००७

सप्तमः परिच्छेदः ॥ नारद उवाच ॥

प्रसन्नेनाथा विभुना यद् उक्तो लाङ्गली पुनः ।
निश्श्रेयस-करं कर्म तद् आकर्णयत द्विजाः ॥ १ ॥

अथ सप्तमो व्याख्यास्यते । नारदो मुनीन् प्रति वासुदेवेन सङ्कर्षणायोपदिष्टं व्रताख्यं कर्म शृणुध्वम् इत्याह — प्रसन्नेनेति ॥ १ ॥

श्रीभगवान् उवाच
शृणु ब्रह्म-मयं पुण्यम् अपुण्य-चय-दाहकृत् ।
तत्त्वतः प्रतिपन्नानाम् अचिराद् एव सिद्धिदम् ॥ २ ॥

भगवान् सङ्कर्षणं प्रत्याह — शृण्व् इति । पुण्यं पुण्यावहम् । अपुण्य-चय-दाहकृत् पाप-विध्वंसकम् । कर्मेत्य् अनुषङ्गः ॥ २ ॥

परं ब्रह्म परं धाम चातुरात्मकम् अव्ययम् ।
जाग्रत्-संज्ञे स्वयं यत् तु पदे व्यक्त-चतुर्भुजम् ॥ ३ ॥

नूनं कर्म-आत्म-तत्त्वानां भव-दुःख-प्रशान्तये ।
भावम् आक्रम्य रूपेण तेन मोक्ष-प्रदेन च ॥ ४ ॥

ततस् त्व् अप्यय-योगेन स्व-स्व-मूर्ति-चतुष्टयम् ।
नीत्वा परिणतिं योगाद् आत्मन्य् आस्ते च पूर्ववत् ॥ ५ ॥

अनुग्रहार्थं भविनां1 नाना-कृत्या तु वै पुनः ।
देह-कान्तिम् अनुज्झित्य दिक्-क्रमेण तु वै सह ॥ ६ ॥

पौरुषेण तु रूपेण प्रत्येकेन त्रिधा त्रिधा ।
वासुदेवादि-केनैव व्यक्त-चक्रादिना युतम् ॥ ७ ॥

उत्कृष्टादि-गुणाढ्यानाम् आ सृष्टेर् नान्य-याजिनाम् ।
वर्णानां जनकत्वेन व्यक्तिम् अभ्येति शाश्वतीम् ॥ ८ ॥

पूर्वोक्तं परात् परं नित्योदित-व्यूहाख्यं वासुदेवादि-चतुष्टयम् एव पूर्वोक्त-जाग्रद्-व्यूह-रूपेणाविर्भूतम्, तज् जीवात्मनां संसार-खेद-निवृत्त्यर्थं तेनैव रूपेण च व्यक्तीभूय जाग्रत्-पदे विदिक्ष्व् अप्यय-क्रमेणावतीर्णं पुरुषादि-मूर्ति-चतुष्टयं स्व-आत्मन्य् उपसंहृत्य पुनः संसारिणाम् अनुग्रहार्थं प्रत्येकं त्रिधा त्रिधा वासुदेवः केशवादि-त्रिक-रूपेण, सङ्कर्षणो गोविन्दादि-त्रिक-रूपेण, प्रद्युम्नस् त्रिविक्रमादि-त्रिक-रूपेण, अनिरुद्धो हृषीकेशादि-त्रिक-रूपेण व्यक्त-चक्रादि-लाञ्छनैः सह भगवद्-एकान्तिनां पोषकत्वेन शाश्वतीम् अभिव्यक्तिम् अभ्येतीत्य् आह — परं ब्रह्म इति षड्भिः । देh-कान्तिम् अनुज्झित्येत्य् अनेन जाग्रद्-व्यूह-वासुदेवादि-चतुष्टयस्य पूर्वं यादृशो वर्ण-भेद उक्तः, केशवादि-त्रिक-चतुष्टयस्यापि तादृश एवेत्य् उक्तं भवति ॥ ३-८ ॥

यां समालम्ब्य संसाराद् अचिराद् एव यान्ति च ।
सुप्रबुद्धः2 परं धाम दान-धर्म-व्रतादिना ॥ ९ ॥

एवं केशवादि-रूपेणाभिव्यक्तेः प्रयोजनम् आह — याम् इति ॥ ९ ॥

कर्तव्यम् इति वै कर्म त्व् ऐश्वर्यं3 यः समाचरेत् ।
भक्त्या व्रतच्छलेनैव तस्यायं विहितः क्रमः ॥ १० ॥

अतो वासुदेवादीनां केशवादीनां च प्रीणन-व्रतानुष्ठान-क्रमो वक्ष्यत इत्याह — कर्तव्यम् इतीति । ऐश्वर्यम् ईश्वर-संबन्धि, तत्-प्रीणनम् इत्यर्थः । यद् वा ऐहलौकिकैश्वर्यादि-संपादकम् इत्यर्थः । उभयथा कर्मणो विशेषणम् ॥ १० ॥

कार्तिकस्य दशम्यां तु मासस्य तु निशागमे ।
घृतेन पञ्चगव्येन बिम्ब-पादाम्भसा तु वा ॥ ११ ॥

कृत्वा स्व-कोष्ठ-संशुद्धिं निस्सृत्य् उदरगं4 मलम् ।
स्मरन् प्रभुं समाचम्य पाणौ कृत्वा कुशोदकम् ॥ १२ ॥

तत्-क्षेप-पूर्वं सङ्कल्प आवर्तव्यो व्रतं प्रति । ॐ व्रताधिपतये देव नित्य-निर्मल-मूर्तये ॥ १३ ॥

दशम्यां सायंकाले पञ्चगव्या5(द्य)न्यतम-प्राशनेन स्व-शरीर-शुद्धिम् आचमन-प्राणायामौ कुशोदक-प्रक्षेप-पूर्वकं सङ्कल्पं चाह — कार्तिकस्येति सार्धद्वाभ्याम् । घृतेन पञ्चगव्येन बिम्ब-पादाम्भसा6 तु7 वेत्य् अत्रोत्तर-उत्तरं श्रेष्ठं संबोध्यम् । तथा च सच्चरित्र-रक्षायां तृतीयेऽधिकारे ब्रह्माण्डे —
“पृथिव्यां यानि तीर्थानि तेषु स्नातेषु8 यत् फलम् ।
विष्णोः पादोदकं मूर्ध्नि9 धारयेत् सर्वम् आप्नुयात् ॥
मानवो यस् तु गङ्गायां स्नानं पानं समाचरेत् । तस्य यादृग् भवेत् पुण्यं तादृक् पादाम्बु-धारणात् ॥
त्रिषु लोकेषु यत् तीर्थं प्रयागं पुष्करादिकम् ।
तत्-पाद-युग्मे कृष्णस्य तत्र तिष्ठति नित्यशः ॥
श्रीभागवते —
पादोदकस्य माहात्म्यं जानात्य् एव हि शङ्करः ।
विष्णु-पादोद्भवां गङ्गां शिरसा धारयन्10 हि सः ॥
प्रायश्चित्तम् अनुप्राप्तः11 कृच्छ्रं वाप्य् अघमर्षणम् ।
विष्णु-पादोदकं पीत्वा शुद्धिम् आप्नोति तत्-क्षणात् ॥” (पृ. ११०)
इत्यादि । एतद्-अलाभे पञ्चगव्यम्, तस्याप्य् अलाभे घृतं वा ग्राह्यम् इति भावः । तथा च पाद्मे स्नपनाध्याये —
अलाभे पञ्चगव्यानां घृतम् एवैकम् इष्यते ।
पञ्चगव्येषु यस्य स्याद् अलाभस् तत्-कृते घृतम् ॥ इति ॥
प्रभुं स्मरन्न् उदरगं मलं निस्सृत्य् इत्य् अनेन प्राणायामः सूच्यते यथा12, तथा वक्ष्यति प्राणायामं नृसिंह-कल्प-परिच्छेदे —
नाभि-देश-स्थितं ध्यात्वा देवं संगृह्य कल्मषम् ।
निस्सृतं वायु-मार्गेण द्वादशान्ताविधौ क्षिपेत् ॥
निरस्त-पापम् आकृष्य वात-चक्र-समन्वितम् ।
नासाग्रेण तु मन्त्रेशं देह-संपूरणाय च ॥
तं ध्यायेद् हृदय-स्थं च गति-रुद्धेन वायुना । (१७/८-२०) इति ॥ ११-१३ ॥

वत्सरं परिपीडैस् तु13 त्वाम् अहं तोषयाम्य् अजम् ।
प्रयतो दर्भ-शय्यायां क्ष्मा-तले रजनीं नयेत् ॥ १४ ॥

सङ्कल्प-मन्त्रम् आह — ॐ व्रताधिपतय इति । परिपीडैः, उपवासैर् इत्यर्थः ॥ १३-१४ ॥

एकादश्यां प्रभातेऽथ स्नात्वा देवम् अधोक्षजम् ।
ध्यात्वा ऽभ्यर्च्य यथा-पूर्वं नाना-नाम-अन्तरैः शुभैः ॥ १५ ॥

एवं सङ्कल्पानान्तरं तस्यां रात्रौ केवल-भूतले कुशोपरि शयनम् आह — प्रयत इत्य् अर्धेन । एकादशी-प्रभात-कृत्यम् आह — एकादश्याम् इति । नाना-नाम-अन्तरैः सहस्र-नामादिभिर् इत्यर्थः । स्तुत्य्14 इति शेषः ॥ १४-१५ ॥

कराभ्यां लम्बमानाभ्यां संस्थितौ दक्षिणादितः ।
पद्म-शङ्खौ सुशोभाढ्यौ यथा तद् अवधारय ॥ १६ ॥

तर्जनी-मध्यमाभ्यां तु नम्राभ्यां15 मध्यतः16 स्थितम् ।
निषण्णं तल-पर्यन्ते17 शङ्खम् ऊर्ध्व-मुखं शुभम् ॥ १७ ॥

सनालं कमलं तद्वत् सितं विकसितं तु वै ।
मणिबन्धाद् अतिक्रान्तं18 किञ्चिच्-छेष-लता-गणम् ॥ १८ ॥

लम्बमानम् अधो-वक्त्रं साङ्गुष्ठं संस्मरेद् विभोः ।
वासुदेवस्य19 लाञ्छन-ध्यान-प्रकारम् आह — कराभ्याम् इति सार्धैस् त्रिभिः । लम्बमान-दक्षिण-हस्ते तर्जनी-अङ्गुष्ठाभ्यां संगृहीतं तल-प्रदेशेऽधो-मुखं20 स्थितं शङ्खवत् सितं विकसितं मणिबन्धाद् अतिक्रान्तं किञ्चिच्-छेष-लता-गणं स-नालं कमलं तथा वाम-हस्ते नम्राभ्यां21 तर्जनी-मध्यमाभ्यां मध्यतो गृहीतं तल-प्रदेशे ऊर्ध्व-मुखं स्थितं शङ्खं च ध्यायेद् इत्यर्थः । ननु जाग्रद्-व्यूह-वासुदेवस्य पूर्वं चतुर्भुजत्वम् उक्तम्, इदानीं लाञ्छन-द्वय-मात्रस्योक्त्या द्विभुजत्वम् एव ज्ञायत इतीति चेत्, किं तावता भवतो विरोधः, उभयथापि लक्षणं स्यात् ॥ १६-१९ ॥

होमान्तम् अखिलं कृत्वा ध्यायेद् अनिमिषस् ततः ॥ १९ ॥

दिन-मध्येऽर्चनं कुर्याद् दिनान्ते स्नान-वर्जितम् ।
महा-अर्थैर्22 विविधैः स्तोत्रैर् गीत-वाद्य-समन्वितैः ॥ २० ॥

निशां नीत्वा प्रभातेऽथ स्नान-पूर्वम् अजं यजेत् ।
चतुर्-आत्मानम् अव्यक्तम् अनुयागान्त-कर्मणा23 ॥ २१ ॥

उदितेऽथ निशा-नाथे चास्तं याते दिवाकरे ।
क्षान्त्यर्थम् अर्चनं कुर्याद् दण्डवत् प्रणमेत् क्षितौ ॥ २२ ॥

चतुर्धा वै चतुर्दिक्षु ततः कुर्यात् प्रदक्षिणम् ।
एकैकस्याग्र उच्चार्य चतुर्धा तु पदं पदम् ॥ २३ ॥

तद्-वाचकं24 स्तोत्र-मन्त्रान्स्25 ततः कृत्वा स्वभावगम् ।
तद्-व्यक्ति-व्यञ्जकेनैव सह वाक्य-गणेन तु ॥ २४ ॥

ततो होमान्तं सर्वं कृत्वा पुनस् तम् एव ध्यायन् प्राप्ते मध्याह्ने यथाविध्य् अर्चनं कृत्वा सायन्तनार्चनं तु स्नपन-वर्जितं कृत्वा गम्भीरार्थ-गर्भित-विविध-स्तोत्र-गीत-वाद्यादिभिः सह तां निशां जागरेण नीत्वा द्वादश्यां26 प्रभाते स्नान-पूर्वकं यथा-विधि चतुर्-आत्मानं प्रभुं समभ्यर्च्य पारणान्तं कृत्वा सायन्तनार्चनं च कृत्वाऽपराध-क्षमापणं कुर्वन् चतुर्दिक्षु चतुर्वारं दण्डवत् प्रणम्य चतुर्वारं प्रदक्षिणं कुर्वन् एकैकस्याग्रतः स्थित्वा तत्तद्-वाचक-स्तोत्र-मन्त्र-वाक्यादीनि पठेदिति प्रयोग-पद्धतिम् आह — होमान्तम् इत्यादिभिः ॥ १९-२४ ॥

जितं ते पुण्डरीकाक्ष वासुदेवामितद्युते ।
राग-दोषादि-निर्मुक्तो समस्त-गुण-मूर्तिमान्27 ॥ २५ ॥

नाथ ज्ञान-बलोत्कृष्ट नमस्ते विश्व-भावन ।
सङ्कर्षण विशालाक्ष सर्वज्ञ परमेश्वर ॥ २६ ॥

देव ऐश्वर्य-वीर्यात्मन् प्रद्युम्न जगताम्-पते ।
नमस्तेऽस्तु हृषीकेश सर्वेश्वर जगन्मय ॥ २७ ॥

स्थित्य्-उत्पत्ति-लय-त्राण-हेतवे शक्ति-तेजसे ।
जय् आनिरुद्ध भगवन् महा-पुरुष पूर्वज ॥ २८ ॥

वासुदेवादीनां जितन्ता28दि-स्तोत्र-मन्त्र-चतुष्टयं स्वयम् एवाह — जितं त इति चतुर्भिः । अत्र प्रथम-श्लोके प्रथमं पादम्, द्वितीये द्वितीयम्, तृतीये तृतीयम्, चतुर्थे चतुर्थं च संगृह्यैक-श्लोक-रूपेण लक्ष्मी-तन्त्र (२४/६९) पाद्मादिषु प्रतिपादितम् । तस्याष्टाक्षरादि-व्यापकत्वं चोक्तं लक्ष्मी-तन्त्रे —
पदमन्त्रास् त्रयो ऽस्य स्युर् विधाने पाञ्चरात्रिके ॥
विष्णवे नम इत्य् एवं नमो नारायणाय च ।
नमो भगवते पूर्वं वासुदेवाय चेत्य् अपि ॥
जितं ते पुण्डरीकाक्ष नमस्ते विश्व-भावन ।
नमस्तेऽस्तु हृषीकेश महा-पुरुष पूर्वज ॥
पदमन्त्रश् चतुर्थोऽयं प्रणवस्य पुरन्दर ।
ओङ्कार-सहितान् एतान् मन्त्रान् पूर्व-विदो विदुः ॥…
केवलस् तारकश् चैव चत्वारश् च तद्-आदिकाः ।
पञ्चैते व्यापका मन्त्राः पञ्चरात्रे29 प्रकीर्तिताः ॥ इति ॥
(२४/६७-७०,७४)
इतो ऽप्य् अधिकं पद्म्-आदिषु प्रतिपादितं स्तोत्र-श्लोक-जातम् एतद् जितन्ताख्य-मन्त्रस्यार्थ-विवरण-रूपं बोध्यम् । जितन्ताख्य-मन्त्र-व्याख्यानम् अहिर्-बुध्न्य-संहितायाम्30 उक्तं द्रष्टव्यम् ॥ २५-२८ ॥

विधिना ऽनेन वै कार्यं पक्षयोर् उभयोरपि ।
अब्दान्तम्31 अर्चनं विष्णोर् निष्कामेणाग्रजन्मना ॥ २९ ॥

