–––––––––
सात्त्विकमन्त्रः
नारदः —
शेषशेष महादेव श्रुतं सर्वमशेषतः ।
पौरश्चरणविद्यादीन् तन्मे ब्रूहि ससात्त्विकान् ॥
शेषः —
सुदर्शननृसिंहादि मन्त्रतन्त्रादिकं शुभम् ।
वक्ष्यामि मोक्षतन्त्रोक्तं शृणु नारद सात्त्विकम्॥
मूलमन्त्रं द्वयं चाथ चक्रराजं नृसिंहकम् ।
रामं कृष्णं वराहं वा सर्वदा मनसा जपेत्॥
स एव ब्रह्मवेत्ता च स प्रपन्नोजितेद्रियः ।
स एव लोकान् जयति सर्वान् कामानवाप्नुयात्॥
सर्वपापविनिर्मुक्तो याति ब्रह्म सनातनम् ।
मन्मन्त्रनिरतस्यैव इन्द्राद्याः कमलासन॥
त्वया सहादिरुद्राद्याः किंकराः खलु सर्वदा ।
भुक्तिमुक्तिप्रसिद्ध्यर्थं सृष्टिस्थित्यन्तहेतवे॥
मन्मन्त्रशास्त्रकीर्त्यादिजपध्यानपरो भव ।
तस्मै मुक्तिं प्रदास्यामि इह जन्मनि चाब्जज॥
मन्मन्त्रदेवता ब्रह्मन् मत्समः सततं त्विह ।
न्यासक्रमः
ऋषिं मूर्धनि सन्न्यस्य वक्रे छन्दस्तथैव च ॥
तत्तन्मन्त्रोक्तविधिना देवतां हृदये स्मरेत् ।
न्यसेद्गुह्ये तथा बीजं शक्तिं तत् पादयोः द्वयोः॥
पार्श्वसंधौकीलकं च कवचं व्यापकेन तु ।
क्रमात्स्वदेहे विन्यस्य अस्त्रं प्राकारवत्स्मरेत्॥
हृत्पुण्डरीकमूर्तेस्तु वर्णं तत्तत्स्मरन् जपेत् ।
इत्येवं तु ऋषिन्यासं प्रथमं कारयेद्बुधः ॥
तन्मन्त्रेण करन्यासं षडङ्गादीन्यथाविधि ।
तत्तन्मन्त्रविधानेन जपेत्तानात्मशुद्धये ॥
कर्मषट्कं योगषट्कं स्मरन्सम्यक् न्यसेज्जपेत् ।
हृदये ज्ञानमुद्रां च ऐश्वर्याभ्यां च मूर्धनि॥
शक्तिमुद्रां शिखायान्तु बाह्वोर्मुद्रां बलात्मिकाम् ।
नेत्रेषु तैजसीं मुद्रां वीर्यमुद्रां च दिक्षु च ॥
हृत्पुण्डरीकमूर्तौ च पूर्णाषाड्गुण्यहेतवे ।
मुद्रादिध्यानयोगेन षट्कर्मादीन् स्मरेत् द्विजः॥
तत्तन्मन्त्राक्षरपदैः षडङ्गं कुरु चाब्जज।
षडङ्गध्यानमात्रेण सर्वसिद्धिं लभेद्बुधः ॥
पूजारम्भे भयस्थाने कान्तारेषु वनेषु च ।
प्राणान्तिकेषु दुर्गेषु षडङ्गन्यासमाचरेत् ॥
स्वदेहे भ्रामयन् त्रिस्त्रिः भ्रामयेच्चक्रमुद्रया ।
अग्निप्राकारमुद्रेति ताभिरात्माभिरक्षणम्॥
कीलके कवचेऽप्यस्त्रे वर्णे ब्रह्मन्सुमन्त्रवित् ।
विद्विषोच्चाटमरणे वाय्वग्नीयोजयेद्बुधः॥
वश्याकर्षादिसौम्येषु पृथिव्यप्सु सबीजकम् ।
तत्संस्कारः स्थितौ योज्यःपौरश्चरणके जपेत्॥
आकारादिक्षकारान्तमालया सम्यगब्जज ।
अक्षयं फलमाप्नोति सर्वदा वा जपेत्तथा ॥
ध्यायन्जपेन्मनून्सर्वबुद्धिमानससिद्धये ।
जपहोमादिसिद्ध्यर्थं पौरश्चरणसिद्धये ॥
मुद्राविधिः
धर्मकामार्थमोक्षार्थं पञ्चमुद्रां प्रदर्शयेत् ।
चक्रं शङ्खं गदां पद्मं योनिमुद्रां क्रमेण तु॥
जपादौ मध्यमे चान्ते चक्रादीन् सम्यगब्जज।
सर्वेषामेव शस्त्राणां कारणं चक्रमुच्यते॥
तस्मात्सर्वप्रयत्नेन चक्रमुद्रां प्रदर्शयेत् ।
