०२

मन्त्राणां विशेषाः

नारदः —

प्रणवाद्यादिमन्त्रांश्च वद मे सर्वमुत्तमम् ।
सात्त्विकाद्यादिभेदांश्च देवताऋषिनिर्णयम्॥

शेषः —

पुरा भगवता प्रोक्तं सृष्टिस्थित्यन्तहेतवे ।
चतुर्मुखाय मम च प्रणवाद्यंसुदर्शनम् ॥
ओमिति ब्रह्मरूपं स्यात् पवित्रं तदुदाहृतम् ॥

नारदः —

भगवन् कथितं सर्वं स्वरूपं च गुणास्तथा ।
परिवारैस्तथा मन्त्रैः शस्त्रैरस्त्रैश्च दैवतैः ॥

शक्तिभिर्मण्डलैश्चित्रैः पापैः [कैः]बहुविधैरपि ।
एतैर्विशिष्टमाख्यातं मन्त्ररूपमनुत्तमम् ॥

सर्वेषामेव जन्तूनामज्ञानां परमेश्वर ।
क्षत्रियस्य विशेषेण रक्षार्थं मन्त्र ईरितः ॥

एतस्य मन्त्रराजस्य माहात्म्यं कथितं परम् ।
प्रभावश्च त्रिरूपस्य देवस्य किमयं स्मृतः ॥

सुदर्शननृसिंहस्य किमु किंपरिवारता ।
तमिमं संशयं छिन्धि सर्वज्ञोऽसि यतः प्रभो ॥

शेषः —

पुरा भगवता प्रोक्तं सृष्टिस्थित्यन्तहेतवे ।
चतुर्मुखाय मम च प्रणवाद्यं सुदर्शनम् ॥

ओमिति ब्रह्मरूपं स्यात् पवित्रं तदुदाहृतम् ।
तदा मन्त्रमयं सर्वंनारायणसुदर्शनम् ॥

परमं स्वस्वरूपं च वासुदेवेन तन्मम ।
प्रणवस्य प्रभावश्च संक्षेपेण तवोच्यते ॥

मन्त्रोत्पत्त्यादिमन्त्राणि शृणु विष्णोश्च नारद ।
अकारस्तत्स्वयं विष्णुः मकारो जीव उच्यते ॥

उकारः श्रीमहालक्ष्मीः नादस्संहार उच्यते ।
विभुरेव स्थितिस्सृष्टिः ओंब्रह्मा सर्वमब्जज ॥

सवर्णान्येकपञ्चाशत् विलिखेद्देशभाषया ।
चक्रवत् बिन्दुरेव स्यात् गदावन्नाद उच्यते ॥

ओंतद्ब्रह्मेत्युपासीत सृष्टिस्थित्यन्तहेतवे ।
ज्ञानभक्त्योःक्रमेणैव मोक्षार्थे तन्नमोन्तकम् ॥

स्थित्यै चक्रं सरसिजं दधानं सृष्टये पुनः ।
मुक्तये पाञ्जजन्यं च गदां संहृतये तथा ॥

ओमिति ब्रह्म । आनन्दमयो ब्रह्म ।
सर्वं खल्विदं ब्रह्म ओमिदं सर्वम् ॥

नारायणपरं ब्रह्म तत्त्वं नारायणः परः ।
नारायणपरो ज्योतिरात्मा नारायणः परः ॥

नारायणपरो ध्याता ध्यानं नारायणः परः ।
स ब्रह्मेति । तद्ब्रह्मेत्युपासीत ।तन्नम इत्युपासीत ॥

ब्रह्मणस्सायुज्यं सलोकतामाप्नोति ।
विष्णोस्तु वासुदेवस्य नमो नारायणस्य च ॥

प्रणवादि ततो ब्रह्ममन्त्राणां गरुडस्य च ।
रुद्रादिसर्वमन्त्राणां प्रसत्याद्यादिनां सदा ॥

आदौ वा संपुटं कृत्वा जपेद्ब्रह्मविदब्चज।
नमः शिवाय मन्त्रः स्यात् पञ्चाक्षरमिदं शृणु ॥

नमश्शिवतराय च नमस्ते रुद्र मन्यवे ।
पञ्चाक्षरादिमन्त्राणां शैवानां कमलासन ॥

षडक्षराणि शैवस्य वेदादौ विधिरोन च ।
शैवपञ्चाक्षराद्याश्च तद्बीजानां कदाचन ॥

अनुलोमजनानां च तान्त्रिकोक्तो विधिर्भवेत् ।
हे ब्रह्मन् शैवमन्त्राणां प्रोक्तं तामसतान्त्रिकम् ॥