एवं प्रति-मासं पक्ष-द्वयेऽपि दशम्यां पञ्चगव्य-प्राशन-नियमन-पूर्वकम् उपवासं जागरणं द्वादश्यां व्रताराधन-पूर्वकं पारणं सायम् अपराध-क्षमापणार्थम् अर्चनादिकं च कुर्वन् संवत्सरान्तं ब्राह्मणो निष्कामं यथा तथा व्रतं कुर्याद् इत्याह — विधिनेति ॥ २९ ॥

एवं सङ्कर्षणाद्यं तु वासुदेवान्तम् अर्चनम् ।
विहितं क्षत्र-जातेर् वै कर्तव्यत्वेन सर्वदा ॥ ३० ॥

प्रद्युम्नाद्यं तु वैश्यस्य मुसल्यन्तम्32 उदाहृतम् ।
सच्छूद्रस्या-निरुद्धाद्यं33 प्रद्युम्नान्तं सदैव हि ॥ ३१ ॥

क्षत्रियस्य विशेषम् आह — एवम् इति । वैश्यस्य विशेषम् आह — प्रद्युम्नाद्यम् इत्य् अर्धेन । मुसल्यन्तं सङ्कर्षणान्तम् इत्यर्थः । शूद्रस्य विशेषम् आह — सच्छूद्रस्येत्य् अर्धेन ॥ ३०-३१ ॥

मूर्तीनां ध्यान-काले तु विशेषम् अवधारय ।
सङ्कर्षणेऽब्जवद् रम्यां दक्षिणे तु करे गदाम् ॥ ३२ ॥

गृहीतां चिन्तयेन् मध्याद् अधो-वक्त्रेण पाणिना ।
अङ्गुलि-द्वितयेनैव त्व् अङ्गुष्ठाद्येन लीलया ॥ ३३ ॥

प्राग्वद् वाम-करे पद्मं प्रद्युम्नस्य निबोधतु34
दक्षिणे हेतिराट् तद्वद् अङ्गुलि-द्वितयोपरि ॥ ३४ ॥

पूर्ववत् कमलं35 वामे चतुर्थस्याधुनोच्यते ।
आदिवद् दक्षिणे पद्मं गदा वामे यथोदिता ॥ ३५ ॥

इति प्रथम-मूर्तीनां36 ध्यानम् उक्तं तु स-अर्चनम् ।
नित्य-नैमित्तिकार्थं तु निःश्रेयस-पदाप्तये ॥ ३६ ॥

पूर्वं वासुदेव-लाञ्छन-ध्यान-मात्रस्योक्तत्वाद् इदानीं सङ्कर्षणादीनां लाञ्छन-भेद-ध्यानम् आह — मूर्तिनाम् इत्य् आरभ्य निःश्रेयस-पदाप्तय इत्य् अन्तम् । अब्जवद् इत्य् अनेन पूर्वं वासुदेवस्य दक्षिण-करेऽब्जस्य यादृशः संनिवेशो यादृशो धारण-प्रकारश् चोक्तः, इदानीं सङ्कर्षणस्य दक्षिणे37 करे गदाया अपि तादृश इति बोध्यते, अधो-वक्त्रेण लम्बमानेनेत्यर्थः । अङ्गुष्ठाद्येन अङ्गुली-द्वितयेन, तर्जनी-अङ्गुष्ठाभ्याम् इत्यर्थः । प्राग्वद् इत्य् अनेन वासुदेव-कमलदधोमुखत्वादि-कम् उच्यते ॥ ३२-३६ ॥

भक्ति-पूर्वात् तु कैवल्याद् 38यत्नेनाभ्यर्थयन्ति ये ।
वर्णा विप्रादयस् तेषां व्रताचरणम् उच्यते ॥ ३७ ॥

श्रावणस्य दशम्यां तु सर्वं पूर्वोक्तम् आचरेत् ।
कृत्वा39 कुशोदकाभ्यङ्गं40 स्मरन्41 देवम् इदं42 पठेत् ॥ ३८ ॥

सर्व-भूत-मयानादे यच्छ मे43 परमं पदम् ।
छिन्धि सांसारिकान् बन्धान् अज्ञान-तिमिरं हर ॥ ३९ ॥

ततो ध्यात्वा यजन् देवं चतुर्-मूर्तिं तु पूर्ववत् ।
गौण-मुख्यैर् महत्-शब्दैर् जितन्ताद्यैः पदैस् ततः ॥ ४० ॥

व्यस्तैस् ततः समस्तैश् चाप्य् एकैकं44 पुनर् एव हि ।
वाच्य-भेदोक्तियोगेन समस्तेनात्मना ऽन्यथा45 ॥ ४१ ॥

इत्य् अर्चनं क्रमात् कुर्यान् मूर्तेर् मूर्तेर् महामते ।
प्रणिपातादिकं सर्वम् आवर्तव्यं46 यथास्थितम् ॥ ४२ ॥

तुर्यान्तं47 मौद्गलान्तैस् तु48 मोक्षैक-फल-लम्पटैः49
विन्यासं लाञ्छनानां तु ग्रहणेनान्वितं शृणु ॥ ४३ ॥

अस्मिन् व्रते चतुर्णां तु देवानां वस्तु-सूचनम् ।
तिर्यक् स्व-पक्ष-देशाभ्यां50 स्तनाख्यन् मण्डलाद् बहिः ॥ ४४ ॥

दक्षिणे तु गदाद्यस्य स्पष्ट-मुष्टि-गदा भवेत् ।
वामेन कुक्षि-कुहरात् समाक्रान्तश् च शङ्खराट् ॥ ४५ ॥

परिधेर्51 बाह्यतोऽङ्गुष्ठं निषण्णं सर्वदा स्मरेत् ।
मुख्य-हस्ते द्वितीयस्य ध्येयः शङ्ख-वरस् तथा ॥ ४६ ॥

चक्रम् अङ्गुष्ठ52 ऊर्ध्वस्थं53 वाम-हस्ते स-मुष्टिके54
प्रद्युम्नस्य गदा वामे शब्द-पूर्णस् तु55 दक्षिणे ॥ ४७ ॥

दक्षिणे त्व् अनिरुद्धस्य कमलं सूर्य-वर्चसम् ।
वाम-तर्जनि-गं चक्रं त्रिष्व् अङ्गुष्ठं स्मरेत् स्थितम् ॥ ४८ ॥

एवं यथा-स्थिताद् ध्यानात् फलम् आप्नोति साधकः ।

अथ केवल-मुमुक्षुभिर् अनुष्ठेय-व्रते काल-भेदं सङ्कल्प-श्लोकानन्तरं लाञ्छन-न्यास-ध्यान-भेदं चाह — भक्ति-पूर्वाद् इत्य् उपक्रम्य फलम् आप्नोति साधक इत्य् अन्तम् । तुर्यान्तम् अनिरुद्धान्तम् । मौद्गलान्तैः56 शूद्रान्तैर् इत्यर्थः । दक्षिणे तु गदाद्यस्येत्य् अत्र आद्यस्य वासुदेवस्य् इत्यर्थः । तिर्यक् स्व-पक्ष-देशाभ्यां स्तनाख्यान् मण्डलाद् बहिः पार्श्व-द्वयेऽपि वक्षः57-स्थलाद् बहिर् इत्यर्थः । तत्-सम इति यावत् । मुख्य-हस्ते दक्षिण-हस्त इति यावत् । द्वितीयस्य सङ्कर्षणस्य । तथा वासुदेव-हस्तवद् इत्यर्थः । शब्द-पूर्णः शङ्खः । त्रिषु तर्जन्यादिष्व् इत्यर्थः ॥ ३७-४९ ॥

स-क्षीरम् अन्न-पात्रं तु विहितं मासि मासि च ॥ ४९ ॥

दानार्थं व्रत-पर्यन्ते हेम-रत्न-तिल-अन्वितम् ।
निष्काम-व्रतिनां नित्यम् अन्ते58 गो-दानम् एव च ॥ ५० ॥

निष्कामानां व्रते प्रति-मासं कर्तव्य-दान-द्रव्यं संवत्सरान्ते देy-द्रव्याणि चाह — स-क्षीरम् इति सार्धेन ॥ ४९-५० ॥

प्रति-मासं स-कामानां दधि-पात्रं च सोदनम् ।
फलानि हेम-युक्तानि त्व् अन्ते भू-दानम् एव च ॥ ५१ ॥

तिला न्य् उदक-कुम्भं59 च पत्र-पुष्पादिनाऽर्चनम् ।
यथा-शक्ति दरिद्राणां हिरण्यं गो-समं स्मृतम् ॥ ५२ ॥

तथा स-कामानां देय-द्रव्याण्य् आह — प्रति-मासम् इति सार्धेन । अशक्तानां तु गो-दान-भू-दान-प्रत्याम्नायत्वेन यथा-शक्ति हिरण्य-दानम् आह — दरिद्राणाम् इत्य् अर्धेन । गो-सम् इत्य् अत्र गो-शब्देन भूमिर् अप्य् उच्यते ॥ ५१-५२ ॥

दानेऽर्चने तु शूद्राणां व्रत-कर्मणि सर्वदा ।
असिद्धान्नं तु विहितं सिद्धं वा ब्राह्मणेच्छया ॥ ५३ ॥

शूद्रैस् तु व्रतान्तेऽपक्वान्नं देयम्, सत्यां ब्राह्मणानुज्ञायां पक्वान्नं वा देयम् इत्याह — दान इति । “आर्याध्युषिताः शूद्राः पाकं कुर्युः” (आ. ध. २/३य४) इति ब्राह्मणानुज्ञया शूद्राणाम् अपि पाकाधिकार-विधानात् सिद्धं वा ब्राह्मणेच्छयेत्य् उक्तम् अविरुद्धं ज्ञेयम् । एवं स्व-स्व-वर्णाश्रम-धर्माविरुद्धम् एवाराधनं कार्यम् इत्यर्थः ॥ ५३ ॥

स्व-कर्मणा यथो्त्कर्षम् अभ्येति न तथार्चनात् ।
तस्मात् स्वेनाधिकारेण कुर्याद् आराधनं सदा ॥ ५४ ॥

स-हेतुकम्60 आह — स्व-कर्मणेति ॥ ५४ ॥

सर्वत्राधिकृतो विप्रो वासुदेवादि-पूजने ।
यथा तथा न क्षत्राद्यास् तस्माच् छास्त्रोक्तम् आचरेत् ॥ ५५ ॥

भगवद्-आराधने ब्राह्मणवत् (न)61 क्षत्रियादीनाम् अपि सर्वत्राधिकारोऽस्ति, अतो यथाधिकारम् अनुष्ठेयम् इत्याह — सर्वत्रेति ॥ ५५ ॥

नयेन् नक्ताशनैर् भक्त्या दिनान्य् एतानि मौद्गलः ।
व्रताद्य्-अन्ते तु विहितं परिपीडं हि तस्य वै ॥ ५६ ॥

शूद्रस्य प्रतिपक्षम् एकादश्यां नक्ताशनम्, व्रताद्य्-अन्तैकादश्योर् एवोपवासम् इत्याह — नयेद् इति ॥ ५६ ॥

यथाभिमतम् आसाद् वै समारभ्य क्रमेण तु ।
इतिकर्तव्यतासक्तैर् मोक्ष-कामैस् तु चाग्रजैः ॥ ५७ ॥

दशम्यां चैव सङ्कल्पः कार्यो द्वादश-वार्षिकः ।
प्राग्वद् अब्दं62 तु सम्पूर्य दानैर् मासानुमासिकैः63 ॥ ५८ ॥

व्रत-ईश्वरं जगन्नाथं प्रीणयेद् वत्सरे गते ।
पुनर् आरम्भ-मासाच् च त्व् अग्र्य-मासस्य तद्-दिनात् ॥ ५९ ॥

आरभ्य वत्सरं प्राग्वत् पूजयेत् प्रीणयेत् प्रभुम् ।
क्रमेणानेन सम्पाद्य द्वादशाब्दं व्रतं महत् ॥ ६० ॥

तद्-अन्ते तु यथा-शक्त्या दानैर् वस्त्रानुलेपनैः ।
द्विषट्कं ब्राह्मणानां तु यष्टव्यम् अधिकारिणां64 ॥ ६१ ॥

अथ ब्राह्मणस्य द्वादश-वार्षिकं व्रतान्तरम् आह — यथाभिमतम् आसाद् इत्य् आरभ्य यष्टव्यम् अधिकारिणेत्य् अन्तम् । पूर्वोक्तैर् इत्यर्थः । पूर्वं प्रति-मासं यद् दानं विहितं तद् अत्र प्रति-संवत्सरं कार्यम् । संवत्सरान्त-विहित-दानं त्व् अत्र द्वादश-वर्षान्ते कार्यम् इत्यर्थः ॥ ५७-६१ ॥

स्व-मूर्त्य् आराधन-आद्येन कर्मणा ह्य् एतद् एव हि ।
कार्यं व्रतम् इदं65 भक्त्या ज्येष्ठाद्यं क्षत्रियेण तु ॥ ६२ ॥

वैश्येनाश्वयुजाद् आदाव् आचर्तव्यं66 समासतः ।
मौद्गलेन तु माघाद्यं पालनीयं यथाक्रमम् ॥ ६३ ॥

इदं व्रत-उत्तमं दिव्यम् अपवर्ग-फल-प्रदम् ।
विहितं सर्व-वर्णानाम् अविरुद्धं67 च सर्वदा ॥ ६४ ॥

चान्द्रायणायुत-समम् आ सृष्टेः कल्मष-अपहम्68
वक्ष्ये व्रत-वरं चान्यत् कर्तव्यत्वेन कर्मिणाम्69 ॥ ६५ ॥

मोक्षैक-फल-कामानाम् अन्येषां भावितात्मनाम् ।
मोक्षदं देह-पाताद् यच् चातुरात्म्यैक-याजिनाम्70 ॥ ६६ ॥

यथाभिमतम् मासस्य दशम्यां पातयेज् जलम् ।
नत्वा व्रतेश्वरं प्राग्वद् वत्सर-द्वितयस्य च ॥ ६७ ॥

विशेषाच् श्रावणे कुर्यात् सङ्कल्पं कार्तिकेऽपि च ।
आरम्भ-मासाद् आरभ्य निष्ठाख्यं यावद् एव हि ॥ ६८ ॥

द्विषट्कम् उपवासानाम् एक-वृद्ध्या तु वर्धयेत् ।
होमान्तम् अर्चनं कृत्वा पूर्ववत् तन्-मयान्71 यजेत् ॥ ६९ ॥

ततस् तु72 परिपीडानां वत्सरं ह्रासम्73 आचरेत् ।
कार्यम् असम्-भ्रमे मासे तु पूर्वं द्वादश-रात्रिकम् ॥ ७० ॥

एकैकं लोपयेत् तावद् यावद् अब्दः74 समाप्यते ।
कुर्याद् व्रत-समाप्तिं तु पूर्ववत् पूजनादिना ॥ ७१ ॥

वृद्धि-ह्रास-क्रमेणैतद् व्रतम् उक्तं मया च ते ।
अनायासेन75 वै येन प्राप्यते शाश्वतं पदम् ॥ ७२ ॥

अथ संवत्सर-द्वयानुष्ठेयम् उपवास-वृद्धि-ह्रास-अन्वितं व्रतान्तरम् आह — चान्द्रायणायुत-समम् इत्य् आरभ्य प्राप्यते शाश्वतं पदम् इत्य् अन्तम् ॥ ६५-७२ ॥

व्रतानाम् उत्तमं धन्यं द्वादशाख्यम् अतः शृणु ।
अकामानां स-कामानाम् अन्ते तुल्य-फलं हि यत् ॥ ७३ ॥

सित-पक्षात् तु चैत्रस्य कार्याऽऽद्येऽहनि कल्पना ।
गतेऽर्ध-रात्र-समये76 चा प्रभातात् ततो ऽच्युतम् ॥ ७४ ॥

उपवासं विना ऽभ्यर्च्य कार्यं वै नक्त-भोजनम् ।
एकादश्य्-अन्तम् एवं77 हि पौनःपुन्येन लाङ्गलिन् ॥ ७५ ॥

कार्यम् अप्यय-युक्त्या वै चातुरात्म्यस्य पूजनम् ।
एकादश्यां न भुञ्जीत विहितस् तत्र जागरः ॥ ७६ ॥

द्वादश्याम् आदि-देवं तु समाराध्य यथा-विधि ।
मध्याह्न-समये प्राप्ते विधिवत् तन्-मयान्78 यजेत् ॥ ७७ ॥

भक्त्या शक्त्या तु चतुर एकैकं प्रत्यहं त्व् अपि ।
गवां ग्रासः79 स्व-सामर्थ्याल् लोपनीयो न सर्वदा ॥ ७८ ॥

