+श्रीराम-प्रतिः

श्रीः
श्रीमते रामानुजाय नमः
श्रीः
श्रीमतेरामानुजायनमः.

KRIYASAGARAM
Vol. 29
Sri Panchratra Agamoktha
Sri Purushothama Samhitha

Critically Edited and Reprinted by
Therazhundur
Sri Pancharatra Agama Vidwan
Sri. U. Ve. K.SRIRAMAN BATTACHARYAR,
Srirangam

b
First Print (100 copies) 21st October 2019

This book is published on the occasion of Sri Pancharatra Agama
vidwan Therazhundur Sri U.Ve . S. Kannan Battacharyar swamy
Shathabdi, Sri Pancharatra Agama vidwan Therazhundur
Sri U.Ve.K. Sriraman Battacharyar Swamy Shastiabda poorthy function and
National Conference on Sri Pancharatra Agama – III, held at Srirangam,
Trichy from 19th to 21st October 2019 (ஐப்பசி புனர்வஸு).

இந்த புஸ்தகம் ஶ்ரீபாஞ்சராத்ராகம வித்வான் ஶ்ரீ உ.வே கன்ண்ண்
பட்டாச்சார்யார் ஸ்வாமியின் ஶதாப்தி, ஶ்ரீ பாஞ்சராத்ராகம வித்வான்
ஶ்ரீ.உ.வே ஶ்ரீராமன் பட்டாச்சார்யார் ஸ்வாமியின் ஷஷ்டியப்த பூர்த்தி
மற்றும் அகில பாரத ஶ்ரீ பாஞ்சராத்ராகம வித்வத் ஸம்மேளனம் – 3
இல் வெளியிடப்பட்டது.
இடம் : ஶ்ரீரங்கம்
நாள் : ஐப்பசி புனர்வசு, விகாரி வருடம்

Copies Available at :
Sri. U. Ve. K.SRIRAMAN BATTACHARYAR,
CG1-214, East Adayavalanjan St,
Sriranagam, Trichy,
Tamil - Nadu. 620-006.
+91-97917-02035. +91-8608-794034.
sriramanbattachar@gmail.com www.kriyasagaram.in

c
ஶ்ரீபுருஷோத்தம ஸம்ஹிதா
முன்னுரை
பகவானருளிய எண்ணற்ற சாஸ்த்ரங்களில் மிகவும் ஸ்ரேஷ்டமான
சாஸ்த்ரம் பகவச்சாஸ்த்ரம் என்னும் ஶ்ரீபாஞ்சராத்ரமே. எம்பருமான்
ஶ்ரீவைகுண்டத்திலிருந்து ஐந்து சிஷ்யர்களுக்கு ஐந்து இரவுபகலாக
உபதேசிக்கப்பட்ட சாஸ்த்ரம் இதுதான். அவற்றில் ரத்நத்ரயம் என்று
கூறக்கூடிய ஸாத்வத, பௌஷ்கர, ஜயாக்யாதி ஸம்ஹிதைகளாகும்.
இந்த புருஷோத்தம ஸம்ஹிதை வஸிஷ்ட மஹரிஷி பற்பல
முனிவர்களுக்கு உபதேசிப்பதாக உள்ளது. அதிலும் பலவிஷயங்களில்
பாத்ம ஸம்ஹிதையின் அனுசாரியாகவே உள்ளது. ஒருசில
விஷயங்களில் ஈஸ்வர ஸம்ஹிதையின் அடிப்படையில் விளங்குகிறது.
முக்கியமாக ஶ்ரீபாஞ்சராத்ர ஆகமத்திற்கு விளக்கம் கூறும்போது
முதல் அத்யாயத்தில் பகவானை அடைய வேண்டுமேயாகில் பக்தி
என்பது முக்கியம் என்றும், அந்த பகவத்பக்தியை எவ்வாறு
பெறலாமென்று விளக்கும் சாஸ்த்ரமே ஶ்ரீபாஞ்சராத்ரமென்று கூறுகிறார்
வசிஷடர்.1ம் அத்யாயத்தில்-
ভগৱদ্ভক্তি রস্যেৱা দ্ভক্তানাং মুক্তিকারণং ।
তদ্ভক্তি বোধকং শাস্ত্রং পাংঞ্চরাত্রাগমং স্মৃতম্। ।4
மேலும் திருவாராதன விஷயம் இதில் இல்லாவிட்டாலும்
மற்றைய அக்னிகார்ய, ப்ரும்மோத்ஸவாதிகள் மிகத்தெளிவாக
உள்ளது. இதன் சிறப்பு அம்சமாகப் பார்க்கும்போது
சங்குஸ்தாபநவிஷயம், ப்ரும்மோத்ஸவத்தில் பரிவார தேவதா
ஹோமம், மண்டலவிஷயங்கள் இன்னும் பலவிஷயங்கள்
புதுமையாகவும் அரிதான விஷயங்களாகவும் தெரிகின்றன.
பகவத்பாகவத ஆசார்ய அனுக்ரஹத்துடன் வெளிவரும் இந்நூலை
கசடற கற்று நல்வாழ்வு வாழ எம்
பெருமானை ப்ரார்த்திக்கிறேன்.

d
மேலும் அடியேனது திருத்தகப்பனார் ஶ்ரீபாஞ்சராத்ர
ஆகமவித்வான் தேரழுந்தூர் ஶ்ரீ.உ.வே. கண்ணன்பட்டாச்சார்யார்
ஸ்வாமியின் நூற்றாண்டுவிழா மலராகவும், அடியேனது பேரன்
சிர.பா.ஆதிநாதனின் அப்தபூர்த்தி ஆயுஷ்யஹோம மலராகவும்
வெளிவருவது அரங்கனது இன்னருளேயன்றி வேறொன்றில்லை.
ஸமஸ்தாபசாரான் க்ஷமஸ்வ
தாஸன்
தேரழுந்தூர்
க.ஶ்ரீராமன் பட்டாச்சார்யார்
ஶ்ரீரங்கம்
9-12-2018
««««<____________»»»»>

e
विषयानुक्रमणिका
अध्याय: विषयम् पुठ संख्य

  1. शास्त्रावतार विधि: 1
  2. आचार्यादिलक्षण भूपरीक्षा विधि: 7
  3. आलयनिर्माण फलकथन विधि: 11
  4. मूर्धेष्टकाविधानम् , आलय निर्माण विधि: 15
  5. शिलासंग्रहण विधि: 23
  6. दारुसंग्रहण विधि: 31
  7. प्रतिमा मृत्संग्रहण विधि: 35
  8. धृवबेरादि विग्रह लक्षण विधि: 37
  9. रथादियान लक्षण विधि: 43
  10. प्रतिष्ठामुहूर्त निर्णय विधि: 45
  11. यागशाला कुण्ड तोरण विधि: 49
  12. आचार्यनिवेशन मृत्संग्रहणविधि: 53
  13. अंकुरारोपण विधि: 55
  14. वास्तुयाग विधि: 59
  15. पर्यग्निकरण जलाधिवासविधि: 63
  16. भद्रक मंडल लक्षणम् 71
  17. वास्तुयाग विधि: 73
  18. प्रतिष्टास्नपन विधि: 75
  19. शय्यधिवास विधि: 81

f

अध्याय: विषयम् पुठ संख्य
20. प्रतिष्टाविधि: 87
21. विमानादि प्रतिष्टा विधि: 93
22. चक्राब्जमण्डल दीक्षा विधिः 99
23. ध्वजरोहण, देवताह्वान विधिः 107
24. ब्रह्मोत्सवविधिः - 2 117
25. पुष्पयागविधिः 135
26. पवित्रोत्सव विधिः 143
27. संवत्सरोत्सव विधिः 151
28. सालग्रामलक्षणम् 157
29. स्नपनविधिः 171
30. प्रायश्चित्तविधिः 174
31. अग्निकार्यविधिः 181
32. नित्योत्सव विधिः 185
33. मुद्रालक्षणविधिः 189

«««««<________________»»»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[1]]
श्रीः
श्रीमतेरामानुजायनमः
श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
श्रीपुरुषोत्तम संहिता
प्रथमोध्याय:
शास्त्रावतार विधि:
मंगलम्
नमश्श्रीवासुदेवाय सत्यज्ञानस्वरूपिणे।
स्वाश्रितावनदीक्षाय मोक्षैकफलदायिने । 1
मुक्त्युपायविषये ऋषिप्रश्न:-
ऋषय:
श्रुतावेदास्त्वयापूर्वं धर्मशास्त्राण्यनेकश:।
ए तेषु मुक्त्युपायंतु न पश्यामस्तपोधन। 2
तद्वदस्व महच्छास्त्रं निश्रेयससकरं*शुभं। *परम्
ए न संसारिकं दु:खं तरामोज्ञानवर्त्मना। 3
वसिष्ठप्रतिवचनं, पाञ्चरात्रागमप्रशस्तता कथनं,तच्छास्त्रावतरणं च-
वसिष्ठ:
भगवद्भक्ति रेवस्या द्भक्तानां मुक्तिकारणं ।
तद्भक्ति बोधकं शास्त्रं पांञ्चरात्रागमं स्मृतम्। ।4
रजोगुणापनोदाय ब्रह्मणे विष्णुना पुरा।
यदुक्तं पाञ्चरात्राख्यं रहस्याम्नायमुत्तमं॥5
तच्छृणुध्वं मुनिश्रेष्ठास्संसारां बुधितारकम्।
सार्धकोटि प्रमाणेन ब्रह्मणाकेशवाच्छृतम् । 6
रात्रिभि:पंचभि स्सर्वं पांञ्चरात्रागमंस्मृतम्।
एतदागमशास्त्रेण बिंबदेवालयादिकम्। 7

श्रीपुरुषोत्तम संहिता
[[2]]
विनिर्माय प्रतिष्ठाप्य नित्यमाराधयन्नर:।
शाश्वतं पदमाप्नोति पुनरावर्तिवर्जितम्। 8
पाञ्चरात्रागम सांप्रदाय श्रवणार्थं ऋषिप्रश्न:
ऋषय:
भगवन्मुनिशार्दूल सर्वशास्त्रविशारद।
कैवल्यपदमिच्छूनामस्माकं शरणार्थिनाम्। 9
तत्पाञ्चरात्रशास्त्रस्य विधानं संप्रकाशय।
वसिष्ठप्रतिवचनं।
श्रीपाञ्चरात्रागमशब्दार्थनिरूपणंनाम निर्देशानि च एकायनं
वसिष्ठ:
शृणुध्वं मुनयस्सर्वे वेदमेकायनाभिदम् । 10
पाञ्चरात्रं मूलवेदं सात्वतं तंत्रमित्यपि ।
भगवच्छास्त्रमितितन्नामभि:परिपठ्यते । 11
मोक्षायनाय वै पंथा ए तदन्यो न विद्यते।
तस्मादेकायनंचेति प्रवदंति मनीषिण: । 12
आगम:
आचारकथनाद्दिव्यगतिप्राप्तिविधानत:।
माहात्म्यतत्वकथना दागमश्चेति गण्यते। 13
मूलवेद:
महतो वेदवृक्षस्य मूलभूतो महानयम्।
ऋगाद्यास्कंधभूतास्ते शाखाभूताश्चयोगिन:। 14
जगन्मूलस्य वेदस्य वासुदेवस्य मुख्यत:।
प्रतिपादकता सिद्धा मूलवेदाख्यता द्विजा: । 15
सात्वतं तंत्रं
तत्वस्वरूपहरिणा प्रोक्तत्वात्सात्वतं मतम्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[3]]
तनोति विपुलानर्थान् तत्वमन्त्रसमाश्रितान्। 16
त्राणं च कुरुते यस्मात्तंत्रमित्यभिधीयते।
पांञ्चरात्रंतु सर्वेषांशास्त्राणां मूलकारणम्। 17
पांञ्चरात्रप्रशस्ति:
ब्राह्मणस्सर्ववर्णेषु यति श्चाश्रमिषूत्तम:।
यद्वद्गंगाच तीर्थेषु दैवतेष्वपि चाच्युतः।18
तद्वत्सर्वेषु शास्त्रेषु पाञ्चरात्रं प्रशस्यते।
पाञ्चरात्रं महद्दिव्यंशास्त्रं श्रुतिविभावनम् । 19
विशेषेणाधिगंतव्यं गीतं भगवतास्वयम् ।
यजेत पुरुषं साक्षाद्यथार्हं प्रतिमादिषु । 20
भगवन्निरूपण, तदर्चनाविधान ऋषिप्रश्नः
ऋषय:
को वा पुरुष इत्युक्तो विधि: को वा तदर्चने।
प्रतिमा लक्षणं कीदृक् वदस्व भगवन्मुने । 21
वसिष्ठ वचनं श्री पुरुषोत्तमसंहितावतरणं
वसिष्ठ:
पुरुषोत्तमेन देवेन पूर्वं भगवता स्वयम्।
पाञ्चरात्रागमं दिव्यं मम पित्रे स्वयंभुवे । 22
प्रोक्तं तच्च मया लब्धं वारिधेरमृतं यथा।
संहिता प्रशस्ति:
कर्षणादि प्रतिष्ठान्तं प्रतिष्ठाद्युत्सवांतकम्। 23
उत्सवं तु समारभ्य प्रायश्चित्तांतमेव हि।
यस्यांसमग्रं संप्रोक्तं पुरुषोत्तमसंहिता। 24
प्रयोजनं च शास्त्रस्य मोक्ष: प्रकृति दुर्लभ:।
अभिदेयं भगवतो समाराधनमुत्तमम् । 25

श्रीपुरुषोत्तम संहिता
[[4]]
संबंधो वीक्ष्यते सद्भि स्साध्यसाधकलक्षण:।
शृतिमूलमिदं तंत्रं प्रमाणं कल्पसूत्रवत् । 26
वेदशास्त्रात्परं नास्ति न दैवं केशवात्परम्।
तस्माद्भजस्व देवेशं विधिनानेन केवलम् । 27
तंत्रनाम श्रवणार्थ ऋषि प्रश्न:
ऋषय:
कतिभेदानि तंत्राणि नामधेयानि कानि व
श्रोतुमिच्छामि विप्रेंद्र परं कौतूहलं हि न:। 28
वसिष्ठवचनं तंत्रनाम संकीर्तनं-
वसिष्ठ:
शतमेकमथाष्ठौ च तंत्रेस्मिन्विदितं मया।
नामधेयानि चैतेषां शृण्वंतु सुसमाहिता: । 29
मार्कण्डेयं पार्षदं च नारदीयं च संहिता।
विश्वामित्रं वैनतेयं संहिता गरुडस्यच। 30
काश्यपं पैंगलाख्यंच वासिष्ठं पुष्कराह्वयं।
सत्वाख्यं सनकाख्यं च विष्णुसिद्धांतसंहिता। 31
पाद्मं पद्मोद्भवं ज्ञेयं विहगेंद्रंच वारुणं।
नलकूबर माग्नेयं वामनं शौनकं तथा। 32
पावकं पारमैश्वर्यं पाराशर्यमत:परम्।
विष्वक्सेनं खगेशं च वीरमांगलिकं तथा। 33
श्री विष्णुतिलकं चैव लक्ष्मीतिलक संहिता।
दशोत्तरं च शांडिल्यं मारीचस्य च संहिता ।34
मौद्गल्यं रोमशं चैव वामदेवं सुभोदकम् ।
मेरु गंगाच सत्योक्त मैंद्रं परमपूरुषम्। 35
नारसिंहं हयग्रीवं दूर्वासं कृष्णसंहिता।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[5]]
पुष्टितंत्रं महातंत्रं पुरुषोत्तमसंहिता। 36
ब्रह्माण्डं चापिकौमार मीश्वरं मत्स्यसंहिता।
भारद्वाजं याज्ञवल्क्यं गजेंद्रं मनुसंहिता। 37
श्रीपुष्कर महालक्ष्मी कुशलानंद पावना:।
पंचप्रश्नं श्रिय:प्रश्नं प्रह्लादं सात्वतं तत:। 38
कपिंजलं च ब्रह्मोक्तं अगस्त्यं जैमिनं तथा।
विष्णुवैभविकं सौरं सौम्यं हारीतिमेवच । 39
कात्यायनं च वाल्मीकं हैरण्यं कापिलं तथा।
जाबालं वायवीयं तु वारुणांगीरसं तथा । 40
नारायणं च व्यासाख्यं ब्रह्मनारद संहिता।
दत्तात्रेयं कण्वगार्ग्यसंहिता कलि राघवम् । 41
प्राचेतसं पौष्करं च मधुसंग्रह संहिता।
संवादमिंद्र शुक्राभ्या मुमामाहेश्वराह्वयम्। 42
बोधायन मनंतं च वाराहं च सनंदनम्।
पुलस्त्यं पुलहं चैव वासुदेवस्य संहिता 43
संकर्षणं भृगुश्चैव गांधर्वगणसंहिता।
नारदोत्तर विज्ञान मेवमष्टोत्तरं शतम्। 44
अनुक्तमन्यतो ग्राह्यमेव-
अनुक्तमन्यतो ग्राह्यं संहितासु परस्परम्।
आचार्यं वरयेत्पूर्वं यजमान: प्रयत्नवान् ।
इति विषयाः- पाठांतराणि-
॥इति श्रीपाञ्चरात्रे महोपनिषदि पुरुषोत्तम संहितायां शास्त्रावतार विधिर्नाम प्रथमोध्याय:॥
««««_____________»»»»

श्रीपुरुषोत्तम संहिता
[[6]]

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[7]]
श्रीमत्पाञ्चरात्रदिव्यागमे-श्रीपुरुषोत्तम संहितायां
द्वितीयोध्याय:
आचार्यादिलक्षण भूपरीक्षा विधि:
आचार्यादि लक्षणार्धं ऋषिप्रश्न:
मौंनींद्र भवता प्रोक्तमाचार्यं वरयेदिति।
कीदृशो यजमानस्तु किमाचार्यस्य लक्षणम्। 1
लक्षणं वदचास्माकमाचार्ययजमानयो: ।
श्रीवसिष्ठप्रतिवचनं आचार्यलक्षणं-
श्रीवसिष्ठ:
ब्राह्मण:क्षत्रियो वैश्यश्शूद्रो वाप्यनुलोमज:। 2
श्रद्धाभक्ति समायुक्तो धनाड्यो धर्मतत्पर:।
यजमान: प्रसन्नात्मा देवयागार्थमादरात् । 3
आचार्यं वरयेत्पूर्वं ततधीना हि सिद्धय:।
पाञ्चरात्रमिदं शांतं सिद्धांतेषु कृतश्रमम् । 4
भगवद्वंशजं शुद्धमलोलुपमदांभिकम्।
महाभागवतश्रेष्ठ*मेकपत्नीव्रतं शुभम्। 5 *मेकपत्नी धृडव्रतम्
ब्राह्मणं सत्यसंपन्नं सदाचार समन्वितम्।
सर्वावयव*सौंदर्यं युवानं वेदवेदिनम्। 6 *संपन्नं
सर्वशास्त्रार्थ तत्वज्ञमग्निहोत्रधरं शुचिम्।
उत्पत्तिस्थितिसंहारवेदिनं ब्रह्मवादिनम् । 7
( श्रद्धाभक्ति समायुक्तं प्रपन्नं दीक्षितं गुरुम्।
परोपकार निरतं योगविद्या कृतश्रमम्।
शांतंदांतं कीर्तिमंतंसर्वसद्गुण शोभितम्।
पापदूरं प्रसन्नात्ममष्टाक्षर परायणम् ।)
प्रतिष्ठाकर्मतत्वज्ञं संध्योपासन तत्परम्।

श्रीपुरुषोत्तम संहिता
[[8]]
आचार्य वरण क्रम:-
ए वं लक्षणंसंयुक्तमाचार्यं वरयेत्तत:। 8
समये यजमानस्तु गां भुवं कांचनं तथा।
नारिकेरंच कर्मादावाचार्याय प्रदापयेत्। 9
भूपरीक्षा
आचार्यो यजमानश्चदेवागारस्य सिद्धये।
भूपरीक्षादिकं कुर्यात् शास्त्रदृष्ठेनवर्त्मना। 10 (शास्त्रोकेनवर्त्मना)
*वसुधाभेधकथनम्, योग्यायोग्य वसुधानिरूपणं- सुपद्मालक्षणं, भद्रकालक्षणं, पूर्णालक्षणं,
धूम्रालक्षणं॥
सुपद्मा भद्रका पूर्णा धूम्राचेति चतुर्विधा।
आद्यस्तिस्त्र:परिग्राह्याश्चांत्यास्त्याज्याद्विजोत्तम।
कुशदर्भे स्समाकीर्णा नित्यं तोयेन संयुता।
हरिणो यत्र तिष्ठंति सा सुपद्मेति कीर्तिता । 12
फलिनो याज्ञिकावृक्षा लतागुल्म समन्विता:।
दृश्यंते भद्रका साच पूर्णेति परिकीर्त्यते । 13
अधोजलसमायुक्ता गिरेश्शिखरमाश्रिता।
वायसश्येनगृघ्राड्याकठिना वृकसंकुला । 14
ऊसरक्षेत्रसंयुक्ता सा धूम्रेति प्रकीर्तिता।
धूम्रांचवर्जयेद्भूमिं भद्रकादिषु कारयेत्। 15

खननविधि:-
जानुमात्रं खनेद्भूमिं मृदमुद्धृत्य पूरयेत्।
उत्तमाभूमि:- मध्यमा ,अधमा, कर्षणं- बीजावाप: बीजावापेन ग्राह्याऽग्राह्य भूनिरूपणं, बलिप्रदानं-
पांसुरभ्यधिको यत्र सा भूमिश्चोत्तमामता। 16
समत्वे मध्यमा चैव हीना स्यादधमा मता।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[9]]
सम्यक्परीक्ष्य बहुधा कर्षयेल्लांगलै: क्रमात्। 17
वापयेत्तिल मुद्गांश्च यवनीवार सर्षपान्।
अथवा सर्वधान्यानि याज्ञीकानि समंतत:। 18
त्रिरात्रादथ रोहंति उत्तमा भूमिरुच्यते।
अप्ररूढेन या भूमि: प्रयत्नेन विवर्जयेत्। 19
फलकाले तु सस्यानां गवां तृप्तिं च कारयेत्।
ततस्तु लोकपालांश्च पूजयेद्देशिकोत्तम:। 20
लाजै: फलै रपूपैश्च निशीथेतु बलिं क्षिपेत्।
रक्तगंधैश्चपुष्पैश्च कुमुदादींश्च पूजयेत् । 21
भूमिपूजा, वास्तुपूजादिकं-
भूदेवींच समभ्यर्च्य वास्तुपूजां च कारयेत् । (ततो भूमिं समभ्यर्च्य)
शांतिहोमं तत:कृत्वारात्रौ जागारणं चरेत् ।22
ततश्च विमले शुद्धे प्रभाते कृतकृत्यवान्।
पुण्याहंतु प्रकुर्वीत ब्राह्मणान्भोजयेत्तत: । 23
पुन:खननं
क्षेत्रं तत्खातयेत्पश्चा दाजलांतं समंतत:।
तज्जले वरुणं पूज्य शिलाशंकुं च कारयेत् । 24
शंकुस्थापन विधि:-
तच्छंकुं त्रिविधं कृत्वा चाधस्ताच्चतुरं तथा।
तन्मध्ये चाष्टफलकं तदग्रं कमलाकृति: ।25
ए वं लक्षणसंयुक्तं शंकुं संपूजयेत्तत:।
रक्षासूत्रेण संवेष्ट्य गर्तेरत्नादिकं न्यसेत्। 26
कूर्मयंत्रं प्रतिष्ठाप्य यंत्रं सौदर्शनं महत्।
तस्योपरि च विन्यस्य शिलाशंकुं निवेशयेत्।27
पूरणविधि-

श्रीपुरुषोत्तम संहिता
[[10]]
प्रथमे सैकतंपूर्य द्वितीयेशर्करास्तथा।
धात्रीफलं तृतीयेतु चतुर्थे जंबुका फलं। 28
पंचमेतु कपित्थं च नारिकेरं तु षष्ठके।
सप्तमेतु फलं बिल्वमेतावत्प्रस्थरावधि 29
संपूर्य चाष्टभागेचपंकिलं पूरयेत्तत:।
चतुरश्रं समंकुर्यादस्ति पादेन घट्टयेत् 30
शंकुमेवं प्रतिष्ठाप्य चालयंतु समारभेत्
विभवानुगुणेनैव कारयेदालयोन्नतिम् 31
इति श्रीपाञ्चरात्रे महोपनिषदि पुरुषोत्तम संहितायांआचार्यादिलक्षण भूपरीक्षाविधि र्नाम
द्वितीयोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[11]]
श्रीमत्पाञ्चरात्रदिव्यागमे श्रीपुरुषोत्तम संहितायां
तृतीयोध्याय:
आलयनिर्माण फलकथन विधि:
देवालय निर्माण फलश्रवणार्त्धंऋषिप्रश्न:
ऋषय:
देवालयं विनिर्माय देवं संस्थाप्य भक्तित:।
पूजां कारयितुस्तस्य पुण्यमाचक्ष्व भो मुने। 1
वसिष्ठ प्रतिवचनं -देवालय निर्माणफलशृति:-
वसिष्ठ:
वासुदेवाद्यालस्यकृतौ वक्ष्ये फलादिकम्।
चिकीर्षो र्देवधामादि सहस्रजनिपापनुत् । 2
मनसा सद्मकर्तॄणां शतजन्माघनाशनम्।
येतु मोदंति कृष्णस्य क्रियमाणं नरागृहम्। 3
तेपि पापैर्विमुच्यंते प्राप्नुवंति परांगतिम्।
नमतीतं भविष्यंच कुलानामयुतं नर:। 4
विष्णुलोकं नयंत्याशु कारयित्वा हरेर्गृहम्।
वसंति पितरो दृष्ट्वा विष्णुलोकेह्यलंकृता: । 5
विमुक्ता नारकैर्दुखै: कर्तु: कृष्णस्य मंदिरम्।
ब्रह्महत्यादिपापौघघातुकं विष्णुमंदिरम् । 6
फलं यन्नाप्यतेयज्ञे र्धाम कृत्वा तदाप्यते ।
देवागारे कृते सर्वतीर्थस्नानफलं लभेत्। 7
देवाद्यद्देहतनां चरणे यत्तत्फलादिकम्।
शाठ्येन पांसुवा चापि कृतं धाम च ना कथम्।
ए कायतनकृत्स्वर्गी त्र्यगारीब्रह्मलोकभान्।
पंचागारी शंभुलोक मष्टागाराद्धरौ स्थिति:। 9

