–––––––
श्रीकृष्णजयन्ती
शेषः —
द्वापरान्ते सिंहमासे रोहिण्यां च विधूद्भवे ।
कृष्णावतारो ह्यभवत् कृष्णपक्षेऽष्टमीयुते ॥
स्वगृहे तु शुर्चौदेशे मण्डपं कारयेद्बुधः ।
मण्डपं समलंकृत्य वस्त्रचामरपुष्पकैः ॥
तन्मध्ये पूजयेत्कृष्णं साङ्गाभरणसंयुतम् ।
मण्टपात्पूर्वभागे तु कृष्णयन्त्रंतु पूजयेत्॥
यन्त्रस्य पूर्वदिग्भागे इध्माधानादिपूर्वकम् ।
स्वाग्निमावाह्य विधिवज्जुहुयात् कमलैः घृतैः ॥
नीलोत्पलैः गुग्गुलैश्च मधुत्रयतिलैः फलैः ।
अग्नेश्च पूर्वदिग्भागे कुम्भस्योक्तविधानतः॥
सुदर्शनं कुम्भमध्ये अवाह्य विधिवच्छुचिः ।
स्मरगोपालमन्त्रेण त्रिषष्टिपस्सङ्ख्यया ॥
देवार्चनं यन्त्रपूजां होमं कुम्भाभिमन्त्रणम् ।
कुर्याद्यामत्रयंब्रह्मन् सायंकाले विशेषतः॥
नित्यं कर्मसमाप्यैव यामद्वयमतन्द्रितः ।
पूर्वोक्तेनैव विधिना जपपूजाविधीन् क्रमात्॥
बुधश्चन्द्रोदयात्पूर्वं कृष्णमन्त्रेण मन्त्रवित् ।
पुंसूक्तेन च मन्त्रेण स्नानं तत्कुम्भवारिणा ॥
शुद्धवस्त्रोर्ध्वपुण्ड्राणि धारयेद्भूषणादिकम् ।
चन्द्रोदये तथा कृष्णं स्मरन्मन्त्रमथाब्जज॥
पुण्याहं वाचयित्वाऽथ देवं संपूजयेत् स्मरन् ।
विविधैः पायसैः भक्ष्यैः फलमूलैश्च लाजकैः ॥
षोडशैरुपचारैश्च परिवारैः सुपूजयेत् ।
सम्यक् तत्कृष्णगायत्र्या दद्यादर्घ्यत्रयं स्मरन्॥
शत्रुं तत्कंसवत् ध्यात्वा स्वयं तद्विश्वरूपकः ।
तर्पणं कृष्णमन्त्रेण कुर्यात्कृष्णं स्मरन् बुधः॥
तर्पणं द्वादशं कृत्वा तच्छेषं संस्मरन्मनुम् ।
वैष्णवान्भोजयेत्पश्चात् पूर्ववत् हवनादिकम्॥
ब्राह्मे मुहूर्ते संप्राप्ते नित्यनैमित्तिकं क्रमात् ।
कृत्वा पूजादिकं सर्वं पूर्ववत् हवनं चरेत्॥
श्रीकृष्णप्रतिमादानं यथाशक्ति विधानतः ।
कुर्यात्तन्मन्त्रसिद्ध्यर्थं मोक्षश्रीराज्यसिद्धये ॥
स्वयं भुञ्जीत वृद्धाद्यैः वैष्णवैः षड्रसैस्सह ।
वैष्णवान् भोजयित्वाऽथ पुष्पाद्यैः सहदक्षिणैः ॥
अब्दद्वयं तु यः कुर्यात् मन्त्रतन्त्रादिसंयुताम् ।
सम्यक् कृष्णजयन्तीं च जपदानादिकं क्रमात्॥
अष्टैश्वर्यादिकं सर्वं तस्य सिद्ध्यति सर्वदा ।
इह भोगान् सुसंप्राप्य विष्णुसायुज्यमाप्नुयात्॥
बलरामजयन्ती
तद्युगे मासि वैशाखे बुध्न्यर्क्षेमीनलग्नके ।
बलरामो हरिस्साक्षात् आविरासीत् स्वयं हरिः ।
तज्जयन्त्यां तथा ब्रह्मन् पूजादीन् कुरु सर्वदा॥
सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ।
मान्मथं बीजमुद्धृत्य कृष्णायेति पदं तथा ॥
गोविन्दाय पदद्वन्द्वं गोपीजनवल्लभाय च ।
स्वाहान्तमुच्चरेन्मन्त्रं सर्वसिद्धिप्रदायकम्॥
श्रीं बीजं बलरामाय नमोन्तं मनुमुत्तमम् ।
जपेद्रहस्यं सर्वार्थराज्यश्रीपुत्रदायकम्॥
अवतारगायत्री
तीक्ष्णदंष्ट्रायेति पदं विद्महेति पदं ततः ।
ज्वालाचक्राय धीमहि तन्नो मत्स्यः प्रचोदयात्॥
दीर्घकण्ठाय विद्महे महीधराय धीमहि ।
तन्नः पदं तदोच्चार्य तद्वः कूर्मः प्रचोदयात्॥
भूवराहाय विद्महे कोडरूपाय धीमहि ।
तन्नः पदं ततः श्रीशः तद्वदेव प्रचोदयात् ॥
ज्ञानप्रदाय विद्महे हयग्रीवाय धीमहि ।
तन्नः पदं ततो ज्ञानं तत्रोद्धृत्य प्रचोदयात् ।
नारसिंहाय विद्महे वज्रनखाय धीमहि॥
त्रिसंध्याय इदं कुर्यात्तन्नर्सिंहःप्रचोदयात् ।
परब्रह्मणे विद्महे वामनाय धीमहि ॥
तन्नः पदं ततो ब्रह्मन् तथोद्धृत्य प्रचोदयात् ।
त्रैविक्रमाय विद्महे विश्वरूपाय धीमहि ॥
तन्नः पदं तत्रोद्धृत्य ततो विश्वं प्रचोदयात् ।
दाशरथाय विद्महे रामचन्द्राय धीमहि ॥
तन्नो रामस्तथोद्धृत्य तद्वदेव प्रचोदयात् ।
गोपीजनाय विद्महे जगन्मोहनाय धीमहि॥
तन्नः कृष्णपदं तद्वत् तद्वदेव प्रचोदयात् ।
श्वेतवर्णाय विद्महे बलरामाय धीमहि ॥
तन्नः पदं ततश्शेषं तद्वदेव प्रचोदयात् ।
तत्पुरुषाय विद्महे विष्णुपत्न्यै च धीमहि ॥
तद्वदेव समुद्धृत्यतन्नो लक्ष्मीः प्रचोदयात् ।
धनुर्धराय विद्महे सर्वसिद्ध्यै च धीमहि ॥
उच्चरेत्तद्वदुद्धृत्य तन्नो धरा प्रचोदयात् ।
श्रीनीलायै च विद्महे विद्यासिद्धै च धीमहि॥
तन्नः पदं तथोद्धृत्य ततो नीला प्रचोदयात् ।
तन्मन्त्रजपकाले तु तत्तद्गायत्रमुच्चरेत्॥
तत्तन्मन्त्रार्थसिद्ध्यर्थं दद्यादर्घ्यत्रयं बुधः ।
चक्रराजाय विद्महे ज्वालामालाय धीमहि॥
तत्रोद्धृत्य पदं सम्यक् तन्नृसिंहः प्रचोदयात् ।
तन्मन्त्रसंध्यां कुर्वीत गायत्रीवत्सदा द्विजः ॥
इति श्रीपाञ्चरात्रे शेषसंहितयां दशमोध्यायः