०३

व्यञ्जनाक्षरमन्त्रऋष्यादिः

ककारस्य ऋषिश्शम्भुः गायत्री छन्द उच्यते ।
परात्परो वासुदेवः देवता कं च बीजकम्॥

श्रीं शक्तिः श्रीं कीलकं च ऐं कवचं विश्वरूपिणम् ।
लमस्त्रं रक्तवर्णं च विभुं सर्वफलप्रदम् ॥

सर्वैश्वर्यप्रदं नृृणां सृष्टिस्थित्यन्तकारकम् ।
सर्वशत्रुप्रशमनं स्मरेद्देवं चतुर्मुख ॥

ध्यानम् —

सहस्रशिरसं देवं विश्वाक्षं विश्वतोमुखम् ।
परात्परं वासुदेवं तेजोमयविभुं भजे ॥

रुद्रो मुनिः खकारस्य पङ्क्तिश्छन्द उदाहृतम्।
ज्वालानृसिंहो देवता खं बीजं शक्तिहं तथा॥

नं कीलकं जं कवचं रमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य संहारे मरणे स्मरेत्॥

ध्यानम् —

उद्यद्भास्वत्सहस्रप्रभमशनिनिभं त्र्यक्षरैर्विस्फुरन्तं
वह्नावह्नायविद्युत्ततिविततसटाभीषणं लक्षणैश्च ।
दिव्यैरांदीप्तदेहं निशितलसलसद्बाहुदण्डैरनेकैः
नित्यं संभिन्नदैत्येश्वरतनुतनितं नारसिंहं नमामि॥

गकारस्य ऋषिर्ब्रह्मा पङ्क्तिश्छन्दस्तथाब्जज ।
गरुडो देवता प्रोक्तः गं बीजं शक्तिलं विभुम् ॥

वं कीलकं यं कवचं रमस्त्रं श्वेतवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य सर्वव्याधिविषापहम्॥

ध्यानम् —

वह्न्यन्ताग्नौहुताशाक्षरकलितगतं पञ्चभूतात्मवर्णं
क्लृप्ताकल्पे फणीन्द्रे कृतमभयकरं पद्मनेत्रं सुवक्रम् ।
पुष्टाहिच्छेदखण्डस्फुरदखिलविषप्रोक्षणप्राणिभूतं
प्राणिश्रेण्या परीतं विभुममृतमयं पक्षिराजं भजेऽहम् ॥

ऋषिश्शिवो घकारस्य छन्दोऽनुष्टुप्तथैव च ।
देवता घोरनृहरिः घं बीजं शक्तिह्रीं तथा ॥

रं बीजं नं च कवचं यमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेद्विद्वेषकर्मणि ॥

ध्यानम् —

तप्तहाटककेशान्तज्वलत्पावकलोचन।
वज्रायुधनखस्पर्श दिव्यसिंह नमोऽस्तु ते ॥

ङकारस्य ऋषिश्शम्भुः विराट्छन्दस्तथाब्जज।
देवता शार्ङ्गपाणिश्च एं बीजं शक्तिरैं तथा ॥

पं कीलकं णं कवचं आमस्त्रं श्वेतवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेदस्त्रफलप्रदम्॥

ध्यानम् —

आकर्णमाकृष्टधनुर्गुणोद्यद्ब्रह्मास्त्रलक्षीकृतराक्षसेन्द्रम्।
रथाधिरूढं रणरङ्गधीरं रामं भजे रक्तसरोरुहाक्षम् ॥

चकारस्य ऋषिर्ब्रह्मा त्रिष्टुप्छन्दो विभुं हरिम्।
देवता च हयग्रीवः चं बीजं शक्तिरुं तथा ॥

गं कीलकं भं कवचं यमस्त्रं श्वेतवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य सर्वविद्याप्रदं स्मरेत्॥

ध्यानम् —

वन्दे पूरितचन्द्रमण्डलगतं श्वेतारविन्दासनं
मन्दाकिन्यमृताब्जकुन्दकुमुदस्मेरेन्दुहासं हरिम् ।
मुद्रापुस्तुकशङ्खचक्रविधृतश्रीमद्भुजामण्डलं
निर्यन्निर्मलभारतीपरिमलं विश्वेशमश्वाननम्॥

