––––––
वामनजयन्ती
शेषः —
त्रेतायां श्रावणे मासि द्वादश्यां श्रवणे सिते ।
वामनोऽभूद्धरिः पक्षे क्षत्रविड्बलनाशनः॥
सिंहलग्ने सौम्यवारे धर्मसंस्थापनाय च ।
तन्मन्त्रेणार्चयेद्देवं यन्त्रकुम्भादिपूर्वकम् ॥
नारसिंहजयन्त्युक्तक्रमेणैव विचक्षणः ।
श्रीं बीजे वारुणं बीजं वामनाय नमस्तथा ॥
जपेन्मन्त्रमिमं सौम्यं सर्वसम्पत्प्रदायकम् ।
कुर्वीत तज्जयन्त्यां तु सहस्रं वा शतं तु वा ॥
यो जपेत्प्रत्यहं भक्त्यास तु राज्यं लभेत्सदा ।
ऋषिर्धाताऽस्य मन्त्रस्य छन्दोनुष्टुभ एव च ॥
देवता वामनः प्रोक्तः श्रीं बीजं शक्तिरीं तथा ।
तन्मन्त्रेण षडङ्गं तु कुर्यात्तत्तद्दिने तदा ॥
ध्यानम् —
कमण्डलुं यज्ञसूत्रं शिखां छत्रं च धारिणम् ।
तेजः पुञ्जमयं देवं वामनं पुरुषं भजे ॥
त्रिविक्रमजयन्ती
तद्युगे श्रावणे मासि द्वादश्यां श्रवणे तथा ।
तत्तिथौ सिंहलग्नान्ते आविरासीत्त्रिविविक्रमः॥
श्रीनृसिंहजयन्त्युक्तक्रमेणैव द्विजोत्तमः ।
कुर्यात्पूजादिकं सर्वं होमदानादिकं कमात्॥
त्रैविक्रमेण मन्त्रेण पूजाद्याः कुरु चाब्जज।
मायाबीजं समुद्धृत्य त्रीं त्रिविक्रमायेत्यपि॥
इदं रहस्यं परमं नमोन्तं सततं जपेत् ।
तज्जयन्त्यां सहस्रं तु जपेद्विप्रवरश्शुचिः॥
ऋषिःस्रष्टाऽस्य मन्त्रस्य त्रिष्टुप्छन्दः प्रजापते ।
त्रिविक्रमो देवता च ह्रीं बीजं शक्तिरींतथा ॥
लं कीलकं वं कवचं यमस्त्रं रक्तवर्णकम् ।
तन्मन्त्रेण षडङ्गं तु कुर्यान्मन्त्रप्रदस्तदा॥
ध्यानम् —
शङ्खचक्रधरं देवं विभुं तेजोमयं प्रभुम् ।
त्रिविक्रमं वासुदेवं भजे तं विश्वतोमुखम्॥
एतन्मन्त्रस्य माहात्म्यं वक्तुं श्रोतुं च दुर्लभम् ।
तस्मात्सर्वप्रयत्नेन देवर्षिब्राह्मणादयः॥
एतन्मन्त्रं जपेयुः वै जयन्तीं कुरु सर्वदा ।
तस्य मृत्युभयं नास्ति तस्य साध्यं जगत्त्रयम्॥
तस्य मुक्तिं प्रदास्यामि तस्य राज्यं ददाम्यहम् ।
सौदर्शनं नारसिंहं रामं कृष्णं त्रिविक्रमं॥
लक्ष्मीनारायणं सम्यगर्हाण्येव तदाऽब्जज।
इति श्रीपाश्चरात्रे शेषसंहितायामष्टमोऽध्यायः