सह पूर्वोक्त-दानैस् तु व्रत-कर्म-pरायणैः ।
प्राप्ते तु तद्-दिने भूयः कृष्ण-पक्षस्य लाङ्गलिन् ॥ ७९ ॥

अर्चनं केशवादीनां त्रिसन्ध्यं प्राग्वद् आचरेत् ।
द्वादश्यां सोपवासस् तु80 यजेद् दामोदरं प्रभुम् ॥ ८० ॥

दान-अन्तम् अर्चन-आद्यं तु सित-पक्षोक्तम् आचरेत् ।
प्राभवेण क्रमेणैव चैवं81 मूर्त्य्-अन्तरं यजेत् ॥ ८१ ॥

मूर्तिभिश्चाप्ययाख्येन संवत्सरम् अतन्द्रितः ।
यो योऽधिकारी भक्तो वा तस्य तुष्यत्य् अधोक्षजः82 ॥ ८२ ॥

अथ द्वादशाख्य-व्रतम् आह — व्रतानाम् उत्तमं धन्यम् इत्य् आरभ्य तस्य तुष्यत्य् अधोक्षज इत्य् अन्तम् । आद्येऽहनि प्रतिपदि । कल्पना सङ्कल्पः । द्वादश्याम् आदि-देवं वासुदेवम् इत्यर्थः । एवं च चैत्र-शुक्ल-प्रतिपदम् आरभ्य तद्-द्वादश्य्-अन्तं83 पुरुष-सत्य-अच्युत-वासुदेवानाम् एव पुनर् तेषाम् एव प्रत्यहम् एकैक-क्रमेणार्चनं कुर्वन् कृष्ण-प्रतिपदम् आरभ्य तद्-द्वादश्य्-अन्तं तथा केशवादि-मूर्तीनाम् अर्चनं च कुर्यात् । पक्ष-द्वयेऽप्य् एकादश्याम् उपवासो जागरश् च । अवशिष्ट-दिनेषु नक्त-भोजनम् । मध्याह्न-समये ब्राह्मण-भोजनम्, तद्-अशक्तौ गो-ग्रास-कल्पनं वा, प्रतिपक्षं पूर्वोक्त-दानं च कार्यम् ॥ ७३-८२ ॥

षोडशाख्यम् अतो84 वक्ष्ये व्रतं धन्यतमं हि यत् ।
पूर्ववद् रात्रि-समये आषाढस्याद्य-वासरे ॥ ८३ ॥

गृहीत्वा नियमं कुर्याद् आ प्रभातादि-पूजनम् ।
त्रिसन्ध्यं वामनादीनां विधिवद् द्वादशाहकम्85 ॥ ८४ ॥

त्रयोदश्यां ततोऽभ्यर्च्य चतुर्-वर्ग-प्रदं प्रभुम् ।
आद्यन्तम् अनिरुद्धादि तद्-आद्यम् अपरेऽहनि ॥ ८५ ॥

तृतीयं पञ्चदश्यां तु संशान्त-व्यक्त-लक्षणम्86
एवं मूर्त्य्-अन्तरैर् युक्तं चातुरात्म्यं त्रिधा स्थितम् ॥ ८६ ॥

आराध्य परया भक्त्या चैकादश्याम्87 अनश्नतः ।
पूर्णं88 तद्-अर्चनं कृत्वा पञ्चदश्यां यथा-विधि ॥ ८७ ॥

चत्वारस् तन्-मयाः पूज्याः श्रद्धा-पूतेन चेतसा ।
आत्म-यागं ततः कुर्याद् दिनान्तेऽर्चन-पूर्वकम् ॥ ८८ ॥

एवम् आश्वयुजे भूयः पर्वादौ प्रारभेत् क्रियाम् ।
पद्मनाभादि-मूर्तीनाम् अर्चनं विहितं क्रमात् ॥ ८९ ॥

एकादश्याम्89 अनश्नंस् तु सर्वं निर्वर्त्य पूर्ववत् ।
सम्प्राप्ते च ततः पौषे यजेन् नारायणादिकम् ॥ ९० ॥

द्वादश्यां तद् द्विषट्कं च तथा व्यूह-त्रयं त्व् अपि ।
चैत्रे तद्-दिवसाद् आदाव् विष्ण्वादीनां समर्चनम् ॥ ९१ ॥

विहितं सद्-व्रत-ज्ञानां90 सह व्यूह-त्रयेण तु ।
विशेष-पूजनं कुर्यात् सम्पन्ने वत्सरे सति ॥ ९२ ॥

विभोरग्रे द्विजेन्द्राणां षोडशानां स्व-शक्तितः ।

अथ व्रतान्तरम् आह — षोडशाख्यम् इति प्रक्रम्य षोडशानां स्व-शक्तित इत्य् अन्तम् । अत्र केशवादयो द्वादश वासुदेवाद्यश् चत्वारः, आहत्य षोडश मूर्तयः । एतेषां षोडशानाम् उक्त-क्रमेणार्चनादिकं षोडशाख्य-व्रतम् इत्य् उच्यते । यद् वा आषाढादि-मास-चतुष्टये प्रति-मासं वासुदेवादीनां चतुर्णाम् अर्चनात् षोडशाख्यम् इति ज्ञेयम् । आषाढे वामनादीनाम्, आश्वयुजे पद्मनाभादीनाम्, पुष्ये नारायणादीनाम्, चैत्रे विष्ण्वादीनां चार्चनं91 तत्तन्-मासे तत्तन्-मासाधिपतिम् आरभ्यार्चनीयत्वाद् उक्तम् इति ज्ञेयम् । केशवादीनां मार्गशीर्षाद्य्-आधिपत्यं प्रसिद्धं खलु । आद्य्-अन्तम् अनिरुद्धादि पुरुष-आदि-वासuदेवान्तम् इत्यर्थः । अपरेऽहनि चतुर्दश्यां तद्-आद्यं वासुदेवाद्यं स्वप्न-व्यूहम् इति भावः । पञ्चदश्यां पौर्णमास्यां संशान्त-व्यक्त-लक्षणम् अभिव्यक्त-अनभिव्यक्तम् इत्यर्थः । तृतीयं सुषुप्ति-व्यूहम् इत्यर्थः । चातुरात्म्यं त्रिधा स्थितं जाग्रत्-स्वप्न-सुषुप्ति-भेदेन त्रिविधम् इत्यर्थः ॥ ८३-९३ ॥

दत्त-शिष्टम् अतृप्तं च दैवीय-अन्नेन भावितम् ॥ ९३ ॥

हविः-शेषेण संयुक्तं व्रतिनां भोजनं हितम्92
एवं सितेऽसिते वाप्य् उभयोर्93 अपि पक्षयोः ॥ ९४ ॥

अथैवं व्रत-निष्ठानां भोज्य-द्रव्यम् आह — दत्त-शिष्टम् इति । अयं श्लोकः सच्चरित्र-रक्षायां व्याख्यातः । तथा हि — “दत्त-शिष्टं94 कारि-संप्रदानावशिष्टम् । दैवीय-अन्नेन95 पाक-पात्रावशिष्टेन हविः-शेषेण चरु-शेषेण व्रतिनां भगवद्-रूप96-निष्ठानां सर्वेषां हितम् अनिष्ट-निवर्तकत्वाद् इष्ट-प्रापकत्वाच् च अवश्यं97 भोक्तव्यम् इत्यर्थः । अत्र भोजनम् इति कर्मणि ल्युडन्तम्” (पृ. ९४-९५) इति ॥ ९३-९४ ॥

यथाभिमतम्98 आसाद् वै समारभ्य यजेत् क्रमात् ।
एकादश99 च मास-ईशान् पर्वादौ तु सकृत् सकृत् ॥ ९५ ॥

द्वादश्यां सोपवासस् तु तन्-मास-ईशम् अथार्चयेत् ।
तत्-कारणादि-भेदोत्थं चातुरात्म्येन वै सह ॥ ९६ ॥

पुण्यं व्रतम् इदं विद्धि वृद्ध-स्त्री-बाल-सिद्धिकृत् ।
नित्यं सद्-वैष्णवैः कार्यम् अविरुद्धम् अखेददम् ॥ ९७ ॥

प्राक्-प्रणीतैर् महा-भोगैः शक्त्या दान-समन्वितैः ।
गृहस्थैर् ब्रह्म-चर्यस्थैर् वानप्रस्थैस् तु100 भिक्षुकैः ॥ ९८ ॥

येन केन प्रकारेण वित्तं101 सम्भृत्य वै पुरा ।
नित्यं धर्माविरुद्धेन भैक्ष102-पूर्वेण सर्वदा ॥ ९९ ॥

पुनर् व्रतान्तरम् आह — एवम् इतेऽसिते वापीति प्रक्रम्य भैक्ष-पूर्वेण सर्वदेत्य् अन्तम् । अस्यार्थः — यथाभिमतम् आसे शुक्ल-पक्षे कृष्ण-पक्षे वोभयोर् वा प्रतिपदम् आरभ्यैकादश्य्-अन्तं तन्-मास-ईशस्योत्तराद् इनाम् एकादश-मास-ईशान् प्रत्यहम् एकैक-क्रमेणाभ्यर्च्यैकादश्यां कृतोपवासो द्वादश्यां तन्-मास-ईशम्, तत्-कारण-भूतो वासुदेवः सङ्कर्षणः प्रद्युम्नोऽनिरुद्धो वा यस् तद्-आदि-चातुरात्म्यं च संपूज्य दानादिकं कुर्यात् । एवं चेदं सुस्पष्टं बोध्यम् — चैत्र-मासे यदि व्रतम् अनुष्ठीयते तन्-मास-ईशो विष्णुः, तद्-उत्तरं मधुसूदनादयो वैशाखाद्य्-एकादश-मास-ईशाः प्रतिपदादिष्व् अर्चनीयाः । तन्-मास-ईशो विष्णुः, तत्-कारण-भूत-सङ्कर्षणादि-वासुदेवान्ताश् चत्वारश् च द्वादश्याम् अर्चनीयाः । तन्-मास-ईशो विष्णुः, तत्-कारण-भूत-सङ्कर्षणादि-वासुदेवान्ताश् चत्वारश् च द्वादश्याम् अर्चनीयाः । एवम् अन्यत्रापि ज्ञेयम् । केशवादीनां त्रिकं त्रिकं प्रति वासुदेवादीनाम् एकैकस्य कारणत्वम् उत्तरत्र (८/५५-५६) सुस्पष्टं वक्ष्यति ॥ ९४-९९ ॥

कुटुम्ब-भरणाद्यर्थं लाभे भैक्षादिके तु वै ।
अवज्ञा परमा यत्र बुद्धिमांस् तत्र संवसेत्103 ॥ १०० ॥

अथ प्रसक्तं भैक्षादि-द्रव्य-विचारं विवृण्वंस् तल्-लाभे प्रतिग्रहीतुर् यत्र बहुशोऽवमानं जायते, तत्रैव बुद्धिमता प्रतिग्रहीत्रा वस्तव्यम् इत्याह — कुटुम्बेति । भैक्षं याचितम् । “भिक्षा याच्ञ्-अवार्थनार्दना” (३/२/६) इत्य्-अमरः । अवज्ञा अवमाननम् । “रीढावमाननावज्ञा”104 (१/७/२३) इत्य्-अमरः ॥ १०० ॥

दाता ददाति यत् किञ्चित् पूजा-पूर्वं हि भक्तितः ।
कृत्स्नं तदीयम् अशुभं तिष्ठत्य् अर्थि-जनाश्रितम् ॥ १०१ ॥

यतः संमानं105 प्रतिग्रहीतुर् एव बाधकम् आह — दातेति ॥ १०१ ॥

परिभूते तु वै लाभे सन्तोषो यस्य जायते ।
प्रतिग्रहोत्थितो दोषस् तस्य दूरतरं व्रजेत् ॥ १०२ ॥

एवं ज्ञात्वा106 तु पात्राणां भक्तानां भावितात्मनाम् ।
जनयेद् बुद्धि-भेदं तु नेतरेषां कदाचन ॥ १०३ ॥

अतो ऽनादर-पूर्वकं दत्तेऽपि यः प्रतिग्रहीता संतुष्टो भवति, स प्रतिग्रह-उत्थितो दोषेण विलुप्तो107 भवति इत्याह — परिभूत इति । लाभे भैक्षादि-द्रव्य-लाभे । परिभूते तिरस्कृते, अनादर-पूर्वकं दत्ते सतीति भावः । “अनादर परिभावः” (१/७/२२) इत्य्-अमरः । एवं च आदर-पूर्वकं दानं दातुः श्रेयः-संपादकम् इति ज्ञात्वा आदर-पूर्वकम् अनिच्छतां पात्राणां स-विनय-प्रार्थनादिभिस् तद्-अङ्गीकाराय बुद्धिं जनयेत् । अपात्राणां तां न जनयेद् इत्याह — एवम् इति ॥ १०२-१०३ ॥

यत्र दाता ग्रहीता च द्वाव् एव कलुषात्मकौ ।
दृष्टादृष्ट-विनाशार्थं दानं द्वाभ्यां हतं तु तत् ॥ १०४ ॥

दातृ-प्रतिग्रहीत्रोर् उभयोर् अपि कलुषात्मकत्वे दान-वैफल्यम् आह — यत्रेति ॥ १०४ ॥

प्राग् एव108 चित्त109-संशुद्धिं110 भाव-शुद्धि-समन्विताम्111
निश्चयीकृत्य यत्नेन दिव्यम् आयतनं व्रजेत् ॥ १०५ ॥

व्रत112-संसिद्धये113 नूनं सिद्धायतनम् एव वा ।
अथावाऽऽयतनं रम्यम् आसन्न-नगरादिकम् ॥ १०६ ॥

निर्विघ्नेन व्रतं यस्मान् निष्पद्येतात्र कर्मिणाम् ।
कर्म-वाङ्-मनसैः शुद्धस् तपो-निष्ठः क्रिया-परः ॥ १०७ ॥

यो नान्य-देवता-याजी तत्त्वतो भगवन्मयः ।
कस्मिंश् चिद् वैभवे रूपे व्यूहीये वा सु-बुद्धिमान् ॥ १०८ ॥

बद्ध-लक्ष्यो भवेद् भक्त्या त्व् आप्तागम-निदर्शनात् ।
एवं भाव-शुद्धि-संपादितां चित्त-शुद्धिं पूर्वं निश्चित्य व्रतानुष्ठानार्थं सैद्ध-मानुष-स्थानेष्व् अन्यतमं गत्वा तत्र विभवाकृतौ व्यूहाकृतौ वा भगवति व्रतान्तं114 न्यस्त-चित्तो भवेद् इत्याह — प्राग् एवम् इति सार्धैश् चतुर्भिः । दिव्यं स्वयम्-व्यक्तम् इत्यर्थः ॥ १०५-१०९ ॥

तस्यापि तादृशानां च भविनाम् अनुकम्पया ॥ १०९ ॥

व्यक्तताम् अगमद् देवः स्वयम् एव धरात्मना ।
यत्र मोक्ष-प्रदं विद्धि दिव्यम् आयतनं हि तत्115 ॥ ११० ॥

प्रसङ्गाद् दिव्यायतन-लक्षणम् आह — तस्यापीति सार्धेन ॥ १०९-११० ॥

मन्त्र116-सिद्धैश् च विबुधैर् मुनि-मुख्यैस् तथाऽमलैः ।
शान्तये देश-जानां त्व् अप्य् आत्मनश्117 चापि कीर्तये118 ॥ १११ ॥

मन्त्र-आकृतिमयं ध्यात्वा पाषाणं वसुधा-तले ।
पावनं वा ततं वृक्षं ज्ञात्वा वा देवताश्रयम् ॥ ११२ ॥

कृत्वा तच्-शक्ति-संरुद्धं विसृज्य च तद्-आश्रितम्119
विद्धि सर्वेश्वरस्यैवं स्थितं निलय-लक्षणम् ॥ ११३ ॥

स्व-मन्त्र-सन्निधिं तत्र कृत्वा तद्-विग्रह-अन्वितम् ।
पूजितं पत्र-पुष्पाद्यैस् तत् सिद्धायतनं स्मृतम् ॥ ११४ ॥

सिद्धायतन-lलक्षणम् आह — मन्त्र-सिद्धैर् इति प्रक्रम्य तत्-सिद्धायतनं स्मृतम् इत्य् अन्तम् । विसृज्य च तद्-आश्रितम् इत्य् अत्र विसर्जन-प्रकारश् चतुर्विशे120 परिच्छेदे —