श्रीपुरुषोत्तम संहिता
[[12]]
षोडशालयकारी तु भुक्तिमुक्तिमवाप्नुयात्।
कनिष्टं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम् 10
स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात् ।
श्रेष्ठमायतनं विष्णो:कृत्वा यद्धनवान् लभेत्। 11
कनिष्ठेनैव तत्पुण्यं प्राप्नोत्यद्धनवान्नर:।
समुत्पाद्य धनं कृत्वा स्वल्पेनापि सुरालयम्।
कारयित्वा हरे:पुण्यं संप्राप्नोत्यधिकं वरम्।
लक्षेणापि सहस्रेण शतेनार्धेन वा हरे:। 13
कारणं भवनं याति तत्रास्ते गरुडध्वज:।
बाल्ये तु क्रीडमानाये पांसुभिर्भवनं हरे:। 14
वासुदेवस्य कुर्वंति पितरोलोकगामिन:।
तीर्थेचायतने पुण्ये सिद्धक्षेत्रे तथाश्रमे । 15
कर्तुरायतनं विष्णोर्यथोक्ता त्रिगुणं फलम् ।
देवालये संमार्जनादिफलविशेष:-
बंधूकपुष्पविन्यासै स्सुधापंकेन वैष्णवम्। 16
ये विलिप्यंति भवनं ते यांति भगवत्पुरम्।
पतितं पतमानं तु तदात्थपतितं नर:। 17
समुद्धृत्य हरेर्धाम प्राप्नोति द्विगुणं फलम्।
पतितस्यतु य: कर्ता पतितस्य च रक्षिता । 18
विष्णोरायतनस्येह स नरो विष्णुलोकभाक्।
इष्टकानि च यत्तिष्टेद्यावदायतनं हरे:। 19
सकुलस्तस्य वै कर्ता विष्णुलोके महीयते।
स ए व पुण्यवान्पूज्य इहलोके परत्र च । 20
कृष्णस्य वासुदेवस्य य: कारयति केतनम्।
जात स्स ए व सकृत: कुलं तेनैव पालितम्। 21

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[13]]
विष्णूरुद्रार्कदेव्यादीर्गृहकर्तान कीर्तिभाक्।
किं तस्य वित्तनुचयैर्मूढस्य परिरक्षण:। 22
दु:खार्हितै र्य: कृष्णस्य न कारयति केतनम्।
नोपभोग्यधनं यस्य पितृ विप्र दिवौकसाम् ।
नोपभोगायबंधूनां व्यर्थस्तस्य धनागम:।
यथा धृवो नॄणांमॄत्यु:वित्तनाशस्ततो धॄव: ।
मूढस्तत्रानुबध्नाति जीविते ध च वेधने।
यथावित्तं न दानाय नोपभोगाय देहिनाम्।25
नापिकीर्त्ये न धर्मार्थं तस्य स्वाम्येधको गुण: ।
तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषा तथा। 26
दद्यात्सम्य द्द्विजाग्रेभ्य: कीर्तनानि च कारयेत्।
दानेभ्यश्चाधिकं यस्मात्कीर्तनेभ्यो वरं यत:।
अतस्तत्कारये द्धीमान् विष्ण्वादेर्मंदिरादिकम्।
विनिवेश्य हरेर्दामा भक्तिमद्भिर्नरोत्तमै:। 28
निवेसितं भवेत्कॄच्छ्रं त्रैलोक्यं न चराचरम्।
भूतं भव्यं भविष्य़ंच स्थूलं सूक्ष्मं तथेतरम् । 29
आब्रह्मस्तंभपर्यंतं सर्वं विष्णोस्समुद्भवम्।
तस्य देवादि देवस्य सर्वगस्य महात्मन: । 30
निवेश्य भगवन् विष्णोर्नभूयो भुवि जायते।
यदा विष्णोर्दामकृतौ फलं तद्वद्दिवौकसाम्। 31
प्रतिमाकरणे फलकथनं-
शिवब्रह्मार्कविघ्नेश चंडीलक्ष्म्यादिकात्मनाम्।
देवालयकृते: पुण्यं प्रतिमाकरणेधिकम्। 32
प्रतिमास्थापने यागे फलस्यांतो न विद्यते।
मृण्मया द्दारुजे पुण्यं दारुजा दैष्टके भवेत्। 33

श्रीपुरुषोत्तम संहिता
[[14]]
इष्टकोद्धाच्छैलजेस्यात् हेमादेरधिकं फलम्।
सप्तजन्मकृतं पापं प्रारंभादेव नश्यति। 34
देवालयस्य स्वर्गीस्यात् नरकं नैव गच्छति।
कारयन्भगवद्धाम नयत्यच्युत लोकताम् । 35
सप्तलोकमयो विष्णुस्यस्त य: कुरुते गृहम्।
तारयत्यक्षतान् लोकानक्षयान्प्रतिपद्यते। 36
इष्टका च य विन्यासो यावंत्यब्दानि तिष्टति।
तावद्वर्षसहस्राणि तत्कर्तुर्दिविसंस्थिति:। 37
इति श्रीपाञ्चरात्रे महोपनिषदि पुरुषोत्तम संहितायां आलयनिर्माण फलकथनं नाम तृतीयोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[15]]
श्रीमत्पाञ्चरात्रदिव्यागमे-श्रीपुरुषोत्तम संहितायां
चतुर्थोध्याय:
आलयलक्षण-मूर्धेष्टकाविधानम्
आलयनिर्माण विधि:
वसिष्ट:
देवालयप्रमाणानि शृणुध्वं मुनिसत्तमा:।
उत्तमं प्रस्थरादारू मध्यमं चेष्टकान्मृतम् । 1
ए तेष्वेकतमेनैव कारयेद्भगवद्गृहम्।
प्रस्थरवर्ण फलनिरूपणं-
प्रस्थराणां च वर्णानि वक्ष्यामि मुनिपुंगवा:।2
रक्तवर्णंच सौभाग्यं पीतवर्णं महाभयम्।
धूम्रवर्णं व्याधिरूपं गौरंच मरणं भवेत्।3
श्वेतवर्णं भवेत्पुण्य़ं नीलमायुष्य़वर्धनम् ।
माणिक्यं मृत्युनाशंच अभ्रकं मोक्षदायकम् ।
चिंतामणिशिला ब्रह्मन् कर्तुरिष्टशुभं भवेत्।
सादेवलिंग निर्णय विधि:-
कुर्विदंच तु सौभाग्यं वर्णान्येतानि निर्णय: ।5
पुरुषं तालनादंच वेणुनादं नपुंसकं ।
घंटानादं प्रियतमा इत्येते लिंगनिर्णयम् । 6
बिंबादिषु योग्यनादनिरूपणं ब्राह्मणादिवर्णानि-
घंटानादं च बिंबानां पीठानां वेणुनादकम्।
तालं देवालयानां च शिलासु क्रम ईरित:।7
श्वेतं द्विजातिवर्णश्च रक्तं क्षत्रियवर्णकम्।
पीतं वैश्यमिदंवर्णमितरान् शूद्रवर्णकान् । 8
संगृह्य तु शिला सूक्ता श्शिल्पिनं पूजयेत्सुधी:।

श्रीपुरुषोत्तम संहिता
[[16]]
अंगुलादिमान विधि:
मध्यमांगुलिमध्यंच अंगुष्ठवलयार्धकम् । 9
यवत्रयाणां मानं च अंगुरस्य प्रमाणत:।
अंगुरैर्द्वादशैर्युक्त स्ताल इत्यभिधीयते ।10
गर्भालयं-
इदमेतेन तालेन द्विगुणं हस्तमुच्यते।
अष्टादशकरै: कार्यं गर्भायामं च विस्सृति: ।11

मध्यमं दशभिर्हस्तै रधमं पंचहस्तकम् ।
उपानहादिपंचांगमधिष्टानं प्रकल्पयेत्। 12
पंचहस्ता चतुर्हस्ता द्विहस्ता वा यथेच्छया।
दंडस्तदर्धं पादोनं तस्योच्छ्रेदं समीरितम्। 13
अधिष्टाने कृते तस्मिन् स्तंभमंतर्विवर्जयेत्।
ए कद्वित्रिचतुर्हस्तै: क्रमशो वर्धिता भवेत्। 14
मंदिरस्य महानासानक्तिसालसमुच्छ्रय:।
उपपीठसमायुक्ता सालोदंड स्त्रिरुच्यते ।15
कल्पनीयं प्रयत्नेन तदङ्गस्यर्धमण्टपम्।
ग्रीवाग्रतुलितो वा स्यात् प्रतिसम्मितयेन वा।16
विच्छिन्नानंतरे तेषां सालानामुच्छ्रयं विदु:।
ए तद्गर्भगृहं प्रोक्तं पुरतस्स्यार्धमण्टपम्। 17
अर्धमण्टपम्-
पंचहस्तं चतुर्हस्तं कारयेदर्धमण्टपम्।
हीनेर्धेमण्टपेधाम्न: पार्श्वाभ्यांनिर्गमस्तत: ।18
अग्रत: पृष्ठतो वापि भवेतां पार्श्ववर्त्मनि।
समुच्छ्रितं प्रतिसमं अधिकं वा यधेच्छया। 19
तावद्विस्तारयुक्ताश्च द्विगुणं चोभयोर्भवेत्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[17]]
सोपानं स्यात्समुद्दिष्टमंतश्चांतश्चनिर्गम: । 20
सोपानपङ्क्तय: कार्या ष्षडंगुरसमुच्छ्रया:।
चंडश्चैव प्रचंडश्च कल्पयेद्द्वारपार्श्वयो:- 21
नृत्तमण्टपम्-
तदग्रे मण्टपं कुर्यात् नृत्यार्थं द्विजसत्तमा:।
षट्त्रिंशत्स्तंभसंयुक्तं षोडशस्तंभमेव वा । 22
समुच्छ्रितं प्रतिसमं अधिकं वा यधेच्छया।
ए कद्वित्रिचतु: पंचहस्तैर्नृत्तार्धमण्टपम्। 23
सांतरारं समुद्धिष्टं पार्श्वाभ्यामधनिर्गम:।
सोपान पङ्क्तय: कार्या: पार्श्वयोरुभयोरपि । 24
तावद्विस्तारयुक्ताश्च द्विगुणश्चोभयं भवेत्।
सोपानपङ्क्तयोहस्ति हस्तं कुर्यास्थवीयस:। 25
यद्वारथांगं कुर्वीत सिंहव्यार मथापिवा।
अंतरावरणं कुर्यात् नृत्तमण्टपमध्यत:। 26
द्वारं वातायनं वापि भित्तिबंधं नजातु वा।
कुलक्षयो विनाशंच व्याधिर्वा भित्तिबंधने। 27
यद्वार्धमण्टपादर्ध सपादंपादमेव वा।
तत्तुल्यावांतरारंतु अंतरारायतं भवेत्। 28
विस्तारं ह्रासयेत्तत्तदंतरारस्य पार्श्वयो:।
हस्तंतारंतधर्धं वा ह्रासयेत्पार्श्वयोरपि । 29
युग्मस्तंभसमायुक्त स्तथाबंधमथापि वा।
लांगलं वा प्रकुर्वीत उभयं वा विना भवेत्। 30
चतुरश्रं वायतं वा चतुर्द्वारं चतुर्दिशम्।
वातायनं सयुग्मं तु न कुर्याद्भित्ति बंधनम्। 31
अंतरावरणस्यांतर्बहिर्योभयपार्श्वयो:।

श्रीपुरुषोत्तम संहिता
[[18]]
कल्पये च्छिल्पशास्त्रज्ञो गरुडा:क्कोणभूमिषु।32
हस्तंबंधं तदूर्ध्वंतु अग्रेनैकं प्रकल्पयेत्।
प्राकारमण्टपानि-
प्राकारेषु च सर्वेषु मण्टपानि समंतत:। 33
द्वाविंशतिधनुर्मानं मण्टपं चोत्तमं भवेत्।
अष्टादशधनुर्मानं मण्टपं मध्यमं भवेत् । 34
अधमं द्वादशधनुर्मंटपं परिचक्षते।
आस्थानमण्टपं-
पूर्वोक्तसप्तसंख्या वा भवेदास्थान मण्टपम्। 35
उत्तमं दशभिर्हस्तै र्मध्यमं चाष्ट हस्तकै:।
षड्भिस्तमधमंविद्यात् क्षुद्रंहस्तत्रयायुतम्॥ 36
दक्षिणोत्तरयो: पृष्टेभित्तियस्यु: प्रकल्पिता:।
स्तंभाष्टकयुतं तत्र सोपानं परिकल्पयेत्॥ 37
दीर्घकालामध:कुर्यात् मण्टपं चैवकारयेत्।
मण्टपा: प्राङ्मुखास्सर्वे सर्वावरणसंस्थिता:। 38
आस्थानमण्टपान् सर्वान् प्रकुर्वन्सर्वतोमुखान्।
सोमसूत्रं-
शूद्र: प्रतिष्टितं कुर्यात् सोमसूत्रस्यलक्षणम् 39
पादवेद्यां शिलायां च मकरानन माचरेत्।
वैश्य: कपोतवेद्यांच कुर्याद्गजमुखाकृति:। 40
क्षत्रिय: पट्टिकायांच मृगाधिपतिराकृति:।
द्विजोद्विपट्टिकायांच कुर्याद्गोमुखवद्द्विजा: 41
गर्भालयद्वारभेदेन फलभेदनिरूपणं-
ए वं गर्भगृहायामं तस्य द्वारं विधीयते।
प्राग्द्वारं शुभदंप्रोक्तं दक्षिणेपुष्टिवर्धनम् ॥ 42

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[19]]
पश्चिमे विजयं चैव धनदं चोत्तरं भवेत्।
उत्तुंगं नवतालैश्च विस्तृति: पंचभिर्भवेत् ॥ 43
विमानानिच भिद्यंते तलाधिष्टानभेदत:।
प्रासादलक्षणं
प्रासादंपंचधा भेदं नागारं द्राविडं तथा ॥ 44
वृत्तं वृत्तायतं चैव वेसरंच प्रकीर्तिता:।
नागरं
सर्वदिग्नासिकाकारं कूटशालासमन्वितम् । 45
आद्येच चतुरश्रान्तं चाग्रेवृत्तायुतं यदि।
नागरं तत्समाख्यातं द्राविडं चाधुनोच्यते 46
द्राविडं
पादादिस्थूपिपर्यंतं चतुरश्रं प्रकल्पयेत्।
षडश्रमथवाकुर्यात् युक्तंतद्द्राविडं भवेत्। 47
वेसरं
पादादिच शिरोंतंतद्वृत्तं वृत्तायतं तु वा।
वेसराख्यमिति प्रोक्तं मंदिरेषु यथाक्रमम्॥ 48
कूटशालासमायुक्तं सर्वदिङ्नासिकायुतम् ।
कंठोर्ध्वतलविस्तीर्णं वेसरं मंदिरं स्मृतम्। 49
सर्वतोनिर्गमं
पादप्रभृतिस्थूप्यंतं अष्टाश्रं द्वादशाश्रकम्।
यत्कूटशालारहितं सर्वतोनिर्गमस्मृत: । 50
मूर्धेष्टका विधि:
मूर्धेष्टकाविधिं ब्रह्मन् शृणु वक्ष्यामि सांप्रतम्।
आलयस्य पुरोभागे कारयेद्यागमण्टपम्॥ 51
वेदिकां कारयेन्मध्ये ए कद्वित्रिसुहस्तकम्।

श्रीपुरुषोत्तम संहिता
[[20]]
सर्वालंकारसंयुक्तं तोरणैरुपशोभितम् । 52
साधिता: पूर्वरात्रौ च चत्वार: प्रस्तरेष्टका:॥
शिलादोषविमुक्तास्यु: सुपक्वामृण्मयाथवा । 53
पंचगव्येण संप्रोक्ष्य परिस्तीर्यकुशैस्तथा।
पुण्याहंवाचयित्वाथ प्रोक्षयेच्छकुशांबुभि: ॥ 54
कौतुकंबंधयेत्तत्र मूलमंत्रेण मंत्रवित्।
प्रत्येकं वस्त्रमासाध्य स्थापयेत्तु तदग्रत:॥ 55
सादयेत्कलशान्पश्चात् सवस्त्रान् सापिधानकान्।
पंचकुंभान्विनिक्षिप्य मध्ये कुंभं तुविन्यसेत्॥56
गंधोदकेनसंपूर्णं कुशैरश्वत्थपल्लवै:।
मूलमंत्रेण कुंभास्तु साधयेत्साधकोत्तम:॥ 57
कुमुद: कुमुदाक्षश्च पुंडरीकोथवामन:।
शंकुकर्ण स्सर्पनेत्र: स्स्मुख: स्सुप्रतिष्टित:॥ 58
परित: कलशान्यष्टौ पूजयेद्देशिकोत्तम:।
वाराहंनारसिंहंच श्रीधरं हयशीर्षकम्॥ 59
जामदग्न्यं च रामंच वामनं वासुदेवकम्।
एवं विद्येश्वराःप्रोक्ताः क्रमात्कुंभेषु पूजयेत् ।60
सकूर्चंसाधयेद्विद्वान् सर्वालंकारसंयुतम्।
आरभेत ततो होमं वेदीपार्श्वेतु देशिक: ॥ 61
दिक्वष्टासु तथाधाम्नि शांतिहोमं प्रवर्तयेत्।
वेदपारायणै स्सार्धं पठद्भिश्शाकुणं प्रति ॥ 62
ऋग्वेदं पूर्वदिग्भागे यजुर्वेदंतु दक्षिणे ।
पश्चिमे सामवेदं तु अथर्वं चोत्तरे तथा ॥ 63
जुहुयात्समिधाज्येण चरुणापयसा तथा।
अष्टोत्ततरशतं हुत्वा समिधाज्यै:पृथक् पृथक् 64

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[21]]
संपादाज्यं गृहीत्वा तु पूर्णाहुतिमथाचरेत्।
रात्रिशेषं व्यतिक्रम्य कृतस्नान: कृताह्निक: ॥ 65
पूर्ववत्पूजयेत्कुंभान् गंधपुष्पादिभिस्तत:।
प्रदीपयेद्धूपदीपैरर्चये द्देशिकोत्तम: ॥ 66
बलिदानं प्रकुर्वीत यथावदनुपूर्वश:।
आचार्योतक्षकै स्सार्धं यजमान समन्वित:॥ 67
धामप्रदक्षिणं कुर्याद्वेदघोषसमन्वित:।
आरोपयेच्छतास्सर्वा: विमानस्योपरिस्थले॥ 68
पुण्याहंवाचयेत्तत्र ऋत्विग्भिस्सहदेशिक:।
मूर्धेष्टकानामाधाता प्राङ्मुखस्तुसमाहित:॥ 69
ध्यायन्नारायणं देवं हृत्पद्मे प्रणवं जपेत्।
आदद्यादिष्टकस्सर्वा: पूर्वादिक्रममाश्रित: ॥ 70
प्रणम्यदण्डवद्भूमौ यजमानो गुरुं पुन:।
वस्त्रैश्च धनधान्यैश्च गोभूमिकनकैस्तथा॥ 71
पंचांगभूषणं दद्याद्दासीदासांस्तथैवच।
तोषयेद्रथकारांश्च वस्त्रान्नधनधान्यकै: ॥ 72
स्थूपिकाकील विधि:
स्थूपिकाकीलमधुना वक्ष्यामि कमलासन।
लोहजंदारुजं वापि स्थूपिकाकीलमिष्यते ॥73
विमानकंठतुलितमत्यर्थं द्विगुणंतु वा।
युग्मं स्यास्थूपिकाकील मपुनर्भवकांक्षिण:॥ 74
इतरेषामयुग्मं स्यात् स्थूपिकाकीलकल्पनम्।
प्रदोषेनमनुप्राप्ते गर्तं कुर्यात्तुस्थूपिके ॥ 75
वृत्तं वा चतुरश्रं वा कारयेद्गर्तमुत्तमम्॥
पुण्याहंवाचयेद्गर्ते नवरत्नानि विन्यसेत् ॥ 76

श्रीपुरुषोत्तम संहिता
[[22]]
क्षिप्त्वागर्तेततस्थूपीं प्राङ्मुखो मूलविद्यया।
आचार्यस्स्थापयेस्थूपीं पंचागाकल्पभूषितम्॥ सुधया स्थूपिकाकीलं धृडं कुर्यादनंतरम्।
शिखाकुंभस्थापनं
शिखाकुंभं सुवर्णं वा राजितं ताम्रमेव वा । 78
पैत्तरं मृण्मयं वापि स्थापयेत्तक्षणेशुभे॥
शिखाकुंभस्य शिरसि स्थापयेद्विष्णुचक्रकम्।79
इति श्रीपाञ्चरात्रे महोपनिषदि पुरुषोत्तम संहितायां आलयलक्षण मूर्धेष्टका विधानं नाम
चतुर्थोऽध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[23]]
श्रीमत्पाञ्चरात्रदिव्यागमे-श्रीपुरुषोत्तम संहितायां
पंचमोध्याय:
शिलासंग्रहण विधि:
प्रतिमालक्षण श्रवणार्थं ब्रह्म प्रश्न:
ब्रह्मोवाच
भगवन् देवदेवेश प्रतिमा लक्षणं मम।
सुविस्तरं यथाब्रूहि श्रोतुमिच्छामि तत्वत:। 1
श्री भगवानुवाच
श्रीभगवत्प्रतिवचनं -बिंबनिर्माणावसरनिरूपणं
प्रतिमान्कारयेत्पूर्वं साधकस्सुसमाहित:।
सुरूपां लक्षणोपेतां देवदेवस्य शार्ङ्गिण:। 02
तस्यांजीवं समारोप्य समाराध्य न सीदति।
निराकारे तु देवेशे चित्तं न रमते यत: । 03
विग्रहाराधन विशेषः-
तस्मादाकारवत्पूर्वं लक्षणं कृद्विचक्षण:।
चिंतयन् सततंच चित्तस्थैर्यमवाप्नुयात्।04
स्थिरेचेतसि तत्रैवा क्लेशहानिमवाप्नुयात्
क्षीणक्लेशस्तुपुरुषः परं निर्वाणमृच्छति। 05
विरक्तिमूलतां याति तस्मादर्चां कृते सति।
तस्मादर्चां प्रकुर्वीत वित्तसालंबनाय वै। 06
प्रतिमाद्रव्यभेद:-
रत्नं लोहं शिलामृच्छ दारुस्फटिकमेवच।
षड्द्रव्याणि प्रशस्तानि प्रतिमाकरणे द्विज: । 07
शिलासंग्रह:
शिलासंग्रहण स्थलनर्देश:

श्रीपुरुषोत्तम संहिता
[[24]]
प्रथमं तु शिला वक्ष्ये ए षु शैलेषु दृश्यते।
हेमकूटश्चनिषधो हिमवान्नीलपर्वत:। 08
मंदरोमाल्यवांश्चैव त्रिकूटो मलयाचल:।
गंधमादनमेरुश्च दशैते पर्वतोत्तमा:। 09
ए तेषु प्रतिमाग्राह्य तदलाभे शिलां शृणु।
भूगतायाशिला ग्राह्या तदलाभे शिलां शृणु। 10
गिरौच चित्रकूटाख्ये रैवताख्ये महागिरौ ।
सिंहाचले चित्रकूटे वेंकटे दर्धुरे तथा। 11
तथाश्वेतगिरौ ग्राह्या तदलाभेशिलां शृणु।
भूगतशिलाभेद कथनं
भूगतायाशिलाप्रोक्ता स्तासां वक्ष्यामि लक्षणम्।
वारुणे चैव माहेंद्री आग्नेयी वायवी तथा।
चतस्रस्तुशिला: प्रोक्तास्तासां लक्षणमुच्यते।13
वारुणी
या पुष्पवनसंकीर्णा जलाशय समावृता।
सा क्षिती वारुणी ज्ञेया तत्रत्या कामदाशिला।14
माहेंद्री
यस्यां चोत्तरत स्सोयं व्रीहिक्षेत्रं तु दक्षिणे।
पश्चिमे क्षीरवृक्षाश्च सा माहेंद्रीति कीर्तिता। 15
आग्नेयी
पालाशखदिराश्वत्थ काश्मीर: पूर्वदक्षिण:।
तिंत्रिण्याश्चकपोताश्चगृद्ध्राश्चैवतु वायसा:। 16
बलाहका बकाश्चैव दृश्यंते यत्र संततम्।
आग्नेयी सा क्षिती ज्ञेया तत्रदा: कामदाश्शिला:।
वायवी