अन्योन्यदर्शनात्सद्यो मन्त्रात्संभाषणात्क्वचित्॥
विप्राणां विफलं चाभूत् जपे न्यासादिदर्शनात् ।
मन्त्रोपदेशः
गुरोरभावे संप्राप्ते मन्मन्त्रान् सन्निधौ मम ।
मां ध्यायन्नभ्यसेत्सम्यक् नित्यं ज्ञानात्मसिद्धये ॥
सम्प्रदायविहीने च वेदादीनभ्यसेच्छुचिः ।
मत्सन्निधौ च मां ध्यायन् धर्मज्ञानात्मशुद्धये ॥
अर्थकामातुरं क्रूरं नित्यकर्मविहीनकम् ।
कुलीनं स्वगुरुं सद्यो मोक्षार्थी रुद्रवत्त्यजेत्॥
गुशब्दस्त्वन्धकाराख्यो रुशब्दस्तन्निरोधकः।
अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥
मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत्॥
भिन्ननावाश्रितस्तब्धोयथा पारं न गच्छति ।
ज्ञानहीनंगुरुं प्राप्य कुतो मोक्षमवाप्नुयात्॥
यदाऽऽचार्यः विहीनस्स्यात् तत्पुत्रं शुचिनं तथा ।
तच्छिष्यं वा विचार्याथ प्रपत्त्यादीन् यथाविधि ॥
वेदादीन्मन्त्रतन्त्रादीन् नित्यनैमित्तिकं द्विजः ।
मद्रूपवद्गुरुं ध्यात्वा गृह्णीयात्कमलासन॥
तस्मै मुक्तिं प्रदास्यामि किंपुनर्भोगसम्पदः ।
ब्रह्मविद्योपदेशस्य शुश्रूषैव न चान्यथा ॥
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथवा विद्यया विद्या चतुर्थो नैव लभ्यते॥
पौरश्चरणसिद्ध्यर्थं सिद्धमन्त्रगतश्शुचिः ।
यन्त्रतन्त्रादिकं लोकमन्त्रतन्त्रान् प्रयोजयेत्॥
यावज्जीवं तु सौवर्णे रौप्ये विंशतिवार्षिकम् ।
भूर्जे द्वादश वर्षाणि तदर्धंताम्रपत्रके॥
क्षुद्रलोहादिदार्वादौ अन्येषां वत्सरत्रयम् ।
तिर्यग्यवोदराण्यष्ट ऊर्ध्वं वा व्रीहयस्त्रयः॥
मध्यमं मध्यमाङ्गुष्ठं पर्व ह्यङ्गुलमिष्यते ।
मात्राङ्गुलप्रमाणेन अष्टषट्चतुरङ्गुलम्॥
धारणे निर्मलं सौम्यं कारयेद्यन्त्रमुक्तमम् ।
पूर्वोक्तेनैव मार्गेण तत्त्वमष्टादशं तु वा॥
द्वादशं वा स्वाङ्गुलेन पूजायन्त्रन्तु कारयेत् ।
अन्तर्मुखं सुषुप्त्याख्यं पर्णैर्जाग्रत् बहिर्मुखम्॥
सर्वतो मुखतो यन्त्रस्वरूपं परिकीर्तितम् ।
विद्वेषोच्चाटनं स्वाप्नंवश्याकर्षन्तु जाग्रता॥
स्तम्भने मारणे चैव सर्वं यन्त्रं समुद्धरेत् ।
स्वाग्नौहोमं प्रकुर्वीत शान्तिकं पौष्टिकं तथा ॥
पौरश्चरणहोमं च ध्यानाद्यैर्मन्त्रवित्तमः ।
वश्याकर्षादिमोहे च वैदिकादौ यजेद्द्विजः॥
विद्वेषस्तम्भनोच्चाटे मारणे कुण्डमण्डले ।
कुण्डस्थण्डिलमार्गेण इध्माधानादिपूर्वकम् ॥
वैश्वदेवादिहोमान्ते जुहुयात्कमलासन ।
लौकिकाग्नौयजेन्मन्त्री तत्तन्मन्त्रेण सद्गुरुः ॥
होमेषु वह्नौ स्वाहान्तं पूजायां तु नमोन्तकम् ।
तर्पणेषु द्वितीयान्तं नमोन्तं तर्पयामि च ॥
भोजनेषु मम प्रीत्यै तुभ्यं सम्प्रददे चवै ।
नमोन्तं नममेत्युक्त्वायोजयेन्मन्त्रविद्गुरुः ॥
दशांशं पूजयेद्भक्त्या तद्दशांशं तु तर्पयेत् ।