स्मृत्यागमपुराणेषु यमाय ऋषिभिश्च तत् ।
मदाज्ञयाऽथरुद्रेण गौतमाद्यैश्च तामसैः ॥

स्मृत्यागमपुराणानि निर्मितानि च कोटिशः ।
शाक्ताश्च तद्वत्कापालाः गाणापत्याः पृथक्पृथक् ॥

बिम्बमन्त्रादितन्त्राश्च मोहकाःकमलासन ।
जातवेदसादिशाक्तानां मन्त्राणां प्रणवो न च ॥

इकार एव मन्त्रादिः शृणुष्व कमलासन ।
क्षुद्रसिद्धेःमद्यमांसपूजनाद्यन्यथा भवेत् ॥

जातिभिश्छादिनां ब्रह्मन् संकराणां च तद्विधिः ।
क्षेत्रस्यपतेति तथा कापालानां च शाक्तवत् ॥

गणानांचेति मन्त्राणां शाक्तवत्प्रणवो न च ।
गांणांपत्यादिनां सम्यग्विधिश्च कमलासन ॥

चार्वाकमन्त्रतन्त्राद्याः शाक्तवन्मोहकारकाः ।
चण्डालाद्यादिहीनानां विधिरन्यस्तथाब्जज ॥

मन्त्रयन्त्रादितन्त्राद्याः तामसाश्चैव देवताः ।
शाक्ताश्च तद्वत्कापालाः गाणापत्याश्च मोहकाः ॥

चार्वाकाद्यादिमन्त्राश्च पूजाद्यास्सत्त्ववर्जिताः ।
प्रणवब्रह्मरहिताः कामका विधिगर्हिताः ॥

स्वर्गभोगप्रदास्तद्वन्नरकप्राप्तिकारकाः ।
वेदोक्तान् तामसान् तद्वत्त्यजेच्च कमलासन ॥

शैवादिपञ्चमन्त्राश्च न द्विजानां कदाचन ।
शास्त्रमोहात्तथा कामात् शैवाद्यान्योऽभ्यसेद्द्विजः ॥

स्त्रियश्शूद्रास्तघाब्रह्मन् तत्संबन्धान् परित्यजेत् ।
मन्मन्त्रान् विष्णुमन्त्रांश्च वासुदेवं च गारुडम् ॥

सुदर्शनं नारसिंहं रामं कृष्णं वराहकम् ।
प्रणवादि जपेद्भक्त्याप्रपन्नस्सततं द्विजः ॥

मोक्षार्थं विधिवद्ब्रह्मन् सर्वबन्धविमुक्तये ।
मन्मन्त्रस्तोत्रपाठादीन् पद्याद्यांश्च चतुर्मुख ॥

जिज्ञासुर्लेखकश्च स्यात् अर्थार्थी पाठकस्तथा ।
तद्वक्ता सततं चोक्तज्ञानी चाचार्यवान्भवेत् ॥

आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः ।
नित्यनैमित्तिकपरः सदा मन्त्राश्रयश्शुचिः ॥

सर्वधर्मान्परित्यज्य सर्वकर्मफलानि च ।
शरणं मां प्रपद्यस्व सर्वबन्धविमुक्तये ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगेयुगे ॥

मन्मन्त्रानभ्यसेत्सम्यक् मदर्थे च प्रयोजयेत् ।
मन्निमित्तकृतं पापमपि धर्माय कल्पते ॥

देवतार्थेगवार्थे च ब्राह्मणार्थे विशेषतः ।
मन्मन्त्रानभ्यसेत्सम्यक् मदर्थे विनियोजयेत् ॥

स एव मत्पिता माता स एव जगतां पिता ।
स एव ब्रह्मवेत्ता च प्रपन्नस्स गुरुश्शुचिः ॥

स एव लोकान् जयति स याति परमं पदम् ।
क्रमेणाष्टोत्तरशतं तस्य वंशे चतुर्मुख ॥

धर्मसंस्थापनार्थाय संभवामि द्विजोत्तम ।
धर्मसंस्थापनार्थे च यस्तु प्राणान्परित्यजेत् ॥