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[25]]
तोयमंतर्गतं स्वल्पं खनने यत्र दृश्यते।
पिलुश्लेष्मात्मकाकीर्ण स्नुहिभीतक सम्युता। 18
तृणोदकविहीना च शर्करोत्करसंयुता।
सृगाला यत्र दृश्यंते तथैव मृगतृष्णका:। 19
वायवी साक्षिति ज्ञेया शिला तत्र तु वर्जिता।
वर्जनीय स्थलानि
नदीतीरे कूपतटे पूतिभूमौ चतुष्पदे। 20
वल्मीके पितृभूमौच लवणोदकसंकुले।
आमेध्यभूमौ शबर चंडालादि निषेविते । 21
देवालय समीपेच तप्तेवातातपादिभि:।
देशेवर्जा श्शिला स्सर्वा: गृहीता चेदनर्धता। 22
ग्राह्यप्रदेशानि
पुण्यक्षेत्रे शुभेदेशे ब्रह्मवृक्षनिरंतरे।
कुशकाशोदकयुते मृगै: कृष्णैर्निषेविते। 23
पद्मोत्पलसमाकीर्ण व्रीहिक्षेत्रनिरंतरे।
हिंतालपूगपुन्नाग नारिकेरसमन्विते । 24
तपस्विजनसंबंधे दशग्राह्याश्शिलास्सदा।
वर्जनीयं विदित्वैवं गुणदोषौ निरूप्यच। 25
देशेभेदांश्च भूभेदान् लिंगभेदान् स्तथैव च।
त्याज्यशिलासंग्रहे प्रत्यवाय:
ज्ञात्वैवं लक्षणैर्युक्तां गृह्णीयाच्छुभदांशिलाम् ।26
वर्जिताभिश्शिलाभिर्य प्रतिमान् लोभमोहित:।
कुर्याद्वाकारये द्वापि भवेतस्याभिकारकम् । 27
शिलायांब्राह्मणादि जाति भेधा: तल्लक्षणाश्च-
शिलाश्चतुर्विधाब्रह्मन् वर्णभेदै श्शिलादिभि:

श्रीपुरुषोत्तम संहिता
[[26]]
ब्राह्मणस्य शिलाशुभ्राक्षत्रियस्य तु पाटला। 28
पीतावैश्यन्यशूद्रस्य कृष्णा मुख्यायथोदिता।
ब्राह्मणस्य शिला स्त्रिस्रस्तिस्रोराज्ञस्तथैवच 29
वैश्यस्य द्वेच विज्ञेया शूद्र स्येका प्रकीर्तिता
शिलासंग्रहे कालविनियमनम्
प्रशस्तं सर्वमासेषु शिला संग्रहणं द्विज: । 30
शकुनादिनिमित्तानां अनुकूलेन चान्वित:।

शिलासंग्रह विधि:
रथकारेण सहिता स्थपतीनांगणैस्सहा । 31
ब्राह्मणान् भोजयित्वा तु कृत्वां ते स्वस्ति वाचकम्।
निर्गतस्तुशिलां पश्येत् तदाप्रभृति नित्यश:। 32
अंकुरार्पण कुंभस्थापनादि
शिलासंग्रहणेदेशे कारयेन्महतीं प्रपाम्।
कृत्वांकुरार्पणं तत्र ब्रह्मचारी हविष्यभुक्। 33
आचार्यो यजमनेन सार्थं तत्र विचक्षण:।
कुंभं संस्थापयेत्तत्र मूलमंत्रेण साधक:। 34
आवाहयेत्ततोदेवं मूर्तिमंत्रेण सर्वगम्।
पुण्याहंवाचयित्वा तु चक्रमुद्रां प्रदर्शयेत् । 35
महामुद्रांप्रदर्श्याथ प्रणम्यांजलिमुद्रया।अ
शिलायांमंडलीकृत्वा तत्र विष्णुं मुदार्चयेत्। 36
कर्तुमिच्छतियांमूर्तिं तण्मंत्रेण समर्चयेत्।
अर्चयित्वा तु दिग्देवान् भूतान्क्रूर बलिँक्षिपेत्। 3
बलिप्रदानम्
पललं रजनी चूर्णं सलाजं दधि सक्तुच।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[27]]
भूतं क्रूरमितिप्रोक्तं तेन भूतबलिं हरेत् । 38
होमं
होमं कुर्याच्छतुर्दिक्षु कुण्डे वा स्थंडिलेपि वा।
पलाशसमिधं पुष्पं फलमाज्यं सपल्लवम्। 39
जुहुयान्मूलमन्त्रेण पृथगष्टोत्तरं शतम्।
चरुणाच नृसूक्तेन पृथक्कुंड चतुष्टयम्। 40
न कुण्डे जुहुयात्तत्र सर्पिषा वनदेवता:।
पार्षदानंडशैलांश्च तटशृंगानि झर्झरान् । 41
समुद्रांश्च तथा वृक्षानोषधीश्च वनस्पती:।
जरायुजानंडजांश्च स्वेदजानुद्भिदस्तदा। 42
तथा सर्वाणि भूतानि मंत्रैस्तद्देवतापदै:।
स्वाहांतै र्जुहुयात्पश्चा द्धुनेद्व्याहृतिभिस्तथा। 43
स्वप्नार्थशयनं
स्वप्नाधिपतिमंत्रेण पृथगष्टोत्तरं शतं ।
पूर्णाहुत्यन्तमखिलं कृत्वा कर्म विचक्षण: । 44
उपोष्य दर्भशय्यायां प्रभातेच जितेंद्रिय:।
आचार्यस्सुस्थितो भूत्वा इमंमंत्रमुदीरयेत् । 45
ओंनम: स्सर्वलोकाय विष्णवे प्रभविष्णवे।
विश्वाय विश्वरूपाय स्वप्नाधिपतयेनम:। 46
शतमष्टोत्तरं मंत्रं इमं जप्त्वा स्वपेद्बुध:।
सुप्त्वास्वप्ने ततश्शैलं यदि पश्येत्समुज्वलम्।
प्रवृद्धशिखरं तत्र कांचनदृमभूषितम्।
फलपुष्पसमायुक्तं रूपेत्वं शैलजैर्दृमै:। 48
एवंभूते यदिस्वप्नं प्रतिमा शोभना भवेत्।
प्रातरेतु शिलाग्राह्या शांतिं कुर्याददर्शने। 49

श्रीपुरुषोत्तम संहिता
[[28]]
शिलां मुहूर्ते संपश्येत् शोभने देशिकोत्तम:।
यक्षा: पिशाचा नागाद्या यत्र तिष्टंति नित्यश:। 50
सर्वेते व्यपगच्छंतु सन्निधत्तां सदा हरि:।
इत्युक्त्वा मंत्रसंसिद्धासिद्धार्थान् तत्र निक्षिपेत्।
तेन मंत्रेण भूतेभ्य: प्रत्याशं निक्षिपेद्बलिम्
पुण्याहं वाचैत्वातु पौरुषेण शिलां स्पृशेत् । 52
मूलमंत्रेन दत्वार्घ्यं जपेदष्टोत्तरं शतम्।
सूत्रपातादीनि
बिंबस्य चानुरूपेण पातयेत्सूत्र मब्जज।53
शिलां संस्थापयेत् स्थित्वा रथकारस्य शासनात्।
ग्रीवभेदेन फलभेद:
दक्षिणोत्तरमायामं तथावै पूर्वपश्चिमम् । 54
उत्तरे दक्षिणग्रीवा पूर्वग्रीवा जयप्रदा।
श्रीकरी पश्चिमग्रीवा कर्तुर्भवति नित्यश:। 55
पुष्टिदा चोत्तरग्रीवा कोणग्रीवा तु वर्जिता।
मूलभाग शिलायातु उपरिष्टाद्भवेत्सदा । 56
अधस्थाच्छेच्छिरोभागे विपत्यो नेत्र दंष्ट्रयो:।
महाकुंभस्थतोयेनस्नापयेत्संभृतांशिलाम्। 57
महाकुंभस्नपनादिना देवनर्चनीय शिलानिरूपणं- स्वर्णगोभूतिलां दत्वा शांतिहोमं समाचरेत्।
उत्पाट्यमाने दृश्यंते स्फुलिंगा यत्रचाग्निवत्। 58
नादेनलिंगनिरूपणं
नादस्य कांस्य घंटांच एतच्छिन्वानि वर्जयेत्
कांस्यवन्मध्यभागे तु मूले वै कांस्यताडने । 59
ध्वनिर्यस्या श्शिलायास्तु सपुमानितिकीर्तित:।
न्यूनस्तस्माध्वने:किंचिच्छेदने यत्रसारमा। 60

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[29]]
शिलानादविहीनं तु नपुंसकमुदाहृतम्।
स्त्रीपुन्नपुंसक शिलानामुपयोगानि
पुल्लिंगे प्रतिमा प्रोक्ता स्त्रीलिंगे पादपीठिका । 61
नपुंसकशिलायांतु रत्नन्यास मुदाहृतम्।
गर्भवत्यंशिला वर्जा गर्भाच्छांतर्व्यवस्थिता:। 62
गर्भवती शिला वर्जनीयां
तस्माद्गर्भं परिक्ष्येत च्छेदने भेदनेपि वा।
नवनीतं महिषजं शृंगमेषस्य चूर्णितम् । 63
गर्भपरीक्षा
चूर्णंच कुरविंदस्य संपेष्य पयसा गवाम्।
शिलायां सर्वतोलिंपेद्गर्भव्यक्तिस्ततो भवेत् 64
मंडला यत्र दृश्यंते तत्र गर्भं विनिक्षिपेत्।
मांजिष्टवर्णसदृषे मंडले दर्दुरो भवेत् । 65
पीतके मंडले गोधा कृष्णे कृष्णाहि रेव च।
कपिले मूषिका प्रोक्ता कृगला स्स्तुवारुणि। 66
गुडवर्णेतु पाषाण: तण्डुले गृहगौरिका।
अंभ: कृपाण् सदृशे वालुका पद्मसन्निभे। 67
विचित्रे वृश्चिकं ज्ञेय:नीले पीते पतंगक:।
मधुवर्णेतु खद्योतो मंडले निर्दिशेद्भुद: 68
गर्भभेदफलानि
दर्दुरेश्यादनारोग्यं गोधाया दुर्भयो भवेत्।
विषेणम्रिय्यतेनर्पिरनपत्यस्तु मूषके। 69
कृकलानेतु चाल्पायु: पाषाणे शनिवाहत:।
गौरिकायां धनापायो जलेवै गर्भनाशनम्। 70
शिकतेतु जलापाय: वृश्चिके कलहस्तथा

श्रीपुरुषोत्तम संहिता
[[30]]
शलभे राष्ट्रवासस्सात् खद्योते तु कुलक्षयम् 71
तस्माद्यत्ना त्परीक्ष्येत गर्भं नित्यमतंद्रित:।
गर्भिणीशिलासंग्रहे प्रत्यवाय:-
गर्भयुक्तांशिलांमोहात्प्रतिमांक्रियते यदि ।72
तन्मंडलाधिपोराजा कारक स्तापक स्तथा।
निमीलिता भवंत्येते तस्माद्गर्भं परीक्षयेत्- 73
श्रीयादिबिंबनिर्माण विषये शिलासंग्रहणे विशेष:-
देवीनांच रमादीनां निर्माणेस्त्रीशिला वरा-
पुंश्शिला पादपीठं स्याद्रत्नन्यासे नपुंसके। 74
देवीबिंबविनिर्माणे कुंभमध्ये विचक्षण:
आवाह्यमूलमंत्रेण श्रियं त्रैलोक्यमातरम्। 75
होमादिपूर्ववत्कुर्यात् श्रीसूक्तेनतुसाधक:।
अस्त्रियाशिलया देवी निर्मिताचेत्प्रमादत:। 76
लोभयुक्तेन मनसा न नाशमधिगच्छति
परिवारशिला संग्रह:
तत्रैवदेशे संग्राह्या: परिवार शिलाश्शुभा: । 77
शिलासंग्रहणम् तेषां कुर्यान्मंत्रैर्यथाक्रमम्।
आचार्य दक्षिणां दद्यात् यथाविभवविस्तरम्।78
शिलां गृहीत्वा तां यत्नादारोप्यशकटादिषु।
नीत्वा धाम्नि स्थपतयो रथकारमतानुगा: । 79
कुर्युरर्चां यथाशास्त्रं चोदितैर्लक्षणैर्युतम्॥
इति श्रीपाञ्चरात्रे महोपनिषदि पुरुषोत्तम संहितायां शिलासंग्रहण विधानं नाम पंचमोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[31]]
श्रीमत्पाञ्चरात्रदिव्यागमे श्रीपुरुषोत्तम संहितायां षष्टोध्याय:
दारुसंग्रहण विधि:
रत्नप्रतिमा
निर्दोषा रत्नजास्सर्वा स्सर्वकामफलप्रदा:।
स्फाटिका प्रतिमा यत्र सा सौभाग्यविवर्धिनी।
लोहजे भेदानि सुवर्णप्रतिमा फलं
हिरण्यं रजतं ताम्रं त्रिविधं लोहमुच्य्ते । 1
हिरण्मयी प्रभानेति सर्वसंपत्करी भवेत्।
वित्तं यशश्च विभवो विज्ञानं राजते फलम्। 2
राजत प्रतिमा फलं, ताम्रजा फलं
धनपुत्रप्रदाकर्तुस्ताम्रजा प्रतिमा शुभा।
वृक्षजा श्रीकरी ज्ञेया मृण्मया सर्वकामदा। 3
कार्तिकाद्यष्ट मासेषु प्रशस्तो दारु संग्रह:।
दारु, मृण्मयादिषु फलानि
प्रशस्तं पक्षनक्षत्रं योगयुक्ते शुभेदिने , 4
अगुरुर्देवदारुश्च राजवृक्षश्च चंदनम्,
दारुसंग्रहण काल:
बिल्वकाम्रोनमेरुश्च निंब: खदिर एव च। 5
शिरीष: पनसश्चैव वकुर: कुटजोर्जुन:।
योग्यवृक्षजातय:
शिंशुपश्च कदंबश्च दिरीषश्चंपकस्तथा। 6
काश्मर्यो मधुक स्साल श्शमी पुन्नाग एवच।
रक्तचंदनमित्येते प्रतिमार्थ मुदाहृतम्। 7
एतै: कार्या: प्रतिकृती: वर्जितै र्न कदाचन।

श्रीपुरुषोत्तम संहिता
[[32]]
त्याज्यवृक्षाणि
वर्जनीयानपि तरूनभिदास्यामितान् शृणु। 8
स्वयं शुष्काश्चये वृक्षा: स्वयं भग्नाहतत्वच:।
वक्रार्किणक्षताश्चैव कोटरव्रण संयुता:। 9
चतुष्पद स्थितायेच येच पुत्रकव्रुक्षता:।
न देवायतनस्थाश्च न च वल्मीक संभवा:। 10
संप्राप्तभूता ये वृक्षा श्मशानस्थाश्रयादृमा:।
पक्षिणां निलयायेच शुष्काग्रायेच पादपा: 11
निस्त्राणि तानलहता कुंजराशनिदूषिता:
पशुभि: स्सेविता ये च छायादा ये महापथि। 12
एकशाखा द्विशाखाश्च त्रिशाखाश्च विवर्जिता:।
चंडालाद्यधमैश्शश्व त्सेविता: प्रतिलोमजै: 13
शीर्णपर्णाश्च मार्गस्था अन्यवृक्षस्समावृता:।
कूपस्थाश्च तटाकस्था: विक्रीताश्च विवर्जयेत्।14
त्याज्यवृक्ष संग्रहे प्रत्यवाय:
वर्जितैस्तरुभि: कुर्यात् प्रतिमाश्च प्रमादत:।
कर्ता कारयिता चोभौ सान्ववायौ निनश्यत:।15
शुचौ समे विविक्तेच केशांगारास्थिवर्जिते।
दारुसंग्रहार्थ मधिवासादीनि
प्रागुदक्प्रवणे देशे हृद्ये कंटक वर्जिते। 16
समंतादुपलिप्याध तस्यादहतं वसुंधराम्।
गायत्र्या च परीपूते परित: प्रोक्ष्यवारिणा । 17
दारुसंग्रहणे देशे पूर्वतश्चाधिवासयेत्।
शिलासंग्रहवद्धामं कुर्यात्तंत्र विचक्षण:। 18
अनोकहानामंगानि प्रवारानि च पूर्ववत्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[33]]
जुहुयादग्निकोणेतु प्राचीने देशिकोत्तम:। 19
प्रक्षारयेद्वृक्षमूलं प्रणवेण च देशिक:।
प्रच्छादयेत्सदर्भेण वाससा मंत्रवित्तम:। 20
वृक्षमूलेकुठारंतु प्रोक्षयित्वानिदापयेत्।
अर्चयेद्गंधपुष्पाद्यैरस्त्रमंत्रेण मंत्रवित्। 21
कृत्वा व्याहृतिभि: पश्चादुपतिष्टेत भूरुहम्।
प्रांजलि: प्रियतो भूत्वा इमं मंत्रमुदीरयत्। 22
कर्मणा पूर्ववृत्तेन स्थावराकारमाश्रितम्।
वृणोमि विष्णुबिंबार्थं सर्वसंपत्करं तव। 23
स्थावरत्वादितो गच्छ दिव्यं रूपमनुत्तमम्
भुङ्क्ष्वभोगां श्च विपुलान् वासुदेव प्रसादत: 24
हिनस्मिनाहं वृक्ष त्वां किंतु मुंचामि जन्मत:।
वृक्षशोकस्य शांत्यर्थं प्राप्य देवालयं शुभम्। 25
देवत्वंयाश्यते तत्र दाहच्छेद विवर्जितम्।
जलपुष्पप्रदानेन सधूपै र्बलिभिस्तथा। 26
लोकास्त्वां पूजयिष्यंति ततो यास्यति निर्वृतिम्।
इत्युपस्थाय मंत्रेण रक्षासूत्रेण वेष्टयेत् । 27
पूर्णाहुतिं ततो हुत्वा वह्नि मुद्वासयेद्गुरु:।
प्रभाते देशिकस्स्नात्वा मुहूर्ते शोभनेशुचि: 28
पूर्ववद्गंधपुष्पाद्यै: पूजयेद्वृक्षमुत्तमम्
तद्वृक्षं तु कुठारेण प्राङ्मुख: प्रियतश्शुचि: 29
रथकार स्तथोवृक्षं छेदयेद्गुर्वनुज्ञया।
वृक्षपतने फला फल निरूपणम्
प्राच्या मुदीच्यां पतित: कर्तुरभ्युदयावहम्। 30
नैऋत्याग्नेययाम्यादि दिक्षुपातो न शोभन:।

श्रीपुरुषोत्तम संहिता
[[34]]
वायुव्यवारुणीभ्यांतु दिक्प्रपातो न शोभन:। 31
यस्य बाह्यस्थिता शाखा दिक्ष्वष्टासु समंतत:।
पूर्वमेवतु तान् च्छित्वा पश्चाद्वृक्षंतु मंत्रवित्। 32
गर्भपरीक्षा
यथाशिलायां गर्भास्तु तथा वृक्षेषु चैव हि।
कुंभोदकेन संसिंचेद्ध्यात्वा तत्र स्थितो हरिम् । 33
गुरवे दक्षिणां दद्यात् पूर्ववत्कमलासन।
देवालयं दृमं नीत्वा रथकारेण कारयेत् । 34
बिंब मत्यद्भुताकारं सर्वावयव शोभितम्
इति सम्यक्समाख्यातं दारु संग्रहणं परम् 35
इति श्रीपाञ्चरात्रे महोपनिषदि पुरुषोत्तमसंहितायां दारुसंग्रहण विधानं नाम षष्टोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[35]]
श्रीपाञ्चरात्रे श्री पुरुषोत्तम संहितायां
सप्तमोध्याय:
प्रतिमा मृत्संग्रहण विधि:
मृण्मयप्रतिमायां पक्वा पक्व विभेद:
श्री भगवानुवाच
मृण्मयप्रतिमां वक्ष्ये यथावत्कमलासन।
पक्वाऽपक्वद्विधाप्रोक्ता मृण्मयी प्रतिमा क्रमात्।1
अपक्वाप्रतिमा शस्ता सर्वकामफलप्रदा।
मृत्संग्रहण योग्यप्रदेशानि
पुण्यक्षेत्रे नदीतीरे कांतारे पर्वतेपि वा । 2
मृदं समग्रां गृह्णीयात्सर्वदोषविवर्जिताम्।
नीचैरध्यासितांचैत्य श्मशानादि विवर्जिताम्। 3
ब्राह्मणादिजातय: मृत्संग्रहणानंतर विधि:
ब्राह्मणस्यसितामृद्वै क्षत्रियस्यारुणा स्मृता।
वैश्यस्य पीतो विज्ञेया कृष्णा शूद्रस्य पद्मज । 4
खदिरौदुंबराश्व त्थ न्यग्रो धार्जुन भूरुहम्।
समुद्धृत्य त्वचस्सर्वांमासं वारिषु निक्षपेत्। 5
तोयैर्मासोषितैर्मृत्स्नां मिश्रयेत्पीडयेत्तत:।
युवानं कुशलं शांतं कुलालं व्याधिवर्जितम्। 6
रथकारं नियुंजीत शास्त्रोक्तेसर्वकर्मणि।
रथकारोक्तविधिना कुलालं सर्वमाचरेत्। 7
तां नूतनेषु भांडेषु निक्षिप्याच्छाद्ययत्नत:।
च्छाययां निक्षिपेद्भाण्डं यथावातादि न स्पृशेत् 8
धात्रीफलं त्रिभागं च षड्गुणा च हरीतकी।
धातरीय स्त्रयोभागा: चूर्णमेतत्प्रकल्पयेत्। 9

श्रीपुरुषोत्तम संहिता
[[36]]
पुण्यक्षेत्रे नदीतीरे पर्वते पुलिने ह्रदे ।
निर्झरे संगमेसोष्ये वेदिकोवरयो स्तथा। 10
शालिक्षेत्रे देवखाते शृंगे च वृषहस्तिनो:।
वराहकृष्णवल्मीककुरीरवसतौ तथा। 11
नरिन्यां दीर्घिकायां च मृदश्चेकोन विंशति:।
मृदाममीषां मात्राभि: मिश्रयेत्पीडयेत्तत: । 12
पूर्वोक्तमानैस्त्रिफला चूर्णैस्तांमिश्रयेत्पुन:।
नादेयैश्लष्णपाषाणै: मृत्तुर्यांशेनचूर्णितै:। 13
चंदनं कुंकुमं कृष्णं श्रीवेष्टं हरिचंदनम्।
गुग्गुलं च निशांचैव हरितारं मनश्शिला 14
तमालपत्राण्येतानि चंदनादीनि चूर्णयेत्।
मृद्विंशत्येकभागैस्तु चूर्णैस्ततुल्यसैकतै: 15
चूर्णैस्तैर्लोहरत्नैश्च मिश्रयित्वा विमर्दयेत्।
कपित्तस्य रसं तत्र भागमेकं विमिश्रयेत्। 16
मधुतैलघृतक्षीर ददिभिस्सुक्ति सम्मितै:।
अधिवास:-
इमां मृदं समालोड्य नवभांडेषु निक्षिपेत्। 17
आच्छाद्य नववस्त्रेण धान्य मध्ये विनिक्षिपेत्।
अर्चयेन्मूलमंत्रेण मृ द्भाण्डान्देशिकोत्तम:। 18
होमविधि:-
कुण्डे वा स्तंडिले वापि होमंकुर्यात्ततो गुरु:।
सर्पिषां जुहुयादग्नौ मूलेनाष्टोत्तरंशतम्। 19
चरुं पुरुषसूक्तेन प्रत्येकं जुहुयात्तत:।
संपाताख्येन तां सिंचेन्मृदंभांडेषु संस्थिताम्। 20
पूर्णाहुत्यंतमखिलं कुर्यात्तंत्र विचक्षण:।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[37]]
मासं पर्युषितां कृत्वा प्रतिमां कारयेत्तत: । 21
मृत्संग्रहोयं संप्रोक्त: प्रतिमा लक्षणं शृणु ।
रत्नलोह शिला दारु मृण्मयादिन् विभेदत:। 22
इति श्री पाञ्चरात्रे महोपनिषधि पुरुषोत्तम संहितायां प्रतिमा मृत्संग्रहणं नाम सप्तमोध्याय:
««««_____________»»»»
श्री पाञ्चरात्रे श्री पुरुषोत्तम संहितायां
अष्टमोध्याय:
धृवबेरादि विग्रह लक्षण विधि:
ऋषयः- भगवन्मुनिशार्दूल आश्रितार्थफलप्रद
कथ्यतां बिंबनिर्माणविधिं शास्त्रप्रमाणतः।
कथिभेदानि बेराणि अर्चनार्थं मधुद्विषः।
तेषां तु लक्षणान्ब्रूहि विस्तरेण यथविधि।
धृवबेर लक्षणं
श्रीवशिष्टः-
अत: परं प्रवक्ष्यामि विग्रहाणां च लक्षणम्।
आलयस्य प्रमाणेन कुर्याद्द्वारप्रमाणत:। 1
यजमानस्य मानेन कारयेत्त्रिविधं भुवि।
गर्भालयमानेन विग्रहमान:।
गर्भालयस्य चायामं नवभागं च गण्यते। 2
यथा द्रव्यानुसारेण कुर्याद्द्वारानुसारत:।
एकादिनवमांतं च कारयेन्मूलविग्रहम् । 3
गर्भालयद्वारमानं पादं न्यूनं च वै द्विज।
द्वारमानेन यजमानमानेन, अंगुरादिमानानि-
द्वारार्थं वा तदर्थं वा द्वारमानं चतुर्विधम्। 4
यजमानसमं कुर्यात् नेत्रांतं वा यथावधि (रुचि)।