तद्दशांशं हुनेत्पश्चात् तद्दशांशं तु भोजनम्॥
कृत्वा मन्मन्त्रसिद्ध्यर्थं पश्चान्मन्त्रं प्रयोजयेत् ।
यद्यत्चतुर्थमन्त्राश्च तद्बीजाःपिण्डसंज्ञकाः॥
संज्ञास्तत्पदमन्त्राश्च मन्त्रास्सर्वे चतुर्विधाः ।
प्रणवः विष्णुमन्त्राश्च विप्राणां विधिरन्यथा॥
इतरेषां तथा ब्रह्मन् षट्कर्म प्रणवं विना ।
षट्कर्मसु प्रतिष्ठासु पौरश्चरणसिद्धये ॥
विप्राणां फलसिद्ध्यर्थं बीजमन्त्रः विधीयते ।
तद्बिम्बे स्यात्तथा यन्त्रे तत्तद्बीजानि योजयेत्॥
पिण्डसंज्ञानि मन्त्राणि होमादौ योजयेद्गुरुः ।
एकाक्षरं च षड्लक्षं तत्तन्मन्त्रविदब्जज॥
तद्ब्रीजं सम्पुटीकृत्य सर्वकर्म प्रयोजयेत् ।
यन्त्रतन्त्रादिहोमं च न्यासादीन् बन्धनादिकम् ॥
अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ।
गुरुं प्रकाशयेत् धीमान् मन्त्रं यत्नेन गोपयेत्॥
गुरुमन्त्रपरित्यागी रौरवं नरकं व्रजेत् ।
जपक्रमः
नीचहस्तं तु पैशाचं बद्धहस्तं तु राक्षसम् ।
आसुरं मध्यहस्तं तु ऊर्ध्वहस्तन्तु दैवतत्॥
स्तम्भने मारणे नीचमुच्चाटे राक्षसं भवेत् ।
हस्तासुरं वश्यमोहे ऊर्ध्वहस्तन्तु मोक्षके॥
उत्तमं मानसं जाप्यं मध्यमं वाचिकं तथा ।
औष्ठ्यं निरोष्ठ्यमधमं ध्वनिस्स्यादधमाधमम् ॥
मानसं मोक्षधर्मे स्यात् आकर्षे वाचिकं भवेत् ।
औष्ठ्यादि ज्ञानमोहे च स्तम्भने मारणे ध्वनिः॥
जात्यन्ध इति विज्ञेयस्तान्त्रिकाचारतत्परः ।
शुष्कमन्त्ररतस्तद्वत् पङ्गुश्शूद्रवदब्जज॥
तावुभौ मोक्षरहितौ सर्वकर्मबहिष्कृतौ ।
मन्त्रतन्त्रसदाचाररता वैदिकतान्त्रिकाः ॥
सर्वकर्मसु ते पूज्यास्ते यान्ति परमं पदम् ।
उपदेशकालः
सुमुहूर्ते सुनक्षत्रे मन्त्रमध्यापयेद्गुरुः ।
यन्त्राभिषेचनाद्यैश्च स्वशिष्ये च चतुर्मुख ॥
मेषमासे धनावाप्तिः वृषभे विजयी भवेत् ।
मिथुने पुत्रलाभस्स्यात् कर्कटे बन्धुनाशनम्॥
सिंहे राज्यादिवृद्धिस्स्यात् कन्यायां सर्वनाशनम् ।
तुलायां सर्वलाभस्स्यात् वृश्चिके दारनाशनम्॥
धनुर्मासे राज्यलाभः मकरे कोशवर्धनम् ।
कुम्भे रोगी भवेच्छिष्यो मीने सर्वार्थसाधनम्॥
चन्द्रताराबले ज्ञात्वा मन्त्रादीन् दापयेद्गुरुः ।
व्याधिबन्धनपीडादौ सङ्ग्रामे शत्रुसङ्गमे॥
मासनक्षत्रलग्नादीन् मोक्षार्थी न विचारयेत् ।
तस्मात्सर्वप्रयत्नेन मूलादीनुपदेशयेत्॥
विप्राणां क्षत्रियादीनां मोक्षधर्मार्थसिद्धये ।
अभिषेकादियन्त्राद्यैर्मन्त्रवित्कमलासन॥
नमस्स्वाहान्तमन्त्राणां होमतर्पणभोजने ।
नमस्वाहादि न ब्रूयात् षट्कर्मादौ प्रयोजयेत्॥
तत्तत्कर्मादिभेदेन तत्तद्भेदं चतुर्मुख ।
ज्ञात्वा सर्वान् मन्त्रतन्त्रान् तत्तत्कर्मणि योजयेत्॥
असच्छास्त्रं च साहित्यं संहिताभासनादिकम् ।
वणिग्भेषजकर्माणि त्यजेन्मन्त्रविदब्जज॥
इति शेषसंहितायां चतुर्दशोध्यायः