––––––
मत्स्यजयन्ती
शेषः —
कृते युगे चैत्रमासे अग्नितिथ्यां तु युग्मभे ।
बन्धनर्क्षेसोमवारे धर्मसंस्थापनाय च॥
मत्स्यावतारो ह्यभवन्मधुकैटवधाय च ।
तत्तिथौ विधिना ब्रह्मन् जयन्त्युक्तविधानतः॥
मत्स्यरूपं हरिं पूज्य मत्स्यमन्त्रं जपेद्बुधः ।
मत्स्यमन्त्रेण चार्घ्यन्तु दद्याद्वादशसङ्ख्यया॥
मधुकैटरिपुं ध्यात्वा मत्स्यं षट्कोणसंस्थितम् ।
तं हरिं मनसा ध्यायन् जपपूजादिकं क्रमात्॥
कुर्वीत मत्स्यप्रतिमां ब्रह्मनिष्ठाय चार्पयेत् ।
यः करोति विशुद्धात्मा इहजन्मनि सर्वदा॥
सर्वशत्रून् विजित्यासौ सर्वविद्याश्च विन्दति ।
तारं ह्रीं वायुसंयुक्तमङ्गे विषसमन्वितम्॥
मत्स्याय नम इत्युक्त्वामत्स्यमन्त्रं जपेद्बुधः ।
अयुतं तज्जयन्त्यां तु जयन्त्युक्तविधानतः ॥
कुर्याद्धोमादिकं सर्वं पूजादीन् सुविचक्षणः ।
मन्त्रस्यास्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते॥
मत्स्यरूपी हरिर्देवो नमश्शक्तिस्तथाब्जज।
मन्त्रैश्चैव षडङ्गन्तु कुर्यात्सम्यगनुत्तमम् ॥
शङ्खचक्रधरं देवं षट्कोणान्तस्थविग्रहम् ।
मत्स्यरूपहरिं वन्दे सर्वमङ्गलदायकम् ॥
इदं रहस्यं परमं मन्त्रं सर्वार्थदायकम् ।
सकृत्स्मरणमात्रेण नरस्सिद्धिं लभेत्सदा॥
होमदानादिमार्गेण तज्जयन्त्यां यजन्ति ये ।
सोपभोगान्सुसंप्राप्य ते यान्तिपरमं पदम् ॥
हयग्रीवजयन्ती
तत्कृते मीनमासे तु भन्द्यर्क्षेयुग्मभान्तक्रे ।
वेदमार्गप्रतिष्ठायै धर्मसंस्थापनाय च ॥
स्थित्यर्थमाविरासीद्धि हयग्रीवः स्वयं हरिः ।
नारसिंहजयन्त्युक्तविधिना सम्यगब्जज॥
कुर्वीत तज्जयन्त्यान्तु हयग्रीवं प्रपूजयेत् ।
तन्मन्त्रमयुतं जप्यं जपयन्त्रादिसंयुतम्॥
होमं कुम्भाभिषेकन्तु दानं तत्प्रतिमां बुधः ।
कुर्वीत विधिवद्भक्त्या हयग्रीवममुंजपेत्॥
तल्लग्नेआरभेद्विद्वान् गुरुवन्दनपूर्वकम् ।
तत्क्षणादेव सिद्धिस्स्यात्सर्वविद्या च सिध्यति॥
तदुत्सवे लभेत्सर्वं निर्विघ्नेनापि भूपतिः ।
सान्तं षान्तं बीजयुक्तं प्रणवान्तसमन्वितम् ॥
हयग्रीवमिमं मन्त्रं सर्वविद्याप्रदायकम् ।
जपेदेकाक्षरं सम्यगनुष्टुभममुंतथा ॥
ब्रह्मा ऋषिस्ततश्छन्दो देवीगायत्रमुच्यते ।
देवता च हयग्रीवो भं बीजं शक्तिकं तथा ॥
सं कीलकं मं कवचं डमस्त्रं श्वेतवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य जपेद्विद्याप्रदायकम्॥
ध्यानम् —
वन्दे पूरितचन्द्रमण्डलगतं श्वेतारविन्दासनम्
मन्दाकिन्यमृतांशुकुन्दकुमुदक्षीरेन्दुहासाननम् ।
मुद्रापुस्तकशङ्खचक्रविधृतश्रीमद्भुजामण्डलम्
निर्यन्निर्मलभारतीपरिमलं विश्वेशमश्वाननम्॥
हयग्रीवजयन्त्यादौ सर्वकर्मार्थसिद्धये ।
सर्वविघ्नविनाशार्थं धर्ममोक्षार्थसिद्धये ॥
यः करोति हयग्रीवजयन्तीं सम्यगब्जज।
ससर्वलोकान् जयति सर्वविद्यागुरुर्भवेत्॥
देवविप्रः सुधीश्च स्यात् स याति परमं पदम् ।
सौदर्शनं नारसिंहंरामं कार्ष्णंसुपर्णकम्॥
मन्त्रार्थं सततं ध्यात्वा भावादौ दश वा जपेत् ।
मूलादिसर्वमन्त्राणामङ्गमन्त्राणि चाब्जज॥
हयग्रीवजयन्तीं च सम्यक्कुर्याद्विचक्षणः ।
तस्मात्सर्वप्रयत्नेन क्षत्रियाणां च तद्विधिः॥
इति श्रीपाञ्चरात्रे शेषसंहितायां पञ्चमोध्यायः