श्रीपुरुषोत्तम संहिता
[[38]]
चुबुकं चास्यमानं वा वक्षोजांतं हृदंतकं। 5
सप्तमानमिदंज्ञेयं यजमान वशं विदु:।
शिल्पिनागमशास्त्रेन कारयेद्विग्रहं शुभम्। 6
मानांगुरं
अंत: परं प्रवक्ष्यामि अंगुरस्य प्रमाणकम्।
अणुरेणुभिरष्टैश्च सर्षपं स विधीयते।(तत्प्रचक्षते)7
सर्षपैरष्टभिश्चैव तिलमेकंविधीयते।
तिलाष्टभिर्यवं प्रोक्तं यवाष्टैस्तिर्यगंगुलम्। 8
इति मानांगुरं(मिदं) प्रोक्तं मात्रांगुरमिदं शृणु।
मात्रांगुरं
मध्यमांगुरि मध्यस्य ऊर्ध्वं पर्वस्य तिर्यगम् ।9
मात्रांगुलं च द्विविधं देहलब्धांगुरं तत:।
देहलब्धांगुरं
अंगुष्ठवलयार्थं च अष्टार्थं च तथोन्नतम्। 10
इदं च द्विविधं प्रोक्तं सर्वशास्त्रेषु निश्चितम्।
मानांगुलाद्युपयोगानि
मानांगुलप्रमाणेन आलयादि विधीयते। 11
मात्रांगुलप्रमाणेन कुण्डं कूर्चं सृचं सृवम्।
इध्माद्यनलपात्राणि कुर्यात्सर्वाणि देशिक:। 12
देहलब्धांगुरेनैव प्रकुर्वात्सर्वदेवता:।
आलयस्यवशेनैव तथाद्वारवशेनच।
((आलयस्य प्रमाणेन तथा द्वारप्रमाणतः।)13
बिंबनिर्माण विधि:
यजमानवशेनैव मूर्तिं कुर्यात्त्रिधा तत:।
विग्रह प्रमाण:

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[39]]
तद्बिंबसव्यहस्तस्य देहलब्धांगुरेन च। 14
पादादिकेशपर्यंतं तथाचाष्टोत्तरं शतम्।
द्वादशांगुरमानेन नवतारानि गण्यते 15
सर्वेषां विग्रहाणां च प्रमाणमिति निश्चय:।
विग्रह विभागानि
लिंगस्थानं शरीरार्धं अधश्चोर्ध्वंच तत्समम् ।16
ऊर्ध्वकायं चतुर्भाग नाभेर्लिंगस्य चांतर:।
एकभागमधश्चोर्ध्वे हृदंतं चैकभागत:। 17
हृदादिचुबुकांतं च एकभागं विधीयते।
तस्योर्ध्वे च शिरोजांतमेकभागं प्रकल्पयेत् ।18

अवयवप्रमाण विधि:
कर्णौचतुर्भिरंगुर्यै र्नासिकं चतुरंगुलम्।
नासिकस्य समं नेत्रं वक्त्रं नेत्रस्य तत्समम्। 19
चतुरंगुरकं कण्ठं मेहनं चतुरंगुलम्।
मेहनार्थं च वृषणं स्तनमध्यं दशांगुरम् । 20
अध:कायांतरे जानुहस्तौ जान्वंतमुच्यते
नाभेस्समं बाहुमध्यं तत्समं मणिबंधकम्। 21
हस्त लक्षणं
तदर्धंस्यात्पाणितलं नखांतं कारयेद्बुध:।
अंगुलत्रयमानेन मध्यमांगुरिमुन्नतम्। 22
पर्वत्रयं समं कुर्यात् सर्वलक्षण संयुतम्।
तर्जन्यनामिकं चैव माषं न्यूनं विधीयते। 23
कनिष्टिकं द्विमाषं स्यात् त्रिमाषांगुष्ठमुच्यते।
यथाबिंब प्रमाणेन तथा कुर्याद्विचक्षण:। 24

श्रीपुरुषोत्तम संहिता
[[40]]
पादलक्षणं
पादं तालप्रमाणेन अंगुरानां विधिं श्शृणु।
अंगुलत्रयमाणेन पादमध्यांगुरं स्मृतम्। 25
तत: पाण्यंगुरानेव कारये च्छिल्पिसत्तम:।
अवयव लक्षणं
मस्तकस्यच मध्येतु कर्णस्थानं विधीयते । 26
श्रोणीललाटं कुर्वीत कूर्म पृष्ठवदुन्नतम्।
कर्णौ नेत्रे नासिकेच जानुगुल्फौ कटीभुजौ। 27
वृषणं चुबुकं चोष्टौ मणिबंधं च भ्रूयुगे।
बाहुमूले कुचौ युग्मौसमं कुर्याद्यथाविधि। 28
स्थान***
(स्थानेन विग्रहे कुर्यात्)
तिष्ठत: प्रतिमायां तु गर्भावर्तं समुन्नतं।
ऊर्ध्वौहस्तौ भुजसमौ नेत्रांतंचायुधाग्रकम्। 29
अलंकारासनं कुर्यात् प्रमाणं न विचारयेत्।
यथा बिंबोर्ध्वमानेन आसनं च तथोन्नतम् । 30
नासादिचुबुकांतस्य द्विगुणं मकुटं तथा।
यथा लाभं तथा कुर्याद्गर्तस्तूपीं प्रकल्पयेत्। 31
देव्यादि मान विधि:
देवीमानं ततो वक्ष्ये नासांतं विग्रहस्य च।
ओष्टांतं मध्यमं प्रोक्तं चुबुकांतमधाधमम्। 32
आसीना सा चतुर्हस्ता तिष्ठति द्विभुजा तथा।
देवस्य पार्श्वयो: क्कुर्यात्तिष्ठत्यौ प्रतिमे द्विज। 33
वामेश्रियो वामहस्तं लंबं दक्षिण पंकजम्।
तथा दक्षिणदेशे च श्रियो वामे(न) च पंकजम्। 34

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[41]]
दक्षिणे लंबहस्तं च श्रीभूदेव्योश्च लक्षणम्।
सर्वेषां विष्णुबिंबानां लक्षणं पार्श्वयो श्रियो: । 35
आलयेन्ये स्थापितव्य राज्यलक्ष्मी (वीरलक्ष्मी) श्चतुर्भुजा।
(वरदाभयहस्तौ च ऊर्ध्वे पंकजधारणी।
कमलासनयुक्ता च वीरलक्ष्मीर्विधीयते।
पूर्णचंद्रनिभंचास्य सर्वाङ्गं सुंदरं शुभम्।
सर्वाभरणसंयुक्तां श्रीबिम्बं सर्वतस्स्मृतम्।)
वरदाभयहस्तं च पद्मं सव्यापसव्ययो: । 36
पद्मपीठे समासीनां राज्यलक्ष्मीं तु कारयेत्।
सर्वेषामवताराणां राज्यलक्ष्मीं प्रकल्पयेत्। 37
इत्येवं धृवबेरस्य लक्षणं सर्वसम्मतम्।
लक्षणं कथितं द्विजाः
कौतुकबेरादिमानानि षड्बेराणी
कौतुकं धृवबीरार्धं कौतुकार्धं तथोत्सवम्। 38
स्नपनं चोत्सवार्थंस्यात् स्नापनार्थं बलिस्तथा।
सालग्रामं च तीर्थार्थं इति षड्बेर लक्षणम् । 39
धृवादिस्नपनांतस्तु ध्रुववत्कारयेत्क्रमात्।
(अवतारेषु सर्वेषु कर्मार्चास्थानकं स्मृतम्।)
सुदर्शन मूर्ति:
षट्कोणचक्रमध्येच मूर्तिं षड्भुजमुच्यते। 40
पंकजं हेतिराजं च गदां दक्षिण बाहुभि:।
शंखं च मुसलं शार्ङ्गं धारयेद्वामबाहुभि:। 41
भ्रांतं षट्कोण चक्रस्य षडरैस्सहितंमतम्।
द्वारपालकविग्रह लक्षणानि
(द्वारेद्वारे च कुर्वीत द्वारपालक विग्रहौ।)

श्रीपुरुषोत्तम संहिता
[[42]]
सर्वेषु द्वारदेशेषु द्वौबिंबौ द्वारपालकौ। 42
वामे चक्रं तथा शङ्खं गदां दक्षिण हस्तके।
व्यस्तपादं सपादं वा द्वारदक्षिण विग्रह:। 43
वामे शंखं तथा चक्रं वाम हस्ते गदाधरम्।
अन्यं वरदहस्तं च वामविग्रह लक्षणम्। 44
(शङ्ख चक्र गदा पद्मस्सर्व सामान्यलक्षणम्।)
द्वारविग्रह माना:
द्वारमानं च तस्यार्धं तदर्धं च तदर्धकम्।
यथा वित्तानुसारेण कारयेद्द्वारपालकान् । 45
गर्भालयस्य मानेन धृवमानेन वा भवेत्।
(गर्भालयप्रमाणेन ध्रुवबिंबानुसारतः।)
प्रमाणैचश्चतुर्भिश्च कुर्याद्वित्तानुसारत:। 46
इति श्रीपाञ्चरात्रे महोपनिषदि पुरुषोत्तम संहितायां धृबेरादिविग्रहलक्षणंनाम अष्टमोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[43]]
श्रीमत्पांचरत्रे श्रीपुरुषोत्तमसंहितायां नवमोध्याय:
रथादियान लक्षण विधि:
रथलक्षणम्
रथस्य लक्षणं वक्ष्ये देव देवस्य शार्ङ्गिणः।
विमानोच्छ्रायमानं वा गोपुरोच्छ्रायमेव वा। 1
ध्वजस्तंभ समुच्छ्रायं मण्टपोच्छ्रायमेव वा।
लोहेन दारुणा वापि कारयेद्रथमुत्तमम्। 2
अंतस्सारं दारुजं चे ल्लोहश्चेत्स्वर्णराजितम्।
(कांस्येनवाऽथवा कुर्याद्यथावित्तानुसारतः।)
नवरत्नैश्च खचितं द्वारस्तंभशतावृतम् । 3
षोडशद्वादशाष्टौ वा यथाविभवविस्तरम्।
भूरादिसप्तवाकुर्या दतलादिचतुर्दश। 4
भूर्भुवस्सुवरित्यादि लोकत्रयतलं यथा।
उच्छ्रायस्याणुगुण्येन आयामं (तथायामो) (परिकल्प्येत्।) 5
भूमिकायाश्च प्रथमे भागे चक्राणि कल्पयेत्।
पार्श्वयोरुभयो: कुर्याद्रथस्यानुगुणं यथा। 6
तदग्रेच शिखाकुंभं चक्रेनोज्वलितं महत्।
घंटाशतसमायुक्तं पताकध्वजशोभितम् 7
हयान्वा द्विरदान्वापि प्राग्भागेपरिकल्पयेत्
तन्मध्ये सारथिं स्थाप्य तोत्रं वांकुशधारिणम्। 8
चित्ररचना
अतलादि पदेतत्तल्लोकस्थान् परिकल्पयेत्
नागान्यक्षान्किंकरांश्च गंधर्वान् गरुडस्तथा। 9
सिद्धान्विद्याधरां चैव देवदानव राक्षसान्।
पिशाचान्गुह्यगा स्साध्यान्मुनीन्परमवैष्णवान्।

श्रीपुरुषोत्तम संहिता
[[44]]
रामकृष्णादिविभवन्मूर्ति लीलान्प्रकल्पयेत्।
रथमध्यपीठ लक्षणं
तन्मध्ये वेदिकायां तु कूर्मपीठं प्रकल्पयेत्। 11
तस्योपरि ह्यनंतं च सहस्रफणिमंडितम्।
कल्पयित्वाथ तन्मध्ये डोलिकां स्वर्णनिर्मिताम्।
तन्मध्येष्टदरं पद्मं कर्णिका केसरान्वितम्।
आसीनार्थं तु देवस्य स्वर्णपीठं प्रकल्पयेत् । 13
रथनिर्माण फल विशेष:
एवं कृत्वा रथं दिव्यं विष्णोरतुलतेजस:
येर्पयंत्यति भक्त्या तु ते यांति परमं पदम्। 14
तदितरवाहनानि तल्लक्षणानि च
अत: परं प्रवक्ष्यामि वाहनानां च लक्षणम्।
पीठमादित्यसोमं च सिंहव्यालि खगाधिपा:।15
हनूमान्हंसमत्तेभौ हयस्यंदन एव च।
शिबिकां सर्वभूपाल वाहनानि यथाक्रमम् । 16
गर्भालयसमं वापि तद्वार स्योन्नतिं तथा।
धृवबेरप्रमाणं वा वाहनानि च कारयेत्। 17
इति श्रीपांचरात्रे महोपनिषदि पुरुषोत्तम संहितायां रथादिलक्षणं नाम नवमोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[45]]
श्री पांचरात्रे श्रीपुरुषोत्तम संहितायां दशमोध्याय:
प्रतिष्ठामुहूर्तनिर्णय विधि:
प्रतिष्ठाविधिश्रवणार्थं ब्रह्म प्रश्न:
ब्रह्म उवाच
प्रतिष्ठालक्षणं ब्रूहि देवदेवजगत्पते।
तत्सर्वं विस्तरेणैव यदि तुष्टोसि मे प्रभो। 1
भगवत्प्रतिवचनं
प्रतिष्ठाविधिकारिका क्रियासूचनम्**
श्रीभगवानुवाच
अथ वक्ष्ये विशेषण प्रतिष्टाविधिमुत्तमम्।
मण्टपं प्रथमं कुर्याद्द्वितीयं जलवासकम्। 2
तृतीयं स्नपनं कुर्या च्चतुर्थं शयनं भवेत्।
पंचमं चाग्नि विन्यासं षष्ठं ब्राह्मणभोजनम्। 3
सप्तमं शांतिहोमं तु अष्ठमं स्पर्शनं भवेत्।
नवमं गेहशुद्धिस्तु दशमं रत्नमुच्यते। 4
एकादशं कर्मपूर्ते: पूर्णाहुतिमथाचरेत्।
द्वादशं स्थापनं कुर्यात्प्रोक्षणं च त्रयोदशम्। 5
न्यासं चतुर्दशं कुर्यात्परिवार मत: परम्।
षोडशीदक्षिणा प्रोक्ता क्रियासूचन मुत्तमम्। 6
प्रतिष्टामुहूर्तनिर्णय: अयनं , पक्षं, त्याज्य दिवसानि
प्रतिष्टासु मुहूर्तस्य लक्षणं शृणु सांप्रतम्।
(अयनंचोत्तरं श्रेष्ठं त्याज्यं दक्षिणमुच्यते)
दक्षिणायनमुत्सृज्य उत्तरायण मुत्तमम्। 7
उत्तमं शुक्लपक्षंतु कृष्णपक्षेपि वा भवेत्।
गुरावस्तंगतेशुक्रे व्यतीपातेतु वर्जयेत्। 8

श्रीपुरुषोत्तम संहिता
[[46]]
संक्रांतौ दुर्दिनेचैव ग्रहणे सोमसूर्ययो:।
परस्ताश्च पुरस्ताश्च षोडशाहनि वर्जयेत्। 9
अतिचारे तथा मासे पर्वयुग्मयु ते तथा।
एवमादिषु चान्येषु गर्हितेषु न कल्पयेत्। 10
योग्यदिवसानि
राज्ञोराष्ट्रस्य चान्यस्य ग्रामस्य च गुरोस्तथा।
यजमानस्य धिष्ण्यस्य शुभेप्वनुगुणेषु च। 11
तिथिनक्षत्रवारेषु मोहूर्तेषु शुभेषु च।
तिथय:
प्रथमा च द्वितीया च पंचमी च त्रयोदशि। 12
दशमी पौर्णमासी च शुक्लपक्षे शुभे तिथौ ।
वाराणि नक्षत्राणि
गुरुभार्गवसौम्यानां वारा श्रेष्ठतमामता:। 13
उत्तरासुच रेवत्यां अश्विन्यां धातृजे तथा।
पुष्य़े पुनर्वसौ चापि हस्ते च श्रवणे तथा। 14
देवस्य स्थापनं कुर्याद्विष्णोरभ्युदयावहम्।
सौम्यग्रहा:
सोमौ बृहस्पतिश्चैव भार्गवोध बुधस्तथा- 15
शुभलग्ननिर्णय:
एते सौम्यग्रहा: प्रोक्ता: प्रशस्ता स्थापनं प्रति।
सैंहिकेयश्च सौरश्च अर्कश्चैव तु निंदिता:। 16
रासे स्तृतीये षष्टे वा स्थिताश्चेच्छुभशंसिन:।
द्वितीये च तृतीये च तथापंचम षष्ठयो:। 17
सप्तमे दशमे चैव राशौ चैकादशे पुन:।
स्थित: श्शुभकरश्चंद्र: षट्सप्तदशमस्थित:। 18

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[47]]
भयकृद्भार्गवोज्ञेय श्चंद्र: क्रूरैर्निरीक्षित:।
सूर्येंदुकुजराह्वर्के केतवो लग्नका यदि। 19
कर्तुमृत्युप्रदा स्सौम्यश्चायुश्रीपुत्रपौत्रदा:।
द्वितीये वित्तदा स्सौम्य सचंद्रा: नेष्टदा:परे । 20
तृतीय स्थानगा: क्रूरा: गृहश्रीपुत्रदा स्मृता।
चतुर्धे श्शुभदास्सौम्य श्चंद्र: क्रूराश्च दु:खदा:।21
पंचमे व्याधिदाक्रूरा: शुभा: पुत्रधनप्रदा: ।
पुत्रदस्तत्रपूर्णेंदु: क्षीणेंदु र्दोषकृद्भवेत्। 22
षष्टि श्चदु:खदा प्रोक्ता दशमी च धनप्रदा।
पुत्रसंपत्प्रदा स्सौम्या: धर्मस्थानस्थितायदि। 23
लाभ स्थानगता स्सर्वे ग्रहा श्रीपुत्रपौत्रदा:।
व्ययस्थानगतास्सर्वे बहुव्ययकरा ग्रहा: । 24
सूर्यवारश्शुभप्रोक्त: करपुष्य़युतो यदि।
मंदवारो हित: कर्तु: स्वाती रोहिणि योगत:। 25
तृतीया बुधसंयुक्ता षष्टी जीवसमाहिता।
एकादशी सोमयुता करोति प्राणा संशयम् । 26
पौष्णस्तु सप्तमी युक्ता दहत्यग्नि रिवप्रजा:
उत्तराषाढसंयुक्तो सोमवारस्तुशोभन:। 27
वृषमत्स्यमृगेंद्राख्य सुमुहूर्ताचोत्तमामता:।
कुंभकश्च धनुर्मेषमिधुना मध्यमास्मृता:। 28
कर्तुस्सूर्यबलोपेते चंद्रताराबलान्विते।
पंचेष्टकयुतेलग्नेप्यष्टमे शुद्धिसंयुते 29
शुभग्रहे क्षिते युक्ते सुमुहूर्ते सु योगके।
बहुनात्रकिमुक्तेन सहमौहूर्तिकैर्गुरु:। 30
स्थापनं देवदेवस्य कुर्यात्काले यथाविधि।

श्रीपुरुषोत्तम संहिता
[[48]]
तदर्धं मण्टपं कुर्यात् यथाभिमतदिङ्मुखम्। 31
इति श्रीपांचरात्रे महोपनिषधि श्रीपुरुषोत्तम संहितायां प्रतिष्टानिर्णयो नाम दशमोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[49]]
श्रीपांचरात्रे पुरुषोत्तमसंहितायां एकादशोध्याय:
यागशाला कुण्ड तोरण विधि:
यागमण्टपनिर्माणादिविधान ब्रह्मप्रश्न:
ब्रह्म उवाच
भगवन् ब्रूहि देवेश यागमण्टपलक्षणम्।
कस्मिन्देशे प्रकर्तव्यं सर्वमन्यत्सुविस्तरम्। 1
भगवत्प्रतिवचनं -यागमण्टप लक्षणं-
देवालयस्य पूर्वास्यांचैशान्येचोत्तरेपि वा।
द्वितीया वरुणे यद्वातृतीयावरणेपि वा। 2
यागार्थं मण्टपं कुर्यात् षोडशस्तंभसंयुतम्।
हस्तषोडशविस्तीर्णं तद्वदायामसंमितम्। 3
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम्।
तद्भुवं नवधा कृत्वा(तन्मध्ये)
मध्यमे ब्रह्मण:पदे। 4
वेदीं निर्माय परित: दिक्षु कुण्डानि कल्पयेत्।
चतुरश्रकुण्ड लक्षणम्-
हस्तमात्रं खनेद्भूमिं चतुरश्रं यथा भवेत्। 5
तन्मध्येपद्मपीठं स्या च्चतुरंगुलमुन्नतम्।
बहिरष्टदरं पद्मं द्वादशांगुर विस्तृतम् । 6
खाताद्बहिश्चतुर्दिक्षु मेखलात्रितयं भवेत्।
(सात्वतीराजसीचैव तामसी त्रिक्रमाद्भवेत्।
सर्वेषां चैव कुण्डानां मेखलानामनिर्णयः॥)
चतुरंगुरमुत्सेधा द्वादशांगुर विस्तृता। 7
प्रथमा मेखला कार्याद्वितीया तद्वदुन्नता।
अष्टांगुरसुविस्तीर्णा द्वितीया मेखला भवेत्। 8

श्रीपुरुषोत्तम संहिता
[[50]]
तृतीयामेखला कार्या चतुरंगुर विस्तृता।
तद्द्वदौन्नत्यसहिता तदूर्ध्वे योनिरिष्य़ति। 9
कुण्डस्य पश्चिमे भागे योनि: पंचदशांगुला।
पिप्पलच्छदवत्कुर्यात् याम्येवा योनिकल्पना। 10
उदंङ्मुखो यदि भवेद्धोता योनिं विनापि वा।
कुण्डं कुर्यात्तदश्रेतु कोणसूत्रस्य मानत:। 11
चतुर्दिक्षु चतुस्सूत्रावास्फाल्य चतुरश्रकम्।
मध्यात्कोणस्पृशत्सूत्रं पार्श्वभागेनिधाय च। 12
अतिरिक्ततृतीयेन भ्रामये त्पूर्णचंद्रवत्।
चापकुण्डम्
मध्येसूत्रं समास्फाल्याविसृजेमत्तरार्थकम्। 13
स्वीकृत्य दक्षिणार्थं तु पूर्ववन्मेखलात्रयम्।
येतच्छापाख्यकुण्डं स्यात् पूर्ववच्छतुरश्रके। 14
वृत्तकुण्डं
क्षेत्रमाद्यात्कोणसूत्रं पूर्ववद्भ्रामयेत्तत:।
पूर्णचंद्रपदे तत्सात् पूर्ववन्मेखलायुतम्। 15
पद्मकुण्डं
अश्राद्वृत्तं समालभ्य पूर्ववत्सूत्रवर्त्मना।
दरानि मेखलास्थाने निर्मितं पद्मकुण्डकम्। 16
त्रिकोणकुण्डं
अश्रविस्तृतषड्भागं दक्षिणोत्तरयोर्ध्वयो:।
पश्चिमेश्रस्य संयोज्यसूत्रमास्फाल्य लांछयेत्। 17
मेखला
तत्सूत्रस्फालनेनैव त्रिकोणं साधयेद्गुरु:।
यादृग्विधं भवेत्कुंडं तादृगेवतु मेखला। 18