छकारस्य ऋषिर्ब्रह्मा त्रिष्टुप्छन्दस्तथाब्जज।
देवता वामनः प्रोक्तः चं बीजं शक्तिमं तथा ॥

मं कीलकं वं कवचं नमस्त्रं शुक्लवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेदुच्चाटकारकम् ॥

ध्यानम् —

ज्योतिर्मयं दण्डधरं रक्ताभं छत्रधारिणम् ।
यज्ञसूत्रधरं देवं वामनं सततं भजे ॥
जकारस्य ऋषिर्विष्णुर्जगती छन्द उच्यते ॥
जनार्दनो देवता च जं बीजं शक्तिमंतथा॥

दं कीलकं रं कवचं अमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेत्सर्वस्थितिप्रदम् ॥

ध्यानम् —

श्रीभूमिसहितं देवं शङ्खचक्रगदाधरम् ।
सर्वाभरणभूषाढ्यं जनार्दनविभुं भजे ॥

झकारस्य ऋषिर्व्यासः पङ्क्तिश्छन्दस्तथाब्जज ।
देवता केशवस्साक्षात् सं बीजं शक्तिमं विभुम्॥

शं कीलकं यं कवचं अमस्त्रं शुक्लवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य चिन्तयेत्क्लेशनाशनम् ।

ध्यानम् —

शङ्खचक्रधरं देवं विभुं पद्मदलाधरम्।
पीताम्बरधरं वन्दे केशवं क्लेशनाशनम्॥

ञकारस्य ऋषिश्शम्भुः गायत्री छन्द उच्यते ।
कूर्मरूपी देवता च आं बीजं शक्तिमं तथा ॥

लं कीलकं मं कवचं रमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेदुद्धारकारकम् ॥

ध्यानम् —

शङ्खचक्रधरं देवं वनमालाविराजितम् ।
भजे सर्वधरं धीरं कूर्मरूपं जनार्दनम् ॥

टकारस्य ऋषिः ब्रह्मा विराट्छन्दस्तथाब्जज।
श्रीरामो देवता चैव टं बीजं शक्तिशं तथा ॥

रं कीलकं रं कवचं वमस्त्रं श्यामवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेदैश्वर्यदायकम्॥

ध्यानम् —

वामे भूमिसुता पुरश्चहनुमान् पश्चात्सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोरग्न्यादि कोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराठ्तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥

ठकारस्य ऋषिश्शम्भुः गायत्री छन्दं उच्यते ।
श्रीविट्ठलो देवता च ठं बीजंशक्ति लं तथा॥

वं कीलकं मं कवचं लमस्त्रं कृष्णवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेत्सृष्ट्यादिकारणम्॥

ध्यानम् —

सर्वशक्तिकरं धीरं सर्वसंहारकारणम् ।
सर्वस्थितिकरं देवं विट्ठलं सततं भजे ॥

डकारस्य ऋषिर्ब्रह्मा जगतीछन्द उच्यते ।
गरुडो देवता प्रोक्तो डं बीजं शक्तिरों तथा ॥

रं कीलकं गं कवचं यमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेत्सर्वविषापहम्

ध्यानम् —

चतुर्भुजमुदाराङ्गं धरणीवरदाभयम् ।
सर्वाभरणभूषाङ्गं गरुडं सुविभुं भजे॥

ढकारस्य ऋषिर्व्यासः त्रिष्टुप्छन्द उदाहृतम् ।
सुदर्शनो देवता च ढं बीजं शक्तिफं तथा ॥

दं कीलकं सं कवचं शमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेदुच्चाटकारकम् ॥

ध्यानम् —

महस्रादित्यसंकाशं सहस्रवदनं विभुम् ।
सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम् ॥

शिवो मुनिर्णकारस्य पङ्क्तिश्छन्दस्तथाब्जज।
महाविष्णुर्देवता च णं बीजं शक्तिषं तथा॥

मं कीलकं षं कवचं वमस्त्रं श्वेतवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेन्मुक्तिफलप्रदम्॥

ध्यानम् —

मेघश्यामं पतिकौशेयवासं श्रीवत्साङ्कंकौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥

तकारस्य ऋषी रुद्रः त्रिष्टुप्छन्दस्तथाब्जज।
देवता चाच्युतः प्रोक्तः तं बीजं शक्तिरं तथा ॥

चं कीलकं टं कवचं रमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य सर्वाकर्षकरं स्मरेत्॥

ध्यानम् —

पाशाङ्कुशधरं देवं शङ्खचक्रधरं विभुम् ।
श्रीभूमिनीलासहितं अच्युतं सततं भजे ॥

थकारस्य ऋषिर्ब्रह्मा जगतीच्छन्द एव च ।
देवता च जगन्नाथःथं बीजं शक्तिरं तथा ॥

कं कीलकं यं कवचं लमस्त्रं श्वेतवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्थितिप्रदविभुं स्मरेत्॥

ध्यानम् —

शङ्खचक्रधरं देवं सर्वाभरणभूषितम् ।
पीताम्बरधरं सौम्यं जगन्नाथं सदा भजे ॥

दकारस्य ऋषिस्सूर्यः पङ्क्तिश्छन्दस्तथाब्जज।
दामोदरो देवता च दंबीजं शक्तिरीं यथा॥

मं कीलकं कं कवचं लमस्त्रं शुक्लवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेद्विद्वेषकारकम् ॥

ध्यानम् —

चक्रशार्ङ्गधरं देवं श्रीवत्सादिविभूषितम् ।
कृष्णमालाम्बरधरं भजे दामोदरं विभुम् ॥

धकारस्य ऋषिश्चन्द्रो विराट्छन्दः विभुर्महान् ।
देवता माधवः प्रोक्तो धं बीजं शक्तिश्रीं तथा ।
मं कीलकं वं कवचं यमस्त्रं श्वेतवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेन्मोहनकारणम्॥

ध्यानम् —

श्रीभूमिनीलासहितं चक्रशार्ङ्गधरं विभुम् ।
मुक्ताभरणभूषाढ्यं माधवं सततं भजे ॥

नकारस्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ।
देवतानारसिंहश्चनं बीजं शक्तिहं तथा ॥

ओं कीलकं मं कवचं रमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य सर्वसिद्धिप्रदायकम् ॥

ध्यानम् —

शङ्खचक्रधरं देवं भीषणं चोग्रविग्रहम् ।
योगपट्टपिनद्धाङ्गं नृहरिं सततं भजे ॥

पकारस्य ऋषिस्सूर्यः त्रिष्टुप्छन्दस्तथाब्जज ।
देवता पद्मनाभश्च पं बीजं शक्तिह्रींतथा ॥

दं कीलकं नं कवचं ममस्त्रं श्वेतवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य सर्वसृष्टिकरं स्मरेत्॥

ध्यानम् —

चक्रपद्मधरं देवं वनमालाविभूषितम् ।
श्रीभूमिनीलासहितं पद्मनाभं विभुं भजे ॥

फकारस्य ऋषिश्चन्द्रः पङ्क्तिश्छन्द उदाहृता ।
देवता भीमनृहरिः फं बीजं शक्तिभं तथा ॥

नं कीलकं मं कवचं अमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेदुच्चाटकारकम्॥

ध्यानम् —

दंष्ट्राकरालमत्युग्रं चतुश्चक्रधरं विभुम् ।
तं भजे भीमनृहरिं विश्वाक्षं विश्वतोमुखम्॥

बकारस्य ऋषिश्शम्भुःगायत्रीच्छन्द उच्यते ।
देवता बलरामश्च बं बीजं शक्तिश्रीं तथा ॥

लं कीलकं दं कवचं वमस्त्रं श्वेतवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्यस्मरेदाकर्षकारकम् ॥

ध्यानम् —

श्वेतवर्णमुदाराङ्गं मुसलं च हलं धरम् ।
मुक्ताभरणभूषाङ्गं बलराममहं भजे ॥

भकारस्य ऋषिस्सूर्यः छन्दोऽनुष्टुप्तथाब्जज।
देवता भद्रनृहरिः भं बीजं शक्तिभं तथा ॥

दं कीलकं कं कवचं अमस्त्रं श्वेतवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेदैश्वर्यदायकम् ॥