शूद्रादीनां तथा ब्रह्मन् पुनर्जन्म न विद्यते ।

मन्त्रनियमः

संपिण्डाक्षरमन्त्राणां श्रीरामप्रणवस्य च ॥

नृसिंहार्कवराहाणां मित्रादीन्नैव शोधयेत् ।
तद्वद्धनुमन्मन्त्राणां मित्रादीन्नैव शोधयेत् ॥

वेदान्तार्थस्य मन्त्रस्य सर्वोपनिषदां तथा ।
तथैव विष्णुमन्त्राणां मित्रादीन्नैव शोधयेत् ॥

तथैव कूर्मचक्रादीन् तिथिवारांस्तथाब्जज ।
देशकालादिनक्षत्रान् मन्मन्त्राणां न शोधयेत् ॥

मन्मन्त्राणां च विधिना जपध्यानादिपूजनम् ।
होमावरणदिग्बन्धान् तर्पणादीन् सुशोधयेत् ॥

मन्त्रे तीर्थे द्विजे दैवे दैवज्ञे भेषजे गुरौ ।

मन्त्राधिकारः

यादृशी भावना यत्र सिद्धिर्भवति तादृशी ॥

नमो नारायणायेति नित्यमोंकारपूर्वकम् ।
भवेदष्टाक्षरं मन्त्रंविप्राणां मुक्तिदायकम् ॥

अकारं बिन्दुसंयुक्तं नमो नारायणाय च ।
लक्ष्मीनारायणं मन्त्रं भवेदष्टाक्षरं शुभम् ॥

अध्याप्यं विधिवच्छूद्रान् संकरेष्वनुलोमजान् ।
चण्डालेषु तुरुष्केषु मनुरिष्टार्थदायकः ॥

सर्वसिद्धिकरं शीघ्रं सद्यो मोक्षप्रदायकम् ।
अष्टाक्षरं तु त्रिविधं तथा मत्प्राप्तयेऽब्जज ॥

मन्त्रं दद्यादृषिंच्छन्दो दैवतं योगमेव च ।
द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् ॥

मूर्तिमन्त्रांश्च तदनु तदध्याप्यं यथाविधि ।
केवलं वैष्णवं नाम नमः प्रणववर्जितम् ॥

हुंफडादिवषट्स्वाहावर्जितं केशवादिकम् ।
अध्याप्यं स्त्रीषु शूद्रेषु तद्वदेवानुलोमजे ॥

विप्राणां वैदिकं प्रोक्तं क्षत्रियाणां यथाविधि ।
वैश्यानामुत्तमानां च तथावैदिकतान्त्रिकम् ॥

शूद्राणां तान्त्रिकं तद्वत् क्रमेण कमलासन ।
इतरेषां संकराणां तथा तान्त्रिकतान्त्रिकम् ॥

वैदिकं बीजमन्त्रं स्याद्विप्राणां मुक्तिदायकम् ।

मन्त्रभेदः

खण्डमन्त्रस्तथा ब्रह्मन् तच्च वैदिकतान्त्रिकम् ॥

संज्ञामन्त्रस्तान्त्रिकस्स्यात् प्रणवं बीजमुच्यते ।
पदमन्त्रस्ततो ब्रह्मन् तच्च तान्त्रिकतान्त्रिकम् ॥

वैदिको वेदमन्त्रश्च बीजान्यष्ट तथैव च ।
तद्वद्दैविकमन्त्रश्च सर्वं वैदिकतान्त्रिकम्॥

आर्षं च तान्त्रिकं तच्च देवसंज्ञाऽत्र कारकम् ।
मानुषं भाषया युक्तं तद्वत्तान्त्रिकतान्त्रिकम् ॥

प्रणवं तच्छ्रिया युक्तं प्रतिपच्च चतुर्विधा ।
तान्त्रिकस्त्वेक एवस्यात् जिज्ञासुस्तत्र तान्त्रिकः ।
अर्थार्थी सततं ब्रह्मन् सदा वैदिकतान्त्रिकः ॥

ब्रह्मात्मकं श्रिया युक्तं ज्ञानं वैदिकमब्जज ।

मन्त्रोत्पत्तिः

नारायणात्प्रणवो जायते प्रणवात् श्रीं ह्रीं क्लीं रां क्षां क्षौं ओमि–
त्यष्टबीजानि जायन्ते ॥