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[51]]
पंचकुण्डविधानं
चतुरश्रं भवत्प्राच्यां दक्षिणे धनुराकृति:।
पश्चिमे वर्तुलं कुण्डं उत्तरे त्रिश्रकुण्डकम्। (उत्तरेपद्ममुच्यते।) 19
(वह्निभागे त्रिकोणं स्यात्)
पद्मकुण्डं शिवेकार्यं पंचवह्निप्रकल्पने।
चतुस्तोरणानि तेषां प्रमाणानि
अश्वत्थोदुंबरश्चैव न्यग्रोधं तु तथैवच। 20
प्लक्षश्चैवतु चत्वारो तोरणार्थं प्रकल्पयेत्।
तदुत्सेधमधो वक्ष्ये तोरणानां च सर्वश:। 21
मण्टपद्वारतुल्यं वा पादायतमथापि वा।
तद्दण्डं द्विगुणं वापि स्थंभोत्सेध मथापिवा। 22
पंचहस्तसमो वापि चतुर्हस्तं तु वा पुन:।
तदर्थं पट्टिकाकारं तोरणानिच कारयेत् । 23
मण्टपनिर्माणे स्तंभादि नामानि-
दशतालं तथायामं पट्टिकातु तदर्धकम्।
स्तंभयोर्मूलनाहं स्याद्द्वात्रिशांगुरमीरितम्। 24
तयोर्मध्ये तु नाहं तु अष्टाविंशतिरंगुलम्।
तदग्रयोर्नाहं स्याच्चतुर्विंशांगुरोन्नतम्। 25
स्तंभायामं त्रिधाकृत्वा मूलभागेयुगाश्रकम्।
महाभागे तु कास्त्वश्रं ऊर्ध्वभागे तु वर्तुलम्। 26
अथवा स्तंभनाहं स्या न्मूलमध्याग्रकेषुच।
चतुर्विंश द्विंशतिश्च षोडशांगुल मिष्यते। 27
षोडशाङ्गुलनाहं वा पादादग्रसमं ततः।
स्तंभयोर्नाहमुक्तं च यथाशोभं भवेत्ततः।28
स्तंभयोरग्रतःकुर्यात् पद्मकुड्मलवभवेत्।

श्रीपुरुषोत्तम संहिता
[[52]]
अथवाग्निशिखावापि यथाशोभं तु कारयेत्।29
स्तंभानुत्सेधमानेन विस्तारं पट्टिका उभे।
पट्टिकाद्वयविस्तारं द्वादशाङ्गुलमेव्स वा।30
अष्टाङ्गुलं वा कुर्वीत षोडशाङ्गुलमयतम्।
चतुरङ्गुलविस्तारं पट्टिकार्धं तु पंकजम्।31
स्तंभं चतुर्थ विभजेदेकभागं क्षितौ क्षिपेत्।
यज्ञवृक्षांच संगृह्य यथकामामथापि वा।32
द्वारप्रमाणं वा कुर्यात् प्रमाणं पुरुषायतम्।
एवं लक्षणयुक्तानि कारयेत्तोरणानि च।33
अष्टमङ्गललक्षण- वक्ष्यामि लक्षणं चाष्टमङ्गलानि यथातथम्।
यज्ञवृक्षान् समादाय क्षीरवृक्षं ब्विशेषतः॥34
आयाममेकहस्तं स्याद्विस्तारं च षडङ्गुलम्।
घनं त्रयाङ्गुलं प्रोक्तं रक्ताङ्गं श्वेतवर्णकम्।35
पीताभं पङ्कजाभं राजाराष्ट्रसुखावहम्।
श्रीवत्सं पूर्णकुंभं च भेरीदर्पणमण्डलम्॥36
मत्स्ययुग्मं च शङ्खं च चक्रं काश्यपनन्दनम्।
फलकेषु लिखेदेवं मङ्गरानि यथाक्रमम्।37
समिधः इध्मम्
पालाशौदुंबराश्वत्थं प्लक्षास्समिधयस्तथा॥
इध्ममेकविंशत्या कुशाग्रान् बंधयेत्ततः।38
समित्प्रादेशयुगरं चतुर्विंशांगुलःकुशैः।
ब्रह्म कूर्चादयः
चतुर्विंशतिदर्भैश्च ब्रह्मकूर्चादयास्स्मृताः।39
मूलमङ्गुलमुत्सृज्य तथाग्रं विसृज्र्द्बुधाः।
पवित्रग्रंधिवद्ग्रंधिर्वेणी रूपं तथाकृतिः।40

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[53]]
त्रिःप्रादेशंतु परिधीन् प्रादेशं स्यात्पवित्रकम्।
स्रुक्स्रुवादीनि
यज्ञाङ्गं खादिरो वापि स्रुक्स्रुवौ कारयेत्सुधीः॥ 41
चतुर्विंशाङ्गुलायामं तदग्रे कमलाकृती।
बिलमङ्गुलमात्रं स्यात् स्रुवमेवं प्रकीर्तितम्।42।
द्वादशाङ्गुलदण्डं स्याच्चतुरङ्गुलकं बिलम्।
जुहुरष्टाङ्गुलं चैव स्रुचमित्यभिधीयते॥43॥
इति श्रीपांचरात्रे पुरुषोत्तमसंहितायां यागशाला, कुण्ड तोरणादि लक्षणं नाम एकादशोध्यायः
««««_____________»»»»
द्वादशोध्याय:
आचार्यनिवेशन मृत्संग्रहणविधि:
आचार्यावरणं
प्रतिष्टादिवसे प्राप्ते यजमानो हरिं स्मरन्।
ब्राह्मे मुहूर्ते चो त्था य कृतनित्यक्रियस्तधा । (कृतनित्याह्निकश्शुचिः)
पत्नीपुत्रादिसंयुक्तो ब्राह्मणै र्बांधवैस्सह।
नृत्तगीतादिभिश्चैव छत्रध्वजवितानकै:। 2
देवस्य स्थापना यादौ आचार्यस्य निवेशनम्।
प्रविश्य फलपुष्पादीन्दत्वा भक्त्याचभूतले। 3
साष्टांगं प्रणिपत्येदं विज्ञापनमथाचरेत्।
मया निर्मितबिंबेषु भक्तानां मोक्षसिद्धये । 4
भवन्मंत्रप्रभावेन भगवंतं प्रवेशय।
इति संप्रार्थ्य संपूज्य पुष्पस्रक्चंदनादिभि: । 5
अर्चकस्य हरिस्साक्षाच्चररूपी न संशय:।
इति मत्वा महाप्राज्ञं(यानमारोपयेत्ततः) समारोप्य तु यानके। 6
वेदविद्भि:ब्राह्मणैश्च तूर्यघोष पुरस्सरं।

श्रीपुरुषोत्तम संहिता
[[54]]
ग्रामप्रदक्षिणं नीत्वा यागशालां प्रवेशयेत्। 7
विष्वक्सेनपूजा, पुण्याहवाचनं, संकल्पं-
सुमुहूर्ते तु संप्राप्ते विष्वक्सेनं प्रपूजयेत्।
संप्रोक्ष्य सर्वसंभारान् पुण्याहस्य जलेनच। 8
देशकालविभागेन कर्तु स्संकल्प माचरेत्।
धृत्वा कंकणवस्त्रादि न्यजमानान्वितोगुरु:। 9
ऋत्विक्पूजा परिषद्दक्षिणा देवतावाहनं
पूजयेन्मधुपर्केण सर्वानप्यर्त्विजस्तत:।
धारयित्वा कौतुकानि कुर्यात्परिषदर्चनम् । 10
तदनुज्ञामवाप्यैव देवानावाह्य शास्त्रत:।
वैष्णवान्भोजयेत्पश्चात् मध्याह्ने बंधुभिस्सह। 11
सायंकाले मृत्संग्रहणं तद्विधि:-
सायंकालेतु संप्राप्ते मृत्संग्रहणमारभेत्।
आचार्यो यजमानश्च गीतवादित्रनिस्वनै:। 12
महताजनसंघेन वेदघोषसमन्वितम्। (वेदघोषपुरस्सरम्।)
दिशंप्राचीमुदीचींवा गत्वा तत्र शुचिस्थले। 13
मंत्रे शास्त्रेण संप्रोक्ष्य गोमयेणविलेपयेत्। (विलिप्यच)
भूमिर्भूम्नेति मंत्रेणवृत्तमंडलमालिखेत् । 14
तन्मध्येमेदिनींदेवीं नवतालसमायुताम्।
ईशाननैॠतिन्यस्त शिर:पादांबुजद्वयीम्। 15
ऊर्ध्ववक्त्रां विलिख्येवं अर्चये न्न्यासपूर्वकम्।
कूर्चेनपश्चिमेचक्रं विष्वक्सेन मथोत्तरे। 16
प्राग्भागे गरुडं याम्ये खनित्रे शेषमर्चयेत्।
न्यासं कृत्वा वराहस्य वाराहानुष्टुभं जपेत्। 17
(भूवराहंसमालिख्य पूजयेद्गंधपुष्पकैः।)

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[55]]
भूवराहं ततो ध्यात्वा खनित्रं धारयद्गुरु:।
त्वां खनामीति तत्कुक्षौ निखने त्प्राङ्मुखस्तत: ।18
मृदंसंगृह्य लोहादि भाजने वेत्रजेपिवा।
नवेनवाससाच्छाद्य भूगर्भे बलिमाचरेत्। 19
मृद्भाजनं समारोप्य गजेयानादिकेपि वा।
(नदीतीरे वालुकांच करीषस्यच चूर्णकम्।
भूसूक्तमेदिनीसूक्त शाकुनसूक्त पाठकैः।)
श्रीसूक्त पावमानादि पाठकै र्ब्राहणैस्सह।
ग्रामप्रदक्षिणं नीत्वा मण्टपं संप्रवेशयेत्॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां मृत्संग्रहणविधिर्नाम द्वादशोध्याय:
««««_____________»»»»
श्रीपांचरात्रे श्रीपुरुषोत्तम संहितायां
त्रयोदशोध्याय:
अंकुरारोपण विधि:
ग्रामप्रदक्षिणेनैव अंकुरार्पणमण्टपम्।
प्रविश्य चंदनार्द्राणि सूत्राणिस्फालये द्गुरु:। 1
मंडलरचना
प्रागायतानि प्रथमं ऋजूनिद्वादशस्फुटम्।
उदगायतसूत्राणि दशपंचच कल्पयेत् । 2
वीध्यर्थं मार्जयेत्तत्र षट्त्रिंशत्कोष्टकानिच।
मध्यद्वादशके तत्र घटिकास्थापयेत्क्रमात् । 3
पूर्ववद्घटिकाश्चैंद्रे वारुण्यांतुघटान्यसेत्।
आग्नेयेनैऋतेयाम्ये पालिका: पूर्ववन्यसेत्। 4
वायव्यैशान्यसोमेषु शरावा न्पूर्ववन्यसेत्।
धान्यपीठप्रकल्पनं

श्रीपुरुषोत्तम संहिता
[[56]]
पात्राणामधिवासार्थं व्रीहिभि: स्तंडुलैस्तिलै: । 5
पीठानि कल्पनीयानि प्रत्येकं मूलविद्यया।
पालिकाघटिका चैवा शरावं च त्रिधा मतम्। 6
पालिकाघटिकाशराव लक्षणानि
सौवर्णं राजितं चैव ताम्रजं मृण्मयं तुवा।
पालिकामुखविस्तारं षोडशांगुर मुच्यते। 7
शरावाणां मुखं कुर्याद्द्वादशांगुरविस्तृतम्।
चतुर्दिक्स्थितवक्त्राणां विस्तृतं चतुरंगुलम्। 8
घटानां मध्यमं वक्त्रं विस्तरेणषडंगुरम्।
सर्वेषां पादपीठस्य विस्तृतिस्तु दशांगुरम् । 9
चतुरंगुरमौन्नत्यं अंगुरं कंठमिष्यते।
दुत्तूरपुष्पसदृशं वक्त्रमंभोजसन्निभम् । 10
उत्सेध: पालिकानांतु पंचविंशागुरं स्मृतम्।
द्वाविंशतिर्घटानांतु शरावाणांतु विंशति:। 11
एतल्लक्षणयुक्तानि पात्राण्यानीय देशिक:।
पालिकादि स्थापन विधि:
मूलमंत्रेण संप्रोक्ष्य दूर्वामश्वत्थपत्रकम्। 12
शिरीषं सहदेवींच तत्कंठेषुच बंधयेत्।
इन्द्रं नत्वेति मंत्रेण सूत्रेण परिवेष्ठितम्। 13
भूमिर्भूम्नेति मंत्रेण त्रिभागं निक्षिपेन्मृदम्।
यथोक्ततत्तस्थानेषु घटिका: परमेष्टिना। 14
ब्रह्मजिज्ञानमंत्रेण घटान्मध्ये विनिक्षिपेत्।
यत इंद्रमितिमंत्रेण घटद्वादशकं न्यसेत् । 15
ऐंद्रेपदे तथाग्नेये त्वमग्नेरिति मंत्रत:।
पालिका स्थास्ययाम्येतु यमायसोममंत्रत: । 16

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[57]]
मूषणु:परमंत्रेण नैऋत्यां पालिकान्यसेत्।
तत्वायौमीति वारुण्यां पूर्ववद्घटिकान्यसेत्। 17
शरावान्निक्षिपेद्वाया वायुमंत्रेण देशिक:।
उत्तरे सोममंत्रेण शरावान्पूर्ववन्यसेत्। 18
ईशान मनुवारौद्रेशरावान्निक्षिपेत्क्रमात्।
पालिकासु यजे द्विष्णुं घटिकासु चतु र्मुखम् 19
शरावेषु शिवं ध्यात्वा समावाह्य प्रपूजयेत्।
पालिकानामष्टदिक्षु कलशा न्विन्यसेत्क्रमात्20
धान्यराशिषु संस्थाप्य दिक्पालान्पूजयेत्तत:।
तोरणध्वजदेवादीन् समावाह्य ततो गुरु:। 21
सोमकुंभ स्थापनं
पात्राणां पश्चिमस्थाने दशद्रोण प्रमाणत:।
धान्यराशौ विनिक्षिप्य धृवंत इति मंत्रत: । 22
सोमकुंभं न्यसेत्तस्मिन्वाससा वेष्ट्यपूरयेत्।
गंधोदकेन पंचत्वक्पंचरत्नानि विन्यसेत्। 23
सुवर्णनिर्मितं सोमं तस्मिन्नावाह्य पूजयेत्।
निवेद्य पायसान्नंच सोमकुंभस्य चोत्तरे। 24
करकं विन्यसेत्तस्मिन् हेतिराजं समर्चयेत्।
करक, कुंभस्थापनं
मुद्गादिवेणुबीजांतं त्रयोदश मनुत्तमम्। 25
मुद्गसर्षपनीवार शिंभमाषयव स्तथा।
प्रियंगु श्चणकश्यामकुलुद्धांश्च तथा तिलान्।26
व्रीहिवेणुश्च धान्यानि पयोभि: क्षारयेत्सुधी:।
नवधान्यानि
तिलमुद्गयवव्रीहि माषगोधूमसर्षपा: । 27

श्रीपुरुषोत्तम संहिता
[[58]]
चणकोराजमाषश्च नवधान्या: प्रकीर्तिता: ।
बीजपात्र स्थापनं
नवधान्यानि वा यद्वा त्रयोदश मथापिवा। 28
अंकुरारोपणार्थं तु संग्रहेल्लोहभाजने।
तत्पात्रं तंडुलेपीठे नवद्रोणमिते न्यसेत्। 29
बीजाधि देवतावाहनं
आचार्यो विष्णुगायत्र्या बीजाधीशानथार्चयेत्।
मुद्गाणामधिपं विष्णुं सर्षपाणामुमापतिम्। 30
नीवाराणां जगत्प्राणं शिंबानां हरिरिष्यते।
माषाणां यक्षराजंच यवानांब्रह्मदैवतम्। 31
प्रियंगूणां महासेनं चणकानां बृहस्पतिम्।
श्यामाकाणां श्रियं देवीं कुरुत्थानांतुकच्छपम्।
एतद्धान्याधिपान्पूज्य पयोभि: क्षारयेत्सुधी:।
बीजाभि मंत्रणं
याजाता इति मंत्रेण बीजानामभिमंत्रणम्। 33
तत्पात्रं मूर्ध्नि शिष्यस्य न्यस्यवादित्रनिस्वनै:।
देवागारं परिक्रम्य प्रादक्षिण्येन वै पुन: । 34
तद्भाजनं विनिक्षिप्य नववस्त्रेण छादयेत्।
अंकुरार्पण होम विधि:
पुण्याहं तत्र कुर्वीत कुण्डे वा स्थंडिलेपिवा। 35
अग्निं संस्थाप्य विधिवन्मूलमंत्रेण देशिक:।
समिधाज्यचरून्हुत्वा नृसूक्तेन चरुम्हुनेत्। 36
सोममंत्रेण जुहुया दाज्ये नाष्टोत्तरं शतम्।
संपाताज्येन सं स्पृश्य स्पर्शमंत्रेण पालिका: । 37
आज्यशेषं बीजपात्रे निक्षिप्य जपमाचरेत्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[59]]
शतवारं विधोर्मंत्रं ततो विप्राभ्यनुज्ञया। 38
बीजावापनं
मुहूर्ते शोभने बीजान्वापयेत्पालिकादिषु ।
ब्रह्मेंद्राग्नि क्रमेणैव द्वादशाक्षरविद्यया । 39
ऊद्धृतासीति मंत्रेण मृद्भिराच्छादयेत्क्रमात्।
सोमकुंभस्ततोयेन सिंचेदब्लिंग मंत्रकै:। 40
पावमानादिसूक्तैश्च दिक्षु दद्याद्बलिं तत:
यागांतं सोमकुंभस्य पूजनंच निवेदनम्। 41
कुमुदादिगणेभ्यश्च बलिं दद्याद्दिवानिशम्।
दीपान् रक्षेदनिर्वाणा न्यावत्कर्मावसानकम्।
अंकुरार्पणमारभ्य दीक्षितो गुरुरीरित: ।
इति श्रीपांचरात्रे महोपनिषदि श्री पुरुषोत्तमसंहितायां अंकुरार्पणविधिर्नाम त्रयोदशोध्याय:
««««_____________»»»»
श्री पांचरात्रे पुरुषोत्तमसंहितायां चतुर्दशोध्याय:
वास्तुयाग विधि:
वास्तुपूजावसर निरूपणं
वास्तुयागं तत: कुर्याद्वास्तुनाथस्य प्रीतये।
आनर्चिते वास्तुनाथे कृतं कर्मासुरं भवेत्। 1
तस्मादारभ्यमाणेषु देवयागादिकर्मसु।
प्रागेव पूजयेद्वास्तुं तद्विधानं ब्रवीमि ते। 2
वास्तुमंडल रचना-
भूसूक्तेन भुवं तत्र गोमयेन विलेपयेत्।
रक्त पीत सितै श्चूर्णै: रंगवल्ली: प्रकल्पयेत्। 3
तस्मिन्नूतनवस्त्रेण मंडले तंडुलै: कृते।
कर्षमात्रसुवर्णेन तदर्धार्धेन वै पुन:। 4

श्रीपुरुषोत्तम संहिता
[[60]]
वित्तशाठ्यं विना कुर्याद्वास्तो: प्रतिकृतिं बुधा:।
ऊर्ध्वगा दशरेखास्युस्तिर्यग्रेखा स्तथादश। 5
विलिखेन्मंडले तस्मिन् एकाशीतिपदं भवेत्।
प्रतिमाशोधन विधि:
प्रतिमाशोधनं कुर्यात्पंचामृतरसै: पृथक्। 6
तस्मिन्मध्यपदे वास्तुप्रतिमा पूजनं चरेत्।
वास्तोष्पतेतिमंत्रौ द्वौ यथाशक्ति जपं चरेत्। 7
अयुतं वा सहस्रं वा शतमष्टोत्तरंतु वा।
कुंभस्थापनं
तस्मिन्नेव पदेपंच त्वक्पल्लवसमन्वितम्। 8
सूत्रेणवेष्टितं कूर्चं गंधादिभिरलंकृतम्।
वास्तुकुंभं *समावाह्य कुंभेतु प्रतिमा न्यसेत्। 9 (तु संस्थाप्य)
वास्तु पूजा
प्राणप्रतिष्ठां कुर्वीत पूजये द्वास्तुपूरुषम्।
षोडशैरुपचारैश्च द्वात्रिंशैर्वायथाक्रमम्। 10
सोममण्टप निर्माणं मंडलरचना
तत्प्राच्यामुत्तरश्यां वा विधिवत्सोममण्टपम्।
संस्थाप्य धान्यवस्त्राद्यै स्तंडुलैश्च यथाक्रमम्।11
तन्मध्ये षोडशदरं पद्मं चैवसकर्णिकम्।
लिखित्वा पद्ममभ्यर्च्य षोडशैरुपचारकै: । 12
कुंभस्थापनं, प्रतिमाशोधनं
कर्णिकायां सोमकुंभं सहेतुमणिकूर्चकम्।
रजितप्रतिमां कृत्वा सोमं कर्षप्रमाणत:। 13
पंचगव्येन संशोध्य कुंभे विन्यस्य शास्त्रत:।
प्राणप्रतिष्टा अर्चनंच ब्रह्माद्यष्टदिक्पालकार्चन विधि:

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[61]]
प्राणप्रतिष्टां कुर्वीत सोममंत्रं समुच्छरन् । 14
षोडशैरुपचारैश्च सोमं संपूजयेद्गुरु:।
वास्तुमण्टपमध्यस्थपदमारभ्य बाह्यत:। 15
इंद्राद्यष्टपदेब्रह्मन् विरिंचीन् नवचार्चयेत्।
ब्रह्मजिज्ञानमितिवै मंत्रं जप्त्वा गुरुस्स्वयम्। 16
प्रजापतिं विधातारं ब्रह्माणं कमलासनम्।
अजं विधिं शतानंदं दृहिनां विश्वरेतसम्। 17
आवाहयामित्युच्छार्य पूजयेत्परिमेष्टिनम्।
तत्पूर्वपदषट्केतु माहेंद्रंतु समर्चयेत्। 18
आसत्येनेतिमंत्रेण चार्यम्णं भास्करं तथा।
आदित्यंचैव सप्ताश्वं मार्तांडं लोकबांधवम्। 19
तद्याम्यपदषट्केतु धर्मराजं समर्चयेत्।
यमायसोममित्येत न्मंत्रं सम्यक्समुच्छरन् । 20
यमंदंडधरं कालं कालांशं रविनंदनम्।
लुलायवाहनं चैव पदषट्के समर्चयेत् । 21
तत्पश्चात्पदषट्केतु यान(द)सांपतिमर्चयेत्।
इमम्मेवरुणेत्येतन्मंत्रेण विधिवत्तत: । 22
वरुणं मकरारूढं पाशपाणिं प्रचेतसम्।
सुरूपिणमपांन्नाधं प्रादक्षिण्येन पूजयेत्। 23
कुबेरं पूजयेत् षट्के चाह्यमश्वेतिचोच्चरन्।
कुबेरं यक्षराजंच धनेतं गुह्यकेश्वरम्। 24
गदापाणिं धनादीशं नवषट्के समर्चयेत्।
अग्निंदूतंजपित्वाथ धूमकेतुं हुताशनम्। 25
सप्तजिह्वां हव्यवाहं आग्नेयांतु चतुष्टके।
मोक्षणुंमंत्रमुच्छार्य निरुतिं नरवाहनम्। 26

श्रीपुरुषोत्तम संहिता
[[62]]
कर्बुरं खड्गहस्तं च नैऋत्यां तु चतुष्टके
ततो वायुं समुच्छार्य जगत्प्राणं समीरणम्। 27
मारुतं पवमानं च वायव्यां च चतुष्टके।
तमीशानं समुच्छार्य गौरीनाथं महेश्वरम्। 28
ईशानं वृषभारूढं ईशान्यांतु चतुष्टके देवतावाहनं
ईशानकोणादारभ्य तद्वहश्चार्चयेत्सुधी: । 29
यस्यनामादिभिर्मंत्रै स्समंत्र प्रणवादिकै:।
प्रादक्षिण्येन विधिवद् द्वात्रिंशत्सुपदेष्वपि। 30
ईशानं चैव पर्जन्यं जयंत्यादित्यमेवच।
इंद्रंच सत्यसंबाधं भृशं चैवांतरिक्षकम्। 31
अग्निं च तत्र चोष्णांशुं पूषाणं वितथं तथा ।
यमं ग्रहक्षतं पश्चात् गंधर्वं भृंगराजकम्। 32
ऋषिंच निऋतिं चैव दौवारिक मत:परम्।
सुग्रीवं पुष्पदंतं च सरित्सत्यसुरं तथा। 33
पोषणं नागजवनं नागमुख्य मत:परम् ।
गुह्यकं चैव भल्लाटं सोमं चानर्गरं तथा। 34
द्वात्रिंशत्कलशावाहनं
अदितिं सौरदेवंच तद्बाह्येषु च पूजयेत् ।
एवं पूजांच निर्वृत्य सौवर्णानथ राजितान्। 35
ताम्रजाद्वाथ कलशान्यसेदाकलशेष्विति।
पंचामृतसमायुक्तान् पंचत्वक्पंचपल्लवै:। 36
सप्तमृद्भिस्समायुक्ता न्नवरत्नसमन्वितान्।
चतुर्दशौषधीयुक्ता न्प्रतिमावस्त्रसंयुतान्। 37
द्वात्रिंशत्परितस्स्थाप्य तंतुना वेष्टयेत्तत:।
अष्टदिग्वष्टकलशा न्विन्यस्य विधिवत्क्रमात् ।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[63]]
प्राच्यां बहि: कुमारं चदक्षिणस्यांतुभास्करम्। प्रतीच्यां जंबुकं देव मुदीच्यां पिलिपिंचकम्। 39
ईशान्यांदिग्विश्रवसं आग्नेयां च बिडालकम्। नैऋत्यां पूतनांचैव वायुव्यां पापराक्षसीम्। 40
पूजयेत्कलशेष्वेवं *न्नाममंत्रै: पृथक्पृथक्। *(तत्तन्मन्त्रै:पृथक् पृथक्)
वास्तु होमं
कुण्डेवास्थंडिलेचैव संस्र्ह्याप्याग्निं तु देशिक:।
इध्मादानाज्यभागंतु कृत्वा शास्रोक्तवर्त्मना।
वास्तुनाथं ततो ध्यात्वा कुण्डमध्ये यथाविधि।
अयुतंवा सहस्रं वा शतमष्टोत्तरं तु वा।
जपाद्दशांशमथवा समिधाज्यचरून् हुनेत् ।
सोममंत्रं ततो हुत्वा शतमष्टोत्तरं तुवा। मण्टपस्थितदेवानां तत्तत्पदसुसंख्यया। 44
समिच्चरुघृतैर्होमं कारयेत्सर्वसिद्धये । शम्यपामार्गखदिर समिद्भिर्होममाचरेत्। 45
परिवारान् ततो सर्वदेवतान् स्वस्वमंत्रकै:।
समिधाज्यचरून् हुत्वा पूर्णाहुत्यन्तमाचरेत्।
वास्तुनाधादिदेवानां बलिं दद्याद्विधानत: 46
वास्तुकुंभस्ततोयेन यागमण्टपभूमिषु।
अघमर्षणसूक्तेन सेचयेद्वास्तुशुद्धये 47
इति श्रीपांचरात्रे महोपनिषदि श्री पुरुषोत्तम संहितायां चतुर्दशोध्याय:
««««_____________»»»»
श्री पांचरात्रे पुरुषोत्तमसंहितायां पंचदशोध्याय:
पर्यग्निकरण जलाधिवासविधि:
पर्यग्निकरण विधि:
तत: पर्यग्निकरणं तदर्थं ब्राह्मणं वरेत्।
हस्तिहस्तसमंस्थूलं पंचहस्तत्रिहस्तकम्। 1
कुशकाशकृतं पुंजं त्रिमिखाग्रेण संयुतम्।
तत्पुंजंवास्तुहोमाग्नौ प्रज्वाल्य विधिपूर्वकम्। 2

