०६

––––––

कूर्मजयन्ती

शेषः —

ततः कृतयुगेऽश्विन्यां कन्यायां मासि वृश्चिके ।
लग्नेऽभूद्भूधरार्थाय कूर्मरूपो हरिः परः॥

इच्छेच्च लोकरक्षां यः कूर्ममन्त्रं जपेद्बुधः ।
तज्जयन्तीं प्रकुर्वीत राज्यकाङ्क्षी विशेषतः॥

श्रीमद्रामजयन्त्युक्तजपहोमार्ध्यपूर्वकम् ।
यन्त्रदानादिकं सर्वं कुर्यात्सम्यग्विचक्षणः॥

श्रीं बीजं कूं च उद्धृत्य कूर्माय नम इत्यपि ।
जपेन्मन्त्रमिमं ब्रह्मन् सर्वस्थितिफलप्रदम् ॥

ऋषिर्धाताऽस्य मन्त्रस्य छन्दस्त्रिष्टुप्च देवता ।
कूर्मो हरिश्च बीजं श्रीं शक्तिश्च नम इत्यपि॥

तन्मन्त्रेण षडङ्गन्तु प्रत्येकं पदमुच्चरन् ।
कुर्यात्सर्वप्रयत्नेन तज्जयन्तीं स्थितिप्रदाम् ॥

इति श्रीपाञ्चरात्रे शेषसंहितायांषष्ठोऽध्यायः