अष्टबीजाच्चतुःपञ्चाशन्मन्त्रा जायन्ते ।
चतुःपञ्चाशन्मन्त्रात् सप्तकोटिमहामन्त्राः त्रयस्त्रिंशत्कोटिमहामन्त्रा
जायन्ते ॥
त्रयस्त्रिंशत्कोटिमहामन्त्रात् षट्कर्म जायते ॥
षट्कर्मणः सृष्टिस्थितिसंहारा भवन्ति ॥
षट्कर्मणः वैदिकाः तान्त्रिका भवन्ति ॥
यमनियमप्राणायामप्रत्याहारध्यानधारणमानसमाख्या वैदिका
भवन्ति ॥
सर्वान् लोकान् जयति ब्रह्मणस्सायुज्यं सलोकतामाप्नोति
ब्रह्मवान् भवति ब्रह्मोपनिषदः, ओमिति ब्रह्मा ॥

नारायणपरं ब्रह्म तत्त्वं नारायणः परः ।
नारायण परं ब्रह्म ओमित्येकाक्षरं परम् ॥

ओमित्यक्षरवत् श्रीश्च अविभक्ता ममाब्जज ।
देवतिर्यङ्मनुष्येषु पुन्नामा भगवान् हरिः॥
स्त्रीनाम्नी लक्ष्मीःहे ब्रह्मन् नानयोर्विद्यते परम् ॥

श्रीबीजात् प्रणवाच्चैव महामाया च वाग्भवम् ।
भूबीजं च महामाया नीलाबीजं च वाग्भवम् ॥

मन्मायामग्निबीजं च कृष्णरामौ ममाब्जज।
चिन्तामणिं तद्धवलं नृसिंहं चोग्रसौम्यकम् ॥

तारं तारं च ओमिति व्यूहाख्यं वासुदेवकम् ।
एतेषां सप्तबीजानां ताभ्यां ब्रह्मन् समुद्भवः ।
सप्तबीजेषु चोद्भूताः मन्त्रास्सप्त च कोटयः ॥

मन्त्रेषु सप्तकोटीषु मन्त्रास्तद्वत्समुद्भवाः ।
कोटयश्च त्रयस्त्रिंशत् क्रमेण कमलासन ।
मन्त्रास्तद्वन्मनुष्याश्च मदंशा जायते बहु ।
रुद्रादीनां स्वल्पफलं फलन्ति कमलासन ।
त्रयस्त्रिंशद्दैवता देवता एवावरुन्धे ॥

प्रणवऋष्यादिः

प्रणवस्य ऋषिः ब्रह्मा देवी गायुत्र्यथोच्यते ।
छन्दो विष्णुर्देवता च अं बीजं शक्तिरुं तथा ॥

मं कीलकं ह्रींकवचं रक्तवर्णं तथाब्जज ।
षडङ्गं षट्स्वरैर्न्यस्यमनन्तं विश्वतोमुखम् ॥

सृष्टिस्थित्यन्तमोक्षार्थं प्रणवं तज्जपेत्सदा ।
सर्वकामप्रसिद्ध्यर्थंभुक्तिमुक्तिप्रदायकम् ।
ओमिति ब्रह्म नारायण परं ब्रह्म तद्ब्रह्मेत्युपासीत ॥

ध्यानम् —

शङ्खचक्रगदापद्मधरं नीलोत्पलप्रभम् ।
पुण्डरीकाक्षममलं किरीटादिविभूषितम् ।
श्रीभूमिसहितं देवं पङ्कजासनसंस्थितम् ॥

ज्ञानानन्दमयं देवं नारायणमुपास्महे ।

स्वरमन्त्रऋष्यादिः

अकारस्य ऋषिर्ब्रह्मा छन्दो गायत्रमुच्यते ।
नारायणो देवता च ओं बीजं शक्तिः श्रीं तथा ।
ह्रीं कीलकं ऐं कवचं शुक्लवर्णोथ षट्स्वरैः ।
न्यासं कुर्यात् षडङ्गं तु संस्मरेत्सर्वतोमुखम् ।
सृष्टिस्थित्यन्तमोक्षार्थं प्रणवान्तं जपेत्सदा ।
काम्यार्थी च जपेद्भक्त्या मोक्षार्थी सततं जपेत्॥
सृष्टिस्थित्यन्तमोक्षार्थं जपेत्तच्चनमोन्तकम् ॥

ध्यानम् —

सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा
जानुन्याधाय सव्येतरमितरभुजं नागभोगे निधाय ।
पश्चाद्बाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे
देवीभूषादिजुष्टो जनयतु जगतां शर्म वैकुण्ठनाथः ॥

