०१६

षोडशः परिच्छेदः
नारद उवाच[1]

प्रभुर्मुनीश्वरा भूयश्चादितो वनमालिना ॥
सर्वलोकहितार्थं तु यत् तद्वक्ष्याम्यतः परम् ॥ 1 ॥
अथ षोडशपरिच्छेदो व्याख्यास्यते॥ अत्र संकर्षणेन वासुदेवो यत्पृष्टस्तद्वक्ष्यामीत्याह- प्रभुरिति ॥ 1 ॥

[1 उवाच' उ. विहाय कुत्रापि नास्ति॥] सङ्कर्षण उवाच[1] देव सम्प्रतिपन्ना ये क्रमेऽस्मिन् ब्राह्मणादयः ॥ दीक्षणीयाः कथं ते वा[2] एतदिच्छामि वेदितुम् ॥ 2 ॥ प्रश्नप्रकारमाह- देवेति ॥ 2 ॥ [1 उवाच’ उ. विहाय कुत्रापि नास्ति॥]
[2 वै- अ. उ.॥]

भगवानुवच[1]
यथाक्रमेणोदितानां वर्णानां श्रृणु लाङ्गलिन् ॥
त्रिविधं दीक्षणोपायं संक्षेपात् सर्वसिद्धिदम् ॥ 3 ॥
एवं पृष्टो वासुदेवस्त्रिविधदीक्षोपायं श्रृण्वित्याह- यथाक्रमेणेति ॥ 3 ॥
[1 `उवाच’ उ. विहाय कुत्रापि नास्ति॥]

पूर्वोक्तलक्षणो ज्ञात्वा कश्चिद् दृढतरः[1] पुमान् ॥
संसारभयभीतस्तु निर्वाणमभिवाञ्छति ॥ 4 ॥

वैराग्यधीरचपलश्चिरकालं गुरोर्गृहे ॥
संस्थितो दासभावेन खेदोद्वेगविवर्जितः ॥ 5 ॥
दीक्षार्थं प्रथमं गुरुकुलवासः कार्य इत्याह- पूर्वोक्तेति द्वाभ्याम् ॥ 4-5 ॥
[1 तरम्- मु. अटी. अ. उ.॥]

ज्ञात्वा तस्यार्थितां नूनमाहूयाग्रे निवेश्य च ॥
कृताकृतं[1] च प्रष्टव्य आ स्मृतेस्तत्क्षणावधि ॥ 6 ॥

ज्ञात्वा दोषबलं सम्यक् प्रायश्चित्तैर्यथोदितैः ॥
कृच्छ्रातिकृच्छ्रपूर्वैस्तु[2] शोधनीयं प्रयत्नतः ॥ 7 ॥
आचार्यस्तद्दोषबलाबले ज्ञात्वा यथोदितैः प्रायश्चित्तैस्तच्छान्तिं कुर्यादित्याह- ज्ञात्वेति द्वाभ्याम् ॥ 6-7 ॥
[1 तश्च- अ. उ.॥]
[2 स्तच्छो- अ., स्तु छेद- बक.॥]

बहूनां परिपीडानामसामर्थ्यात् तु लाङ्गलिन् ॥
मनःप्रसादपर्यन्तं कालं वा द्वादशाह्निकम् ॥ 8 ॥

नियोक्तव्यो मिते पूतेऽयाचिते नक्तभोजने ॥
स्तुतिसम्मार्जनस्नानपुष्पाद्याहरणो[1]द्यमे[2] ॥ 9 ॥

आश्रमे वैष्णवानां तु दिव्या[3]द्यायतने विभोः ॥
अनिशं भगवद्बिम्बमा[4] पीठादवलोकने ॥ 10 ॥
बहुदिनमुपोषणाशक्तौ मनःप्रसादपर्यन्तं द्वादशदिनं वा मिते[5] नक्तभोजने भगवत्स्तोत्रादिसत्कार्येषु च नियोजयेदित्याह- बहूनामिति त्रिभिः॥ भगवद्बिम्बमापीठादवलोकने आपीठार्न्मोलिपर्यन्तं भगवद्बिम्बदर्शन इत्यर्थः,
आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम् ॥
[6]पातकान्याशु[7] नश्यन्ति किं पुनस्तूपपातकम्[8] ॥ (शा. स्मृ. 2/88)
इति प्रसिद्धेः ॥ 8-10 ॥
[1 भरणो- बक. उ.॥]
[2 द्यमैः - मु. अटी.॥]
[3 व्ये चा - मु. अटी.॥]
[4 बिम्बस्या- मु. अटी., द्बीजमा- बक. बख. उ.॥]
[5 मितेन- अ. ॥]
[6 जपतः पातकान्याशु नश्यन्ति सफलाः क्रियाः- मु.॥]
[7 काश्चाशु- मु.॥]
[8 पातकाः- मु.॥]

