––––––
सात्त्विकाचारः
वसिष्ठः —
शेषशेष महादेव नित्यनौमित्तिकात्मकम् ।
वेदोक्तं सात्त्विकाचारं तन्मे ब्रूहि सुनिश्चितम् ॥
शेषः —
ब्राह्मे मुहूर्ते चोत्थाय भगवन्नामकीर्तनम् ।
आचार्यकीर्तनं कुर्यात् गच्छेद्वाऽथ नदीं द्विजः ॥
स्नात्वा विधिवदाचम्य शौचाचमनपूर्वकम् ।
कौपीनं कटिसूत्रं च वस्त्रयुग्मं तु धारयेत्॥
सच्छिद्राण्यूर्ध्वपुण्ड्राणि पवित्रं च द्विजोत्तमः ।
प्राणानायम्य संकल्प्य श्रीविष्णोराज्ञयेति च ॥
अन्तश्शुद्धिं बहिश्शुद्धिं मनोवाक्कायपूर्वकम् ।
सूर्यस्याग्नेश्च त्रिः कुर्यादब्लिङ्गाद्यैर्यथाविधि ॥
सन्ध्धयोरुभयोस्त्रिस्त्रिः मध्याह्ने एकमेव च ।
सूर्योदये प्राङ्मुखस्स्यात् अस्ते पश्चिमतो मुखः॥
एकं शस्त्रास्त्रनाशाय एकं वाहननाशने ।
असुराणां वधायैकं दद्यादर्घ्यत्रयं शुचिः॥
सम्यग्ब्रह्मास्त्रवद्ध्यात्वा गायत्रीमुच्चरन् द्विजः ।
उभौ पादौ जले न्यस्य पूरयेदुदकाञ्जलिम्॥
गोश्श्रृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् ।
एतदर्घ्यत्रयाद्विप्रः सर्वपापैः प्रमुच्यते ।
सूर्यनारायणस्सद्यः सुप्रीतस्तस्य तद्भवेत् ।
अष्टैश्वर्यादिकं सर्वं ददाति परमं पदम्॥
दिनमेकं तु यो विप्रः सन्ध्याहीनो भविष्यति ।
स याति नरकं घोरं रौरवं रोमसङ्ख्यया॥
तस्मात्सर्वप्रयत्नेन सन्ध्यां कुर्यात् द्विजोत्तमः ।
अर्घ्यान्ते नृहरिं ध्यात्वा साकारं सर्वतोमुखम्॥
न्यासादिबन्धनं कुर्यात् असावादित्यो ब्रह्मेति च ।
प्रदक्षिणमथाचामं केशवाद्यादितर्पणम्॥
प्राङ्मुखोवोदङ्मुखो वा गायत्रीं मूलविद्यया ।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ॥
अष्टाविंशतिमेवाऽथ जपेन्न्यासादिना द्विजः ।
सम्यक्प्रदोषकालादीन्विचार्य विधिवज्जपेत् ।
मन्त्ररत्नंजपेद्भक्त्या यावज्जीवं द्विजोत्तमः॥
सर्वदा सर्वकालेषु मोक्षार्थी स्वाश्रमोचितम् ।
जपोपसस्थानकं कृत्वा ब्रह्मयज्ञमनुत्तमम् ॥
उपादनं ततः स्रानं कुर्यान्माध्याह्निकं क्रमात् ।
होमार्चनविधानं तु वैश्वदेवमतः परम्॥
बलिं दद्याद्यथायुक्तं वृद्धबालादिभिः सह ।
पञ्चसंस्कारसंयुक्तैः भोजयेद्द्विधिना द्विजः ॥
मितं भुक्त्वाशतं जप्त्वा स्थित्वा पद्मासने शुचिः।
ततश्शतपथं गत्वा ताम्बूलं तदनन्तरम्॥
स्वाध्यायं वा पुराणं वा हरिसङ्कीर्तनादिकम् ।
मुमुक्षुर्नित्ययुक्तश्च मन्त्ररत्नं सदा जपेत्॥
नित्यनैमित्तिकाद्विप्रो मुमुक्षुर्हरिपूजनात् ।
जपाच्च सात्त्विकाहारात् पूतो भवति सर्वदा ॥
सायङ्कालादिसन्ध्यां च कुर्याद्धोमार्चनादिकम् ।
भोजनं चन्दनं चैव ताम्बूलं तदनन्तरम्॥
स्वगृह्योक्तविचारं च रक्षा शयनमेव च ।
एवंविधिर्द्विजातीनां वसिष्ठसुतपोधन ॥
एतदर्धं क्षत्रियाणां वैश्यानां तु तदर्धकम् ।
पञ्चरात्रेण तन्त्रेण समन्त्रेणेव कारयेत्॥
वासुदेवस्य मुक्तानां नित्यानां सर्वदा विधिः ।
मुमुक्षूणां सुभक्तानां पञ्चरात्रं भवेत्सदा॥
इति श्रीपाञ्चरात्रे शेषसंहितायां द्वादशोध्यायः