इहाश्रितात्मने तुभ्यं नमः सर्वेश्वराय च ।
क्षमस्वावतरान्यत्र संतिष्ठा121त्र चिदात्मना ॥ (२४/८५)
इति वक्ष्यमाणो ज्ञेयः । अत्र —
स्वयम्-व्यक्तं तथा सैद्धं122 विबुधैश् च प्रतिष्ठितम् ॥
मुनि-मुख्यैस् तु गन्धर्वैर् यक्ष-विद्याधरैर् अपि ।
रक्षोभिर् असुरैर् मुख्यैः स्थापितं मन्त्र-विग्रहम् ॥…
स्थापितं मनुजेन्द्रैस् तु ह्य् अनुवेदादि-कोविदैः ॥
(पा. सं. १०/३१७-३१८,३२१)
इति पारमेश्वरोक्ताद्य्-अष्ट-विध-भेदानाम् अपि सैद्धायतन एवान्तर्भावो बोद्ध्यः, सिद्ध-गन्धर्वादीनाम् अपि विबुधेष्व् अन्तर्भावात्, मुनि-मुख्यैस् तथाऽमलैर् इत्य् अत्रामल-शब्देन अन्येषाम् अपि सूचितत्वाच् च ॥ १११-११४ ॥

फल-आप्तये123 तु विप्राद्यैः स्व-कुलोद्धा124रणाय च ।
स्थापितं भगवद्-बिम्बं ज्ञेयम् आयतनं हि तत् ॥ ११५ ॥

मानुषायतनम् आह — फल-आप्तय इति ॥ ११५ ॥

क्रियाङ्ग-भागं125 यातस्य126 सर्वगस्य127 च वै विभोः ।
विद्धि सर्वेश्वरस्यैवं स्थितं नियत128-लक्षणम्129 ॥ ११६ ॥

उक्तम् अर्थं निगमयति — क्रियेति ॥ ११६ ॥

प्रासाद-द्वार-देशाच् च यत्र शङ्ख-ध्वनि-क्षयः130
पूर्वादि131 सर्व-दिक्132 तावत् क्षेत्रं भवति वैष्णवम् ॥ ११७ ॥

मानुष-भगवन्-मन्दिरस्य परितो वैष्णव-क्षेत्र-प्रमाणम् आह — प्रासादेति । विमान-द्वार-समीपे कृतः शङ्ख-नादो यावद् दूरं श्रूयते, तावद्-अन्तं परितो वैष्णव-क्षेत्रम् इति भावः ॥ ११७ ॥

सिद्धावतारिताद् देवात् तद् एतद् द्विगुणं स्मृतम् ।
त्रिगुणं च स्वयम्-व्यक्ताद् देहान्ते भावितात्मनाम् ॥ ११८ ॥

फलं सालोक्यता-पूर्वं परिज्ञेयं क्रमाद् यतः ।
सैद्ध-स्थाने तद्-द्विगुणं स्वयम्-व्यक्त-स्थाने तत्-त्रिगुणं च वैष्णव-क्षेत्र-मानम् आह — सिद्धावतारिताद् इति त्रिभिः पादैः । वैष्णव-क्षेत्रस्य स्वयम्-व्यक्तत्वादि-भेदेन सालोक्यादि-फल-प्रदत्वम् आह — देहान्त इति त्रिभिः पादैः । यतो वैष्णव-क्षेत्राद् इत्यर्थः । सालोक्यता-पूर्वम् इत्य् अत्र पूर्व-पदेन सामीप्य-सारूप्य-सायुज्यानि गृह्यन्ते । क्रमाद् मानुषादि-क्रमेण इत्यर्थः ।
ननु देवतान्तर-प्राप्तौ हि सालोक्यादि-भेदावाप्तिः, भगवत्-प्राप्तौ तु “परमं साम्यम् उपैति” (मुण्ड. ३/१/३), “मम साधर्म्यम् आगताः” (भ. गी. १४/१), “भोग-मात्र-साम्य-लिङ्गाच् च” (ब्रह्म. ४/४/११) इति श्रुति-स्मृति-सूत्रैः सालोक्यादि-चतुष्टयम् अप्य् एकैकस्यैव संभवतीति प्रतिपादितम् । अत्रोक्तं सालोक्या133दि-एकैक-फल-भेद-मात्रावाप्ति-कथनं कथं तद्-अविरुद्धम् इति चेत्, सत्यम् । इयम् आशङ्का निगमान्त-देशिकैर् अपि सच्चरित्र-रक्षायां परिहृता । तथा हि — “भगवत्-प्राप्ताव् अपि विष्णु-लोकादिषु द्वार134-पालादिष्व् इव तथा-विध-भेदोऽस्तीति तद्-अपेक्षिणां135 प्राप्य-भेद-द्योतनाय पृथङ्-निर्देशः । यथाहुः —
लोकेषु विष्णोर् निवसन्ति केचित् समीपम् इच्छन्ति च केचिद् अन्ये ।
अन्ये तु रूपं सदृशं भजन्ते सायुज्यम् अन्ये स तु मोक्ष उक्तः ॥ इति” (पृ. ३१)
यद् वा क्रमाद् इत्य् अत्र सालोक्य-सामीप्यादि-क्रमेण इत्य् अर्थ-वर्णने नास्त्य् एतद्-आशङ्काया एवावकाशः, सर्वस्यापि क्षेत्रस्य सालोक्यादि-फल-चतुष्टय-प्रदत्व-सम्भवात् ॥ ११८-११९ ॥

दुष्टेन्द्रिय-वशाच् चित्तं नृणां यत् कल्मषैर् वृतम्136 ॥ ११९ ॥

तद् अन्त-काले संशुद्धिं याति नारायणालये ।
व्रतान्य् एतानि यः कुर्याद् अभिसन्धाय चेतसा ॥ १२० ॥

अभीष्टम् अतितीर्वेण तद् आप्नोत्य् अचिरात् तु सः ।
वैष्णव-क्षेत्रस्य मनः-परिशुद्ध्यावहत्वं चाह — दुष्टेति त्रिभिः पादैः । यत इत्य् अस्याप्य् अनुषङ्गः कार्यः । भगवन्-मन्दिरे व्रतानुष्ठानस्य शीघ्र-फल-प्रदत्वम् आह — नारायणालय इति ॥ ११c-१२१ ॥

श्रद्दधानैर् अतस् तस्माद् दृष्टादृष्ट-फल-आप्तये ॥ १२१ ॥

व्रतान्य्137 एतानि कर्तव्यान् य् अभिसन्धाय चेतसा ॥ १२२ ॥

नावसादस् तु कर्तव्यो138 व्रत-भङ्गात् कदाचन ॥ १२२ ॥

सङ्कल्पाद् एव भगवांस् तत्त्वतो भावितात्मनाम् ।
व्रतान्तम् अखिलं कालं सेचयत्य् अमृतेन तु ॥ १३० ॥

आरब्धे व्रते मध्ये येन केनापि139 हेतुना विघ्नितेऽपि ततो न भेक्तव्यम् । यतो व्रतं करिष्यामीति संकल्प-मात्राद् एव आरभ्य व्रत-समाप्ति-पर्यन्तं यावद् अनुष्ठानं संभवति, तावतैव फल-सिद्धिर् भवतीत्य् आह — नावसाद इति सार्धेन । अवसादो न कार्यः, अधैर्यं नाधिगन्तव्यम् इत्यर्थः । अयम् एवार्थो वङ्गि-वंशेश्वरैः प्रतिपादितः सच्चरित्र-रक्षायाम् उदाहृतः —
एवम्140 एक-दिनं वाथ द्वि-दिनं त्रि-दिनं तु वा ॥
मासं संवत्सरं वापि यावज्जीवितम् एव वा ।
वर्तेत भक्त्या परया वैष्णवः सुचिरं सुखी141
प्रारब्धे मध्यतो142 विघ्नाद् विच्छिन्नेऽप्य् अत्र कर्मणि ।
नानर्थो न च नैष्फल्यं न कृतांशस्य संक्षयः ॥
प्रारब्धेष्व् असमाप्तेषु विच्छिन्नेष्व् अन्य-कर्मसु ।
भवत्य् एवैतद् अखिलं वैदिकेष्व् इतरेष्व् अपि ॥
कृतः स्वल्पांशकोऽप्य् अस्य स्थित्वा143 सुचिरम् अक्षयः ।
त्रायते144145 स्व-कर्तारं स्व-शक्त्या भव-भीतितः ॥ इति ॥
नन्व् इदं भगवद्-आराधन-विषयम्, नहि व्रतानुष्ठान-विषयम् इति चेन् न, अस्य व्रतस्यापि भगवद्-आराधन-रूपत्वात्, भगवद्-आराधनस्यापि शात-वार्षिक-व्रत-रूपत्वात् । अत एव वङ्गि-वंशेश्वरैर् नित्य-आराधन-प्रकरणेऽपि —
त्वद्-आराधन-कामोऽयं146 व्रतं चरितुम् इच्छति ।
सङ्कल्प-सिद्ध्यै भगवन् पूरयाऽस्य मनोरथान्147 ॥ (श्लो. ३९)
इति व्रत-विधाने वक्ष्यमाण (८/७-८) श्लोकस्यैव संगृहीतत्वाद् उभयोर् अप्य् अविशेषो बोध्यः ॥ १२२-१२३ ॥

ज्ञात्वैवं बद्ध-लक्ष्येण भवितव्यं सदैव हि ।
प्राप्तये सर्व-कामानां संसार-भय-भीरुणा ॥ १२४ ॥

इमम् अर्थं ज्ञात्वा निखि(लं?ल)पुरुषार्थ-प्राप्त्यर्थं भगवति दृढ-चित्तेन भवितव्यम् इत्याह — ज्ञात्वेति ॥ १२४ ॥

इति श्री-पाञ्चरात्रे श्री-सात्त्वत-संहितायां व्रत-विधिर् नाम सप्तमः परिच्छेदः ॥

इति श्री-मौञ्ज्यायन-कुल-तिलकस्य यदु-गिरीश-चरण-कमलार्चकस्य योगानन्द-भट्टाचार्यस्य तनयेन अल-शिङ्ग-भट्टेन विरचिते सात्वत-तन्त्र-भाष्ये सप्तमः परिच्छेदः ॥


विस्तारः (द्रष्टुं नोद्यम्)

सप्तमः परिच्छेदः॥
नारद[1] उवाच॥

प्रसन्नेनाथ विभुना यदुक्तो लाङ्गली पुनः ।
निश्श्रेयस्सकरं कर्म तदाकर्णयत[2] द्विजाः ॥ 1 ॥
अथ सप्तमो व्याख्यास्यते। नारदो मुनीन् प्रति वासुदेवेन संकर्षणायोपदिष्टं व्रताख्यं[3] कर्म शृणुध्वमित्याह- प्रसन्नेनेति ॥ 1 ॥
[1 नारद इत्येव उ. विहाय सर्वत्र पाठः।]
[2 य साम्प्रतम्- बक. बख, यतः श्रृणु- उ.।]
[3 वृत्त्याख्यं- अ.।]

श्रीभगवानुवाच
श्रृणु ब्रह्ममयं पुण्यमपुण्यचयदाहकृत् ।
तत्त्वतः प्रतिपन्नानामचिरादेव सिद्धिदम् ॥ 2 ॥
भगवान् संकर्षणं प्रत्याह- शृण्विति। पुण्यं पुण्यावहम्। अपुण्यचयदाहकृत् पापविध्वंसकम्। कर्मेत्यनुषङ्गः ॥ 2 ॥

परं ब्रह्म परं धाम चातुरात्मकमव्ययम् ।
जाग्रत्संज्ञे स्वयं यत्तु पदे व्यक्तचतुर्भुजम् ॥ 3 ॥

नूनं कर्मात्मतत्त्वानां भवदुःखप्रशान्तये ।
भावमाक्रम्य रूपेण तेन मोक्षप्रदेन च ॥ 4 ॥

ततस्त्वप्यययोगेन स्वस्वमूर्तिचतुष्टयम् ।
नीत्वा परिणतिं योगादात्मन्यास्ते च पूर्ववत् ॥ 5 ॥

अनुग्रहार्थं [1]भविनां नानाकृत्या तु वै पुनः ।
देहकान्तिमनुज्झित्य दिक्क्रमेण तु वै सह ॥ 6 ॥

पौरुषेण तु रूपेण प्रत्येकेन त्रिधा त्रिधा ।
वासुदेवादिकेनैव व्यक्त[2]चक्रादिना युतम् ॥ 7 ॥

उत्कृष्टा[3]दिगुणाढ्यानामा सृष्टेर्नान्ययाजिनाम् ।
वर्णानां जनकत्वेन व्यक्तिमभ्येति शाश्वतीम् ॥ 8 ॥
पूर्वोक्तं परात्परं नित्योदितव्यूहाख्यं वासुदेवादिचतुष्टयमेव पूर्वोक्तजाग्रद्व्यूहरूपेणाविर्भूतम्, तज्जीवात्मनां संसारखेदनिवृत्त्यर्थं तेनैव रूपेण च व्यक्तीभूय जाग्रत्पदे विदिक्ष्वप्ययक्रमेणावतीर्णं पुरुषादिमूर्तिचतुष्टयं स्वात्मन्युपसंहृत्य पुनः संसारिणामनुग्रहार्थं प्रत्येकं त्रिधा त्रिधा वासुदेवः केशवादित्रिकरूपेण, संकर्षणो गोविन्दादित्रिकरूपेण, प्रद्युम्नस्त्रिविक्रमादित्रिकरूपेण, अनिरुद्धो हृषीकेशादित्रिकरूपेण व्यक्तचक्रादिलाञ्छनैः सह भगवदेकान्तिनां पोषकत्वेन शाश्वतीमभिव्यक्तिमभ्येतीत्याह- परं ब्रह्मेति ष़ड्भिः। देहकान्तिमनुज्झित्येत्यनेन जाग्रद्व्यूहवासुदेवादिचतुष्टयस्य पूर्वं[4] यादृशो वर्णभेद उक्तः, केशवादित्रिकचतुष्टयस्यापि तादृश एवेत्युक्तं भवति ॥ 3-8 ॥
[1 भक्तानां- बख., हविनां- अ.।]
[2 तस्यायं विहितः क्रमः- उ.।]
[3 ष्ट्यादिगुणार्थ्यानामकृष्टे- मु. अटी.।]
[4 `पूर्वं’ नास्ति- अ.।]

यां समालम्ब्य संसारादचिरादेव यान्ति च ।
सुप्रबुद्धः[1] परं धाम दानधर्मव्रतादिना ॥ 9 ॥
एवं केशवादिरूपेणाभिव्यक्तेः प्रयोजनमाह- यामिति ॥ 9 ॥
[1 प्रबुद्धां- मु., प्रसिद्धं- अटी. बक., प्रबुद्ध- बख.।]

कर्तव्यमिति वै कर्म त्वैश्वर्यं[1] यः समाचरेत् ।
भक्त्या व्रतच्छलेनैव तस्यायं विहितः क्रमः ॥ 10 ॥
अतो वासुदेवादीनां केशवादीनां च प्रीणनव्रतानुष्ठानक्रमो वक्ष्यत इत्याह- कर्तव्यमितीति। ऐश्वर्यम् ईश्वरसंबन्धि, तत्प्रीणनमित्यर्थः। यद्वा ऐहलौकिकैश्वर्यादिसंपादकमित्यर्थः। उभयथा कर्मणो विशेषणम् ॥ 10 ॥
[1 श्वरं- बख. अ.।]

कार्तिकस्य दशम्यां तु मासस्य तु निशागमे ।
घृतेन पञ्चगव्येन बिम्बपादाम्भसा तु वा ॥ 11 ॥

कृत्वा स्वकोष्ठसंशुद्धिं निस्सृत्योदरगं[1] मलम् ।
स्मरन् प्रभुं समाचम्य पाणौ कृत्वा कुशोदकम् ॥ 12 ॥

