शनमात्रेण तत्तत्फलमवाप्नुयात् ।
समित्प्रादेशकं सौम्ये अन्यत्राङ्गुलसप्तकम्॥

सुषिरं चर्मसहितं भिन्नं तद्भिन्नपत्रकम् ।
कृष्णरक्ताक्षतान् पुष्पान् क्रूरे चाप्यनुभूतिकम्॥

वश्याकर्षे रक्तवर्णं मोक्षे श्वेताक्षतादिकम् ।
पूजातर्पणसर्वं च यन्त्रोपरिविचक्षणः॥

अञ्जलिः तर्पणे सौम्ये सव्येक्रूरेभवेत्सदा ।
अपामार्गं खादिरं च निम्बत्रिकटुरूक्षकान्॥

तैलं कार्पासलवणं क्रूरकर्मणि हावयेत् ।
आकर्षे स्तम्भने वश्ये तिलशर्करया युतम्॥

त्रिमध्वक्तं प्रकुर्वीत मारणे तद्विशेषकम्।
तन्नक्षत्रसमित्प्रोक्तं निम्बतैलं च पूर्वकम्॥

कारस्कारं करं वीरं जुहुयात् कर्मसिद्धये ।
माषपायसकूश्माण्डसंयुतं ध्यानभेदतः॥

परमन्त्रग्रासमन्त्रेण फलं दद्यात् त्रिकालकम् ।
रिपुं तच्चतुरङ्गेन तद्रावणहिरण्यवत्॥

मारयेत्तद्भूतमोहान् रक्षितं शम्भुनापि वा ।
एतत्कर्म विजानीयात् कुर्यात्कर्म विचक्षणः॥

देवब्राह्मणरक्षार्थं अदृष्टार्थं करोति यः ।
एतत्कर्मविधानेन निर्भयस्स्यात् शुचिर्गुरुः॥

मन्त्रिमहिमा

स वेदान्ती चरेत् ज्ञानी स प्रपन्नो जितेन्द्रियः।
स एव परमैकान्ती स वै मोक्षार्थचिन्तकः॥

स एव ब्रह्मवेत्ता च मत्पुत्रस्ससखाऽब्जज।
सर्वकर्मसु पूज्यश्च समन्त्रज्ञस्स तान्त्रिकः॥

वेदान्तशास्त्रान्मन्त्रज्ञः मच्छास्त्राद्वा द्विजश्शुचिः ।
संपाद्य धनधान्यादीन् भार्यादीन् पोषयेच्च यः॥

संसारं भरते ब्रह्मन् स्वकुक्षिं भरते च यः ।
स्ववंशस्य क्षयं कृत्वा स याति नरकं ध्रुवम् ॥

स याति नरकं घोरं रौरवं रोमसंख्यया।
स्वभारं मयि विन्यस्य मदर्थे सर्वमब्जज॥

देवब्राह्मणधर्मार्थंएतदाचरणेन च ।
धनधान्यादि शास्त्रादि दत्वा जीवति यो नरः॥

अष्टैश्वर्यादिकं दत्वा तस्य मोक्षं ददाम्यहम् ।
तस्मात्सर्वप्रयत्नेन निर्भरो भव सर्वदा ॥

नित्यनैमित्तिकं कुर्यात् मत्कैङ्कर्यं यथाविधि ।
प्रकृतिः पुरुषश्चेति मम रूपे दुरत्यये ।
अनुप्रविश्य द्वितयं क्षोभयाम्यहमिच्छया ।
नास्ति पातकलेशश्च ब्रह्महत्त्यादिकं सदा॥

मज्जपध्यानयुक्तानां मद्भक्तानां तथाब्जज।
बीजादिशक्तीरथ नादभेदान् ध्यानासनं मण्डलहोमकर्म ।
दिक्कालमुद्रासनपल्लवादीन् भेदं परिज्ञाप्य जपेत्सुमन्त्री ॥

