०४

नृसिंहजयन्ती

शेषः —

त्रेतादावादिकल्पे सितकमलभुवो माघवे मासि पक्षे
शुक्ले सान्ध्ये च योगे वणिज सुकरणे भूततिध्यां मरुद्भे।
मान्दे वारे प्रदोषे कनककशिपुसंहारतेजोमयोऽसौ–
स्तंभाद्व्यक्तो नखाग्रैस्तमहनदखिलत्राणहेतुर्नृसिंहः ॥

नारसिंहचतुर्दश्यां ब्राह्मणो मन्त्रवित्तमः ।
ब्राह्मे मुहूर्ते चोत्थाय गुरुवन्दनपूर्वकम्॥

अतितीक्ष्णमहाकाय कल्पान्तदहनोपम ।
नृसिंहाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥

ब्राह्मे मुहूर्ते चोत्थाय भगवन्नामकीर्तनम् ।
आचार्यकीर्तनं कुर्याद्गच्छेद्वाऽथ नदीं द्विजः॥

स्नात्वा विधिवदाचम्य शौचाचमनपूर्वकम् ।
कौपीनं कटिसूत्रं च वस्त्रयुग्मं च धारयेत्॥

सच्छिद्रमूर्ध्वपुण्ड्राणि पवित्रं च द्विजोत्तमः ।
नित्यनैमित्तिकं कुर्यात्स्वगृह्योक्तविधानतः॥

स्वगृहे तु शुचौ देशे मण्डपं कारयेद्बुधः ।
फलमूलादिवस्त्रैश्च पुष्पाद्यैश्चामरैस्तथा ॥

मण्टपं समलंकृत्य सुधाचूर्णादिना शुचिः।
तन्मध्ये नृहरिं देवं पूजयेद्विधिनाऽब्जज॥

श्रीभूमिनीलादिभिस्साङ्गैः सायुधैः परिवारकैः ।
देवस्य पूर्वदिग्भागे इध्माधानादिपूर्वकम्॥

स्वाग्निमावाह्य विधिवद्बिल्वपत्रैर्मधुत्रिभिः ।
तत्फलैः कमलैर्जुह्वन्मन्न्रराजेन मन्त्रविवित् ॥

अग्नेश्च पूर्वदिग्भागे कुम्भस्योक्तविधानतः ।
तत्कुम्भे नृहरिं सौम्यं लक्ष्म्याद्यैर्विश्वतोमुखं॥

कूर्चपल्लवरत्नाद्यैः देवमावाह्य मन्त्रवित् ।
यामत्रयंप्रकुर्वीत जपहोमार्चनादिकम्॥

आदौ शतं जपेद्ध्यायन्अर्चयेत्तदनन्तरम् ।
तत्संख्यया जपेदग्निकुम्भं स्पृष्ट्वा जपेत्ततः ॥

सूर्यास्तमयकाले च मन्त्रवित्कुम्भवारिणा ।
तन्मन्त्रमुच्चरन् स्नात्वा शुद्धवस्त्राणि धारयेत् ॥

पद्माक्षं तुलसीमालामूर्ध्वपुण्ड्राणि धारयेत् ।
सायं संध्यामुपासीत गायत्रीं मूलविद्यया॥

अष्टाविंशतिकं जप्त्वासमाप्य विधिवच्छुचिः।
नृहरेस्सन्निधौ स्थित्वा पुण्याहं वाचयेद्बुधः॥

अर्चयेद्गन्धपुष्पाद्यैरभिषेचनपूर्वकम् ।
षोडशैरुपचारैश्च तन्मन्त्रेणैव मन्त्रवित् ॥

पायसापूपभक्ष्याद्यैः गुडमिश्ररसायनैः ।
गुडमुद्गतिलान्नाद्यैः प्रदोषे तन्निवेदयेत्॥

श्रीभूमिनीलाचक्रादीन् परिवारान् समर्चयेत् ।
तथा यन्त्रं समभ्यर्च्य कुर्यात्पुष्पाञ्जलिं ततः ॥

तच्छेषैर्देववद्ध्यात्वा वैष्णवान्पूजयेत्ततः ।
तन्मन्त्रेण च गायत्र्या दद्यादर्ध्यत्रयं शुचिः॥

रिपुं हिरण्यवद्ध्यात्वा स्वे देह रणसिंहकम् ।
अन्तर्बहिस्तथा ध्यात्वाषट्कोणे सर्वतोमुखम्॥

अपरे चक्रराजं च ध्यायन्मन्त्रविदब्जज।
अर्घ्यान्ते पूजयेद्बिम्ब यन्त्रेचाग्नौलिखेद्बुधः॥

द्वात्रिंशत्संख्यया वापि अष्टाविंशतिमेव वा ।
दश पञ्च त्रीणि वापि अर्घ्यपूजादिकं क्रमात्॥

तच्छेषैर्दैववद्ध्यात्वा वेष्णवान्भोजयेत्ततः ।
रात्रौ जागरणं कुर्याज्जपपूजादिहोमकैः ॥

ब्राह्मे मुहूर्ते संप्राप्ते नित्यनैमित्तिकं क्रमात् ।
कृत्वा सम्यग्विधानेन जपपूजादिकं क्रमात्॥

अष्टोत्तरं सहस्रं वा शतमष्टोत्तरं तु वा ।
जुहुयान्मन्त्रराजेन यजेदर्घ्यैःत्रिधात्रिधा ॥

हुत्वाऽऽभ्यां हृदयाम्भोजे जयार्थी मन्त्रवित्तमः।
नृसिंहप्रतिमादानं यथाशक्ति विधानतः॥

तन्मन्त्रजपसंसिध्यै दद्याद्वस्त्रादिभिस्ततः ।
वैश्वदेवादिकं कृत्वा वैष्णवैस्सह भोजयेत्॥

वैष्णवानर्चयेत्पुष्पैः गन्धाक्षतसुगन्धिभिः ।
दक्षिणाद्यैः प्रयोज्यैश्च मन्त्रवित्पूजयेद्द्विजः ॥

अष्टोत्तरसहस्रं तु जपेन्मन्त्रविदब्जज ।
चातुरङ्गावधानेन प्रत्यहं मितभुक् शुचिः॥

शत्रुक्षयं राज्यसिद्धिं लभते वत्सरत्रयात् ।
सौदर्शनस्य मन्त्रस्य एवमेव विधीयते॥

रामकृष्णवराहादिगरुडस्यैवमेव हि ।
तत्तज्जयन्त्यामारभ्य सम्यक्कुर्यात्स मन्त्रवित्॥

शत्रुक्षयं राज्यलाभं लभते वत्सरत्रयात् ।
अष्टैश्वर्यादिकं सर्वं लभते नात्रसंशयः॥

सापि भागान्सुसंप्राप्य विष्णुसायुज्यमाप्नुयात् ।
किमत्र बहुनोक्तेन मोक्षार्थी सततं जपेत्॥

कुर्वीरन् गुरुणा ब्रह्मन् क्षत्रविट्शूद्रजातयः ।
जयमाप्नोति सर्वत्र ब्रह्म तावदनुत्तमम्॥

इति श्रीपाञ्चरात्रे शेषसंहितायां चतुर्थोऽध्यायः