तत्क्षेपपूर्वं सङ्कल्प आवर्तव्यो व्रतं प्रति ।
ॐ व्रताधिपतये देव नित्यनिर्मलमूर्तये ॥ 13 ॥
दशम्यां सायंकाले पञ्चगव्या2न्यतमप्राशनेन स्वशरीरशुद्धिमाचमनप्राणायामौ कुशोदकप्रक्षेपपूर्वकं संकल्पं चाह- कार्तिकस्येति सार्धद्वाभ्याम्। घृतेन पञ्चगव्येन बिम्बपादाम्भसा [3]तु [4]वेत्यत्रोत्तरोत्तरं श्रेष्ठं संबोध्यम्। तथा च सच्चरित्ररक्षायां तृतीयेऽधिकारे ब्रह्माण्डे-
“पृथिव्यां यानि तीर्थानि तेषु स्नातेषु[5] यत्फलम् ।
विष्णोः पादोदकं मूर्ध्नि[6] धारयेत् सर्वमाप्नुयात् ॥
मानवो यस्तु गङ्गायां स्नानं पानं समाचरेत् ।
तस्य यादृग् भवेत् पुण्यं तादृक् पादाम्बुधारणात् ॥
त्रिषु लोकेषु यत्तीर्थं प्रयागं पुष्करादिकम् ।
तत्पादयुग्मे कृष्णस्य तत्र तिष्ठति नित्यशः ॥
श्रीभागवते-
पादोदकस्य माहात्म्यं जानात्येव हि शङ्करः ।
विष्णुपादोद्भवां गङ्गां शिरसा धारयन्[7] हि सः ॥
प्रायश्चित्तमनुप्राप्तः[8] कृच्छ्रं वाप्यघमर्षणम् ।
विष्णुपादोदकं पीत्वा शुद्धिमाप्नोति तत्क्षणात् ॥” (पृ. 110)
इत्यादि। एतदलाभे पञ्चगव्यम्, तस्याप्यलाभे घृतं वा ग्राह्यमिति भावः। तथा च पाद्मे स्नपनाध्याये-
अलाभे पञ्चगव्यानां घृतमेवैकमिष्यते ।
पञ्चगव्येषु यस्य स्यादलाभस्तत्कृते घृतम् ॥ इति॥
प्रभुं स्मरन् उदरगं मलं निस्सृत्येत्यनेन प्राणायामः सूच्यते यथा[9], तथा वक्ष्यति प्राणायामं नृसिंहकल्पपरिच्छेदे-
नाभिदेशस्थितं ध्यात्वा देवं संगृह्य कल्मषम् ।
निस्सृतं वायुमार्गेण द्वादशान्तावधौ क्षिपेत् ॥
निरस्तपापमाकृष्य वातचक्रसमन्वितम् ।
नासाग्रेण तु मन्त्रेशं देहसंपूरणाय च ॥
तं ध्यायेद् हृदयस्थं च गतिरुद्धेन वायुना । (17/8-20) इति॥ 11-13 ॥
[1 निर्हृत्येति सार्वत्रिकः पाठः, टीकानुसारी पाठो मूले स्थापितः।]
[2 गव्यप्राश- म.।]
[3 कृत्वे- अ.।]
[4 त्रोत्तरत्र- अ.।]
[5 स्नानेषु- अ. मु.।]
[6 मूर्ध्ना- मु. म.।]
[7 यद्धि- मु.।]
[8 प्राप्तं- मु.।]
[9 यतस्तथा - म.।]

ॐ व्रताधिपतये देव नित्यनिर्मलमूर्तये ॥ 13

वत्सरं परिपीडैस्तु[1] त्वामहं तोषयाम्यजम् ।
प्रयतो दर्भशय्यायां क्ष्मातले रजनीं नयेत् ॥ 14 ॥
संकल्पमन्त्रमाह- ॐ व्रताधिपतय इति। परिपीडैः, उपवासैरित्यर्थः ॥ 13-14 ॥
[1 परिपिण्डैः- मु., परपीडैः-उ. ।]

प्रयतो दर्भशय्यायां क्ष्मातले रजनीं नयेत् ॥ 14

एकादश्यां प्रभातेऽथ स्नात्वा देवमधोक्षजम् ।
ध्यात्वाऽभ्यर्च्य यथापूर्वं नानानामान्तरैः शुभैः ॥ 15 ॥
एवं संकल्पानन्तरं तस्यां रात्रौ केवलभूतले कुशोपरि शयनमाह- प्रयत इत्यर्धेन। एकादशीप्रभातकृत्यमाह- एकादश्यामिति। नानानामान्तरैः सहस्रनामादिभिरित्यर्थः। स्तु[1]त्वेति शेषः ॥ 14-15 ॥
[1 स्तुत्ये- अ.।]

कराभ्यां लम्बमानाभ्यां संस्थितौ दक्षिणादितः ।
पद्मशङ्खौ सुशोभाढ्यौ यथा तदवधारय ॥ 16 ॥

तर्जनीमध्यमाभ्यां तु नम्राभ्यां[1] मध्यतः[2] स्थितम् ।
निषण्णं तलपर्यन्ते[3] शङ्खमूर्ध्वमुखं शुभम् ॥ 17 ॥

सनालं कमलं तद्वत् सितं विकसितं तु वै ।
मणिबन्धादतिक्रान्तं किञ्चिच्छेषलतागणम् ॥ 18 ॥

लम्बमानमधोवक्त्रं साङ्गुष्ठं संस्मरेद् विभोः ।
वासु[4]देवस्य लाञ्छनध्यानप्रकारमाह- कराभ्यामिति सार्धैस्त्रिभिः। लम्बमानदक्षिणहस्ते तर्जन्यङ्गुष्ठाभ्यां संगृहीतं तलप्रदेशेऽधो[5]मुखं स्थितं शङ्खवत् सितं विकसितं मणिबन्धादतिक्रान्तं[6] किञ्चिच्छेषलतागणं सनालं कमलं तथा वामहस्ते नम्राभ्यां[7] तर्जनीमध्यमाभ्यां मध्यतो गृहीतं तलप्रदेशे ऊर्ध्वमुखं स्थितं शङ्खं च ध्यायेदित्यर्थः ।
ननु जाग्रद्व्यूहवासुदेवस्य पूर्वं चतुर्भुजत्वमुक्तम्, इदानीं लाञ्छनद्वयमात्रस्योक्त्या द्विभुजत्वमेव ज्ञायत इगि चेत्, किं तावता भवतो विरोधः, उभयथापि लक्षणं स्यात् ॥ 16-19 ॥
[1 नेत्राभ्यां- बक. ।]
[2 मध्यमस्थितिम्- मु.।]
[3 र्यङ्के- उ.।]
[4 परवासु- मु.।]
[5 मुखस्थितं- मु.।]
[6 क्रान्तं- मु.।]
[7 द्वाभ्यां- मु.।]

होमान्तमखिलं कृत्वा ध्यायेदनिमिषस्ततः ॥ 19 ॥

दिनमध्येऽर्चनं कुर्याद् दिनान्ते स्नानवर्जितम् ।
महा[1]र्थैर्विविधैः स्तोत्रैर्गीतवाद्यसमन्वितैः ॥ 20 ॥

निशां नीत्वा प्रभातेऽथ स्नानपूर्वमजं यजेत् ।
चतुरात्मानमव्यक्तमनुयागान्त[2]कर्मणा ॥ 21 ॥

उदितेऽथ निशानाथे चास्तं याते दिवाकरे ।
क्षान्त्यर्थमर्चनं कुर्याद् दण्डवत् प्रणमेत् क्षितौ ॥ 22 ॥

चतुर्धा वै चतुर्दिक्षु ततः कुर्यात् प्रदक्षिणम् ।
एकैकस्याग्र उच्चार्य चतुर्धा तु पदं पदम् ॥ 23 ॥

तद्वाचकां[3]स्तोत्र[4]मन्त्रांस्ततः कृत्वा स्वभावगम् ।
तद्व्यक्तिव्यञ्जकेनैव सह वाक्यगणेन तु ॥ 24 ॥
ततो होमान्तं सर्वं कृत्वा पुनस्तमेव ध्यायन् प्राप्ते मध्याह्ने यथाविध्यर्चनं कृत्वा सायन्तनार्चनं तु स्नपनवर्जितं कृत्वा गम्भीरार्थगर्भितविविधस्तोत्रगीतवाद्यादिभिः सह तां निशां जागरेण नीत्वा [5]द्वादश्यां प्रभाते स्नानपूर्वकं यथाविधि चतुरात्मानं प्रभुं समभ्यर्च्य पारणान्तं कृत्वा सायन्तनार्चनं च कृत्वाऽपराधक्षमापणं कुर्वन् चतुर्दिक्षु चतुर्वारं दण्डवत् प्रणम्य चतुर्वारं प्रदक्षिणं कुर्वन् एकैकस्याग्रतः स्थित्वा तत्तद्वाचकस्तोत्रमन्त्रवाक्यादीनि पठेदिति प्रयोगपद्धतिमाह- होमान्तमित्यादिभिः ॥ 19-24 ॥
[1 महाक्षैः - मु. बक. बख.।]
[2 यागं तु कर्मणः- मु. अटी.।]
[3 कात्- मु. अटी.।]
[4 मन्त्रात्- मु. अटी.।]
[5 तादृश्यां- अ.।]

जितं ते पुण्डरीकाक्ष वासुदेवामितद्युते ।
रागदोषादिनिर्मुक्तो समस्तगुणमूर्तिमान्[1] ॥ 25 ॥

नाथ ज्ञानबलोत्कृष्ट नमस्ते विश्वभावन ।
सङ्कर्षण विशालाक्ष सर्वज्ञ परमेश्वर ॥ 26 ॥

देव[2] ऐश्वर्यवीर्यात्मन् प्रद्युम्न जगतांपते ।
नमस्तेऽस्तु हृषीकेश सर्वेश्वर जगन्मय ॥ 27 ॥

स्थित्युत्पत्तिलयत्राणहेतवे शक्तितेजसे ।
जयानिरुद्ध भगवन् महापुरुष पूर्वज ॥ 28 ॥
वासुदेवादीनां जितन्ता[3]दिस्तोत्रमन्त्रचतुष्टयं स्वयमेवाह- जितं त इति चतुर्भिः। अत्र प्रथमश्लोके प्रथमं पादम्, द्वितीये द्वितीयम्, तृतीये तृतीयम्, चतुर्थे चतुर्थं च संगृह्यैकश्लोकरूपेण लक्ष्मीतन्त्र(24/69)पाद्मादिषु प्रतिपादितम्। तस्याष्टाक्षरादिव्यापकत्वं चोक्तं लक्ष्मीतन्त्रे-
पदमन्त्रास्त्रयोऽस्य स्युर्विधाने पाञ्चरात्रिके ॥
विष्णवे नम इत्येवं नमो नारायणाय च ।
नमो भगवते पूर्वं वासुदेवाय चेत्यपि ॥
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥
पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरन्दर ।
ओङ्कारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ॥….
केवलस्तारकश्चैव चत्वारश्च तदादिकाः ।
पञ्चैते व्यापका मन्त्राः [4]पञ्चरात्रे प्रकीर्तिताः ॥ इति॥
(24/67-70,74)
इतोऽप्यधिकं पद्मादिषु प्रतिपादितं स्तोत्रश्लोकजातमेतद् जितन्ताख्यमन्त्रस्यार्थविवरणरूपं बोध्यम्। जितन्ताख्यमन्त्रव्याख्यानमहिर्बुध्न्यसंहिताया[5]मुक्तं द्रष्टव्यम् ॥ 25-28 ॥
[1 मूर्तये- बक. बख. अ. उ.।]
[2 पङ्क्तिद्वयविपर्ययः- अ. उ.।]
[3 न्तास्तोत्र-मु.।]
[4 पाञ्च- मु.।]
[5 जितन्ताख्यमन्त्रार्थनिरूपणात्मके त्रिपञ्चाशेऽध्याये ।]

विधिनानेन वै कार्यं पक्षयोरुभयोरपि ।
अ[1]ब्दान्तमर्चनं विष्णोर्निष्कामेनाग्रजन्मना ॥ 29 ॥
एवं प्रतिमासं पक्षद्वयेऽपि दशम्यां पञ्चगव्यप्राशननियमनपूर्वकमुपवासं जागरणं द्वादश्यां व्रताराधनपूर्वकं पारणं सायमपराधक्षमापणार्थमर्चनादिकं च कुर्वन् संवत्सरान्तं ब्राह्मणो निष्कामं यथा तथा व्रतं कुर्यादित्याह- विधिनेति ॥ 29 ॥
[1 अब्जा- मु.।]

एवं सङ्कर्षणाद्यं तु वासुदेवान्तमर्चनम् ।
विहितं क्षत्रजातेर्वै कर्तव्यत्वेन सर्वदा ॥ 30 ॥

प्रद्युम्नाद्यं तु वैश्यस्य मुसल्यन्त[1]मुदाहृतम् ।
सच्छू[2]द्रस्यानिरुद्धाद्यं प्रद्युम्यान्तं सदैव हि ॥ 31 ॥
क्षत्रियस्य विशेषमाह- एवमिति। वैश्यस्य विशेषमाह- प्रद्युम्नाद्यमित्यर्धेन। मुसल्यन्तं संकर्षणान्तमित्यर्थः। शूद्रस्य विशेषमाह- सच्छूद्रस्येत्यर्धेन ॥ 30-31 ॥
[1 मुसला- मु. अटी.।]
[2 शूद्रस्य चानि- बख. अ. उ.।]

मूर्तिनां ध्यानकाले तु विशेषमवधारय ।
सङ्कर्षणेऽब्जवद् रम्यां दक्षिणे तु करे गदाम् ॥ 32 ॥

गृहीतां चिन्तयेन्मध्यादधोवक्त्रेण पाणिना ।
अङ्गुलिद्वितयेनैव त्वङ्गुष्ठाद्येन लीलया ॥ 33 ॥

प्राग्वद् वामकरे पद्मं प्रद्युम्नस्य निबोधतु[1] ।
दक्षिणे हेतिराट् तद्वदङ्गुलिद्वितयोपरि ॥ 34 ॥

पूर्ववत् कमलं[2] वामे चतुर्थस्याधुनोच्यते ।
आदिवद् दक्षिणे पद्मं गदा वामे यथोदिता ॥ 35 ॥

इति प्रथ[3]ममूर्तीनां ध्यानमुक्तं तु सार्चनम् ।
नित्यनैमित्तिकार्थं तु निःश्रेयसपदाप्तये ॥ 36 ॥
पूर्वं वासुदेवलाञ्छनध्यानमात्रस्योक्तत्वादिदानीं संकर्षणादीनां लाञ्छनभेदध्यानमाह- मूर्तिनामित्यारभ्य निःश्रेयसपदाप्तय इत्यन्तम्। अब्जवदित्यनेन पूर्वं वासुदेवस्य दक्षिणकरेऽब्जस्य यादृशः संनिवेशो यादृशो धारणप्रकारश्चोक्तः, इदानीं संकर्षणस्य दक्षिणे[4] करे गदाया अपि तादृश इति बोध्यते, अधोवक्त्रेण लम्बमानेनेत्यर्थः। अङ्गुष्ठाद्येन अङ्गुलीद्वितयेन, तर्जन्यङ्गुष्ठाभ्यामित्यर्थः। प्राग्वदित्यनेन वासुदेवकमलदधोमुखत्वादिकमुच्यते ॥ 32-36 ॥
[1 ध च- मु., ध्य च- अटी., धय- बख.।]
[2 कमले- मु. अटी. बक.।]
[3 प्रशस्त- अ., प्रशम- उ.।]
[4 दक्षिणकरे- मु.।]

भक्तिपूर्वात् तु कैवल्याद् [1]यत्नेनाभ्यर्थयन्ति ये ।
वर्णा विप्रादयस्तेषां व्रताचरणमुच्यते ॥ 37 ॥

श्रावणस्य दशम्यां तु सर्वं पूर्वोक्तमाचरेत् ।
कृत्वा[2] कुशोदकाभ्यङ्गं[3] स्मरन्[4] देवमिदं[5] पठेत् ॥ 38 ॥

सर्वभूत[6]मयाऽनादे यच्छ मे[7] परमं पदम् ।
छिन्धि सांसारिकान् बन्धानज्ञानतिमिरं हर ॥ 39 ॥

ततो ध्यात्वा यजन् देवं चतुर्मूर्तिं तु पूर्ववत् ।
गौणमुख्यैर्महच्छब्दैर्जितन्ताद्यैः पदैस्ततः ॥ 40 ॥

व्यस्तैस्ततः समस्तैश्चाप्येकैकं[8] पुनरेव हि ।
वाच्यभेदोक्तियोगेन समस्तेनान्यथात्मना[9] ॥ 41 ॥

इत्यर्चनं क्रमात् कुर्यान्मूर्तेर्मूर्तेर्महामते ।
प्रणिपातादिकं सर्वमावर्तव्यं[10] यथास्थितम् ॥ 42 ॥

तुर्यान्तं[11] मौद्गलान्तैस्तु[12] मोक्षैकफललम्पटैः[13] ।
विन्यासं लाञ्छनानां तु ग्रहणेनान्वितं श्रृणु ॥ 43 ॥

अस्मिन् व्रते चतुर्णां तु देवानां वस्तुसूचनम् ।
तिर्यक् स्वपक्षदेशाभ्यां [14]स्तनाख्यान्मण्डलाद् बहिः ॥ 44 ॥

दक्षिणे तु गदाद्यस्य स्पष्टमुष्टिगदा भवेत् ।
वामेन कुक्षिकुहरात् समाक्रान्तश्च शङ्खराट् ॥ 45 ॥

परि[15]धेर्बाह्मतोऽङ्गुष्ठं निषण्णं सर्वदा स्मरेत् ।
मुख्यहस्ते द्वितीयस्य ध्येयः शङ्खवरस्तथा ॥ 46 ॥