वषड्वश्ये वौषडाकृष्ये हुं द्वेषे खे च मारणे ।
योजयेत्कर्मभेदेन नमोन्तं कर्मणि स्थितः ।
षडुच्चाटेति मां ध्यायन् नामकर्मादिसंयुतम्॥

स्वहाऽकृष्टौ स्वधापुष्टौ इत्येतेमन्त्रपल्लवाः ।
बीजान् साध्यं पल्लवांश्च आद्यन्ते मन्त्रवित्तमः॥

क्रूरे क्रूरं तथा योज्य सौम्ये सौम्यान् प्रयोजयेत् ।
एष एव विधिस्सर्वः द्विजातीनां चतुर्मुख ॥
मन्मन्त्राणां सदाचारो गतिरन्यत्र नान्यथा॥

राजयोगमिदं ब्रह्म मोक्षयोगामिदं शुभम् ।
ज्ञानयोगमिदं भक्तिः प्रपत्तिः योगमुत्तम्॥

प्रपत्तिः

प्रपत्तिः द्विविधा ब्रह्मन् आर्तो दृप्तश्चतुर्मुख ।
काम्यार्थी आर्त एव स्यात् मदाज्ञाछेदकारकः
कर्मज्ञानादिरहितः स वै कैवल्यभोगगः ।
स्वधर्मनियताचाररतो दृप्तस्स वै शुचि ॥

मन्मन्त्रध्याननिरतो मदाज्ञापालकस्सदा।
स वै ज्ञानी प्रपन्नस्स्यात् मत्सायुज्यादिभोगगः॥

मद्द्रोही आर्त एव स्यात् मत्प्रियो दृप्त एव च ।
दृप्तस्स्यैव हि दास्यामि यत्सायुज्यादिकं तथा॥

इदं रहस्यं परमं गुह्याद्गुह्यतरं भवेत् ।

बाह्ययोगः

बाह्ययोगे तथा वक्ष्ये बाह्यशुद्ध्यर्थमुत्तमम्॥

पञ्चभूतमयं देहे भूतेष्वेतेषु पञ्चसु ।
मनसा धारयेत्तत्र ध्यानस्य चयमादितः॥

धारणा सा च संसारसागरोत्तारकारणम् ।
आज्ञानुपादपर्यन्तं पृथिवीस्थानमिष्यते ।
वितला चतुरश्रा च वसुधा वज्रलाञ्छिता॥

स्मर्तव्या पञ्चघटिका तत्रारोप्य प्रभञ्जनम् ।
तस्योपर्यूरुमूलं तु वारिस्थाने चतुर्मुख ॥

अर्धचन्द्रसमाकारं श्वेतमञ्जूषलाञ्छितम् ।
स्मर्तव्यमम्भः श्वसनमारोप्य दशनाडिका॥

आनाभिदेशमध्यान्तं अग्निस्थानमुदाहृतम् ।
तत्त्वसिन्धूरवर्णानि ज्वलनं दशं पञ्च च ॥

स्मर्तव्यो नाडिका प्राणं तत्त्वकुम्भे तथेतरम् ।
नाभेरुपरि नासान्तं वायुस्थानं चतुर्मुख ।
वेदिकाकारवद्धीमान् बलवान् भूतमारुतः \।
स्मर्तव्यो भूतकेनैव प्राणमारोप्य मारुतम्॥

घटिका विंशतिस्तस्मात् घ्राणाद्ब्रह्मबिलावधि।
व्योमस्थानं नभस्तत्र भिन्नाञ्जनसमप्रभम्॥

जये मारुतमारोप्य कुम्भकेनैव यत्नवान् ।
बिम्बं राशौ च देवः स्याच्चतुर्बाहुरलङ्कृतः ॥

पृथिव्यंशे यजेद्देवं शङ्खचक्रगदाधरम् ।
अनिरुद्धं हरिं चाग्रे यजेत्तु भवमुक्तये ॥

आप्यंशे पूजयेद्योऽग्रे नारायणमुदग्रधीः ।
प्रद्युम्नमग्नौवाय्वंशे सङ्कर्षणमतः परम्॥