श्रीपुरुषोत्तम संहिता
[[64]]
पर्यग्निमंत्रमुच्छार्य परिभ्रमणमाचरेत्।
शालादिसर्वदेशेषु चालयादिषुसर्वत:। 3
प्रदक्षिणक्रमेणैव वेदवाद्य पुरस्सरम्।
पंचगव्यैस्तत:कुर्यात् प्रोक्षणं यागभूमिषु । 4
पुण्याहवाचनं कार्यं ब्राह्मणैर्वेदपारगै:।
शांतिसूक्तानधीयानै: प्रोक्षयेत्छुद्धवारिणा। 5
दीपान्प्रज्वालयेत्तत्र गोघृतेनच पूरितान् ।
कृष्णागरुमुखैर्गंधै र्धूपयेत्सर्वदिक्षु च। 6
स्तंभान् संवेष्ट्य वासोभि श्शुभ्रवस्त्रैर्वितानयेत्।
ध्वजैश्चसुपताकाभि र्मुक्ताहारैश्चपल्लवै:। 7
अन्यै:पुष्पैर्फलैश्चैव मणिकांचनभूषणै:।
सफलै:कदलीस्तंभै: क्रमुकैस्तोरणादिभि:। 8
शोभयेन्मण्टपं सर्वं यथावित्तानुसारत:।
यागशालापूजा
ततस्तु यागशालाया: पूजाकार्या चतुर्मुख। 9
द्वाराणांपार्श्वयो:घात्वाद्वितालान्यवटानिवै।
तेषु संस्थापयेत्स्तंभान् तोरणार्धं यथाविधि। 10
अश्वत्थं पूर्वदिग्भागे याम्ये चौदुंबरं तथा।
न्यग्रोधं पश्चिमेद्वारे प्लक्षं चैवोत्तरे तथा। 11
ध्वज द्वयं स्थापनीयं प्रतिद्वारस्य पार्श्वयो: ।
प्राच्यांरक्तध्वजेस्थाप्यौपीतवर्णौच दक्षिणे। 12
पश्चिमेनीलवर्णौच उत्तरे पांडुरध्वजा:।
स्थापयेत्पूर्णकलशान् सापिधानान् सवस्त्रकान्।
सरत्नहेमकूर्चांबु पूरितास्सूत्रवेष्टितान्।
सुशोभनं सुबंधं च सुभद्रं च सुहोत्रकम्। 14

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[65]]
एतेतोरण देवास्यु: ध्वजादिष्टान देवता:।
कुमुद: कुमुदाक्षश्च पुंडरीकश्च वामन:। 15
शंकुकर्ण स्सर्पनेत्र: स्सुमुख: स्सुप्रतिष्टित:।
पूर्णश्च पुष्करश्चैव आनंदो नंदयेव च। 16
वीरसेन सुशेषेणौ च संभवप्रभवौ तत:।
कुंभादिदेवताह्येता न्समावाह्या यजेत्क्रमात्। 17
अष्टदिक्षुपताकासु दिगीशास्त्रान्प्रपूजयेत्।
आंतरारिकापूजा-
आवाह्य पूजयेद्विद्वान् इंद्रेशानांतरेवसून्। 18
हुताशनेंद्रयोर्मध्यैरुद्रानावाह्य पूजयेत्।
यमस्याग्ने रंतरारे आदित्यानर्चयेत्क्रमात्। 19
यमराक्षसयोर्मध्ये साध्यास्संपूजयेत्सुधी।
वरुणकोणप मध्ये तु अभ्यर्च्य मरुतस्तत: 20
मरुज्जलेशांतरारे अश्विनौ च प्रपूजयेत्।
कुबेरमरुतोर्मध्ये विश्वान्देवा* न्प्रपूजयेत्।21 (न्यजेत्क्रमात्)
ईशानसोमयोर्मध्ये छंदोदेवानथार्चयेत्।
एवं संपूजयेत्तत्तद्देवताश्च यथाक्रमम् । 22
शिल्पशालागमनं शिल्पिपूजनंच-
मध्याह्ने समये प्ताप्ते ऋत्विग्भिस्सहदेशिक:।
शिल्पिशालां दतो गत्वा प्रतिमास्संपरीक्षयेत्।
मुहूर्ते शोभने प्राप्ते वैष्णवानामनुज्ञया।
शिल्पिभिर्निर्मिते बिंबे शास्त्रदृष्टेन वर्त्मना। 24
पारीक्ष्यलक्षणं सम्यक् क्षारयेत्पंचगव्यकै:।
तत: प्रक्षार्य तोयेन गंधयुक्तेन देशिक:। 25
भूमौसम्यक्समालिप्य पुष्पाणि विकिरेत्तत:।

श्रीपुरुषोत्तम संहिता
[[66]]
तत्रैव शाययेद्बिंबं शिल्पिनं पूजयेत्तत:। 26
धनैश्चकर्मानुगुणं स्थपतिं परितोषयेत्।
नयनो द्घाटनं कार्यं शिल्पिना कुशलेन वै। 27
मानोन्मान प्रमाणशांति होमादीनि-
गां च दत्वा प्रयत्नेन शिल्पिने तु यथाविधि।
तथापराह्नसमये शांतिहोमं समाचरेत् । 28
मानोन्माणप्रमाणेख्योहानिर्यो जायतेनृणाम्।
सहानिर्विलयं यांति शांतिहोमे कृतेसति। 29
शमीपल्लव संयुक्तै स्तिलै स्साज्येश्चरु स्वयम्।
सप्तव्याहृतिभिश्चैव प्रत्येकं जुहुयाद्गुरु: । 30
नृसूक्तेन चरुंपश्चात् जुहुयात्षोडशाहुती:।
पंचोपनिषदैर्मंत्रै स्सर्पिषा जुहुयाच्छतम् 31
प्रतिमासन्निधानेव हुत्वा पूर्णाहुतिं तत:।
उपतिष्टेततदनु मंत्रेशानेन देशिक:। 32
“नमस्तुभ्यं भगवते जातवेदस्वरूपिणे
नारायणाय हव्यस्य कव्यस्य च यथातथम् 33
भोक्त्रे यष्टव्य देवानां आत्मने परमात्मने
सन्निधत्स्वचिरं देव प्रतिमायां हिताय न: ‘’ 34
एवं विज्ञाप्य देवेशं देवस्यत्वेति संस्पृशेत्।
दुकूलशितसिद्धार्थयुक्त मूर्णामयेन तु । 35
सुवर्णेन तदा वेष्ट्य बद्ध्नीयाद्धक्षिणेकरे।
विष्णोरराटमंत्रेण सप्तवाराभिमंत्रितम्। 36
रथं वा कुंजरं वापि शिबिकायां यथारुचि।
प्रतिमास्संम्यगारोप्य ग्रामं कृत्वा प्रदक्षिणम्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[67]]
जलाधिवास विधि:
पांडुरैरातपत्रैश्च चामरैश्च सितैस्सह -
चीनांशुकमयै च्छत्रैस्ततस्वर्णमयैरपि 38
व्यजनैरपि कल्याणै र्ध्वजै र्नानाविधैस्तथा।
शंखदुंदुभिनिर्घोषैर्नृत्त गीतसमन्वितै:। 39
महोपचारै रपरै र्ब्राह्मणै स्सहदेशिक:।
(तूर्यवादित्रनिर्घोषै र्वेदमंगरपाठकै:।
जयघोषैश्च स्तुतिभि: भक्तै र्भागवतैस्सह।)
शनैश्शनैर्नयेद्देवं जलपार्श्वं यथोदितम्। 40
जलाधिवासदेशंतु संप्राप्य शिबिकादिभि:।
अवरोप्य जलाभ्यर्णे(जलेदेवं) प्रपायां सिंहविष्टरे।
जलाधिवास योग्य स्थलानि
प्राङ्मुखं च समं स्थाप्य यद्वा कुर्यादुदङ्मुखम्।
नदीषु देवखातेषु तटाकेनिर्झरे ह्रदे । 42
संभवे सति कुर्वीत जलवासं यथाविधि।
जलाधिवासानर्ह स्थलानि
अल्पतोये स्मशानेच लवणोदकदूषिते। 43
चैत्यवृक्षसमीपेच नीचै रध्यासिते तथा।
ऊषरे शैवलयुते वर्णांतरयुते तथा। 44
एवमादिषु दूष्येषु प्रतिमां नाधिवासयेत्।
जलाधिवासप्रपा लक्षणं
जलमध्ये प्रपांकुर्याद्बहुस्तंभ समन्वितम्। 45
चतुर्द्वारसमायुक्तां चतुस्तोरणभूषिताम्।
वितानध्वजसंयुक्तां दर्भमाला परिष्कृताम्। 46
मुक्तादामसमायुक्तां स्रग्विणां धूपदीपिताम्।

श्रीपुरुषोत्तम संहिता
[[68]]
फलैर्नानाविधैर्युक्तां चतुरश्रां सुशोभनाम्। 47
जलाधिवास क्रम:
पुण्याहवाचनात्पूर्वं नद्यादिषु सुसंस्थिता:।
आप:पुरुषमंत्रेच संशोष्य गुरुरात्मवान्। 48
अग्निमंत्रेण तत्तोयं संशोष्य तदनंतरम्।
जलाद्यमृतबीजेन पुनरापूरयेद्गुरु: । 49
तस्मिन् जले महापीठं प्रतिमायामसम्मितम्।
काष्टजं सुदृढं स्निग्धं विन्यसेच्चजलाशये। (विन्यसेन्मूर्तिमंत्रतः।) 50
(मङ्गरा)विन्यस्तास्तारनोपेतं सोपधानं नवंशुभम्
प्रकल्पयेद्योगपीठं तस्योपरि यथाक्रमम्। 51
गंधपुष्पादिना पीठमर्चयित्वा समाहित:।
द्वारतोरणकुंभादीनर्चये त्तदनंतरम् । 52
प्रतिमां पंचगव्येन पंचोपनिषदै: क्रमात् ।
स्नापयेत्प्राङ्मुखो भूत्वा शुद्धस्नानं समाचरेत् । 53
एवं कुर्याद्द्विधानेन घृतारोपणपूर्वकम्।
अर्घ्यं पाद्यं तथाचामं वस्त्रं यज्ञोपवीतकम् । 54
भूषणानि च सर्वाणि द्वादशाक्षरविद्यया।
दत्वा ततोर्चां संहार मार्गेणैवतु संहरेत् 55
तत्त्वसंहार क्रमं
संहारस्य क्रमं वक्ष्ये प्राङ्मुखो वाप्युदङ्मुख:।
पूर्वं संहृत्व प्रागादेन् श्रोत्रादीन् च तत:परं।
शब्दादींश्च ततो ध्यात्वा पृथिव्यादीन्यथाक्रमम्।
मन आदौ मनस्तत्वे महानव्यक्तं संज्ञके। 57
पृथिवी चाप्सुलीनास्या दग्नौ चापस्तथालयम्।
अग्निश्च वायुमार्गेषु आकाशे वायुतत्त्वकम्। 58

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[69]]
आकाशस्यादहंकारे अहंकारो महांतिके।
महदव्यक्तकेलीन मव्यक्तं चात्मनि स्थितम्। 59
एवं संहृत्यतत्त्वानि ध्यायेद्देव मनामयम्।
च्छादयित्वा शुभैर्दर्भै र्नववस्त्रै स्रगादिभि: 60
आपीठमौरि पर्यंतं निच्छिद्रं वेष्टयेद्भुध:।
जलमध्यगतं पीठ माचार्यो मूर्तिपैस्सह । 61
शंखदुंदिभिनिर्घोषै रानये त्प्रतिमास्तत:।
उदङ्मुखं प्राक्शिरसं प्रतिमां शाययेत्तत:। 62
शयानस्यतु बिंबस्य दक्षिणेतु महाघटं।
विन्यसेद्ब्रह्मबीजेन पूजां तेनैव कारयेत् । 63
विन्यसेल्लोकपालांश्च स्वासुदिक्षु च देशिक:।
मंगरान्यभितस्थाप्य शकरीकरणं तत: ।
जलं क्षीरार्णवं ध्यात्वा पीठं शेष इति स्मरेत्।
जलादुत्तीर्ण मंत्रज्ञो रक्षां तत्र विनिर्दिशेत् 65
दर्शयेच्छक्रमुद्रांच रक्षामुद्रां प्रदर्शयेत्।
जलाधिवास कालपरिमिति: -
त्रिरात्रमेकरात्रं वा जलवासं समाचरेत् । 66
नद्याद्यभावे जलवास विधि:-
नद्याद्यभावे बिंबस्य जलाधिवसनं भवेत्।
जलद्रोण्यां कटाहे वा समुधृत्य महाजलम्। 67
यथासंभवमन्यस्मिन् मृण्मयादौ त दिष्यते।
सद्यो वा तोयवासं तु कुर्यात्तंत्र विचक्षण: 68
इति श्रीपांचरात्रे महोपनिषदि श्री पुरुषोत्तमसंहितायां जलाधिवासविधिर्नाम पंचदशोध्याय:
««««_____________»»»»

श्रीपुरुषोत्तम संहिता
[[70]]

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[71]]
श्रीपांचरात्रे पुरुषोत्तमसंहितायां षोडशोध्याय:
भद्रकमंडल लक्षणं
ब्रह्मा
जलाधिवासादिकर्मणां योग्यकाल श्रवणे ब्रह्म प्रश्न:
जलाधिवासनेचैव प्रतिष्टायां तथैव च ।
शयने वेदिकायां च क: कालःकमलापते । 1
श्री भगवान्
जलाधिवासादीनां योग्यकाल निरूपणं-
प्रदोषेप्यधिवासस्य शयने तु महानिशि ।
प्रतिष्टाच दिवा कुर्यान्मुहूर्ते शास्त्रचोदिते । 2
इदानीं वक्ष्यते सम्यक् भद्रकस्य तु लक्षणं ।
चतुरश्रकृतं क्षेत्रं चाष्टधा विभजेत्पुन: । 3
भद्रकमंडल रचन क्रम:-
शतार्धमेकहीनंतु कोष्टकानि भवंति हि ।
मध्यतो नवभिर्भागै:पद्मंच परिकल्पयेत् । 4
कर्णिकाकेसरैर्युक्तं दळद्वादशशोभितं ।
पदद्वयेण द्वाराणि नवकानि भवंति हि । 5
षट्कं षट्कं पदानांतु प्रतिकोणे तु मार्जयेत् ।
उपकंठ प्रसिध्यर्धं द्वाराण्येवं भवंति च । 6
वर्णरचना
पंचवर्णेन चूर्णेन क्रमेण परिपूरयेत् ।
प्राग्द्वारं श्वेतवर्णेन कृष्णेनैव तु दक्षिणं । 7
पश्चिमं रक्तवर्णेन पीतवर्णेन चोत्तरं ।
उपद्वाराणि चाष्टौतु श्यामवर्णेन पूरयेत् । 8
पंचवर्णैस्तु पद्मंस्यात् द्वितीयेनैव कर्णिका ।
चतुष्कोणान् लिखेद्वर्णैर्नीलपीतसितादिभि: । 9
बीजाक्षर लेखनं
रजोभिरेवं संपूर्य मध्ये तु प्रणवं लिखे ।

श्रीपुरुषोत्तम संहिता
[[72]]
नामानि केशवादीनां (द्वादशाक्षरमंत्रं तु) दळद्वादशके लिखेत् । 10
वासुदेवादिनामानि चतुर्द्वारेषु विन्यसेत् ।
इंद्रादीनां लिखेन्नामा न्युपद्वारेषु चाष्टसु । 11
अनेनैव प्रकारेण रंजयेद्भद्रकं सुधी: ।
तस्मिन्नावाहयेद्देवं मूलमंत्रेण चार्चयेत् । 12
अधिक पाठानि
(द्वादशाक्षरमाश्रित्य ये हरिं पूजयंति च ।
तेषां प्रशस्तमेतन्मंडलं शीघ्र सिद्धिकृत् ।
अष्टाक्षरपदाणां तु दलसंख्याष्ट उच्यते ।
तदेवावाहनं तेषु दळेष्वष्टाक्षरं परं । ।)
इति श्रीपांचरात्रे महोपनिषदि श्री पुरुषोत्तम संहितायां भद्रकमंडल लक्षणं नाम षोडशोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[73]]
श्री पांचरात्रे श्रीपुरुषोत्तमसंहितायां
सप्तदशोध्याय:
वास्तुयाग विधि:
वास्तुपुरुषावाहनं
तत: प्रभाते विमले मूर्तिपैस्सहदेशिक: ।
यागमंटपभूभागे दक्षिणे भूतले शुचौ । 1
वास्तुनाथं लिखेदत्र पंचवर्णैश्च चूर्णकै: ।
अधोमुखं प्राक्शिरसं पाणिपादौ च कोणयो: । 2
सप्तदर्भकृतं कूर्चं तस्मिन्निक्षिप्य पूजयेत् ।
वास्तुपूजा विधि:
वास्तुनाथं च गंधाद्यै: पूजयित्वा तत:परं । 3
वास्तुदेवशिरोदेशे पूजये दंशुमालिनं ।
दक्षिणे बाहुमूलेतु काममावाह्य पूजयेत् । 4
कुमारं कूर्परेचैव हस्तेचैव विनायकं ।
अश्विनौच पदद्वंद्वे चंद्रं देहस्य मध्यत: । 5
पाणौतु दक्षिणे दुर्गां कूर्परे मातरस्तथा ।
वामेतु बाहुमूलेतु स्थाणुं हृदयपद्मजे । 6
मां (हरिं)चैवनाभिदेशे तु ब्रह्माणंतुप्रपूजयेत् ।
दिक्ष्वष्टासु च दिक्पालान् क्षेत्रनाथमधोत्तरे । 7
पार्श्वे संपूज्य तद्वास्तु पश्चिमे देशिकोत्तम: ।
अग्निं संस्थाप्य विधिवत्पंचोपनिषदा हुनेत् । 8
सर्पिषाशतवारं तु सहस्रं वा यथारुचि ।
अपामार्गेश्च शम्यैश्च खादिरैर्जुहुयात्तत: । 9
समिद्भिर्मूलमंत्रेण तत्तन्मंत्रार्णसंख्यया ।
सूक्तेनपौरुषेणैव चरूणा षोडशाहुती: । 10
जुहुयाद्वास्तुदेवान् च चरुणाच सकृत्सकृत् ।
दद्याक्षेत्राधिनाथाय देवेभ्यश्च बलिं क्रमात् । 11
अनेन विधिना कृत्वा वास्तुनाथस्य पूजनं ।

श्रीपुरुषोत्तम संहिता
[[74]]
जलादुद्धरण विधि:
अपराह्णेतु संप्राप्ते मूर्तिपैस्सहदेशिक: । 12
नृत्तगीतादिवाद्यैश्च नदीतीरं प्रवेशयेत् ।
जलाद्बिंबं समुत्थाप्य सृष्टिक्रममनुस्मरन् । 13
कलशस्थाश्च कुंभस्थ देवता विसृजेत्तदा ।
बिंबानि विष्टरे तीरे प्राङ्मुखं वाप्युदङ्मुखं । 14
समवस्थाप्य बिंबेषु लोहजानां विशुद्धये ।
तिंत्रिणीफलतोयेन शोधयित्वा तु मूर्तिपै: । 15
( देवतोत्थापनं चरेत् ।
नयनोन्मीलनं कृत्वा मंगळानि प्रदर्श्यच )
वस्त्रेराभरणै: पुष्पैर्गंधैश्च विविधैश्शुभै: ।
मनोहरमलंकृत्य बिंबान्यारोप्य यानके । 16
तूर्यमंगळवादित्रैर्निनये द्यागमंटपं ।
मंटपस्योत्तरे भागे विष्टरे सन्निवेशयेत् । । 17
इति श्री पांचरात्रेमहोपनिषदि श्रीपुरुषोत्तमसंहितायां वास्तुपुरुषावाहन, जलोद्धरण विधिर्नाम
सप्तदशोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[75]]
अष्टादशोध्याय:
प्रतिष्टास्नपन विधि:
नयनोन्मीलनं
अथातस्संप्रवक्ष्यामि प्रतिष्टा स्नपनक्रमम्।
नयनोन्मीलनं कृर्याद्बिंबस्य तु विधानत:। 1
मधुवातेति मंत्रेण दृष्टिमुद्घाटनं चरेत्।
स्नपनार्थरक्षाबंधनं
स्नपनार्थं तत: कुर्याद्रक्षाबंधनमादित:। 2
सौवर्णसूत्रं क्षौमं वा नोचेत्कार्पासमेव वा।
(सौवर्ण क्षौमकार्पाससूत्रैः कुर्याद्यथारुचि।)
तंतुभि: पंचभिर्वापि सप्तभिर्वा कृतं शुचि। 3
षष्ट्युत्तरशतैश्चैव क्रमुकैस्त च्चतुर्गुणै:।
क्रमुकार्धतदर्थैर्वा कदर्यादिफलैर्युतम् । 4
खारिद्वयप्रमाणेन तंडुलेन च पूरिते।
सौवर्णे राजिते वापि ताम्रपात्रेथवागुरु: 5
निक्षिप्य वस्त्रमाच्छाद्य परिचारक मूर्धिनि।
विन्यस्य नृत्तगीताद्यै: छत्रचामर वैभवै: । 6
अनेकदीपसंयुक्तं वितानेन समन्वित:।
शाकुनादिमहासूक्त पठद्भिद्ब्राह्मणैस्सह। 7
देवागारं परिक्रम्य त्रिवारं यागमण्टपे।
बिंबस्य पूर्वदिग्भागे गोमयालिप्तभूतले। 8
तत्पात्रं तु विनिक्षिप्य सूत्रमंत्रेण पूजयेत्।
प्रोक्ष्य तोयेन तत्सूत्रं गृहीत्वा हस्तयोर्ध्वयो:। 9
अंगुष्टानामिकाभ्यां तु अपराजितमंत्रत:।
चंदनं च समालिप्य सूत्रं बिंबस्य दक्षिणे। 10

श्रीपुरुषोत्तम संहिता
[[76]]
हस्तेचैव श्रियादीनां बध्नीयाद्दक्षिणेतरे।
सूत्रं दक्षिणहस्तेन स्पृशन्नेकाग्रमानस: । 11
अस्त्रमंत्रं जपित्वाथ देवमर्घ्यादिभिर्यजेत्।
स्नपनमण्टपलक्षणं
स्नपनार्थं प्रकुर्वीत मण्टपं लक्षणान्वितम्। 12
दशहस्त प्रविस्तारं द्विगुणेवायतं शुभम्।
चतुर्दिक्षुचतुर्द्वारं तोरणैश्च विराजितम्। 13
मण्टपं तत्त्रिधा कृत्वा तृतीयां सेथपश्चिमे।
चतुर्हस्तां स्नानवेदीं चतुरश्रां मनोहराम्। 14
हस्तोच्छेधामूर्ध्वभागे वलयेन विराजिताम्।
कृत्वातदुत्तरे पार्श्वे जलकुल्यां प्रकल्पयेत्। 15
तन्मंटपस्य चैशान्ये सुगंधजलपूरिताम्।
जलद्रोणींकटाहं वा निक्षिप्याच्छादयेज्जलम्।16
नवेनवाससावेष्ट्य पवमानं समुच्छरन्।
अभिमंत्र्य ततोर्घ्यादि पूजाद्रव्यांश्च कल्पयेत्। 17
एकाशीतिकलशस्थापन मण्डललक्षणम्-
चंदनार्द्राणि सूत्राणि चतुर्दशनिपातयेत्।
ततोदगायतानि स्यु: कोष्टा न्येकोन सप्तति:। 18
शतंतु सूत्रविस्तारं षोडशांगुल सम्मितम्।
अष्टदिक्षु तथा मध्ये प्रत्येकं नवभूमिषु। 19
नवकोष्टानि संगृह्य शेषकोष्टानि मार्जयेत्।
एकाशीतिपदेष्वेवं व्रीहिभिस्तण्डुलैस्तिलै:। 20
तुर्यांशेन क्रमात्कुर्यात्पृथक्पीठानि कल्पयेत्।
वीधिकासु कुशान्यस्य सौवर्णान् राजितास्तथा।
कलशलक्षणं