आकारस्य ऋषिर्धाता बृहती छन्द उच्यते ।
देवता श्रीर्महालक्ष्मीः श्रीं बीजं शक्तिः ह्रीं ततः ॥

ईं कीलकं ऊं कवचं रक्तवर्णोथ षट्स्वरैः ॥

न्यासं कुर्यात्तदङ्गं तु सर्वाकारं स्मरेद्विभुम् ।
भुक्तिमुक्तिप्रदं शान्तं सृष्टिस्थित्यन्तकारणम्॥
सर्वैश्वर्यकरं श्रेयः सर्वोपद्रवनाशनम् ॥

ध्यानम् —

सर्वाभरणभूषाङ्गीं वरदाभयधारिणीम् ।
विष्णुप्राणां पद्महस्तां विष्णुपत्नीं भजेद्विभुम्॥

इकारस्य ऋषिर्व्यासः छन्दस्त्रिष्टुप् तथाब्जज।
देवता हरिरित्युक्तः ह्रीं बीजं शक्तिः ह्रीं तथा॥

ह्रीं कलिकं मं कवचं श्यामो वर्ण उदाहृतः ।
विभुं संपत्प्रदं ध्यायेत् षडङ्गं षट्स्वरैः न्यसेत्॥

ध्यानम् —

शङ्खचक्रगदापद्मधरं तं श्यामवाससम् ।
भजेत्समस्तदुःखानां प्रसन्नवदनं हरिम्॥

ईकारस्य ऋषिर्ब्रह्मा छन्दो गायत्रमुच्यते ।
नीला च देवतेत्युक्ता हं बीजं शक्तिमं तथा ॥

लं कीलकं उं कवचं नीलनीरनिधिप्रभाम् ।
षडङ्गं षट्स्वरैर्न्यस्य विभ्वीं संपत्प्रदांस्मरेत् ॥

ध्यानम् —

कृष्णमालाम्बरधरां सर्वव्यापिहरिप्रियाम् ।
चतुर्भुजां भजेन्नीलां सर्वमङ्गलदायिनीम् ॥

उकारस्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ।
देवता श्रीर्महालक्ष्मीः श्रीं बीजं शक्तिरुं ततः ॥

ओं कीलकं मं कवचं रक्तवर्णां इमां स्मरेत् ।
षडङ्गं षट्स्वरैः कृत्वा सर्वसिद्धिप्रदायकम् ॥

ध्यानम् —

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्म मयि सन्निधत्स्व ॥

ऊकारस्य ततो ब्रह्मन् वसिष्ठऋषिरुच्यते ।
छन्द आनुष्टुभं प्रोक्तं शक्तिर्भूमिरुदाहृता ॥

ह्रीं बीजं च श्रीं च शक्तिः कीलकं च विभुर्मही ।
कवचं रक्तवर्णं च षडङ्गं षट्स्वरैर्न्यसेत् ॥

सर्वेश्वर्यप्रदं नॄणां सृष्टिस्थित्यन्तकारणम् ।
सर्वशत्रुविनाशार्थं स्मरेदैश्वर्यदायकम् ॥

ध्यानम् —

विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीप्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥

पिनाकी च ऋकारस्य ऋषिरित्युच्यते तथा ।
त्रिष्टुप्छन्दो देवता च विष्वक्सेनः प्रजापते ॥

ओं बीजं मिथुनं शक्तिः कीलकं यं विभुं प्रभुम् ।
यं कवचं श्वेतवर्णं स्मरेद्राज्यप्रदायकम् ॥

षडङ्गं षट्खरैर्न्यस्य स्मरेदैश्वर्यदायकम् ।

ध्यानम् —

यस्य द्विरदवक्राद्याः पारिषद्याः परश्शतम् ।
विघ्नं निघ्नन्ति सततंविष्वक्सेनं तमाश्रये ॥

ऋृकारस्याप्यगस्त्यश्च पङ्क्तिश्च श्छन्द एव च ।
देवतात्वनिरुद्धश्च अं बीजं डं च शक्ति च॥

नं कीलकं र्रि कवचं रक्तवर्णं स्मरेत्सदा ।
षडङ्गं षट्स्वरैर्न्यस्य कालानलसमप्रभम्॥