चक्रमङ्गुष्ठ[16] ऊर्ध्वस्थं[17] वामहस्ते समुष्टिके[18] ।
प्रद्युम्नस्य गदा वामे शब्दपूर्णस्तु[19] दक्षिणे ॥ 47 ॥

दक्षिणे त्वनिरुद्धस्य कमलं सूर्यवर्चसम् ।
वामतर्जनिगं चक्रं त्रिष्वङ्गुष्ठं स्मरेत् स्थितम् ॥ 48 ॥

एवं यथास्थिताद् ध्यानात् फलमाप्नोति साधकः ।

अथ [20]केवलमुमुक्षुभिरनुष्ठेयव्रते कालभेदं संकल्पश्लोकानन्तरं लाच्छनन्यासध्यानभेदं चाह- भक्तिपूर्वादित्युपक्रम्य फलमाप्नोति साधक इत्यन्तम्। तुर्यान्तम् अनिरुद्धान्तम्। मौद्गलान्तैः[21] शूद्रान्तैरित्यर्थः। दक्षिणे तु गदाद्यस्येत्यत्र आद्यस्य वासुदेवस्येत्यर्थः। तिर्यक् स्वपक्षदेशाभ्यां स्तना[22]ख्यान्मण्डलाद् बहिः पार्श्वद्वयेऽपि वक्ष[23]स्थलाद् बहिरित्यर्थः। तत्सम इति यावत्। मुख्यहस्ते दक्षिणहस्त इति यावत्। द्वितीयस्य संकर्षणस्य। तथा वासुदेवहस्तवदित्यर्थः। शब्दपूर्णः शङ्खः। त्रिषु तर्जन्यादिष्वित्यर्थः॥ 37-49 ॥
[1 वृत्ते- बक. बख., व्रते-अ. उ.।]
[2 स्मृत्वा- मु. अटी.।]
[3 दकत्यागं- अ. उ.।]
[4 स्मरेदेव- बख.।]
[5 मिमं- बख. अ. उ.।]
[6 व्रत- अ.।]
[7 ते- मु. अटी. उ.।]
[8 स्तेन एकै- बख. अ. उ.।]
[9 त्मनः - मु. अटी.।]
[10 चर्ते- बख. अ. ।]
[11 र्थ- मु. बक. बख.।]
[12 लान्नैः- मु. बक. बख.।]
[13 लक्षणैः- उ.।]
[14 ध्यानाभ्यां- अटी., स्थानाभ्यां- मु. बक. ।]
[15 परितो बा- मु. अटी. बक.।]
[16 क्र अ- मु. अटी.।]
[17 ष्ठमू- बख. उ.।]
[18 कम्- मु. अटी.।]
[19 पूर्णा- मु. अटी.।]
[20 केवलं- मु.।]
[21 लान्नैः शूद्रान्नै- अ.।]
[22 स्नानाख्या- अ.।]
[23 पक्ष- अ.।]

सक्षीरमन्नपात्रं तु विहितं मासि मासि च ॥ 49 ॥

दानार्थं व्रतपर्यन्ते हेमरत्नतिलान्वितम् ।
निष्कामव्रतिनां नित्यमन्ते[1] गोदानमेव च ॥ 50 ॥
निष्कामानां व्रते प्रतिमासं कर्तव्यदानद्रव्यं संवत्सरान्ते देयद्रव्याणि चाह- सक्षीरमिति सार्धेन ॥ 49-50 ॥
[1 त्यं त्व- मु. अटी. बक.।]

प्रतिमासं सकामानां दधिपात्रं च सोदनम् ।
फलानि हेमयुक्तानि त्वन्ते भूदानमेव च ॥ 51 ॥

तिलान्युदककुम्भं[1] च पत्रपुष्पादिनार्चनम् ।
यथाशक्ति दरिद्राणां हिरण्यं गोसमं स्मृतम् ॥ 52 ॥
तथा सकामानां देयद्रव्याण्याह- प्रतिमासमिति सार्धेन। अशक्तानां तु गोदानभूदानप्रत्याम्नायत्वेन यथाशक्ति हिरण्यदानमाह- दरिद्राणामित्यर्धेन। गोसममित्यत्र गोशब्देन भूमिरप्युच्यते ॥ 51-52 ॥
[1 नि उद- बख.।]

दानेऽर्चने तु शूद्राणां व्रतकर्मणि सर्वदा ।
असिद्धान्नं तु विहितं सिद्धं वा ब्राह्मणेच्छया ॥ 53 ॥
शूद्रैस्तु व्रतान्तेऽपक्वान्नं देयम्, सत्यां ब्राह्मणानुज्ञायां पक्वान्नं वा देयमित्याह- दान इति। “आर्याध्युषिताः शूद्राः पाकं कुर्युः” (आ. ध. 2/3य4) इति ब्राह्मणानुज्ञया शूद्राणामपि पाकाधिकारविधानात् सिद्धं वा ब्राह्मणेच्छयेत्युक्तमविरुद्धं ज्ञेयम्। एवं स्वस्ववर्णाश्रमधर्माविरुद्धमेवाराधनं कार्यमित्यर्थः ॥ 53 ॥

स्वकर्मणा यथोत्कर्षमभ्येति न तथार्चनात् ।
तस्मात् स्वेनाधिकारेण कुर्यादाराधनं सदा ॥ 54 ॥
सहेतु[1]कमाह- स्वकर्मणेति ॥ 54 ॥
[1 स्व- अ.।]

सर्वत्राधिकृतो विप्रो वासुदेवादिपूजने ।
यथा तथा न क्षत्राद्यास्तस्माच्छास्त्रोक्तमाचरेत् ॥ 55 ॥
भगवदाराधने ब्राह्मणवत् (न[1]) क्षत्रियादीनामपि [2]सर्वत्राधिकारोऽस्ति, अतो यथाधिकारमनुष्ठेयमित्याह- सर्वत्रेति ॥ 55 ॥
[1 मूलानुरोधेन `न’ पदसंयोजनमत्रावश्यकम्।]
[2 सार्वत्रिका- मु.।]

नयेन्न[1]क्ताशनैर्भक्त्या दिनान्येतानि मौद्गलः ।
व्रताद्यन्ते तु विहितं परिपीडं हि तस्य वै ॥ 56 ॥
शूद्रस्य प्रतिपक्षमेकादश्यां नक्ताशनम्, व्रताद्यन्तैकादश्योरेवोपवास इत्याह-नयेदिति ॥ 56 ॥
[1 त् त्यक्ता- अ.।]

यथाभिमतमासाद् वै समारभ्य क्रमेण तु ।
इतिकर्तव्यतासक्तैर्मोक्षकामैस्तु चाग्रजैः ॥ 57 ॥

दशम्यां चैव सङ्कल्पः कार्यो द्वादशवार्षिकः ।
प्राग्वदब्दं[1] तु सम्पूर्य दानैर्मासानुमासिकैः[2] ॥ 58 ॥

व्रतेश्वरं जगन्नाथं प्रीणयेद् वत्सरे गते ।
पुनरारम्भमासाच्च त्वग्र्यमासस्य तद्दिनात् ॥ 59 ॥

आरभ्य वत्सरं प्राग्वत् पूजयेत् प्रीणयेत् प्रभुम् ।
क्रमेणानेन सम्पाद्य द्वादशाब्दं व्रतं महत् ॥ 60 ॥

तदन्ते तु यथाशक्त्या दानैर्वस्त्रानुलेपनैः ।
द्विषट्कं ब्राह्मणानां तु यष्टव्यमधिकारिणा[3] ॥ 61 ॥
अथ ब्राह्मणस्य द्वादशवार्षिकं व्रतान्तरमाह- यथाभिमतमासादित्यारभ्य यष्टव्यमधिकारिणेत्यन्तम्। पूर्वोक्तैरित्यर्थः। पूर्वं प्रतिमासं यद्दानं विहितं तदत्र प्रतिसंवत्सरं कार्यम्। संवत्सरान्तविहितदानं त्वत्र द्वादशवर्षान्ते कार्यमित्यर्थः॥ 57-61 ॥
[1 व्रतशब्दं- बक.।]
[2 सकैः- मु. अटी.।]
[3 णाम्- अ. उ.।]

स्वमूर्त्याराधनाद्येन कर्मणा ह्येतदेव हि ।
कार्यं व्रतमिदं[1] भक्त्या ज्येष्ठाद्यं क्षत्रियेण तु ॥ 62 ॥

वैश्येनाश्वयुजादादावाचर्तव्यं[2] समासतः ।
मौद्गलेन तु माघाद्यं पालनीयं यथाक्रमम् ॥ 63 ॥

इदं व्रतोत्तमं दिव्यमपवर्गफलप्रदम् ।
विहितं सर्ववर्णानाम[3]विरुद्धं च सर्वदा ॥ 64 ॥
अस्य व्रतस्य क्षत्रियादीनामपि कालभेदेनानुष्ठानमाह- स्वमूर्तीति त्रिभिः। स्वमूर्त्याराधनाद्येन स्वस्ववर्णोक्तसंकर्षणादिक्रमेणेत्यर्थः ॥ 62-64 ॥
[1 व्रतवरं- अ. उ.।]
[2 वर्त- अटी.।]
[3 मनि- मु. अटी. बक. बख.।]

चान्द्रायणायुतसममा सृष्टेः कल्मषापहम्[1] ।
वक्ष्ये व्रतवरं चान्यत् कर्तव्यत्वेन कर्मिणाम्[2] ॥ 65 ॥

मोक्षैकफलकामानामन्येषां भावितात्मनाम् ।
मोक्षदं देहपाताद् यच्चा[3]तुरात्म्यैकयाजिनाम्[4] ॥ 66 ॥

यथाभिमतमासस्य दशम्यां पातयेज्जलम् ।
नत्वा व्रतेश्वरं प्राग्वद् वत्सरद्वितयस्य च ॥ 67 ॥

विशेषाच्छ्रावणे कुर्यात् सङ्कल्पं कार्तिकेऽपि च ।
आरम्भमासादारभ्य निष्ठाख्यं यावदेव हि ॥ 68 ॥

द्विषट्कमुपवासानामेकवृद्ध्या तु वर्धयेत् ।
होमान्तमर्चनं कृत्वा पूर्ववत् तन्मयान्[5] यजेत् ॥ 69 ॥

ततस्तु[6] परिपीडानां वत्सरं ह्रा[7]समाचरेत् ।
कार्यमासम्भमासे तु पूर्वं द्वादशरात्रिकम् ॥ 70 ॥

एकैकं लोपयेत् तावद् यावदब्दः[8] समाप्यते ।
कुर्याद् व्रतसमाप्तिं तु पूर्ववत् पूजनादिना ॥ 71 ॥

वृद्धिह्रासक्रमेणैतद् व्रतमुक्तं मया च ते ।
अनायासेन[9] वै येन प्राप्यते शाश्वतं पदम् ॥ 72 ॥
अथ संवत्सरद्वयानुष्ठेयमुपवासवृद्धिह्रासान्वितं व्रतान्तरमाह- चान्द्रायणायुतसममित्यारभ्य प्राप्यते शाश्वतं पदमित्यन्तम् ॥ 65-72 ॥
[1 कलुषा- उ.।]
[2 कर्मणाम्- मु. अटी. बक. बख.।]
[3 यं च - बक. ।]
[4 नम्- बक. बख. उ.।]
[5 मयो न्यसेत्- मु. अटी।]
[6 ततः सु- मु. अटी. बक. बख.।]
[7 ग्रास- मु. अटी. बक. बख.।]
[8 ब्दं समापयेत्- अ., ब्दं समाप्यते- उ.।]
[9 निरायासात् तु- बक. बख. अ. उ.।]

व्रतानामुत्तमं धन्यं द्वादशाख्यमतः श्रृणु ।
अकामानां सकामानामन्ते तुल्यफलं हि यत् ॥ 73 ॥

सितपक्षात् तु चैत्रस्य कार्याऽऽद्येऽहनि कल्पना ।
गतेऽर्धरात्रसमये[1] चा प्रभातात् ततोऽच्युतम् ॥ 74 ॥

उपवासं विनाऽभ्यर्च्य कार्यं वै नक्तभोजनम् ।
एकादश्यन्तमेवं[2] हि पौनःपुन्येन लाङ्गलिन् ॥ 75 ॥

कार्यमप्यययुक्त्या वै चातुरात्म्यस्य पूजनम् ।
एकादश्यां न भुञ्जीत विहितस्तत्र जागरः ॥ 76 ॥

द्वादश्यामादिदेवं तु समाराध्य यथाविधि ।
मध्याह्नसमये प्राप्ते विधिवत् तन्मयान्[3] यजेत् ॥ 77 ॥

भक्त्या शक्त्या तु चतुर एकैकं प्रत्यहं त्वपि ।
गवां ग्रासः[4] स्वसामर्थ्याल्लोपनीयो न सर्वदा ॥ 78 ॥

सह पूर्वोक्तदानैस्तु व्रतकर्मपरायणैः ।
प्राप्ते तु तद्दिने भूयः कृष्णपक्षस्य लाङ्गलिन् ॥ 79 ॥

अर्चनं केशवादीनां त्रिसन्ध्यं प्राग्वदाचरेत् ।
द्वादश्यां सोपवासस्तु [5]यजेद् दामोदरं प्रभुम् ॥ 80 ॥

दानान्तमर्चनाद्यं तु सितपक्षोक्तमाचरेत् ।
प्राभवेण क्रमेणैव चैवं[6] मूर्त्यन्तरं यजेत् ॥ 81 ॥

मूर्तिभिश्चाप्ययाख्येन संवत्सरमतन्द्रितः ।
यो योऽधिकारी भक्तो वा तस्य तुप्य[7]त्यधोक्षजः ॥ 82 ॥
अथ द्वादशाख्यव्रतमाह- व्रतानामुत्तमं धन्यमित्यारभ्य तस्य तुष्यत्यधोक्षज इत्यन्तम्। आद्येऽहनि प्रतिपदि। कल्पना संकल्पः। द्वादश्यामादिदेवं वासुदेवमित्यर्थः। एवं च चैत्रशुक्लप्रतिपदमारभ्य तद्द्वादश्यन्तं[8] पुरुषसत्याच्युतवासुदेवानामेव पुनस्तेषामेव प्रत्यहमेकैकक्रमेणार्चनं कुर्वन् कृष्णप्रतिपदमारभ्य तद्द्वादश्यन्तं तथा केशवादिमूर्तिनामर्चनं च कुर्यात्। पक्षद्वयेऽप्येकादश्यामुपवासो जागरश्च। अवशिष्टदिनेषु नक्तभोजनम्। मध्याह्नसमये ब्राह्मणभोजनम्, तदशक्तौ गोग्रासकल्पनं वा, प्रतिपक्षं पूर्वोक्तदानं च कार्यम् ॥ 73-82 ॥
[1 य आ- अ. उ.।]
[2 श्यां- बक. अ. उ.।]
[3 मयो न्यसेत्- मु. अटी.।]
[4 सस्त्व- अ.।]
[5 न्यसेत्- मु. अटी.।]
[6 एवं- बक. बख. अ. उ.।]
[7 तुष्येत् तथाक्षजः- अ. ।]
[8 `तद्’ नास्ति- अ.।]

षोडशाख्यमतो[1] वक्ष्ये व्रतं धन्यतमं हि यत् ।
पूर्ववद् रात्रिसमय आषाढस्याद्यवासरे ॥ 83 ॥

गृहीत्वा नियमं कुर्यादा प्रभातादिपूजनम् ।
त्रिसन्ध्यं वामनादीनां विधिवद् द्वादशाहकम्[2] ॥ 84 ॥

त्रयोदश्यां ततोऽभ्यर्च्य चतुर्वर्गप्रदं प्रभुम् ।
आद्यन्तमनिरुद्धादि तदाद्यमपरेऽहनि ॥ 85 ॥

तृतीयं पञ्चदश्यां तु [3]संशान्तव्यक्तलक्षणम् ।
एवं मूर्त्यन्तरैर्युक्तं चातुरात्म्यं त्रिधा स्थितम् ॥ 86 ॥

आराध्य परया भक्त्या चैका[4]दश्यामनश्नतः ।
पूर्णं[5] तदर्चनं कृत्वा पञ्चदश्यां यथाविधि ॥ 87 ॥

चत्वारस्तन्मयाः पूज्याः श्रद्धापूतेन चेतसा ।
आत्मयागं ततः कुर्याद् दिनान्तेऽर्चनपूर्वकम् ॥ 88 ॥

एवमाश्वयुजे भूयः पर्वादौ प्रारभेत् क्रियाम् ।
पद्मनाभादिमूर्तानामर्चनं विहितं क्रमात् ॥ 89 ॥

एका[6]दश्यामनश्नंस्तु सर्वं निर्वर्त्य पूर्ववत् ।
सम्प्राप्ते च ततः पौषे यजेन्नारायणादिकम् ॥ 90 ॥