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[77]]
ताम्रजान् मृण्मयान्वाथकलशान् लक्षणान्वितान्।
पक्वबिंबसमानाभान् अच्छिद्रान्फोटवर्जितान्॥
स्वनवंता नभिन्नांश्च कालमण्डलवर्जितान्।
कलशान् विष्णुगायत्र्या प्रक्षार्य नवतंतुभि:23
ततुंतन्वेति मंत्रेण वेष्ट्य पश्चिमभूतले।
धान्यपीठं विधायास्मिन्कलशानधिवासयेत्।24
विष्णुमंत्रेण प्रागग्रानुदगग्रान्कुशान् न्यसेत्।
कुशेषु तेषु तत्कुभान्निक्षिपेत्तानधोमुखान्। 25
प्रणवं सम्यगुच्छार्य तत्कुंभोपरि पूर्ववत्।
परिस्तीर्य ततो दर्भान्मंत्रेण परिमेष्टिना। 26
पुरुषेणार्घ्यतोयेन प्रोक्षयेत्प्राङ्मुखस्स्वयम्।
विश्वेनाक्षतविन्यासं कृत्वा कुंभानि तानि वै । 27
उत्तानानि तत: कृत्वा निवृत्याह्वयविद्यया।
आज्येन विष्णुगायत्र्या शतमष्टोत्तरं हुनेत्। 28
सम्पाताज्येन संस्पृश्य स्नपनद्रव्यसंचयम्।
कलशस्थापन विधि:
जलेनपूरयेदर्भं कलशान्विष्णुविद्यया। 29
मध्ये कुम्भेघृतं न्यस्य प्राच्यामुष्णोदकं न्यसेत्।
रत्नकुंभं तथाग्नेये फलकुंभं तु दक्षिणे । 30
नैॠते लोहकुंभं तु वारुण्यां मार्जनोदकम्।
गंधोदकं च वायव्यां कौबेर्यामक्षतोदकम्। 31
यवोदकं तथैशान्यां तद्बहि: पूर्वदिक्स्थिते।
नवकेमध्यमे पाद्यकुंभं तत्र निवेशयेत्। 32
अर्घ्यं याम्ये तथाचामं वारुणे चोत्तरे तथा।
पंचगव्यं तथाग्नेये मध्ये दधिघटं न्यसेत्। 33

श्रीपुरुषोत्तम संहिता
[[78]]
नैऋते च तथा क्षीरं वायौ मधुघटं न्यसेत्।
कषायकुंभमीशान्यां सर्वत्रपरितोघटान् । 34
शुद्धोदकांश्चतुष्षष्टिमष्टा वष्टौ निवेशयेत्।
चतुर्विंशति दर्भैश्च कूर्चां कृत्वातु मध्यमे। 35
घृतकुंभे न्यसेत्येष जलकुंभेषु सर्वश:।
सप्तभि: पंचभिर्वाथ कृतकूर्चान् विनिक्षिपेत्। 36
पिधाय कुंभान् चक्रेणशरावैर्वेष्टयेत्क्रमात्।
वासोभिर्द्रव्यकलशान् इमं वस्त्राणि मंत्रत:। 37
अन्यानेकैकवस्त्रेण च्छादये न्मंत्रमुच्छरन्।
ऋत्विग्भिस्सहदेवस्य सन्निधिं प्राप्य देशिक:। 38
वेदवाद्येषु घोषेषु प्रवृत्ते नर्तनादिके।
होमं
आज्येन मूलमंत्रेण जुहुयात्कुंभसंख्यया। 39
सम्पाताज्येन कुंभेषु देवतावाहनं चरेत्।
कलशाधिदेवतावाहन विधि:
घृतकुंभेवासुदेवं उष्णकुंभे तु पूरुषम्। 40
फलकुंभे सत्यदेवं अच्युतं मार्जनोदके।
अनंतं बीजकलशे रत्नकुंभे तु केशवम्। 41
नारायणं लोहकुंभे गंधतोयेतु माधव:।
यवोदकेतु गोविंदं पाद्ये विष्णुं समर्चयेत्। 42
मधुसूदनमर्घ्येतु कुंभे चाचमनीयके।
त्रिविक्रमं पंचगव्ये वामनं श्रीधरं तथा। 43
दधिकुंभे क्षीरघटे हृषीकेशं समर्चयेत्।
पद्मनाभं मधुघटे त्वक्कषायोदकेक्रमात् । 44
दामोदरं यजेदत्र पीठपूजापुरस्सरम्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[79]]
कलशास्पदधान्येषु कलशेषु वसुंधराम्। 45
कूर्चेष्वस्त्रं चक्रिकासु हेतिराजं तथैवच।
वस्त्रेषु विष्णुं संपूज्य स्नापये दुक्तवर्त्मना। 46
विष्णुगायत्र्याच ऋत्विगुद्धृतं पाद्यकुंभकम्।
हस्ते गृहीत्वा कूर्चेन तत्कुंभस्थितवारिणा। 47
इदंविष्णुरितिप्रोक्ष्य स्नापयेत्पुरुषोत्तमम्।
मूलमंत्रेण चा र्घ्यादि दीपांतैरर्चयेद्विभुम्। 48
प्रतिद्रव्यघटस्नाने मूर्धानं दिव इत्यृचा।
मृद्भि रेकोनविंशद्भि रालिप्य कमलासन:। 49
पंचवारुणिकै र्मंत्रै: जलै: प्रक्षार्यदेशिक:
आपोवेत्यर्घ्यतोयेन पूर्ववत्स्नापये द्धरिम् । 50
तद्विष्णोरिति मंत्रेण तथाचमनवारिणा।
पवित्रंतेति मंत्रेण पंचगव्याभिषेचनम्। 51
घृतमंत्रेण मध्यस्थ घृतकुंभाभिषेचनम् ।
दधिक्रावण्णमंत्रेण दध्ना देवाभिषेचनम्। 52
आप्यायस्वेति मंत्रेण पयोभिस्नपनं चरेत्।
मधुवातेति मधुना ओषधीरीतिमंत्रत: । 53
कषायवारिणा स्नानं देवदेवस्य शार्ङ्गिणः।
मानस्तोकेति मंत्रेण उष्णकुंभाभिषेचनम्। 54
वषट्तेति ऋचाकुर्या द्रत्नवार्यभिषेचनम्।
फलिनीत्यनुवाकेन फलांबुस्नानमाचरेत् । 55
हिरण्यगर्भमंत्रेण लोहतोयाभिषेचनम्।
त्रातार मिति मंत्रेण स्नापये दक्षतांभसा। 56
इदंविष्णुरितिस्नानं कुर्याद्वै यववारिणा।
हरिद्रास्नपनं कुर्यात् श्रीसूक्तेन तत: परम् । 57

श्रीपुरुषोत्तम संहिता
[[80]]
सहस्रधारया शुद्धस्नानं कुर्याच्छुभैर्फलै:।
एवं संस्नाप्य देवेशं मंडलाराधनं चरेत् । 58
इति श्रीपांचरात्रे महोपनिषदि श्री पुरुषोत्तमसंहितायां प्रतिष्ठास्नपनविधिर्नाम अष्टादशोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[81]]
श्रीपांचरात्रे श्रीपुरुषोत्तमसंहितायां एकोनविंशोध्याय:
शय्याधिवास विधि:
श्रीभगवानुवाच
अत:परं प्रवक्ष्यामि शय्यावासक्रमं परम्।
प्रतिष्टाकर्मसंसिद्धिर्भवत्येव न संशय:। 1
अधिकपाठानि-
(मण्टपं कल्पयेदादौ सर्वलक्षणसंयुतं।
षोडशस्तंभसहितं अलंकारैरलंकृतं । 1
कदरीपूगपुन्नाग क्रमुकादि तरूण् तथा।
कुशपुष्पादि मालांश्च वितानध्वजकेतना:। 2
द्वारकुंभांस्तोरणानिदर्पणानि यथाक्रमं।
अधाष्टमंगरां चैव अलंकृत्य समंतत: । 3
गुग्गुल्वागरुधूपानि दीपमालानि कल्पयेत्।
सुगंधेनानुलिप्याथ रंगवल्लीं सम समर्पयेत्। 4
पलानिचित्रान्विन्यस्य मध्ये मंडलमारिखेत्।
स्वस्तिकंभद्रकंवापि चक्राब्जंचेतरंतु वा।) 5
मण्डलोपरि शय्यांतु कारयेदुक्त मार्गत:।
शय्या परिकल्पनं
द्वादशाक्षरमंत्रेण वेदिकां प्रोक्षयेत्तत: । 2
प्रागग्रानुदगग्रांश्च दर्भानास्तीर्य पुष्कलम्।
शालीनां नवभारैस्तु तण्डुलानां तदर्धकै: । 3
तिलानां तंडुलार्धैश्च पीठं कुर्यात्सविस्तरम् ।
तस्योपरि व्याघ्रचर्मं तूलिकां तदनंतरम् । 4
मृद्वास्तरणसंयुक्तां कंबरान्युपरि न्यसेत्।
क्षौमं तस्योपरि न्यस्य चित्रवस्त्राणि निक्षिपेत्। 5

श्रीपुरुषोत्तम संहिता
[[82]]
ततश्शुक्लानि वस्त्राणि सोपधानानि सर्वश:।
शयनांगानि चासाद्य कस्तूरीगंधवासिताम्। 6
नानापुष्पसमाकीर्णां नानालंकारशोभिताम्।
भगवतोशयनं-
शय्यां प्रकल्प्यदेवेशं शाययेद्विधिना तत: । 7
ब्राह्मणै: पौरुषंसूक्त मुच्छरद्भिर्यथाततम्।
तूर्यघोषैर्मंगरैश्च मूर्तिपाश्चगुरुस्तथा। 8
उत्तिष्टे त्याति मंत्रैश्च बिंबमुत्थाप्य यत्नत:।
शय्यावेदीभुवं नीत्वा कुण्डानां बाह्यमार्गत:। 9
प्रदक्षिणक्रमेणैव शय्यायां शाययेद्गुरु:।
विश्वतच्छक्षुरिति च यद्वैष्णवमिति स्मृतम्। 10
तन्मंत्राभ्यांशाययेच्च मंदिराभिमुखं विभुम्।
श्रियादीनिच बिंबानि पार्श्वयो र्विनिवेशयेत्। 11
युवासुवास इति च वस्त्रेणाच्छादयेत्तत:।
ध्वजतोऱणकुंभादीन् पूजयित्वा यथाक्रमम्। 12
आच्छादयेत्तोरणानि नवैर्वासोभिरेव च।
प्रागादिद्वारदेशेषु ऋगादि पठतोद्द्विजान्। 13
संस्थाप्य देशिको देवं हृदयेतु समाहित:।
ध्यात्वा नत्वा तत:कुंभानष्टदिक्षु विनिक्षिपेत्। 14
धान्यराशिषु शंखं च चक्रं पद्मं गदां तथा।
श्रीवत्स गरुडं कूर्मं ध्वजं स्वर्णमयं क्षिपेत्। 15
कुंभानामंतरारेषु निक्षिपे न्मंगराष्टकम्।
सांकुरा: पालिकास्थाप्य वेदिकायां समंतत: ।
अष्टौ विष्णादिमूर्तीन् च कुंभेष्वष्टसु पूजयेत्।
देवस्य वायुदिग्भागे धान्यराशौसवस्त्रकम्। 17

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[83]]
महाकुंभ स्थापनं
सापिधानं मणिस्वर्ण दिव्यगंधांबुपूरितम्।
महाकुंभंतु संस्थाप्य तस्य पार्श्वे गरंतिकाम्।18
कूर्चसूत्रांबरैर्युक्तां पुण्यतीर्थांबुपूरिताम्।
अधिक पाठाणि
(फलपुष्पसमायुक्तां सुवर्णप्रतिमायुताम्।)
निवेश्य पायसान्नेन ब्राह्मणान्भोजयेत्तत:।19
होमं
ततो होमं प्रकुर्वीत ॠत्विजो देशिकाज्ञया।
मथितं मणिजं वापि लौकिकं वाग्निमानयेत्। 20
द्वादशाक्षरमंत्रेण प्रोक्ष्य पुण्याहवारिणा।
दिव्याग्निंमनसा ध्यात्वा प्रत्यक्कुंडे तु विन्यसेत्।21
दर्भैश्च सर्वकुण्डेषु पर्यग्निकरणं चरेत्।
(प्राच्यामावहनीयं च दक्षिणेदक्षिणाग्निच:।
प्रतीच्यां गार्हपत्याग्नि रुत्तरे सद्भ्यनामक:।
आग्नेये आवसक्त्याग्न्निमानि क्रमशोयजेत्।
दर्भैश्चसर्वकुण्डेषु पर्यग्निकरणं चरेत्।
स्थापयेत्सर्वकुण्डेषु प्रत्यक्कूंडाग्निमेवच । 22
(अग्निबीजेन मतिमान् वायुमन्त्रमनुस्मरन्।)
अग्निमध्यस्थपद्मेषु आधारादीन्यजेत्क्रमात्।
वासुदेवं तु पूर्वाग्ने याम्ये संकर्षणं तथा। 23
नारायणं पद्मकुण्डे अर्चयेच्च यथातथम्।
(पद्मकुण्डे श्रियंदेवी मावाह्यविधिनार्चयेत्।)
प्रद्युम्नं पश्चिमेकुण्डे त्वनिरुद्ध मथोत्तरे।
पद्मकुण्डे महालक्ष्मीं ध्याययेत्पूजयेत्तत: । 24

श्रीपुरुषोत्तम संहिता
[[84]]
शालादक्षिणपार्श्वेतु स्थाप्यधेनुचतुष्टयं ।
गंगासरस्वती गोदा यमुनास्तासु पूजयेत्। 25
तादुहित्वा पायसान्नं पाचयेस्सविचक्षणः।
प्राक्कुंडेजुहुयादग्ना मष्टोत्तरसहस्रकं। 26
कुण्डस्थदेवमंत्रेण पायसान्नं तु होमयेत्।
कृसरान्नं दक्षिणाग्नौ गुडान्नं पश्चिमेतथा। 27
हरिद्रान्नमुदीच्यांतु(मुद्गान्नमितराग्निषु) दुग्धान्नमितराग्निषु॥
तिलशालि यवैश्चैव वेणुबीजै र्यथाक्रमं। 28
ऋत्विजो जुहुयात्सर्वे गुर्वनुज्ञापुरस्सरं।
कुंभावाहन विधि:
एवं ऋत्विक्षु जुह्वत्सु महाकुंभेगुरुर्यजेत्। 29
परंज्योतिर्ज्ञानघनं समावाह्यच्युतं हरिं।
मूलमंत्रेण चार्ष्याद्यै श्चकरीकृत्य पूजयेत्। 30
सुदर्शनंतु करके ज्वालाभि: परिवेष्टितं।
सहस्रादित्यसंकाशं सहस्रारं यथाविधि:। 31
षडक्षरेण मंत्रेण चावाह्य स्वयमर्चयेत्।
तत्त्वसंहार न्यासहोमादीनि
शयनस्थस्य देवस्य न्यासं संहारमेवच। 32
कृत्वासृष्टिक्रमेणैव पुनस्तत्वानि संसृजेत्।
तत्त्वानि गोघृतेनैवप्राक्कुंडे जुहुयात्तत: । 33
अष्टोत्तरशतंवापि चाष्टाविंशति रेववा।
अष्टौवा तु यथाशक्ति र्जुहुया त्तु पृथक् पृथक्। 34
तत्त्वन्यासस्य होमं तु कृत्त्वैवं तदनंतरम्।
दशप्राणादिवायूनां न्यासं कुर्यादिडादिषु । 35
षोडशन्यास क्रम:

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[85]]
मत्स्यादिव्यतिरक्तेषु षोडशन्यासमीरितं।
प्रथमं प्रणवन्यासं व्याहृतीनां द्वितीयकम् । 36
तृतीयमक्षरन्यासं ऋक्षाणां च चतुर्थकं
कालस्य पंचमं ज्ञेयं वासरस्यतुषष्टकम्। 37
वर्णन्यासं सप्तमंतु तोयन्यास मथाष्टमं।
नवमं निगमन्यासं देवानां दशमं हितं। 38
ए कादशं विराजं च क्रतुन्यासं तु द्वादशं।
त्रयोदशं गुणन्यासं मूर्तिन्यासं चतुर्दशं। 39
शक्तिन्यासं तत:प्रोक्तं लोकन्यासंतु षोडशं।
शांति होमं
कृत्वैवं षोडशन्यासं शांतिहोमं समाचरेत्। 40
प्राक्कुंडेमधुना हुत्वा भूस्वाहेतिशताहुती:।
संपाताज्यं तु संगृह्य स्स्पृषेद्देवस्य पादयो: । 41
तथैव दक्षिणे कुण्डे भुवस्वाहेति मंत्रत:।
पयसाच ततो हुत्वा हृदयं संस्पृशेद्बुध:। 42
तत: पश्चिमकुण्डेतु सुवस्वाहेति मंत्रत:।
दध्नाहुत्वा मुखंस्पृस्य चोत्तरेत्रिश्रकुण्डके । 43
सर्वैर्व्याहृतिभिश्चैव सर्पिषाहोममाचरेत्।
संपातेन शिरोदेशेस्पृशेद्बिंबस्य देशिक:। 44
प्राक्कुंडे सर्पिषा चैव गुडेन मधुनास्वयम्।
हुत्वातु विष्णुगायत्र्या शतमष्टोत्तरं गुरु: । 45
करावाहनं
संपातेन मुखंस्पृश्य वेदीदिक्कलशस्थितै:।
खदिराश्वत्थपालाश बिल्वशाखाभिरंबुभि: 46
सिंचेयुर्मूर्तिपास्सर्वे चाब्लिंगै: पावनैरपि।

श्रीपुरुषोत्तम संहिता
[[86]]
वेदिकाकोणकुंभस्थ वैतस्या शाखयागुरु:। 47
विष्णुगायत्र्या सिंचे द्बिंबानि सकलानि च।
सजीवकरणं कृत्वा निवेद्य च यथाविधि। 48
(महाराजोपचारैश्च पूजयेद्देवमव्ययं।
सहस्रनामपूजांच कृत्वास्तुत्वा मुहुर्मुहु:।
मूर्तिमंत्रं यथाशक्ति जपित्वातु गुरुस्स्वयं।
तपश्शक्त्यास्वकीयेन गुरुहृत्पद्म संस्थितं।
देवं बिंबे समारोप्य ब्रह्मरंध्रेणवर्त्मना।
प्रणम्य शिरसा भूमौ नैवेद्यांतं समर्चयेत्।
अर्घ्यपाद्योपचाराणि चामरव्यजनादिकान्।
समर्प्य प्रार्थये द्देवमाचार्यो निर्मलात्मवान्।)
कंकणबंधनं बलिप्रदानं स्वप्नार्थशयनं
बध्नीयाद्दक्षिणे हस्ते कौतुकं मूलबेरके।
द्वारेषु च बलिं दत्वा स्वप्नाधिपतिमंत्रत: । 49
अष्टोत्तरशतं हुत्वा पूर्णाहुति मथाचरेत्।
(अष्टदिग्बंधनं कृत्वा देवमाच्छाद्यवाससा।
वेदघोषैस्तूर्यघोषै स्तोत्रै र्नानाविधैस्तथा।
नृत्तगीतजयध्वानै र्भगवन्नामकीर्तनै:।
मूर्तिमंत्रजपैश्चैव रात्रिशेषं समापयेत्।
आचार्ययजमानाद्या: स्वप्नार्थं दर्भविष्टरे। 50
शायीरन्प्रातरुत्थाय भगवन्नाममुच्छरन्।
स्वप्नाभावेपिदुस्स्वप्ने शांतिकुर्याद्गुरुस्स्वयं । 51

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[87]]
शुभंभवति चेत्कर्म प्रारभेत विचक्षण:।
इत्येवं संग्रहेनैव प्रोक्तं शयनलक्षणम् । 52
(ग्रामं प्रदक्षिणीकृत्य महोत्सव समन्वितम्।
आलयं संप्रविश्याथ नित्यकर्मसमाप्य च,।)
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां शय्याधिवासविधिर्नाम एकोनविंशोध्याय:
««««_____________»»»»
श्रीपांचरात्रदिव्यागमे श्रीपुरुषोत्तमसंहितायां विंशोध्याय:
प्रतिष्टाविधि:
द्वार, वास्तुहोमं, गर्तस्थापन क्रम:
तत:प्रभाते पुण्यर्क्षेवारे निर्णेतलग्नके।
देवप्रतिष्ठां कुर्वीत यजमानेन देशिक: । 1
तत्पूर्वे वास्तुहोमं तु कुर्याद्द्वारस्यदक्षिणे।
गर्भमंदिरमध्यस्थ पीठगर्तेषु शास्त्रत: । 2
रत्नन्यासं प्रकुर्वीत प्रथमावरणेष्ठसु।
गर्तेषु बीजन्यष्टौच निक्षिपेत्तदनंतरम्। 3
रत्नानि च त्रुतीये तु धातूं श्च स्थापयेद्बुध:।
चतुर्थेचाष्टलोहांश्च मध्यगर्तेतुविन्यसेत् । 4
पारदं ब्रह्मरागंच सुवर्णं शालिबीजकम्।
तदूर्ध्वे स्त्रीशिलापीठं स्थापयित्वा विचक्षण:। 5
सुधयासु धृडीकृत्य पुण्याहं वाचयेत्तत:।
अष्टधान्यानि
व्रीहयश्च यवाश्चैव निष्पावाश्च प्रियंगव: । 6
नीवाराश्शालयोमाषा: तिलाश्चाष्टौ प्रकीर्तिता:।
अष्टरत्नानि
वैढूर्यं मौक्तिकं चैव जलजं वज्रमेवच । 7

श्रीपुरुषोत्तम संहिता
[[88]]
पुष्यरागं चंद्रकांतं स्फटिकं चैंद्रनीलकम्।
अष्टधातव:
ए तन्य ष्टौच रत्नानि हरितारं मनश्शिला। 8
सौराष्ट्रं रोचनं श्यामं सीसं गैरिकमंजनम्।
धात्वष्टकमितिप्रोक्तं क्रमेणैव निवेशयेत् । 9
न्यासक्रम:
स्त्रीशिलापद्ममध्ये तु प्रणवन्यासमाचरेत्
कर्णिकायां स्वराण्येव व्यंजनानि दरेषुच। 10
विमलादीनितेष्वेव न्यासं कुर्याद्यथाविधि।
ततश्च पिंडिकां गंधै: पुष्पैरभ्यर्चयेत्क्रमात्। 11
पिंडिकायां श्रियं ध्यात्वा आहतेनैव वाससा।
प्रच्छाद्यचास्त्रं विन्यस्य द्वारेद्वारे यथाविधि। 12
अग्निउद्वासनादि
ततो गुरुस्समागत्य ध्वजतोरण देवता:।
विसृज्यचाग्निंहृदयेत्यारोप्य ब्राह्मणैस्सह।13.
समुद्धरे न्महाकुंभं मूर्तिकुंभां स्तत:परम्
मूलादि सर्वबिंबानि मूर्तिपैर्वाहय न् गुरुः। 14
गरंतिकां स्वयं धृत्वा तोयधारापुरस्सरम्।
शंखभेर्यादिघोषैश्च मंगरै र्विविधैरपि । 15
ध्वजछत्रपताकाद्यै: जयघोषैश्चचामरै:।
वेदपाठै स्तोत्रजालैर्हरिसंकीर्तनादिभि:। 16
प्रदक्षिणक्रमेनैव प्रविशेद्गर्भमंदिरम्।
द्वारे तु देवमर्घ्याद्यैरर्चयेद्देशिकस्स्वयम्. 17
भगवतो स्थापन विधि:
पीठप्रदक्षिणेनैव देवमंत: प्रवेशयेत्.

