–––––
एकादशीव्रतम्
शेषः —
एकादस्यां न भुञ्जीत भक्ष्यादींस्तु न भक्षयेत् ।
फलमूलादिलेह्यादीन् वर्जयेत्सर्वदाऽब्जजः॥
दशम्यैकादशी विद्धा वह्निविद्धा च रोहिणी।
नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः ॥
एकादश्यामहोरात्रं पूजयेत् हरिमब्जज ।
ब्राह्मे मुहूर्ते चोत्थाय श्रीधरादीन् प्रणम्य च ॥
नित्यनैमित्तिकं कुर्यात् स्वगृह्योक्तविधानतः ।
तुलसीबिल्वपुष्पाद्यैः पूजयेन्मूलविद्यया॥
श्रीभूनीलादिभिः सम्यक् चक्रनन्दादिसंयुतैः ।
तत्तन्मन्त्रैः सावतारैः पूजयेन्मन्त्रवित्तमः ॥
सायंसंध्यामुपासीत सप्तयामं प्रपूजयेत् ।
श्राद्धं यथासूतकादौ सूतकान्ते विधीयते ॥
तद्वदेकादशीश्राद्धं द्वादश्यामेव कारयेत् ।
मृतेऽहनि यथा संध्या यथा विष्ण्वादिपूजनम्॥
तद्वदेकादशीश्राद्धं तत्कुर्यात्तदनन्तरम् ।
ब्राह्मे मुहूर्ते संप्राप्ते स्वगृह्योक्तविधानतः ॥
नित्यनैमित्तिकं कुर्यात् यावज्जीवं द्विजोत्तमः ।
सूर्योदये तथा ब्रह्मन् पञ्चरात्रविधानतः ॥
लक्ष्मीनारायणं देवं पूजयेन्मन्त्रवित् शुचिः ।
क्षीराब्धिमध्ये द्वादश्यां बुध्न्यर्क्षेमासि चैत्रके॥
लक्ष्मीरभूत्स्वयं मेषे लग्नेलोकहिताय च ।
तस्मात्सर्वप्रयत्नेन द्वादश्यामुदये शुचिः ॥
सूपैः फलैरपूपैश्च विविधैश्च रसायनैः ।
लक्ष्मीनारायणः पूज्यः षोडशैरुपचारकैः॥
श्रीभूमिनीलाप्रभृतीन् विनतादीन् सुपूजयेत् ।
विष्णुगायत्रियाचार्घ्यं दध्याद्ध्यायन् त्रयंत्रयम्॥
लक्ष्मीनारायणदानं कुर्यात्तत्प्रतिमात्मना ।
तत्प्रीत्यै न ममेत्युक्त्वासालंकारैस्सदक्षिणैः ॥
सूक्तत्रयैर्यजेद्ध्यायन् पायसेन मधुत्रयैः ।
वैश्वदेवादिकं कृत्वा विष्णुशेषैस्सबान्धवैः ॥
वृद्धबालादिभिः पूज्यैः अभ्यागतसुवैष्णवैः ।
स्वयं भुञ्जीत पुत्राद्यैः पूजयेद्वैष्णवान् बुधः ॥
यावज्जीवं प्रकुर्वीत एतदुक्तविधानतः ।
यः करोति द्विजाद्येषु तस्य नास्ति भवादिकम् ॥
तस्य मुक्ति प्रदास्यामि किं पुनः भोगसंपदः ।
चन्द्रोदये यथाष्टम्यां शृणुष्व कमलासन॥
जयन्त्यां त्वथ रोहिण्यां यथा कालो विधीयते ।
द्वादश्यां वा त्रयोदश्यां किंचिदभ्युदिते रवौ॥
सा द्वादश्यत्रविज्ञेया ससाधन इति स्मृतौ ।
तस्मात्सर्वप्रयत्नेन सम्यग्विद्धां परित्यजेत्॥
सुदर्शननरसिंहः
मीनमासे शुक्लपक्षे प्रथमामेषलग्नके ।
बध्न्यर्क्षे भानुवारे तु द्वापरे ग्रह अष्टके॥
उच्चस्थे दुष्टनाशार्थं सुदर्शननृकेसरी ।
सृष्टिस्थित्यन्तमोक्षार्थं आविरासीत् हरिः स्वयम् ॥
श्रीनृसिंहजयन्त्युक्तं कुर्याद्दर्शे द्विजोत्तमः ।
प्रथमायां मेषलग्नेपूजादानादिकं क्रमात्॥
समाप्योत्तरकार्यं च भुञ्चीयाद्विधिना तथा ।
शतनिष्कप्रमाणेन प्रतिमां कारयेद्बुधः ॥
तदर्थं दक्षिणां दद्यात् जयन्तीषु चतुर्मुख ।
तदर्थं वाऽथ पादं वा कुर्यात् शक्त्यनुरूपतः ॥
सर्वेषां च प्रपन्नानां इतरेषां यथाविधि ।
क्षत्रविट्शूद्रजातीनां मुमुक्षूणां यथाविधि ॥
जयन्त्युक्तविधानेन सर्वं सिद्ध्यति सर्वदा ।
सुदर्शननृसिंहजयन्ती
सुदर्शननृसिंहस्य जयन्तीं कारयेत् बुधः॥
सत्सन्तानप्रसिद्ध्यर्थं बन्धमोचनसिद्धये ।
तज्जयन्त्युत्सवादेव संतानं लभते सदा॥
तद्वत्सरेण सर्वेषां सत्यमेव न संशयः ।
तत्तन्मासे तज्जयन्तीं कुर्यात्सम्यग्विधानतः॥
तस्मै मुक्तिं प्रदास्यामि पाञ्चरात्रेण सर्वदा ।
धर्मकामार्थमोक्षाद्यं राज्यं श्रीः वंशवर्धनम्॥
तस्मात्सर्वप्रयत्नेन पाञ्चरात्रं प्रकल्पयेत् ।
पाञ्चरात्रेण मार्गेण सर्वं सिद्ध्यति सर्वदा ॥
इति श्रीपाञ्चरात्रे शेषसंहितायां एकादशोध्यायः.