अभिजाततनुर्यः प्राग् दुष्कृतैर्मलिनीकृतः ॥
साम्प्रतं भगवद्भक्त्या पवित्रीकृतमानसः ॥ 11 ॥

अहोरात्रोषितो भूत्वा नखकेशादिलुण्ठितः[1] ॥
पञ्चगव्यमथापाद्यं[2] हृदाद्यैः सकुशोदकम् ॥ 12 ॥

मन्त्रैस्तद् वासुदेवाद्यैः समावर्त्य[3] चतुश्शतम् ॥
एवं दिनचतुष्कं तु स्नापयेत् तेन तं सुधीः ॥ 13 ॥

प्रत्यहं चतुरो वाराना प्रभातनिशागमम्[4] ॥
ब्रह्मतीर्थं चतुष्कं स[5] त्वापूर्यापूर्य संपिबेत् ॥ 14 ॥

क्रमात् संचोदितैर्मन्त्रैः समाचम्यान्तराऽन्तरा ॥
अतृप्तमशनं कुर्यादन्ते क्षीराज्यभावितम् ॥ 15 ॥

क्षपयेत् फलमूलैर्वा अहोरात्रचतुष्टयम् ॥
इति भक्त्या प्रपन्नानामा जीवमपि दुष्कृतात् ॥ 16 ॥

कथितं विरतानां च देहशुद्धिकरं परम् ॥
ब्रह्मकूर्चसमेतं तु प्रायश्चित्तं मयाऽद्य ते ॥ 17 ॥
ब्रह्मकूर्चसहितं प्रायश्चित्तमाह- अभिजाततनुरित्यादिभिः ॥ 11-17 ॥
[1 ण्ठितम्- बक. बख. अ., लुर्णितः- उ.॥]
[2 पाद्य- बक. बख.॥]
[3 तमा- अटी.॥]
[4 तान्निशा- अ. उ.॥]
[5 तु प्रा- अ. उ.॥]

ज्ञात्वा महत्त्वं दोषाणां त्रिविधानां तु वै पुरा ॥
सम्भवे सति हेमादिदानं[1] सततमाचरेत् ॥ 18 ॥
दोषाधिक्ये हेमदानादिकमपि[2] कार्यमित्याह- ज्ञात्वेति॥ त्रिविधानां कायिकवाचिकमानसिकानामित्यर्थः[3] ॥ 18 ॥
[1 होमादि- अटी.॥]
[2 होम- अ.॥]
[3 नामपी- मु.॥]

पूर्वोक्ताद् विहितात् कालाल्लघुदुष्कृतिना[1] क्रमात् ॥
चतुर्थांशेन ह्रासस्तु ब्रह्मकूर्चं पिबेत् ततः ॥ 19 ॥
दोषकाले पूर्वोक्तब्रह्मकूर्चप्रायश्चित्तकालस्य चतुर्थांशेन ह्रासं कुर्यादित्याह- पूर्वोक्तादिति॥ एवं ब्रह्मवर्णस्य सामान्यतः प्रायश्चित्तमुक्तम् ॥ 19 ॥
[1 तिनां- अ.॥]

कालेन वर्णोत्कर्षेण सह सामान्यमुच्यते ॥
प्रायश्चित्तं हि सर्वेषां सर्वकल्मषनाशनम् ॥ 20 ॥

उत्तरोत्तरतां बुद्ध्वा प्रथमं दुष्कृतस्य च ॥
क्षपयेत्[1] तद् द्विजेन्द्रस्तु मासैर्द्वित्रि[2]चतुर्गुणैः ॥ 21 ॥
दोषाधिक्ये तत्रापि द्वित्रिचतुर्गुणमासाभिवृद्धिः कार्येत्याह- कालेनेति द्वाभ्याम्॥ तद्दुष्कृतं क्षपयेद् नाशयेदित्यर्थः ॥ 20-21 ॥
[1 क्षिप- बक. बख. अ. उ.]
[2 द्वित्र- उ.॥]