ध्यानम् —

कालानलसमप्रख्यं त्रिनेत्रं चोग्रविग्रहम् ।
चतुर्भुजधरं देवमनिरुद्धं हरिं भजे ॥

अगस्त्यश्च ऌकारस्य ऋषिरित्युच्यते विभुः ।
छन्दश्च जगती चैव गोपालो देवताऽब्जज॥

लं बीजं च च ऊं शक्तिः कीलकं क्लीं च मोहनम् ।
ओं कवचं श्यामवर्णंवश्याकर्षप्रदं स्मरेत्॥

षडङ्गं षट्स्वरैर्न्यस्य जगन्मोहनकारकम् ।

ध्यानम् —

प्रावृड्घनश्यामलमब्जलोचनं
बर्हावतंसं शरदिन्दुवर्चसम् ।
आश्लिष्टगोपीजनबाहुमध्यगं
वन्दे मुकुन्दं मुनिसङ्घसेवितम्॥

लृृकारस्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ।
देवो मदनगोपालो रें बीजं शक्तिरीं तथा ॥

यं कीलकं एंकवचं श्यामवर्णं विभुं स्मरेत् ।
षडङ्गं षट्स्वरैर्न्यस्य वश्याकर्षादिमोहनम्॥

ध्यानम् —

अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचीप्रसारेक्षणम् ।

आलोलाङ्गुलिपल्लवेर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङ्गिलसितं ध्यायेज्जगन्मोहनम्॥

एकारस्य ऋषिर्व्यासः पङ्क्तिश्छन्दो विभुं शुभम् ।
उपेन्द्रो देवता चैव एैं बीजं शक्तिपं तथा ॥

दं कीलकं रं कवचं श्वेतवर्णं निधिप्रदम् ।
षडङ्गं षट्स्वरैर्न्यस्य जयार्थं सततं स्मरेत्॥

ध्यानम् —

चक्रशङ्खगदापद्मधरं तं विश्वरूपिणम् ।
रक्ताभरणभूषाङ्गमुपेन्द्रं सततं भजे ॥

एैकारस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुभ एव च ।
नीला च देवता चैव एैंबींजं विश्वरूपकम्॥
स्त्रीं शक्तिः कीलकं लं च नं कवचं श्वेतवर्णकम् ॥

षडङ्गं षट्स्वरैर्न्यस्य सर्वविद्याप्रदं स्मरेत् ।

ध्यानम् —

विद्यापरोवरोदेवीं सर्वदानन्दरूपिणीम्॥

सर्वाभरणभूषाङ्गीं नमो नीलां हरिप्रियाम् ।
औकारस्य ऋषिर्ब्रह्मा गायत्री छन्द उच्यते ।
देवताऽहं वासुदेवः औं बीजं शक्तिश्रीं तथा॥

लं कीलकं वं कवचं यमस्त्रं रक्तवर्णकम् ।
षडङ्गंषट्स्वरैर्न्यस्य सर्वसिद्धिप्रदं स्मरेत्॥

ध्यानम् —

आत्मेश्वरं विभुं शान्तंअच्युतं परमं प्रभुम्।
अनन्तमव्ययं शान्तं वासुदेवं तमाश्रये ॥

अंकारस्य ऋषिर्ब्रह्मा छन्दो गायत्र उच्यते ।
देवता परमात्मा च अं बीजं शक्तिमं तथा ॥

श्रीं कीलकं ह्रीं कवचं लमस्त्रं रक्तवर्णकम् ।
षडङ्गं षट्स्वरैर्न्यस्य सर्वसृष्टिकरं स्मरेत्॥

ध्यानम् —

अनन्तमव्ययं शान्तं विश्वाक्षं विश्वतोमुखम् ।
सहस्रशिरसं देवं वासुदेवं विभुं भजे ॥

अःकारस्य ऋषिः स्रष्टा छन्दोऽनुष्टुप्तयाब्जज।
देवताप्यच्युतः प्रोक्तः अंबीजं शक्तिरुं तथा ॥

यं कीलकं वं कवचं शुक्लवर्णं स्मरेत्प्रभुम् ।
षडङ्गं षट्स्वरैः न्यस्य सृष्ट्यर्थं कमलासन॥

ध्यानम् —

श्रीभूमिनीलासहितं सर्वाभरणभूषितम् ।
सर्वाकारं भजेद्देवं शाश्वतं शिवमच्युतम्॥

इति श्री पाञ्चरात्रे शेषसंहितायां मन्त्राक्षरवर्णने
स्वरवर्णनं नाम द्वितीयोऽध्यायः
––––––