व्योमांशे परमात्मानं वासुदेवं समर्चयेत् ।
अचिरादेव तत्प्राप्तिः युञ्जानस्य न संशयः ।
तस्य त्रिपूरुषं ब्रह्मन् कुलं कर्मोत्तरं शतम्॥

विष्णोः पदं वा सालोक्यं यद्वान्यदपि वाञ्छितम् ।
सिद्ध्यन्ति तस्य कर्माणि सत्यमत्र न संशयः ।
अन्तर्योगं बहिर्योगं यः करोति द्विजोत्तमः॥

स एव वैष्णवस्सम्यक् एतदाचारनिष्ठकः ।
वैष्णवो द्विविधः प्रोक्तो बाह्यश्चाभ्यन्तरस्तथा॥

शङ्खचक्रादिकं बाह्यमान्तरं वीतरागता ।
तदुक्तं पूर्वमेव स्याद्द्विजातीनां यथाविधि॥

सदाचारशेषः

तच्छेषं विधिना किञ्चित् शृणु नारद तत्त्वतः।
कौपीनं कटिसूत्रञ्च वस्त्रयुग्मं शिखां तथा ॥

सच्छिद्रमूर्ध्वपुण्ड्राणि यज्ञसूत्रं कमण्डलुम् ।
पद्माक्षतुलसीमालां तापसंस्कारमुत्तमम् ।
विष्णुनाम हरेर्दाम्यंमन्त्रयागं यथाविधि॥

कर्मज्ञाने तथा श्रद्धां भक्तिं वैराग्यमुत्तमम् ।
पुत्रेषणादिरहितं कामादिरहितं तथा॥

असच्छास्त्रविहीनं तं वेदान्तश्रवणं तथा ।
न्यायार्जितं शान्तिसत्यनित्यनैमित्तिकं तथा ॥

पञ्चयज्ञसमाधिं च यजनाद्यादिकं तथा ।
सदाचार्याश्रयं तद्वदत्यधिप्रीणनं तथा॥

मौनादियमसंयुक्तं जिह्वादीन्द्रियनिग्रहम् ।
बिम्बसंस्थापनत्वं च विष्णोः कैङ्कर्यमुत्तमम् ॥

सदा मन्त्राश्रयत्वं च प्रपत्तिं सम्यगब्जज।
विप्राणां वैदिकानां च प्रपन्नानामयं विधिः ।
एतद्गुणसमायुक्तो वैदिकस्समुदाहृतः ।
पूर्वोक्तगुणयुक्तो यः स प्रपन्नस्स वैदिकः॥

स एव परमैकान्ती मुमुक्षुस्स गुरुश्शुचिः।
प्रादेशमात्रविस्तारमायामन्तच्चतुर्गुणम्॥

कौपीनं कारयित्वाऽथ विप्राद्यो धारयेत्सदा ।
कटिसूत्रं प्रकुर्वीत राज्जवं पञ्चसूत्रकम्॥

तत्सूत्रेण च कौपीनं गृहस्थाद्यश्च धारयेत् ।
सुश्वेतं दोषरहितं अन्तर्वासमखण्डितम्॥
पार्श्वे पुच्छद्वयं कुर्यात् अग्रे पुच्छद्वयं तथा ॥
पृष्ठभागे पुच्छमेकं कृत्वा पूजाविगर्हितम्॥

अन्तर्वासस्य विप्राणां पञ्चपुच्छं भवेत्सदा ।
अन्तर्वासमिदं विप्र कौपीनोपरि धारयेत्॥

बहिर्वासं बामभुजे धारयेद्यज्ञसूत्रवत् ।

यज्ञसूत्रम्

यज्ञसूत्रं प्रकुर्वीतसुकार्पासेन मन्त्रवित्॥

गायत्र्या दीर्घतन्तुं च कृत्वा नारायणं स्मरन् ।
तत्तन्तुं त्रिगुणीकृत्य कृत्वा मूलेन सूत्रकम्॥