ध्यानम् —

शङ्खचक्रधरं देवं पीताम्बरधरं विभुम् ।
श्रीभूमिनीलासहितं भजे भद्रनरहरिम्॥

मकारस्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ।
नारायणो देवता च अं बीजं शक्तिश्रीं तथा ॥

लं कीलकं नं कवचं ममस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेदाकर्षकारकम्॥

ध्यानम् —

शङ्खचक्रधरं देवं सर्वाभरणभूषितम् ।
पुण्डरीकाक्षममलं नारायणमहं श्रये ॥

यकारस्य ऋषी रुदश्चन्दोऽनुष्टुभ एव च ।
सङ्कर्षणो देवता च यं बीजं शक्तिण्यं तथा ॥

सं कीलकं कं कवचं षमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेदुच्चाटकारकम्॥

ध्यानम् —

पाशाङ्कुशधरं देवं नीलाभरणभूषितम् ।

संकर्षणविभुं सौम्यं सर्वसिद्धिकरं भजे ॥

रकारस्य ऋषिस्सूर्यःपङ्क्तिश्छन्द उदाहृता ।
देवता वासुदेवश्च रं बीजं शक्तिरींतथा॥

दं कीलकं कं कवचं धमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेत् सृष्ट्यादिकारणम्॥

ध्यानम् —

चक्रपद्यधरं देवं वनमालाविभूषितम् ।
श्रीभूमिनीलासहितं वासुदेवं विभुं भजे ॥

लकारस्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ।
हयग्रीवो देवता च लं बीजं शक्तिश्री तथा ॥

ह्रीं कीलकं एं कवचं यमस्त्रं श्वेतवर्णकम्।
षडङ्गं षट्वरैर्न्यस्य स्मरेदाकर्षकारकम् ॥

ध्यानम् —

वन्देपूरितचन्द्रमण्डलगतं श्वेतारविन्दासनं
मन्दाकिन्यमृताब्जकुन्दकुमुदक्षीरेन्दुहासंहरिम् ।
मुद्रापुस्तुकशङ्खचक्रविधृतश्रीमद्भुजामण्डलं
निर्यन्निर्मलभारतीपरिमलं विश्वेशमश्वाननम्॥

वकारस्य ऋषिश्चन्द्रः पङ्क्तिश्छन्द उदाहृता ।
नारायणो देवता च वं बीजंशक्तिश्रीं तथा॥

एं कीलकं ह्रीं कवचं रमस्त्रं श्वेतवर्णकम् ।
षडङ्ग षट्स्वरैर्न्यस्य स्मरेत्सर्वफलप्रदम्॥

ध्यानम् —

शङ्खपद्मधरं देवं विभुं चक्रगदाधरम् ।
श्रीभूमिनीलासहितं भजे नारायणं सदा ॥

शकारस्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ।
देवता श्रीर्महालक्ष्मीः शं बीजंशक्तिह्रीतथा ॥

एं कीलकं लं कवचं वमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेत्सर्वार्थसिद्धिदम्॥

ध्यानम् —

पद्मप्रिये पद्मिनिपद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व॥

षकारस्य ऋषिश्शंभुः त्रिष्टुप्छन्दस्तथाब्जज।
देवता श्रीहृषीकेशः शं बीजं शक्तिरी तथा ॥

हं कीलकं शं कवचं कमस्त्रं शुक्लवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेत्सर्वविषापहम्॥

ध्यानम् —

चक्रपाशधरं देवं चन्द्रकोटिसमप्रभम् ।
मुक्ताभरणभूषाङ्गं हृषीकेशं विभुं भजे ॥

सकारस्य ऋषिस्सूर्यः गायत्री छन्द उच्यते ।
देवता चक्रराजश्चसं बीजं शक्तिषं तथा ॥

एं कीलकं यं कवचं यमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य सर्वसिद्धिकरं स्मरेत्॥

अव्याद्भास्करसप्रभाभिरुचिभिस्सर्वा दिशो भासयन्
भीमाक्षस्फुरदट्टहासविलसद्दंष्ट्राप्रदीप्ताननः ।
दोर्भिश्चैव धनुर्गदाब्जमुसलप्रासांश्च पाशाङ्कुशान्
बिभ्रत्पिङ्गसरोमनाथ भगवान् चक्रासिधारी हरिः ॥

