१३

––––––

स्त्रीशूद्राचारः

व्यासः —

पुरा भगवता प्रोक्तो द्विजानां विधिरुत्तमः ।
स्त्रीशूद्राणां तथा शेष तन्मे ब्रूहि यथातथम् ॥

शेषः —

स्त्रीशूद्राणां विधिं वक्ष्ये सम्यक्प्रणववर्जितम् ।
ब्राह्मे मुहूर्ते चोत्थाय भगवन्नामकीर्तनम् ॥

आचार्यकीर्तनं कुर्यात् गच्छेद्वाथ नदींच ते ।
ब्राह्मणस्य विधानेन भक्तानां भगवत्यपि॥

प्रणवं वर्जयेत्सम्यक् विधिस्स्यात्सर्वकर्मसु ।
तद्ब्राह्मणविधानेन कृत्वा शौचादिकं ततः॥

केशवायेति मन्त्राद्यैः जलं पीत्वा त्रिधा त्रिधा।
तथान्यनामभिः मूर्ध्नि प्रोक्षयेद्भक्तिपूर्वकम् ॥

संमृत्तिकैरामलकैः केशवाद्यादिनामकैः ।
मूलमन्त्रेण विरजां स्मृत्वा स्नानं विधीयते॥

कौपीनकटिसूत्राणि शुद्धवस्त्राणि धारयेत् ।
सच्छिद्रमूर्ध्वपुण्ड्राणि पवित्राणि च धारयेत्॥

स्वर्णयज्ञोपवीतं च पवित्रं स्वर्णरूपकम् ।
तुलसीपद्ममालादीन् धारयेद्यज्ञसूत्रवत्॥

आचम्य पूर्ववत्सम्यक् केशवाद्यादिनामकैः ।
प्रोक्षयेन्मूर्ध्नि हृदयं मूलमन्त्रेण चाब्जज॥

मन्त्ररत्नेन सम्मन्त्र्य प्राशयेद्भक्तिपूर्वकम् ।
मन्त्ररत्नेन मूलाद्यैः तर्पयेत्स्वगुरुं स्मरन्॥

पूजागृहे वा संप्रोक्ष्य तथा प्रणववर्जितम् ।
षट्कर्माणि तथा त्यक्त्वाजपेन्मन्त्राणि सर्वदा ॥

मूलमन्त्रं मन्त्ररत्नं रामं कृष्णं सुदर्शनम् ।
नृसिंहं भूवराहं च ऋष्यादिन्यासपूर्वकम् ॥

चित्रासने व्याघ्रकृत्तौ स्थित्वा शक्त्यनुसारतः ।
स्वगुरुं तद्गुरुं देवं ध्यात्वा कुर्यात् जपं शतम्॥

स्वगृहं विष्णुमभ्यर्च्य पूर्वोक्त्तैरेव मन्त्रकैः ।
अर्घ्यं पाद्यं तथा स्नानं अलङ्कारं सुभोजनम्॥

शयनानन्तं समभ्यर्च्य गुरून् स्मृत्वा तथाब्जज ।
गुरुवद्भगवद्भक्तशुश्रूषा च विधीयते॥

एतन्नियमयुक्तानां स्त्रीशूद्राणां तथाब्जज।
तेभ्यो मुक्तिं प्रदास्यामि किं पुनः भोगसंपदः ॥

एष एव विधिसैस्तेषां मुक्तिरन्यत्र नान्यथा।
स्त्रीशूद्राणां प्रयत्नेन पञ्चरात्रेण कल्पयेत्॥

धर्मकामार्थमोक्षार्थं ज्ञानधर्मार्थसिद्धये ।
पञ्चरात्रेण तन्त्रेण वेदमन्त्रादिकं विना॥

तद्वत्तत्प्रणवं त्यक्त्वा श्रीबीजाद्यैः प्रकल्पयेत् ।

इति श्रीपाञ्चरात्रे शेषसंहितायां त्रयोदशाध्यायः