नृपविट्छूद्रजातीय एकैकं वर्धयेत् क्रमात् ॥
मासमेका[1]दिकात् कालात् समारभ्य यथाक्रमम्[2] ॥ 22 ॥
नृपादीनां द्विगुणत्रिगुणचतुर्गुणक्रमेण प्रायश्चित्ताभिवृद्धिमाह- नृपेति ॥ 22 ॥
[1 धिकात्- अ.॥]
[2 मात्- बक. बख., समः- उ.॥]

दुराचारोऽ[1]पि सर्वाशी कृतघ्नो नास्तिकः पुरा ॥
समाश्रयेदादिदेवं श्रद्धया शरणं यदि[2] ॥ 23 ॥

निर्दोषं विद्धि तं जन्तुं प्रभावात्[3] परमात्मनः ॥
किं पुनर्योऽनुतापार्तः शासनेऽस्मिन् हि संस्थितः ॥ 24 ॥

विरतो[4] दुष्कृताच्चैव भक्तिच्छायां समाश्रितः ॥
भगवच्छासनोल्लङ्घनपरोऽपि तच्छरणागत्या निर्दोषो भवति॥ एतच्छासननिष्ठस्य शरणागतस्य निर्दोषत्वं किंपुनर्न्यायसिद्धमित्याह- दुराचार इति सार्धद्वाभ्याम्॥ कृता[5]कृताद्विरत इत्यनेन सर्वधर्मपरित्यागः सूचितो भवति॥ भक्तिच्छायां भक्तेश्छायेव छाया यस्यास्तां शरणागतिमित्यर्थः ॥ 23-25 ॥
[1 रो हि- बक. बख. अ. उ.॥]
[2 स्वयम्- बक. बख. अ. उ.॥]
[3 मत्प्रभावात् परार्थतः- अ.॥]
[4 तः कुकृ- अ. उ.॥]
[5 आकूताद्- मु.॥]

एवं संशुद्धदोषाणां बहुजन्मार्जितस्य च[1] ॥ 25 ॥

कल्मषस्य विघातार्थं नरसिंहीं महामते ॥
कृत्वा वै साम्प्रतं दीक्षां दद्याद् वै मन्त्रपूर्वकम् ॥ 26 ॥

आराधनं हि तस्यैव वैभवीयस्य वै विभोः ॥
सबाह्याभ्यन्तरं चैव सम्यङ्मासचतुष्टयम् ॥ 27 ॥

मासाष्टकं वत्सरं वा बुद्ध्वा भावबलं पुरा ॥
ज्ञात्वा भव्याशयानां च प्रसादं पार[2]मेश्वरम् ॥ 28 ॥

विभवव्यूहसूक्ष्माख्यां दीक्षां कुर्यादनन्तरम् ॥
पूर्वोक्तब्रह्मकूर्चादिप्रायश्चित्तानां इह जन्मनि संपादितदोषमात्रशामकत्वात् प्राग् बहुजन्मार्जितदोषशमनार्थं नृसिंहमन्त्रदीक्षामपि दत्त्वा तेन नृसिंहाराधनं च कारयेत्॥ तन्मनःपरिशुद्ध्यादिकं तस्मिन् भगवदनुग्रहं च ज्ञात्वा परव्यूहविभवमन्त्रदीक्षां दद्यादित्याह- एवमिति चतुर्भिः ॥ 25-29 ॥
[1 तु- उ.॥]
[2 परमे- बक. अ. उ.॥]

सङ्कर्षण उवाच[1]
परिज्ञेयो हि कैर्लिङ्गैः साधकानामघक्षयात् ॥ 29 ॥

सम्यगाराधनान्मन्त्रप्रसादः कमलापते ॥
तस्मिन् भगवदनुग्रहो जात इति कथं ज्ञेय इति पृच्छति संकर्षणः - परिज्ञेय इति ॥ 29-30 ॥
[1 `उवाच’ उ. विहाय कुत्रापि नास्ति॥]

श्रीभगवानुवाच[1]
चित्तप्रसादस्त्वतुलस्तेजोवृद्धिरतीव हि ॥ 30 ॥

धैर्यमुत्साहसन्तोषा[2]वकार्पण्यादयो गुणाः ॥
येषां तेषां हि बोद्धव्यं मन्त्रात्माऽभिमुखः स्थितः ॥ 31 ॥

प्रयुक्तिः शान्तिकादीनां कर्मणामचिरादपि ॥
प्रयाति यदि साफल्यं विज्ञेयं तेन हेतुना ॥ 32 ॥