हकारस्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ।
देवता भूरिति प्रोक्ता हं बीजं शक्तिश्रीं तथा ॥

क्लीं कीलकं णें कवचं यमस्त्रं श्यामवर्णकम्।
षडङ्गं षट्स्वरैर्न्यस्य सर्वसिद्धिप्रदं स्मरेत्॥

ध्यानम् —

विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीप्रियसखीं देवीं नमाम्यच्युतवल्लभाम्॥

लकारस्य ऋषिश्शम्भुः छन्दोनुष्टुप् तथैव च ।
देवः प्रलयनृहरिः लं बीजं शक्तिभं तथा ॥

मं कीलकं यं कवचं लमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेत्संहारकारकम्॥

ध्यानम् —

कालानलसमप्रख्यं द्वात्रिंशच्चक्रधारिणम् ।
भजेप्रलयनृहरिं पिङ्गाक्षं विश्वरूपिणम्॥

क्षकारस्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ।
देवता श्रीनृसिंहश्च क्षं बीजं शक्तिश्रीं तथा ॥

भं कीलकं एं कवचं क्लीमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेत्सर्वफलप्रदम्॥

ध्यानम् —

श्रीभूमिनीलासहितं पिङ्गाक्षं विश्वरूपिणम् ।
सर्वाभरणभूषाङ्गं सर्वेशं नृहरिं भजे ॥

वसिष्ठश्च ऋषिः बिन्दोः त्रिष्टुप्छन्दस्थथाब्जज।
सुदर्शनो देवता च ओं बीजं शक्तिमं तथा॥

लं कीलकं अं कवचं वमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य स्मरेत्सृष्टिफलप्रदम् ॥

ध्यानम्—

सहस्रादित्यसंकाशं सहस्रवदनं हरिम् ।
सहस्रदोस्सहस्रारं प्रपद्येऽहं सुदर्शनम्॥

ऋषिर्वसिष्ठो नादस्य जगती छन्द उच्यते ॥

परब्रह्मा देवता च नीं बीजंशक्तिश्रीं तथा ।
एं कीलकं क्लीं कवचं ह्रीमस्त्रं रक्तवर्णकम्॥

षडङ्गं षट्स्वरैर्न्यस्य ब्रह्मानन्दकरं स्मरेत् ।

ध्यानम् —

तेज पुञ्जं च पादादिरूपं सकलनिष्कलम्॥

नारायणं विभुं शान्तं विश्वरूपं भजे सदा ।
पराशरो ऋषिर्यष्टेश्छन्दो गायत्रमब्जज॥

हयग्रीवो देवता च अं बीजं शक्तिरुन्तथा ।
मं कीलकं नीं कवचं स्त्रीमस्त्रं रक्तवर्णकम्॥

षडङ्गं षट्स्वरैर्न्यस्य सर्वसिद्धिकरं स्मरेत् ।

ध्यानम् —

शंखचक्रधरं देवं पीताम्बरधरं विभुम् ॥

श्रीभूमिनीलासहितं हयग्रीवमहं भजे।
अकारस्तत्स्वयं विष्णुः मकारो जीव उच्यते॥

अर्धचन्द्राकृतिर्यष्टियोजयेत्कमलासन।
सर्वदा सर्वकार्येषु पूर्वोक्तं प्रणवं स्मरेत् ।
मन्त्राणां योजयेदादो मन्त्रमन्त्रार्थसिद्धये ॥

एतद्ब्रह्मेत्युपासीत सृष्टिस्थित्यन्तहेतवे ।
ज्ञाने कर्मणि भक्तौ च मोक्षार्थे तु नमोन्तकम् ॥

सर्वसिद्धिकरं नृृणां सर्वोपद्रवनाशनम् ।
सर्वसंपत्प्रदं सौम्यं मन्त्रशास्त्रं तथाब्जज॥

इति श्रीपाञ्चरात्रे शेषसहिताया मातृकाक्षरवर्णनं
नाम तृतीयोऽध्यायः

––––––