अवतरणम्
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥
नारदः —
देव शेष महादेव श्रोतुमिच्छामि तत्त्वतः ।
श्रुत्यागमविधिं सर्वं नित्यनैमित्तिकात्मकम् ॥
मन्त्रध्यानादिभेदं च संस्कारक्रमलक्षणम् ।
मोक्षोपायकरं सौम्यं देवतानिर्णयं परम् ॥
शेषः —
अथ वक्ष्यामि सर्वज्ञ श्रृणु नारायणेरितम् ।
तत्सर्वं वदतस्सम्यक् श्रुत्यागमविधानतः ॥
पञ्चमो वेद इत्युक्तः पञ्चरात्रं तु नारद ।
तन्मार्गेणैव सर्वं स्यात् लभेन्मोक्षं हितं हरिम् ॥
श्रुतिमन्त्रैस्सदा कुर्यात् हरिपूजां द्विजोत्तमः ।
पञ्चरात्रोक्तमार्गेण वेदमन्त्रैस्ससात्त्विकैः ॥
पञ्चकालविधानेन विष्णुमर्चयन्तीह ये ।
धर्मकामादिकं प्राप्य ते यान्ति परमं पदम् ॥
प्रपन्नानां मुमुक्षूणां परमैकान्तिनां सदा ।
अष्टाङ्गयोगयुक्तानां वेदमार्गरतात्मनाम् ॥
धर्मसंस्थापकानां स्यात्पञ्चरात्रं चतुर्मुख ।
तस्मात्सर्वप्रयत्नेन पञ्चरात्रेण पूजयेत् ॥
विषयतुक्रमः
तत्सर्वं तु चतुष्षष्ट्या ह्यध्यायानां वदाम्यहम् ।
अकारादिक्षकारान्तं देवताः प्रथमे तथा ॥
द्वितीये च तृतीये च मातृकाक्षरवर्णनम् ।
नारसिंहजयन्ती तु चतुर्थे तु महामते ॥
बाणे मत्स्यजयन्ती च षष्ठे कूर्मजयन्तिका ।
वाराहं सप्तमे तद्वत् वामनं त्वष्टमे तथा ॥
श्रीरामं नवमे प्रोक्तं श्रीकृष्णं दशमे तथा ।
एकादशे पुनस्तद्वत् द्विजस्यैकादशीविधिः ॥
द्वादशे सात्त्विकाचारः स्त्रीशूद्राणां त्रयोदशे ।
चतुर्दशे तथा वक्ष्ये पौरश्चरणलक्षणम् ॥
पौरश्चरणकाचारं वक्ष्ये पञ्चदशे तथा ।
षोडशे पौरुषं सूक्तं श्रीसूक्तमथ कथ्यते ॥
अष्टादशे तु भूसूक्तं यन्त्रतन्त्रादिसंयुतम् ।
एकोनविंशात्त्रिंशान्तं बीजमन्त्रमथोच्यते ॥
एकत्रिंशे महाशान्तिः द्वात्रिंशे पञ्चगव्यकम् ।
व्याधिशान्तिस्त्रयस्त्रिंशे चतुस्त्रिंशे प्रयोगकम्॥
पञ्चत्रिंशे तु गायत्री षट्त्रिंशे तु तदङ्गकम् ।
सप्तत्रिंशे तदङ्गं तु गायत्रीयन्त्रसंयुतम् ॥
अष्टत्रिंशे तु वाराहं यन्त्रतन्त्रादिसंयुतम् ।
ततःपरं तदङ्गं स्यात् चत्वारिंशे तदङ्गकम् ॥
एकचत्वारिंशके तु हयग्रीवं सयन्त्रकम् ।
ध्यानमण्डलभेदश्च ततश्चाध्याययोर्द्वयोः ॥
चतुश्चत्वारिंशके च नारसिंहं सयन्त्रकम् ।
पञ्चचत्वारिंशके तु तदङ्गं तु तदङ्गकम् ॥
षट्चत्वारिंशके चैव वक्ष्ये सम्यग्यथातथम् ।
सप्तचत्वारिंशके च सुदर्शनमनुस्तथा ॥
अष्टचत्वारिंशके च तदङ्गं च तदङ्गकम् ।
तथैवैकोनपञ्चाशे यन्त्रतन्त्रादिसंयुतम् ॥
पञ्चाशे गारुडं चैव वक्ष्ये सम्यग्यथातथम् ।
तथा तदेकपञ्चाशे तदङ्गं तु तदङ्गकम् ॥
द्विपञ्चाशे तथा सम्यक् यन्त्रतन्त्रादिसंयुतम् ।
श्रीरामं तु त्रिपञ्चाशे ध्यानन्यासादिपूर्वकम् ॥
चतुःपञ्चाशके तद्वत् तदङ्गंतु तदङ्गकम् ।
तद्वत्तु पञ्चपञ्चाशे यन्त्रतन्त्रादिकं शुभम् ॥
तत् षट्पञ्चाशके कार्ष्णं मान्मथं सर्वसाधकम् ।
तथैव सप्तपञ्चाशे तदङ्गं तु तदङ्गकम् ॥
अष्टपञ्चाशके तद्वत् यन्त्रतन्त्रादिसंयुतम् ।
तद्वदेकोनषष्ट्यांतु मूलमन्त्रं यथातथम् ॥
षष्ट्यां तदङ्गकं वक्ष्याम्येकषष्ट्यांतदङ्गकम् ।
द्विषष्ट्यां मन्त्ररत्नं तु त्रिषष्ट्यां तु तदङ्गकम् ॥
चतुष्षष्ट्यां तदङ्गं स्यात् मोक्षधर्मार्थसिद्धये ।
इत्येवं क्रमयोगेन ज्ञात्वा मन्त्रं जपेद्बुधः ॥
अक्षरदेवता
अकारस्त्वेकदैवत्यः आकारस्तु द्विदैवतः ।
उकारस्त्वेकदैवत्यः ऊकारस्तु द्विदैवतः ॥
ऋकारस्त्वेकदैवत्यः ॠकारस्तु द्विदैवतः ।
लृकारस्त्वेकदैवत्यः लॄकारस्तु द्विदैवतः ॥
एकारस्त्वेकदैवत्यः ऐकारस्तु द्विदैवतः ।
ओकारस्तु द्विदैवत्यः औकारस्तु त्रिदैवतः ॥
अङ्कारस्तु द्विदैवत्यः अःकारस्त्वेकदैवतः ।
ककारादिलकारान्तं द्विदैवत्यं तथाब्जज ॥
चातुर्दैवत्यमित्युक्तं क्षकारं स्याद्यथाविधि ।
ज्ञात्त्वैवं तु जपेद्विप्रः मनून् सम्यग्विचक्षणः ॥
इदं रहस्यं परमं सर्वसिद्धिकरं परम् ।
अनेनैव भवेत्सर्वं चतुर्वर्गफलप्रदम् ॥
पाषण्डानां नास्तिकानां कृतघ्नानां च नारद ।
नित्यकर्मविहीनानां न वदेत्सर्वदा इदम् ॥
मद्वंशजानां साधूनां पञ्चकालरतात्मनाम् ।
पञ्चसंस्कारयुक्तानामिदं सर्वं वदेत्सदा ॥
इति श्रीपञ्चरात्रे शेषसंहिताया प्रथमोध्यायः
––––––