द्वादश्यां तद् द्विषट्कं च तथा व्यूहत्रयं त्वपि ।
चैत्रे तद्दिवसादादौ विष्ण्वादीनां समर्चनम् ॥ 91 ॥

विहितं सद्[7]व्रतज्ञानां सह व्यूहत्रयेण तु ।
विशेषपूजनं कुर्यात् सम्पन्ने वत्सरे सति ॥ 92 ॥

विभोरग्रे द्विजेन्द्राणां षोडशानां स्वशक्तितः ।

अथ व्रतान्तरमाह- षोडशाख्यमिति प्रक्रम्य षोडशानां स्वशक्तित इत्यन्तम्। अत्र केशवादयो द्वादश वासुदेवादयश्चत्वारः, आहत्य षोडशमूर्तयः। एतेषां षोडशानामुक्तक्रमेणार्चनादिकं षोडशाख्यव्रतमित्युच्यते। यद्वा आषाढादिमासचतुष्टये प्रतिमासं वासुदेवादीनां चतुर्णामर्चनात् षोडशाख्यमिति ज्ञेयम्। आषाढे वामनादीनाम्, आश्वयुजे पद्मनाभादीनाम्, पुष्ये नारायणादीनाम्, चैत्रे विष्ण्वादीनां चार्चनं[8] तत्तन्मासे तत्तन्मासाधिपतिमारभ्यार्चनीयत्वादुक्तमिति ज्ञेयम्। केशवादीनां मार्गशीर्षाद्याधिपत्यं प्रसिद्धं खलु। आद्यन्तमनिरुद्धादि पुरुषादिवासुदेवान्तमित्यर्थः। अपरेऽहनि चतुर्दश्यां तदाद्यं वासुदेवाद्यं स्वप्नव्यूहमिति भावः। पञ्चदश्यां पौर्णमास्यां संशान्तव्यक्तलक्षणम् अभिव्यक्तानभिव्यक्तमित्यर्थः। तृतीयं सुषुप्तिव्यूहमित्यर्थः। चातुरात्म्यं त्रिधा स्थितं जाग्रत्स्वप्नसुषुप्तिभेदेन त्रिविधमित्यर्थः॥ 83-93 ॥
[1 मधो-बक.।]
[2 ह्निकम्- अ.।]
[3 शान्तिव्यक्ति- मु. अटी. बक.।]
[4 एका-बक.। बख. अ. उ.।]
[5 पूर्णान्तम- अ.उ.।]
[6 निरश्नन्नेकादश्यां तु- बक. बख. अ. उ.।]
[7 सद्व्रतं- मु., सद्वृत्त-बक.।]
[8 `चार्चनं’ नास्ति- अ.।]

दत्तशिष्टमतृप्तं च दैवीयान्नेन भावितम् ॥ 93 ॥

हविश्शेषेण संयुक्तं व्रतिनां भोजनं हितम्[1] ।
एवं सितेऽसिते वापि ह्युभ[2]योरपि पक्षयोः ॥ 94 ॥
अथैवं व्रतनिष्ठानां भोज्यद्रव्यमाह-दत्तशिष्टमिति। अयं श्लोकः सच्चरित्ररक्षायां व्याख्यातः। तथाहि- “दत्तशिष्टं [3]कारिसंप्रदानावशिष्टम्। [4]दैवीयान्नेन पाकपात्रावशिष्टेन हविःशेषेण चरुशेषेण व्रतिनां भगवद्रूप[5]निष्ठानां सर्वेषां हितम् अनिष्टनिवर्तकत्वादिष्टप्रापकत्वाच्चावश्यं [6]भोक्तव्यमित्यर्थः। अत्र भोजनमिति कर्मणि ल्युडन्तम्” (पृ. 94-95) इति ॥ 93-94 ॥
[1 स्थितम्- उ.।]
[2 उभयो- उ.।]
[3 कार्य- मु.।]
[4 देवीया-मु., देवान्नेन- मु.।]
[5 द्व्रत-मु., च्छास्त्र-मु.।]
[6 श्यभो-भ. मु.।]

यथा[1]भिमतमासाद् वै समारभ्य यजेत् क्रमात् ।
एकादश[2] च मासेशान् पर्वादौ तु सकृत् सकृत् ॥ 95 ॥

द्वादश्यां सोपवासस्तु तन्मासेशमथार्चयेत् ।
तत्कारणादिभेदोत्थं चातुरात्म्येन वै सह ॥ 96 ॥

पुण्यं व्रतमिदं विद्धि वृद्धस्त्रीबालसिद्धिकृत् ।
नित्यं सद्वैष्णवैः कार्यमविरुद्धमखेददम् ॥ 97 ॥

प्राक्प्रणीतैर्महाभोगैः शक्त्या दानसमन्वितैः ।
गृहस्थैर्ब्रह्मचर्यस्थैर्वानप्रस्थैस्तु[3] भिक्षुकैः ॥ 98 ॥

येन केन प्रकारेण वित्तं[4] सम्भृत्य वै पुरा ।
नित्यं धर्माविरुद्धेन भैक्ष[5]पूर्वेण सर्वदा ॥ 99 ॥

पुनर्व्रतान्तरमाह- एवं सितेऽसिते वापीति प्रक्रम्य भैक्षपूर्वेण सर्वदेत्यन्तम्। अस्यार्थः- यथाभिमतमासे शुक्लपक्षे कृष्णपक्षे वोभयोर्वा प्रतिपदमारभ्यैकादश्यन्तं तन्मासेशस्योत्तरादिनैकादशमासेशान् प्रत्यहमेकैकक्रमेणाभ्यर्च्यैकादश्यां कृतोपवा(सम्? सो) द्वादश्यां तन्मासेशम्, तत्कारणभूतो वासुदेवः संकर्षणः प्रद्युम्नोऽनिरुद्धो वा यस्तदादिचातुरात्म्यं च संपूज्य दानादिकं कुर्यात्। एवं चेदं सुस्पष्टं बोध्यम्- चैत्रमासे यदि व्रतमनुष्ठीयते तन्मासेशो विष्णुः, तदुत्तरं मधुसूदनादयो वैशाखाद्येकादशमासेशाः प्रतिपदादिष्वर्चनीयाः। तन्मासेशो विष्णुः, तत्कारणभूतसंकर्षणादिवासुदेवान्ताश्चत्वारश्च द्वादश्यामर्चनीयाः। तन्मासेशो विष्णुः, तत्कारणभूतसंकर्षणादिवासुदेवान्ताश्चत्वारश्च द्वादश्यामर्चनीयाः। एवमन्यत्रापि ज्ञेयम्। केशवादीनां त्रिकं त्रिकं प्रति वासुदेवादीनामेकैकस्य कारणत्वमुत्तरत्र (8/55-56)सुस्पष्टं वक्ष्यति॥ 94-99 ॥
[1 तथा- बक.।]
[2 दशे-मु. अटी. बक. बख. उ.।]
[3 वनवासैः- बक. बख. उ.।]
[4 वृत्तं - अटी.।]
[5 भैक्ष्य- उ.।]

कुटुम्बभरणाद्यर्थं लाभे भैक्षादिके तु वै ।
अवज्ञा परमा यत्र बुद्धिमांस्तत्र संवसेत्[1] ॥ 100 ॥
अथ प्रसक्तं भैक्षादिद्रव्यविचारं विवृण्वन् तल्लाभे प्रतिग्रहीतुर्यत्र बहुशोऽवमानं जायते, तत्रैव बुद्धिमता प्रतिग्रहीत्रा वस्तव्यमित्याह- कुटुम्बेति। भैक्षं याचितम्। “भिक्षा याच्ञवार्थनार्दना” (3/2/6)इत्यमरः। अवज्ञा अवमाननम्। “[2]रीढावमाननावज्ञा” (1/7/23)इत्यमरः॥ 100 ॥
[1 वदेत्- मु. अटी. बक. बख.।]
[2 पीडा- अ. म.।]

दाता ददाति यत् किञ्चित् पूजापूर्वं हि भक्तितः ।
कृत्स्नं तदीयमशुभं तिष्ठत्यर्थिजनाश्रितम् ॥ 101 ॥
यतः संमानं[1] प्रतिग्रहीतुरेव बाधकमित्याह- दातेति ॥ 101 ॥
[1 संमाननं-मु.।]

परिभूते तु वै लाभे सन्तोषो यस्य जायते ।
प्रतिग्रहोत्थितो दोषस्तस्य दूरतरं व्रजेत् ॥ 102 ॥

एवं ज्ञात्वा[1] तु पात्राणां भक्तानां भावितात्मनाम् ।
जनयेद् बुद्धिभेदं तु नेतरेषां कदाचन ॥ 103 ॥
अतोऽनादरपूर्वकं दत्तेऽपि यः प्रतिग्रहीता संतुष्टो भवति, स प्रतिग्रहो[2] दोषेण विलुप्तो[3] भवतीत्याह- परिभूत इति। लाभे भैक्षादिद्रव्यलाभे। परिभूते तिरस्कृते, अनादरपूर्वकं दत्ते सतीति भावः। “अनादर परिभावः” (1/7/22) इत्यमरः। एवं च आदरपूर्वकं दानं दातुः श्रेयःसंपादकमिति[4] ज्ञात्वादरपूर्वकमनिच्छतां पात्राणां [5]सविनयप्रार्थनादिभिस्तदङ्गीकाराय बुद्धिं जनयेत्। अपात्राणां तां न जनयेदित्याह- एवमिति ॥ 102-1-3 ॥
[1 त्वाऽप्यया- मु. अटी.।]
[2 ग्रही- इह- अ.।]
[3 निरुक्तो- अ.।]
[4 कर- अ.।]
[5 विनय- अ.।]

यत्र दाता ग्रहीता च द्वावेव कलुषात्मकौ ।
दृष्टादृष्टविनाशार्थं दानं द्वाभ्यां हतं तु तत् ॥ 104 ॥
दातृप्रतिग्रहीत्रोरुभयोरपि कलुषात्मकत्वे दानवैफल्यमाह- यत्रेति ॥ 104 ॥

प्रागेवं[1] चित्त[2]संशुद्धिं[3] भावशुद्धिसमन्विताम्[4] ।
निश्चयीकृत्य यत्नेन दिव्यमायतनं व्रजेत् ॥ 105 ॥

व्रत[5]संसिद्धये[6] नूनं सिद्धायतनमेव वा ।
अथावाऽऽयतनं रम्यमासन्ननगरादिकम् ॥ 106 ॥

निर्विघ्नेन व्रतं यस्मान्विष्पद्येतात्र कर्मिणाम् ।
कर्मवाङ्मनसैः शुद्धस्तपोनिष्ठः क्रियापरः ॥ 107 ॥

यो नान्यदेवतायाजी तत्त्वतो भगवन्मयः ।
कस्मिंश्चिद्वैभवे रूपे व्यूहीये वा सुबुद्धिमान् ॥ 108 ॥

बद्धलक्ष्यो भवेद् भक्त्या त्वाप्तागमनिदर्शनात् ।
एवं भावशुद्धिसंपादितां चित्तशुद्धिं पूर्वं निश्चित्य व्रतानुष्ठानार्थं सैद्धमानुषस्थानेष्वन्यतमं गत्वा तत्र विभवाकृतौ व्यूहाकृतौ वा भगवति व्रतान्तं[7] न्यस्तचित्तो भवेदित्याह- प्रागेवमिति सार्धैश्चतुर्भिः। दिव्यं स्वयंव्यक्तमित्यर्थः ॥ 105-109 ॥
[1 प्रागेव- बक. बख. अ.।]
[2 वित्त इति सार्वत्रिकः पाठः।]
[3 द्धि- बक. बख. अ. उ.।]
[4 ताः-उ.।]
[5 व्रतं- बक. बख.।]
[6 यत्- अ. उ.।]
[7 न्तर- अ.।]

तस्यापि तादृशानां च भविनामनुकम्पया ॥ 109 ॥

व्यक्ततामगमद् देवः स्वयमेव धरात्मना ।
यत्र मोक्षप्रदं विद्धि दिव्यमायतनं हि तत्[1] ॥ 110 ॥
प्रसङ्गाद् दिव्यायतनलक्षणमाह- तस्यापीति सार्धेन ॥ 109-110 ॥
[1 यत्- अ. उ.।]

मन्त्र[1]सिद्धैश्च विबुधैर्मुनिमुख्यैस्तथामलैः ।
शान्तये देशजानां त्वप्यात्म[2]नश्चापि कीर्तये[3] ॥ 111 ॥

मन्त्राकृतिमयं ध्यात्वा पाषाणं वसुधातले ।
पावनं वा ततं वृक्षं ज्ञात्वा वा देवताश्रयम् ॥ 112 ॥

कृत्वा तच्छक्तिसंरुद्धं विसृज्य च तदाश्रितम् ।
विद्धि सर्वेश्वस्यैवं स्थितं निलयलक्षणम् ॥ 113 ॥

स्वमन्त्रसन्निधिं तत्र कृत्वा तद्विग्रहान्वितम् ।
पूजितं पत्रपुष्पाद्यैस्तत्सिद्धायतनं स्मृतम् ॥ 114 ॥
सिद्धायतनलक्षणमाह- मन्त्रसिद्धैरिति प्रक्रम्य तत्सिद्धायतनं स्मृतमित्यन्तम्। विसृज्य च [4]तदाश्रितमित्यत्र विसर्जनप्रकारश्चतुर्विशे[5] परिच्छेदे-
इहाश्रितात्मने तुभ्यं नमः सर्वेश्वराय च ।
क्षमस्वावतरान्यत्र संतिष्ठा[6]त्र चिदात्मना ॥ (24/85)
इति वक्ष्यमाणो ज्ञेयः। अत्र-
स्वयंव्यक्तं तथा सैद्धं[7] विबुधैश्च प्रतिष्ठितम् ॥
मुनिमुख्यैस्तु गन्धर्वैयक्षविद्याधरैरपि ।
रक्षोभिरसुरैर्मुख्यैः स्थापितं मन्त्रविग्रहम् ॥….
स्थापितं मनुजेन्द्रैस्तु ह्यनुवेदादिकोविदैः ॥
(पा. सं. 10/317-318,321)
इति पारमेश्वरोक्तसैद्धाद्यष्टविधभेदानामपि सैद्धायतन एवान्तर्भावो बोद्ध्यः, सिद्धगन्धर्वादीनामपि विबुधेष्वन्तर्भावात्, मुनिमुख्यैस्तथामलैरित्यत्रामलशब्देनान्येषामपि सूचितत्वाच्च ॥ 111-114 ॥
[1 मन्त्रैः- अ.।]
[2 तु आ-बक., चाप्या- अ.।]
[3 येत्- बक. बख. अ. उ.।]
[4 तदाश्रय- अ.।]
[5 र्विशति- म.।]
[6 ष्ठस्वा- अ. म.।]
[7 सिद्धवि- मु.।]

फलाप्तये[1] तु विप्राद्यैः स्वकुलोद्धा[2]रणाय च ।
स्थापितं भगवद्बिम्बं ज्ञेयमायतनं हि तत् ॥ 115 ॥
मानुषायतनमाह- फलाप्तय इति ॥ 115 ॥
[1 फलप्राये-मु.।]
[2 द्धर- मु.।]

क्रियाङ्गभागं[1] यातस्य[2] सर्वगस्य[3] च वै विभोः ।
विद्धि सर्वेश्वरस्यैवं स्थितं नियत[4]लक्षणम्[5] ॥ 116 ॥
उक्तमर्थं निगमयति- क्रियेति ॥ 116 ॥
[1 भावं-अ. उ.।]
[2 यागस्य- अ.।]
[3 स्यापि- अ.उ.।]
[4 निलय-अ.।]
[5 इतः परम्- `स्वमन्त्रसन्निधिं तत्र कृत्वा तद्विग्रहान्वितम्’ इत्येषा पङ्क्तिः 114 श्लोकस्था पुनरत्र दृश्यते- मु. अटी.।]

प्रासादद्वारदेशाच्च यत्र शङ्खध्वनिक्षयः[1] ।
पूर्वादि[2] सर्वदिक्[3] तावत् क्षेत्रं भवति वैष्णवम् ॥ 117 ॥
मानुषभगवन्मन्दिरस्य परितो वैष्णवक्षेत्रप्रमाणमाह- प्रासादेति। विमानद्वारसमीपे कृतः शङ्कनादो यावद्दूरं श्रूयते, तावदन्तं परितो वैष्णवक्षेत्रमिति भावः ॥ 117 ॥
[1 यम्- अ. उ.।]
[2 प्रयाति- बक. बख. अ. उ.।]
[3 क्यादेकैक- अ.।]