तत्सूत्रं त्रिगुणीकृत्वा गायत्र्या संस्मरन् हरिम् ।
एकीकृत्य च मन्त्रेण तन्त्रिरावृत्तिरूपकम्॥

नाभ्यादिब्रह्मरन्ध्रान्तं प्रमाणेनैव कारयेत् ।
तन्मन्त्रध्यानयोगेन बध्नीयादग्रकद्वयम्॥

एकीकृत्य च विप्रेन्द्रो गृहस्थस्य द्वयं क्रमात् ।
यज्ञोपवीतं परमं पवित्रं बलमस्तु तेजः ॥

इति मन्त्रेणैव गृही धारयेद्यज्ञसूत्रकम् ।
कर्मयज्ञादिसिद्ध्यर्थं देहज्ञानात्मशुद्धये ॥

यज्ञसूत्रं द्विजश्रेष्ठः सततं धारयेच्छुचिः ।
तथोपनयनार्थं च यज्ञसूत्रविधिर्भवेत्॥

कौपीनं कटिसूत्रं च एकं तद्यज्ञसूत्रकम् ।
मौञ्जींकृष्णाजिनं दण्डं ब्रह्मचारी तु धारयेत्॥

ब्रह्मचर्योक्तनित्यादीन् विवाहावधि कारयेत् ।
कुर्यात्पूर्वोक्तविधिना गार्हस्थे तु सुबुद्धिमान्॥

वने स्नात्वा तदाचारं वानप्रस्थो गृहस्थवत् ।
पश्चात्सन्यासविधिना यज्ञसूत्रं शिखां तथा ॥

कौपीनं कटिसूत्रं च त्रिदण्डं नित्यकर्म च ।
काषायमजिनं पात्रमासनं च कमण्डलुम्॥

सदा कुर्यात् द्विजश्रेष्ठः सन्यासे सम्यगब्जज।
पूर्वोक्तविधिना कुर्यात् जपं वेदान्तपारगः॥

ध्यानं पूजादिकं भैक्षं गृहस्थोक्तादिकं विना ।
काषायं वृत्तवद्योगी धारयेत्पुच्छयुक्तकम्॥

इति सन्यासयोगान्तः विप्राणां विधिरब्जज।

वर्णधर्मः

कौपीनं कटिसूत्रञ्च वस्त्रयुग्मद्वयं तथा ॥

अन्तर्वासं क्षत्रवैश्यैरग्रपुच्छद्वयं विना ।
धारयेयुर्यज्ञसूत्रं क्षत्रिया वैश्यजातयः॥

स्वधर्मोक्तविधानेन आचरेत्पूजनादिकम् ।
अग्रे पुच्छद्वयं बध्वा द्विरावृत्यैककच्छकम्॥

तद्वस्त्रेणैव चोत्तर्यं स्त्रीणाञ्च विधिनाऽब्जज।
उत्तर्यकच्छहीना ये नरास्स्युः कर्मगर्हिताः ॥

कौपीनं कटिसूत्रञ्च वस्त्रयुग्मं कमण्डलुम् ।
गुरुवद्भक्तशुश्रूषा मदाज्ञा मण्डनं तथा ॥

कुर्यात्स्वधर्ममाचारं शूद्राणां विधिरब्जज।
पुच्छद्वयं वृत्तरूपं शूद्राणां धारणं भवेत् ॥

पद्माक्षमालावद्धार्यं बहिर्वासस्सदा शुचिः।
तदर्धं संकराणान्तु तद्भाक्तानान्तु शूद्रवत् ॥

तत्तद्वर्णाश्रमाणाञ्च तत्तत्पूर्वोदितं तथा।
धर्मकामार्थमोक्षार्थं कल्पयेत्तच्चतुर्मुख ॥

एवमुक्तप्रकारेण सर्वेषां सर्वदा सदा।
लभते पौरुषीं सिद्धिं तद्विष्णोः परमं पदम् ॥

इति शेषसंहितायां पञ्चदशोऽध्यायः