सम्पन्नः पापदाहश्च प्रसन्नश्चापि मन्त्रराट् ॥
ददाति धर्मकामार्थानचिराद् यदि योजितः ॥ 33 ॥

अणिमाद्यष्टकं चापि विविधा योगसिद्धयः ॥
आत्मसिद्धिसमेताश्च परितुष्टास्तदा[3] स्मृताः ॥ 34 ॥
एवं पृष्टस्तज्ज्ञाने हेतूनाह- चित्तप्रसाद इत्यादिभिः ॥ 30-34 ॥ [1 `उवाच’ उ. विहाय कुत्रापि नास्ति.॥]
[2 षस्त्व- अ. उ.॥]
[3 तुष्टस्तदा स्मृतः- अ. उ.॥]

यस्मिन्[1] वै वैभवे रूपे यस्याभिरमते मनः ॥
तस्य कल्मषशान्त्यर्थं दीक्षां कुर्याच्च तेन वै ॥ 35 ॥

तमाराध्य हि पूर्वोक्तं[2] कालं तमनुयोज्य च ॥
योग्यतायाः परीक्षार्थमा शान्तेः सर्ववस्तुषु ॥ 36 ॥
एवं नारसिंहमन्त्रेणैव दुरितक्षयार्थदीक्षाराधनादिकं कार्यमिति नियमो नास्ति॥ वैभवमन्त्रेषु यस्य यस्मिन्नभिरुचिस्तेनैव तत्कार्यमित्याह- यस्मिन्निति सार्धेन॥ पूर्वोक्तं कालं मासचतुष्टयं मासाष्टकं संवत्सरं वेत्यर्थः[3] ॥ 35-36 ॥
[1 `यस्मिन्….. योग्यतायाः’ नास्ति- उ.॥]
[2 पूर्वोक्त- मु. अटी. बक. बख.॥]
[3 चेत्यर्थः- अ.॥]

योग्यतायाः परीक्षार्थमा शान्तेः सर्ववस्तुषु ॥ 36 ॥

नारसिंहेन वान्येन मन्त्रेणाभिमतेन च ॥
दीक्षयाढ[1]ऽऽराधनेनैव होमजापव्रतादिना ॥ 37 ॥

कर्मणा केवलेनैव शान्तिकात्यु[2]च्छ्रितेन च ॥
विनाऽणिमादिसिद्धिभ्यो बुद्ध्वा पापं क्षयं गतम् ॥ 38 ॥

भावयेत् तेन कालेन ततः पद्मदलेक्षण ॥
दीक्षितस्य मुमुक्षुत्वेन सर्वविषयेष्वप्याशाविरहे सति शान्तिकादिकर्मणामपि विरहात् तत्तत्सिद्धिलिङ्गानि विना चित्तप्रसादादिलिङ्गैरेव पापक्षयो ज्ञातव्य इत्याह- योग्यताया इति त्रिभिः ॥ 36-39 ॥
[1 दीक्षा- बक. बख.॥]
[2 काद्यु- उ.॥]

सिद्धीनां वैभवीयानां षाड्गुण्यमहिमाप्तये ॥ 39 ॥

निश्श्रेयसविभूत्यर्थं ग्राह्यं दीक्षात्रयं वरम्[1] ॥
अभ्य[2]र्थितात् सुप्रसन्नात् प्रतिपन्नाच्च देशिकात् ॥ 40 ॥
तदनन्तरं गुरुं प्रार्थ्य तत्सकाशात् परव्यूहविभवदीक्षात्रयं ग्राह्यमित्याह- सिद्धीनामिति सार्धेन ॥ 39-40 ॥
[1 परम्- बक. बख. अ. उ.॥]
[2 अभ्यर्चि- अ.॥]

सानुकम्पेन वा तेन स्वयमप्रार्थितेन च ॥
कार्यं संशुद्धपापानां भीतानां शरणैषिणाम् ॥
संस्कृतानां हि युक्तानामघक्षालनकर्मणि ॥ 41 ॥
अप्रार्थितोऽपि गुरुः स्वयमेव कृपया योग्यानां शिष्याणां दीक्षां कुर्यादित्याह- सानुकम्पेनेति सार्धेन ॥ 41 ॥

इति श्रीपाञ्चरात्रे[1] श्रीसात्त्वतसंहितायामघशान्तिकल्पो[2] नाम षोडशः परिच्छेदः ॥
इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये षोडशः परिच्छेदः ॥
[1 पञ्च- उ.॥]
[2 करो- अ. उ.॥]