सिद्धावतारिताद् देवात् तदेतद् द्विगुणं स्मृतम् ।
त्रिगुणं च स्वयंव्यक्ताद् देहान्ते भावितात्मनाम् ॥ 118 ॥

फलं सालोक्यतापूर्वं परिज्ञेयं क्रमाद् यतः ।
सैद्धस्थाने तद्द्विगुणं स्वयंव्यक्तस्थाने तत्त्रिगुणं च वैष्णवक्षेत्रमानमाह- सिद्धावतारितादिति त्रिभिः पादैः। वैष्णवक्षेत्रस्य स्वयंव्यक्तत्वादिभेदेन सालोक्यादिफलप्रदत्वमाह- देहान्त इति त्रिभिः पादैः। यतो वैष्णवक्षेत्रादित्यर्थः। सालोक्यतापूर्वमित्यत्र पूर्वपदेन सामीप्यसारूप्यसायुज्यानि गृह्यन्ते। क्रमाद् मानुषादिक्रमेणेत्यर्थः।
ननु देवतान्तरप्राप्तौ हि सालोक्यादिभेदावाप्तिः, भगवत्प्राप्तौ तु “परमं साम्यमुपैति” (मुण्ड. 3/1/3), “मम साधर्म्यमागताः” (भ. गी. 14/1), “भोगमात्रसाम्यलिङ्गाच्च” (ब्रह्म. 4/4/11) इति श्रुतिस्मृतिसूत्रैः सालोक्यादिचतुष्टयमप्येकैकस्यैव संभवतीति प्रतिपादितम्। अत्रोक्तं सालोक्या[1]द्येकैकफलभेदमात्रावाप्तिकथनं कथं तदविरुद्धमिति चेत्, सत्यम्। इयमाशङ्का निगमान्तदेशिकैरपि सच्चरित्ररक्षायां परिहृता। तथाहि- “भगवत्प्राप्तावपि विष्णुलोकादिषु द्वार[2]पालादिष्विव तथाविधभेदोऽस्तीति तदपेक्षिणां [3]प्राप्यभेदद्योतनाय पृथङ्निर्देशः। यथाहुः-
लोकेषु विष्णोर्निवसन्ति केचित् समीपमिच्छन्ति च केचिदन्ये ।
अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ॥ इति” (पृ. 31)
यद्वा क्रमादित्यत्र सालोक्यसामीप्यादिक्रमेणेत्यर्थवर्णने नास्त्येतदाशङ्काया एवावकाशः, सर्वस्यापि क्षेत्रस्य सालोक्यादिफलचतुष्टयप्रदत्वसम्भवात् ॥ 118-119 ॥
[1 क्यादेकैक- अ.।]
[2 द्वारकादिष्विव- अ. मु.।]
[3 प्राप्ति- मु.।]

दुष्टेन्द्रियवशाच्चितं नृणां यत्कल्मषैर्वृतम्[1] ॥ 119 ॥

तदन्तकाले संशुद्धिं याति नारायणालये ।
व्रतान्येतानि यः कुर्यादभिसन्धाय चेतसा ॥ 120 ॥

अभीष्टमतितीर्वेण तदाप्नोत्यचिरात् तु सः ।
वैष्णवक्षेत्रस्य मनःपरिशुद्ध्यावहत्वं चाह- दुष्टेति त्रिभिः पादैः। यत इत्यस्याप्यनुषङ्गः कार्यः। भगवन्मन्दिरे व्रतानुष्ठानस्य शीघ्रफलप्रदत्वमाह- नारायणालय इति ॥ 119-121 ॥
[1 व्रतम्- बक.।]

श्रद्दधानैरतस्तस्माद् दृष्टादृष्टफलाप्तये ॥ 121 ॥

व्रता[1]न्येतानि कर्तव्यान्यभिसन्धाय चेतसा ।

अत एतेषां व्रतानामवश्यानुष्ठेयत्वमाह- श्रद्दधानैरिति ॥ 121-122 ॥
[1 पङ्क्तिरेषा नास्ति- अ.।]

नावसादस्तु कर्तव्यो [1]व्रतभङ्गात् कदाचन ॥ 122 ॥

सङ्कल्पादेव भगवांस्तत्त्वतो भावितात्मनाम् ।
व्रतान्तमखिलं कालं सेचयत्यमृतेन तु ॥ 123 ॥
आरब्धे व्रते मध्ये येन केनापि[2] हेतुना विघ्नितेऽपि ततो न भेक्तव्यम्। यतो व्रतं करिष्यामीति संकल्पमात्रादेवारभ्य व्रतसमाप्तिपर्यन्तं यावदनुष्ठानं संभवति, तावतैव फलसिद्धिर्भवतीत्याह- नावसाद इति सार्धेन। अवसादो न कार्यः, अधैर्यं नाधिगन्तव्यमित्यर्थः। अयमेवार्थो वङ्गिवंशेश्वरैः प्रतिपादितः सच्चरित्ररक्षायामुदाहृतः-
एव[3]मेकदिनं वाथ द्विदिनं त्रिदिनं तु वा ॥
मासं संवत्सरं वापि यावज्जीवितमेव वा ।
वर्तेत भक्त्या परया वैष्णवः सुचिरं सुखी[4] ॥
प्रारब्धे मध्यतो[5] विघ्नाद् विच्छिन्नेऽप्यत्र कर्मणि ।
नानर्थो न च नैष्फल्यं न कृतांशस्य संक्षयः ॥
प्रारब्धेष्वसमाप्तेषु विच्छिन्नेष्वन्यकर्मसु ।
भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि ॥
कृतः स्वल्पांशकोऽप्यस्य स्थित्वा[6] सुचिरमक्षयः ।
त्रायते[7] च[8] स्वकर्तारं स्वशक्त्या भवभीतितः ॥ इति ॥
नन्विदं भगवदाराधनविषयम्, नहि व्रतानुष्ठानविषयमिति चेन्न, अस्य व्रतस्यापि भगवदाराधनरूपत्वात्, भगवदाराधनस्यापि शातवार्षिकव्रतरूपत्वात्। अत एव वङ्गिवंशेश्वरैर्नित्याराधनप्रकरणेऽपि-
[9]त्वदाराधनकामोऽयं व्रतं चरितुमिच्छति ।
संकल्पसिद्ध्यै भगवन् पूरयाऽस्य मनोरथान्[10] ॥ (श्लो. 39)
इति व्रतविधाने वक्ष्यमाण(8/7-8) श्लोकस्यैव संगृहीतत्वादुभयोरप्यविशेषो बोध्यः ॥ 122-123 ॥
[1 ग्लानिभ- अ.उ.।]
[2 येन केन वा- मु.।]
[3 वङ्गिवंशेश्वरविरचितायामाह्निककारिकायां 504-508 संख्याका इमे श्लोका द्रष्टव्याः।]
[4 मुखम्-मु. ।]
[5 घ्नैर्वि- मु.।]
[6 स्तवः सुषिरमव्ययम्- अ.।]
[7 त्रायेतैव- प. प.।]
[8 वर्ष- अ., विश्व-मु.।]
[9 त्वय्या- मु.।]
[10 रथम्- मु.।]

ज्ञात्वैवं बद्धलक्ष्येण भवितव्यं सदैव हि ।
प्राप्तये सर्वकामानां संसारभयभीरुणा ॥ 124 ॥
इममर्थं ज्ञात्वा निखि(लं?ल)पुरुषार्थप्राप्त्यर्थं भगवति दृढचित्तेन भवितव्यमित्याह- ज्ञात्वेति ॥ 124 ॥

इति श्रीपाञ्चरात्रे श्रीसात्त्वतसंहितायां व्रतविधिर्नाम सप्तमः परिच्छेदः ॥

इति श्रीमौञ्ज्यायनकुलतिलकस्य यदुगिरीशचरणकमलार्चकस्य योगानन्दभट्टाचार्यस्य तनयेन अलशिङ्गभट्टेन विरचिते सात्वततन्त्रभाष्ये सप्तमः परिच्छेदः॥


  1. भक्तानां- बख., हविनां- अ. ↩︎

  2. प्रबुद्धां- मु., प्रसिद्धं- अटी. बक., प्रबुद्ध- बख. ↩︎

  3. श्वरं- बख. अ. ↩︎

  4. निर्हृत्येति सार्वत्रिकः पाठः, टीकानुसारी पाठो मूले स्थापितः। ↩︎

  5. गव्यप्राश- म. ↩︎

  6. कृत्वे- अ. ↩︎

  7. त्रोत्तरत्र- अ. ↩︎

  8. स्नानेषु- अ. मु. ↩︎

  9. मूर्ध्ना- मु. म. ↩︎

  10. यद्धि- मु. ↩︎

  11. प्राप्तं- मु. ↩︎

  12. यतस्तथा - म. ↩︎

  13. परिपिण्डैः- मु., परपीडैः-उ. ↩︎

  14. स्तुत्ये- अ. ↩︎

  15. नेत्राभ्यां- बक. ↩︎

  16. मध्यमस्थितिम्- मु. ↩︎

  17. र्यङ्के- उ. ↩︎

  18. क्रान्तं- मु. ↩︎

  19. परवासु- मु. ↩︎

  20. मुखस्थितं- मु. ↩︎

  21. द्वाभ्यां- मु. ↩︎

  22. महाक्षैः - मु. बक. बख. ↩︎

  23. यागं तु कर्मणः- मु. अटी. ↩︎

  24. कात्- मु. अटी. ↩︎

  25. मन्त्रात्- मु. अटी. ↩︎

  26. तादृश्यां- अ. ↩︎

  27. मूर्तये- बक. बख. अ. उ. ↩︎

  28. न्तास्तोत्र-मु. ↩︎

  29. पाञ्च- मु. ↩︎

  30. जितन्ताख्यमन्त्रार्थनिरूपणात्मके त्रिपञ्चाशेऽध्याये । ↩︎

  31. अब्जा- मु. ↩︎

  32. मुसला- मु. अटी. ↩︎

  33. शूद्रस्य चानि- बख. अ. उ. ↩︎

  34. ध च- मु., ध्य च- अटी., धय- बख. ↩︎

  35. कमले- मु. अटी. बक. ↩︎

  36. प्रशस्त- अ., प्रशम- उ. ↩︎

  37. दक्षिणकरे- मु. ↩︎

  38. वृत्ते- बक. बख., व्रते-अ. उ. ↩︎

  39. स्मृत्वा- मु. अटी. ↩︎

  40. दकत्यागं- अ. उ. ↩︎

  41. स्मरेदेव- बख. ↩︎

  42. मिमं- बख. अ. उ. ↩︎

  43. ते- मु. अटी. उ. ↩︎

  44. स्तेन एकै- बख. अ. उ. ↩︎

  45. त्मनः - मु. अटी. ↩︎

  46. चर्ते- बख. अ. ↩︎

  47. र्थ- मु. बक. बख. ↩︎

  48. लान्नैः- मु. बक. बख. ↩︎

  49. लक्षणैः- उ. ↩︎

  50. ध्यानाभ्यां- अटी., स्थानाभ्यां- मु. बक. ↩︎

  51. परितो बा- मु. अटी. बक. ↩︎

  52. क्र अ- मु. अटी. ↩︎

  53. ष्ठमू- बख. उ. ↩︎

  54. कम्- मु. अटी. ↩︎

  55. पूर्णा- मु. अटी. ↩︎

  56. लान्नैः शूद्रान्नै- अ. ↩︎

  57. पक्ष- अ. ↩︎

  58. त्यं त्व- मु. अटी. बक. ↩︎

  59. नि उद- बख. ↩︎

  60. स्व- अ. ↩︎

  61. मूलानुरोधेन `न’ पदसंयोजनमत्रावश्यकम्। ↩︎

  62. व्रतशब्दं- बक. ↩︎

  63. सकैः- मु. अटी. ↩︎

  64. णाम्- अ. उ. ↩︎

  65. व्रतवरं- अ. उ. ↩︎

  66. वर्त- अटी. ↩︎

  67. मनि- मु. अटी. बक. बख. ↩︎

  68. कलुषा- उ. ↩︎

  69. कर्मणाम्- मु. अटी. बक. बख. ↩︎

  70. नम्- बक. बख. उ. ↩︎

  71. मयो न्यसेत्- मु. अटी. ↩︎

  72. ततः सु- मु. अटी. बक. बख. ↩︎

  73. ग्रास- मु. अटी. बक. बख. ↩︎

  74. ब्दं समापयेत्- अ., ब्दं समाप्यते- उ. ↩︎

  75. निरायासात् तु- बक. बख. अ. उ. ↩︎

  76. य आ- अ. उ. ↩︎

  77. श्यां- बक. अ. उ. ↩︎

  78. मयो न्यसेत्- मु. अटी. ↩︎

  79. सस्त्व- अ. ↩︎

  80. न्यसेत्- मु. अटी. ↩︎

  81. एवं- बक. बख. अ. उ. ↩︎

  82. तुष्येत् तथाक्षजः- अ. ↩︎

  83. `तद्’ नास्ति- अ. ↩︎

  84. मधो-बक. ↩︎

  85. ह्निकम्- अ. ↩︎

  86. शान्तिव्यक्ति- मु. अटी. बक. ↩︎

  87. एका-बक.। बख. अ. उ. ↩︎

  88. पूर्णान्तम- अ.उ. ↩︎

  89. निरश्नन्नेकादश्यां तु- बक. बख. अ. उ. ↩︎

  90. सद्व्रतं- मु., सद्वृत्त-बक. ↩︎

  91. `चार्चनं’ नास्ति- अ. ↩︎

  92. स्थितम्- उ. ↩︎

  93. उभयो- उ. ↩︎

  94. कार्य- मु. ↩︎

  95. देवीया-मु., देवान्नेन- मु. ↩︎

  96. द्व्रत-मु., च्छास्त्र-मु. ↩︎

  97. श्यभो-भ. मु. ↩︎

  98. तथा- बक. ↩︎

  99. दशे-मु. अटी. बक. बख. उ. ↩︎

  100. वनवासैः- बक. बख. उ. ↩︎

  101. वृत्तं - अटी. ↩︎

  102. भैक्ष्य- उ. ↩︎

  103. वदेत्- मु. अटी. बक. बख. ↩︎

  104. पीडा- अ. म. ↩︎

  105. संमाननं-मु. ↩︎

  106. त्वाऽप्यया- मु. अटी. ↩︎

  107. निरुक्तो- अ. ↩︎

  108. प्रागेव- बक. बख. अ. ↩︎

  109. वित्त इति सार्वत्रिकः पाठः। ↩︎

  110. द्धि- बक. बख. अ. उ. ↩︎

  111. ताः-उ. ↩︎

  112. व्रतं- b. b. ↩︎

  113. यत्- अ. उ. ↩︎

  114. न्तर- अ. ↩︎

  115. यत्- अ. उ. ↩︎

  116. मन्त्रैः- अ. ↩︎

  117. तु आ-बक., चाप्या- अ. ↩︎

  118. येत्- बक. बख. अ. उ. ↩︎

  119. तदाश्रय- अ. ↩︎

  120. र्विशति- म. ↩︎

  121. ष्ठस्वा- अ. म. ↩︎

  122. सिद्धवि- मु. ↩︎

  123. फलप्राये-मु. ↩︎

  124. द्धर- मु. ↩︎

  125. भावं-अ. उ. ↩︎

  126. यागस्य- अ. ↩︎

  127. स्यापि- अ.उ. ↩︎

  128. निलय-अ. ↩︎

  129. इतः परम्- `स्वमन्त्रसन्निधिं तत्र कृत्वा तद्विग्रहान्वितम्’ इत्येषा पङ्क्तिः 114 श्लोकस्था पुनरत्र दृश्यते- मु. अटी. ↩︎

  130. यम्- अ. उ. ↩︎

  131. प्रयाति- बक. बख. अ. उ. ↩︎

  132. क्यादेकैक- अ. ↩︎

  133. क्यादेकैक- अ. ↩︎

  134. द्वारकादिष्विव- अ. मु. ↩︎

  135. प्राप्ति- मु. ↩︎

  136. व्रतम्- बक. ↩︎

  137. पङ्क्तिरेषा नास्ति- अ. ↩︎

  138. ग्लानिभ- अ.उ. ↩︎

  139. येन केन वा- मु. ↩︎

  140. वङ्गिवंशेश्वरविरचितायामाह्निककारिकायां 504-508 संख्याका इमे श्लोका द्रष्टव्याः। ↩︎

  141. मुखम्-मु. ↩︎

  142. घ्नैर्वि- मु. ↩︎

  143. स्तवः सुषिरमव्ययम्- अ. ↩︎

  144. त्रायेतैव- प. प. ↩︎

  145. वर्ष- अ., विश्व-मु. ↩︎

  146. त्वय्या- मु. ↩︎

  147. रथम्- मु. ↩︎