–––––
रामजयन्ती
शेषः —
त्रेतायां चैत्रमासे तु नवम्यां तु पुनर्वसौ ।
रामावतारमकरोल्लग्नेऽभिजिति यो हरिः ॥
नारसिंहविधानोक्तमण्डपादीन् प्रकल्पयेत् ।
बिम्बयन्त्रादिहोमं च कुम्भं च परिकल्पयेत्॥
सम्यक् तत्प्रतिमादानं राममन्त्रेण मन्त्रवित् ।
लक्ष्मणः तद्दिने लग्ने अनन्तोऽभूत्स्वयं प्रभुः ॥
ततो भरतशत्रुघ्नौ शङ्खचक्रे च तौ स्वयम् ।
अभूतां तद्दिने लग्ने धर्मसंस्थापनाय च॥
तद्युगे मासि कन्यायामश्विन्यां शुक्रवासरे ।
स्वयं भूमिश्च सीताऽभूद्यज्ञधर्मार्थसिद्धये ॥
रंकारं हतसंयुक्तं रामाय नम इत्यपि ।
जपेन्मन्त्रमिमं ब्रह्मन् सर्वसिद्धिप्रदायकम्॥
श्रीं बीजं सम्यगुद्धृत्य सीतायै पदमुद्धरेत् ।
जपेत्तद्वह्निजायान्तं सर्वैश्वर्यप्रदायकम्॥
लकारं बिन्दुसंयुक्तम् लक्ष्मणाय नमस्तथा ।
प्रीत्यै श्रीरामचन्द्रस्य सर्वसिद्ध्यै जपेन्मनुम्॥
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते ।
श्रीरामो देवता प्रोक्तो रां बीजं कमलासन॥
नं शक्तिर्लं कीलकं स्वं कवचं रमस्त्रकम् ।
श्यामवर्णमिदं प्रोक्तं कुर्यान्मन्त्रपदैर्बुधः ॥
षडङ्गन्तु प्रकुर्वीत सीताराममनुंजपेत् ।
ध्यानम् —
वामे भूमिसुता पुरस्तु हनुमान् पश्चात्सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोरग्न्यादिकोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥
अष्टोत्तरसहस्रं तु तज्जयन्त्यां जपेद्बुधः ।
तत्सङ्ख्यया प्रत्यहं तु अष्टोत्तरशतं तु वा ॥
राममन्त्रजपध्यानपरो यो वत्सरत्रयम् ।
तस्य सिद्ध्यन्ति भोग्यानि धनधान्यादिकं सदा ॥
तस्य मुक्तिं प्रदास्यामि ब्रह्मत्वं चाथ वाञ्छितम् ।
रामानुष्टुभमन्त्रेण तज्जयन्त्यां तु तर्पयेत्॥
अष्टोत्तरशतं वापि अष्टाविंशतिमेव वा।
रामगायत्रिया चार्घ्यं दद्यात् ध्यायन्विचक्षणः ॥
शत्रून् रावणवत् ध्यात्वा स्वदेहे राममुत्तमम् ।
कुर्याज्जपे तथा होमे मम कर्मसु तर्पणे ॥
एवमुक्तप्रकारेण यः कुर्याद्वत्सरत्रयम् ।
स रामवदिह स्थित्वा विष्णुसायुज्यमाप्नुयात्॥
इति शेषसंहितायां नवमोध्यायः