–––––––
वराहजयन्ती
शेषः—
वृश्चिके मास्यनूराधे कृष्णपक्षे कृतान्तके।
वराहरूपी भगवान् मेषलग्ने हरिस्स्वयम्॥
वराहं तज्जयन्त्यान्तु पूजयेत्कमलासन ।
ध्यायन् वराहं तन्मन्त्रजयन्ती तद्दिने भवेत्॥
रामचन्द्रजयन्त्युक्तहोमदानादिपूजनम् ।
तन्मत्रेणैव चार्चादीन् कुर्यात्सम्यग्विचक्षणः॥
हंकारं तमुकारं च बिन्दुनादसमन्वितम् ।
वराहं सर्वदेवानां लक्ष्मीधनधराप्रदम्॥
भूवराहेण संयोज्य जयन्त्यां सर्वदा जपेत् ।
कुर्यात् त्र्यहेष्वेव स हीहैवाभिजनवान्भवेत्॥
सर्वान्कामानवाप्नोति विष्णुसायुज्यमाप्नुयात् ।
ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द एव च ॥
वराहो देवतेत्युक्ता सं बीजं शक्तिरित्यपि ।
स्वाहान्तं मं कीलकं वं कवचं श्वेतवर्णकम्॥
रमस्त्रमिति विज्ञाय षढङ्गं मन्त्रमुच्यते ।
पर्यायेण पदैस्सम्यक् न्यसेद्विद्वान् विचक्षणः ॥
ध्यानम् —
भूवराह महोत्साह सर्वशत्रुविनाशन ।
वैरिसंहार मां रक्ष देहि दापय मै श्रियम्॥
य इच्छति महाभोगं मुक्तिमुक्त्यादिसंवृतम् ।
कर्मज्ञानादिसिद्ध्यर्थं वराहं पूजयन्जपेत् ॥
तस्मै मुक्तिं प्रदास्यामि किंपुनर्भोगसम्पदः ॥
इति पाञ्चरात्रे शेषसंहितायां सप्तमोऽध्यायः