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[89]]
मुहूर्ते शोभने प्राप्ते स्थापयेद्देवमव्ययम्. 18
“धृवाद्यौरिति’’ मंत्रेण चात्वाहार्षमितृचा.
प्रतिष्टासीति वै साम्ना पिंडिकानारमध्यत:. 19
अष्टबंधेन चा पूर्वबिंब शंकुं निवेशयेत् .
पौरुषंसूक्तमुच्चार्यकर्मार्चां पुरतो न्यसेत्. 20
तत्पुरश्चोत्सवार्चांच दक्षिणेशयनं बलिम्.
उत्तरेस्नपनं तीर्थं लौकिकानिष्टभूमिषु. 21
ए वं संस्थाप्य देवेशमाराधन मथाचरेत्
आराधन विधि:
मूलबेरस्य पुरतो बद्ध्वा पद्मासनं गुरु:. 22
प्राणायामत्रयंकृत्वा ध्याये द्ब्रह्मंसनातनम्.
तं विष्णुं हृदये पद्मे मानसं यागमास्थित: . 23
अभ्यर्च्य च श्रिया भूम्या मंत्रेण पुरुषात्मना.
अंजलिस्थितपीठे तु समावाह्य हरिं तत:. 24
तद्विष्णुं प्रतिमायां तु विन्यसेत्सुसमाहित:।
निवृत्तिमंत्रमुच्चार्य तस्मिन्बिंबेस्थितं स्मरेत् । 25
प्रणम्य स्वागतं दत्वा मुद्रांबद्ध्वा च दर्शयेत्।
सृष्टिस्थितिलयेष्वेकं न्यासं कुर्याद्यथाविधि । 26
श्रियादीनां प्रोक्षणं, अग्निप्रतिष्ठा
श्रियादीनां च देवानां (देवीनां)महाकुंभजलेन वै।
प्रोक्षयेत्स्वस्वमंत्रेण षडंगन्यास(पूर्वकं)माचरेत्। 27
स्थापयेद्गार्हपत्याग्निं कुण्डेधिश्रवणेषु च।
देशिको यजमानेन प्रह्वस्तिष्ठन् कृतांजलि:। 28
देवस्य पुरत: स्थित्वा गाधामेनामुदीरयेत्।

श्रीपुरुषोत्तम संहिता
[[90]]
स्तोत्रपाठ:
भक्तवत्सलभक्ताना मभिप्रेतार्थसाधक:। 29
प्रार्थये त्वामहं देव मदनुग्रह काम्यया।
सन्निधत्स्व चिरंस्थाने कल्पिते श्रद्धया मया।30
प्रसीद देवदेवेश पूजामपि गृहाण मे।
ग्रामस्य राज्ञो राष्ट्रस्य प्रजानामिंदिरावरा। 31
देहि तुष्टिं च पुष्टिं च गतिं च परमां तथा।
इति विज्ञाप्य देवाय यजमान: प्रसन्नधी: । 32
शाश्वतपूजार्थं देवनाम्ना अर्चकस्य भूदान क्रम:
आचंद्रार्कमविच्छिन्न पूजनार्थं मधुद्विष: ।
क्षोणीं सस्य जलोपेतां देवनाम्ना विलिख्य च। 33
अर्चकस्य कुटुंबस्य जीवनार्थं प्रकल्पयेत्।
ततोऽर्चकं समाहूय कर्ता देवस्यसन्निधौ। 34
कृतांजलिपुटो भूत्वा विज्ञापनमथाचरेत्।
देवस्याराधनार्थं च त्वत्कुटुंबस्य वृत्तये। 35
मया दत्तामिमां भूमिं गृहाणेति बृवन् तत:।
शिलायां ताम्रपत्रे वा लिखित्वा दानशासनम्। 36
अर्चकस्य करे दद्यात् सहिरण्यफलोदकम्।
यदि वा वाऽर्चक नाम्ना वा कृत्वा क्षोणीं प्रदापयेत्।
देवस्यनाम्ना भूदानमुत्तमं परिचक्षते।
अर्चकस्यभवेन्नाम्ना मध्यमं फलमुच्यते। 38
भूदानमेव कुर्वीत भृतकं न कदाचन।
भूदानेन विना यस्तु भृतकं प्रददाति चेत्। 39
तस्यवंशक्षयं याति तस्यायुश्श्रीश्च नश्यति।
स वै देवालकोनाम सर्वकर्म बहिष्कृत:। 40

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[91]]
तस्मात्सर्वप्रयत्नेन भूमीमेव प्रदापयेत्।
स्थानाचार्यादिक नियोजनं
भगवत्पादतीर्थांबु सेवनार्थं वरेत्तत: 41
स्थानाचार्यं च तत्स्थाने हस्तकं च नियोजयेत्।
अध्यापकान् नृत्तगीत वाद्यकान् परिचारिकान् ।
स्थानशुद्धिकरानन्यान् पात्रशुद्धिकारां स्तथा।
देवपूजाभिवृद्यर्थं तांस्तांश्च नियमेत्तत:। 43
एतेषां जीवनार्थं च भूमिं दद्याद्यथावसु।
तान् सेवासु नियुज्याथ तत्तन्नामभिरेव स:। 44
परिचारकवर्गैश्च य:प्रतिष्टापयेद्विभुम्।
स याति परमं स्थानं तत्रास्ते भगवानिव। 45
यजमानस्य विभवे सर्वानेतान्प्रकल्पयेत्।
नोचेदर्चक मेकं वा वरयेद्भक्तितो द्विज:। 46
संपूर्णफलमाप्नोति यावदाभूतसंप्लवम्।
आचार्यदक्षिणादि
अन्येषां चैव भक्तानां नृत्तगीतादि कुर्वताम्। 47
सर्वेषां ऋत्विजां चैव यतीनां विदुषां तथा।
यथावित्तानुसारेण तोषयेच्च पृथक् पृथक्। 48
यजमानस्ततो भक्त्याकल्पिते विष्टरे तथा।
प्रतिष्टापकमाचार्यं प्रतिष्टांते समर्चयेत् । 49
सौवर्णकटिसूत्रैश्च केयूरै:कटकैस्तथा।
मणिहारै: कुण्डलैश्च रत्नजै रंगुरीयकै:। 50
क्षौमवस्त्रोत्तरीयैश्च जीवाजीव धनैस्तथा।
तोषयित्वा यथान्यायं देववत्संस्मरन् हृदि। 51
यानादिके समारोप्य तूर्यघोषपुरस्सरम्।

श्रीपुरुषोत्तम संहिता
[[92]]
ग्रामप्रदक्षिणेनैव स्वगृहे संप्रवेशयेत्। 52
यमेवं स्थापयेद्देवं पांचरात्रागमोक्तत:।(विधानतः)
स याति परमं स्थानं अपुनर्भवलक्षणम्। (पुनरावृत्तिवर्जितम्) 53
पुनाति वंशजान् चैव पुरुषानेकविंशतिम्।
इति संक्षेपत: प्रोक्तो प्रतिष्टाकर्मशोभनम् ॥ (पद्मज) 54
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां प्रतिष्टाविधिर्नाम शोध्याय:
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[93]]
श्रीमत्पांचरात्र दिव्यागमे श्रीपुरुषोत्तमसंहितायां एकविंशोध्याय:
विमानादिप्रतिष्टा विधि:
श्रीभगवानुचवाच-
प्रासादमण्टपादीनां प्रतिष्टालक्षणं शृणु।
प्रासादस्याग्रत: कुर्याद्विधिवद्यागमण्टपं। 1
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम्।
प्रासादस्यापि परित: कुर्यात्कुंडाष्टकं गुरु:। 2
यागमण्टपभूभागे कुण्डमेकं प्रकल्पयेत्।
समस्तमूर्तिहोमं तु तस्मिन्नेव प्रकल्पयेत्। 3
रात्रावेवांकुरारोपं यथाविधि समाचरेत्।
शैलोत्थं पूर्ववत्कुंभं कृत्वा धातुमयं तु वा। 4
तद्विगोरकमानेन मंत्रबिंबेन वै सह।
अधिवास्य यथान्यायं सर्वोपकरणान्वितं। 5
स्नानार्थमखिलं ताभ्यामापाद्य च यथाविधि।
तस्मिन् रत्नादिसंयुक्ते बिंबं कुंभे निवेश्य च । 6
पुष्पैराभरणैर्वस्त्रै च्छन्नं कृत्वार्घ्यपुष्पवत्।
शनै: प्रासादशिखर मारुहेन्मूर्तिपैस्सह । 7
रत्नन्यासं तत:कृत्वा पूर्वोक्तेन क्रमेण तु।
निवेशयेत्ततो बिंबं शिखाकुंभसमन्वितम्। 8
संपूज्यवाससाच्छाद्य सुधया दार्ड्यमाचरेत्।
प्रासादं स्थापयेत्पश्चात् षड्भिस्सिद्धार्थकादिभि:।9
विमानपट्टिकायां तु पंचविंशति तंतुभि:
बध्वा तु कौतुकं पश्चात् कुर्याच्छायादिवासनम्।
दर्पणे स्नपनं कुर्यात् पूर्ववद्देशिकोत्तम।
चतुर्दिक्षु विमानस्य मूर्तय: कल्पिता यदि। 11

श्रीपुरुषोत्तम संहिता
[[94]]
नेत्राणि तेषां चोन्मील्य यथाशास्त्रक्रमेण तु।
विमानस्यापि कुर्वीत कूर्च द्वाराधिवासनम्। 12
प्राक्कुंडेसकलं होममाचार्यस्स्वयमाचरेत्।
पूर्णाहुतिं तत: कृत्वा चक्रं विघ्नक्षयंपरम्। 13
प्रतिष्टाप्य समभ्यर्च्य ततोस्त्रंसमनंतरम्।
त्रियंशेन शिखादुच्छं शिखामंत्रेण विन्यसेत्। 14
प्रासदबिंबयोर्विप्र स्थापनं युगपद्भवेत्।
विमानस्य प्रतिष्ठेत्थं समासात्कीर्तितं मया। 15
मण्टपप्रतिष्ठा
शृणुध्वं मण्टपादीनां प्रतिष्ठां मुनिपुंगवाः।
मण्टपं प्रथमं चाग्र्यं तथैवास्थानमण्टपम्। 16
प्राकारं पचनावासं कोशागारांबरास्पदे।
पानीयपुष्पशालांच तथा वै यागमण्टपम्। 17
धान्यागारादि सर्वांच क्षारये द्बहुभिर्जलै:।
पर्यग्निकरणं कृत्वा मार्जनोल्लेपनादिकम् । 18
पंचगव्यैश्च संप्रोक्ष्य(चाऽलंकृत्य विशेषतः)वितानाद्यैश्च भूषयेत्।
गंधैश्च धूपायित्वा तु दीपानारोपयेत्तत:। 19
सुधाचूर्णैरलंकृत्य विकिरेद्भुविचाक्षतान्।
वाचायित्वा तु पुण्याहं वास्तुनाथंततोर्चयेत्। 20
प्रकल्प्य धान्यपीठं तु तत्र कुंभं निवेशयेत्।
(धान्यपीठं प्रकल्प्याथ महाकुंभं निवेशयेत्।)
देवं तत्र समभ्यर्च्य सांगं सपरिवारिकम्। 21
स्थंडिले वापि कुण्डे वा प्रतिष्टाप्यानलं तत:.
(होमंकुर्याद्यथाशास्त्रं पूर्वोक्तेनैव वर्त्मना।
मण्टपानामधिपतिं तार्क्ष्यं हुत्वा स्वमंत्रत:।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[95]]
सहस्रमयुतं वापि अष्टोत्तरशतं तु वा।
समिदाज्यचरूण् चैव प्रत्येकं तु पृथक् पृथक्।)
देवमग्नौ तु संतर्प्य पूर्णाहुतिमथाचरेत्। 22
सुमुहूर्ते तु संप्राप्ते प्रोक्षयेत्कुंभतोयत:।
वाहन,रथ,गोपुरादीनां प्रतिष्टा- द्वारशाखाकवाटादि प्रतिष्टा
इत्येवं मण्टपादीनां प्रतिष्टाविधिरीरित:। 23
रथादिगोपुरादीनां वाहनानां समं स्मृतम्।
द्वारे द्वारे प्रकल्प्येत कवाटद्वयमब्जज। 24
प्रोक्षयेद्द्वारशाखाश्च पुण्याहस्य जलेन तु।
संप्रोक्ष्यअद्भिश्चवासोभि राच्छाद्य सथंडिले तत: । 25
कवाटाश्चद्वारशाखा स्थाप्य कुंभे यजेत्तत:।
अष्टुकुंभांश्च परित: वासुदेवादिमंत्रत:। 26
कुंभस्योत्तरदेशे तु करकं स्थापयेद्गुरु:।
तोरणादीनि संपूज्य अधिवासं च कारयेत्। 27
होमं च विधिवत्कृत्वा संपाताज्येन सेचयेत्।
सुमुहूर्ते सुलग्ने च कवाटाधस्थितात्मनि । 28
गर्ते तु रत्नविन्यासं पुण्याहं वाचयेत्तत:।
पंचगव्येन संप्रोक्ष्य कवाटौस्थापये द्विज:। 29
कूर्चेन कुंभतोयेन देवानावाहयेत्तत: ।
अधोभागे तु शांतिं च वाग्देवीं दक्षिणे तथा । 30
उत्तरे तु रतिं चैव लक्ष्मीमूर्ध्वे तु विन्यसेत्।
कवाटे दक्षिणे ब्रह्मन् विश्वदृग्भूतभावनौ। 31
कवाटे वामके स्थाप्यौ विश्ववक्त्र: प्रतापवान्।
दशावतारमूर्तीं च तथावाह्य यथाक्रमम्। 32
वेत्रेषु वेदशास्त्राणि पुराणानि क्रमान्न्यसेत्।

श्रीपुरुषोत्तम संहिता
[[96]]
नाराचेषु त्रयत्रिंशद्देवानावाहयेत्तत:। 33
कीलेषु च ऋषीन्न्यस्य गौरीशं पट्टिकातले।
कुंदपट्टे कवाटस्य विश्वभावनमर्चयेत्। 34
(कवाटाधिपतिं वायुमावाह्याभ्यर्च्य यत्नत:.
आवातवायुमंत्रेण जपं कुर्यायाद्यथाविधि।}
सुदर्शन प्रतिष्ठा हेतुः
अथ वक्ष्ये विशेषेण चक्रस्थापनमुत्तमम्।
(ग्रामारिष्टविनाशार्थं वह्निचोरामयादिभि:
देवागारस्यरक्षार्थं देशक्षेमार्थमेव च।
सुदर्शनप्रतिष्ठा तु कर्तव्यं भगवद्गृहे।
गोपुराग्रेऽथवाग्राममध्ये स्तंभाग्रतः क्रमात्।)
लक्षणं चक्रराजस्य संक्षेपाद्द्विजसत्तम।
सुदर्शन लक्षणम्
विस्तृतं दशहस्तेन पंचहस्तेन वा पुनः।
करद्वयेन वा कुर्याद्यद्वा द्वात्रिंशदङ्गुलम्।
चतुर्विंशाङ्गुलं यद्वा षोडशं द्वादशं तथा।
मूलबिंबाननसमं सहस्रारसमन्वितम्।
यद्वा शतारमथवा चतुर्विंशत्यरान्वितम्।
द्वादशारमथाष्टारं यद्वा पंचाश्रमेव वा।
अरानामानुगुण्येन ज्वालाभिः परिवेष्टितम्।
त्रिकोण(षट्कोण)निर्मितं चक्रं नाभिमण्डलमण्डितम्।
स्वर्णाद्यैःकारये द्विद्वान् नानारत्नैश्च शोभयेत्॥40
तस्य प्रतिष्ठा क्रमः
शिल्पिनं धनधान्याद्यैः स्तोषयित्वा यथावसु।
संगृह्य सर्वसंभारान् यागद्रव्याण्यशेषतः।41

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[97]]
विमानस्योत्तरेभागे कुर्यान्मण्टपमुत्तमम्।
षोडशस्तंभसंयुक्तं मध्ये वेदिं प्रकल्पयेत्।42
वेदाश्चपरितोदिक्षु चतुष्कुण्डानि कारयेत्।
यद्वैककुण्डं कुर्वीत षट्कोणं तु मनोहरम्।43
तदुत्तरद्वारदेशे समीपे स्नानमण्टपम्।
स्नानमण्टपरौद्रे तु अंकुरार्पणमण्टपम्।44
कृत्वाचाभ्यन्तरे देशे सुधाचूर्णैश्च मण्डयेत्।
अंकुरानर्पयेत्पुण्येकाले पूर्वे यथोदिते॥45
मथित्वाऽग्निं प्रतिष्ठाप्य सर्वकुण्डेषु मूर्तिपान्।
वास्तुहोमादिकं कृत्वा यथापूर्वं तु कारयेत्।46
पर्यग्निकरणं सर्ववस्तूनां कुण्डवह्निना।
पंचगव्येन सम्प्रोक्ष्य पुण्याहस्य जलेन तु। 47
क्षीरेऽधिवास्य तच्चक्रं सप्तभिः कलशैः स्नपेत्।
पूर्वोक्तेनैव मार्गेण जलवासादि कारयेत्। 48
ततोऽपराह्णसमयेचक्रमुत्थापयेज्जलात्।
यागशालां प्रविश्यैव स्नपनं कारयेत्क्रमात्॥ 50
मन्त्रेणोन्मील्यनेत्रे तु शय्यायां शाययेत्गुरुः।
धान्यपीठगते कुंभे हेतिराजं समाह्वयेत्।
न्यासं कृत्वा विधानेन शांतिहोमं च कारयेत्।
चक्रं सजीवनं कुर्यात् पूर्वोक्ते यागमण्टपे। 52
दर्भास्तरणसंयुक्ते मूर्तिपैस्सहितःस्वपेत्।
प्रभाते समनुप्राप्ते मूर्तिपैस्सहितो गुरुः।53
वास्तुदेवादिदेवां च संपूज्योद्वास्य देशिकः।
पूर्णाहुतिं ततो हुत्वा वह्निं चक्रे समर्चयेत्।54
मुहूर्ते तु शुभे प्राप्ते यजमानो जितेंद्रियः।

श्रीपुरुषोत्तम संहिता
[[98]]
ऋत्विगाचार्यसहितो वाद्यघोषपुरस्सरम्।
धामप्रदक्षिणेनैव चोपरिस्थानमाविशेत्।
स्थापयेच्चक्रराजं तु रत्नन्यासपुरस्सरम्।56।
धृवंत इति चोच्चर्य चतुर्दिक्षु बलिं क्षिपेत्।
आचार्यदक्षिणां दद्याद्यजमानो यथाप्रियम्।57
एवं यःकुरुते भक्त्या चक्रं सौदर्शनं महत्॥
इह भुक्त्वाखिलान् भोगान् चांतेसायुज्य माप्नुयात्॥58
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां विमान,गोपुरमण्टपादि प्रतिष्ठाविधिर्नाम
एकविंशोऽध्याययः
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[99]]
द्वाविंशोऽध्यायः
चक्राब्जमण्डलदीक्षा विधिः
दीक्षाविधि श्रवणार्थं बृह्म प्रश्नः
बृह्मोवाच
भगवन्! श्रोतुमिच्छामि देवदीक्षाम् परांशुभाम्।
कस्मिन् काले तु कर्तव्यं देवताराधनार्हताम्।1
अदीक्षितानां पूजादौ प्रागुक्तानाधिकारता।
तस्माद्दीक्षाविधिं संयग्वदस्व मम सुव्रत।
भगवत्प्रतिवचनम्
श्रीभगवानुवाच
श्रुणु दीक्षां प्रवक्ष्यामि यथाशास्त्रं समाहित:।
यां कृत्वा मनुजास्सर्वे भवंति भगवन्मयाः।
दीक्षाशब्दार्थ निर्वचनम्
धीयते मुक्तिरनया क्षीयते च यथाभवः।
दीयते क्षीयते चैव सादीक्षेत्यभिधीयते।
वैष्णवं भगवद्भक्तं सर्वतन्त्रार्थकोविदम्।
दीक्षागुरु लक्षणम्
प्रतिष्ठातंत्रकुशलं पांचरात्रान्वयोद्भवम्।5
महाभागवतं वृद्धं(माचार्यं वरयेत्पुरा)समाहूयाब्जसंभव।
देवदीक्षास्थल निर्देशः
देवतायतनेरम्ये गृहे वा गुरुशिष्ययोः।
(शुभलग्ने सुमुहूर्ते दीक्षाकर्म समारभेत्।)
शुभलग्ने सुनक्षत्रे देवदीक्षां समाचरेत्।
गुरुमुखादेव मंत्रोपशा अवश्यकता
यदृच्छया श्रुतोमंत्रः छलेनाथ बलेन वा।

श्रीपुरुषोत्तम संहिता
[[100]]
पत्रेक्षितेवानर्थस्य प्रत्युताऽनर्थकृद्भवेत्।
सर्वेमंत्रास्सर्वफलाः गुरुवक्त्रा द्विनिर्गताः।
(विनिसृताः)
तस्माद्गुरुमुखादेव मंत्राग्राह्या मनीषिभिः।
विष्ण्वर्चनादिदीक्षायां स्वयम्व्यक्तस्थलादिषु।
दीक्षाकाल नियमः
अयनंमास ऋक्षादि तिथिवारादिकं शुभम्।
अरिमित्रादिकं तद्वदाचार्यो न विचारयेत्।10
मंत्राणामुपदेशोयं देशिकस्यमुखांबुजात्।
अभियातस्य दीक्षेति तयाशिष्यः पवित्रतः।
प्रणतायैव शिष्याय स्ववर्णाश्रम धर्मिणे।
सक्तचित्तायसततं(भक्तिश्रद्धासमेताय) विहितेष्वेव कर्मसु।
वेदवेदांगयोगानां सारासारविधे पुनः।
बहुश्रुतायशीलाय सततं वृद्धसेविने।
मंत्रस्समुपदेष्टव्यो नान्याय चतुरानन।(नचान्याय कदाचन)
दीक्षाक्रमः
स्वगृहे पुष्करेकाले सायाह्ने मंत्रवित्तमः।
सूत्रपातं ततः कृत्वा मण्टपं रचयेत्क्रमात्।
दीक्षामण्डल रचना विधिः
चक्राब्जमण्डलं वापि भद्रकं स्वस्तिकं तु वा।
लिखेत्पंचविधैश्चूर्णैःयथाशास्त्रानुसारतः।
प्राणप्रतिष्ठां कुर्वीत मंत्र तंत्र विदुत्तमः।
उपचारैष्षोडशभिरर्चयेच्च पृथक्पृथक्।
भगवत्प्रार्थनादि
ततो गुरुं पुरस्कृत्य देवताराधनेरतः।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[101]]
विविधैर्मंगरैस्तोत्रैः देवागारं समाविशेत्।
देवदेवं प्रणम्याथ प्रादक्षिण्येन साधकः।
रथे वा कुंजरेवापि शिभिकायां यथारुचि।
देवं देवींसमारोप्य ग्रामं कृत्वा प्रदक्षिणम्।
दीक्षास्थानं समासाद्य नृत्तगीतादिभिस्सह।
मण्डलस्यसमीपे तु देवं पीठे निवेशयेत्।20
नीराजनान्तं कुर्वीत अर्घ्यपाद्यादि पूर्वकम्।
एवं संपूज्य विधिवत् स्वगृहे मण्डले द्विज।
स्थापयेद्विधिना तस्मिन् ध्रुवसूक्तेन वै गुरुः।
पुण्याहादि पूर्णाहुत्यन्तकलापानि
ततोऽनुज्ञां समायाचे(द्वृद्धानां च महात्मनाम्।) द्वृद्धस्य च महात्मनः।
पुण्याहपूर्वं कुर्वीत अंकुरारोपणादिकम्।
चक्राब्जस्य च वायव्ये महाकुम्भं तदुत्तरे।
करकं च समासाद्य महाकुंभे जनार्दनम्।
सुदर्शनं च करके विष्ण्वादीनुपकुंभके।
आवाह्याभ्यर्च्य विधिवत्पायसान्नं निवेदयेत्।
अग्निप्रतिष्ठा कर्तव्या स्वसूत्रोक्त विधानतः।25
अंकुरार्पणहोमादीन्कारयेत् कमलासन।
मूर्तिहोमं ततः कृत्वा षोडशांतेन पद्मज।
शिष्यस्य दंतकाष्टादि परीक्षाक्रमः
तच्चिष्यं समाहूय दन्तान् काष्ठेन दावयेत्।
तत्काष्ठं तु परीक्ष्यैव नेत्रे वस्त्रेण बन्धयेत्।
भस्मनातिलकं कृत्वा अस्त्रमन्त्रसमुच्छरन्।
शिष्यस्य नेत्रबन्धनम्
रक्षाबंधं ततः कृत्वा पंचगव्यं तु प्राशयेत्।

श्रीपुरुषोत्तम संहिता
[[102]]
रक्षाबन्धादिविधयः
ततः कायविशुद्ध्यर्थं प्रणवेन चरुं ततः।
भुंजीत शिष्यस्तदनु विशुद्धम् भावयेद्गुरुः।
करे गृहीत्वा देवेशं प्रणम्यगुरुरात्मवान्।30
भगवतो विज्ञापणम्
विज्ञापयेदिमां गाधामुच्चार्य कमलासन।
“संसारपाशबद्धानां पशूनां पाशमोक्षणे।
त्वमेव शरणं देव गतिरन्या न विद्यते।
पाशमोक्षणहेतुस्त्वं त्वत्समाराधनात्मकः।
तेनेमां जन्मपाशेन पाशितान् पशुजन्मनः।
विपाशयामि देवेश अनुज्ञातुं त्वमर्हसि।‘’
सूत्रवेष्टनक्रमः
इति विज्ञाप्य तं शिष्यं मायासूत्रेण वेष्टयेत्।
शुक्लं रक्तं च कृष्णं च त्रिवर्णं द्विगुणीकृतम्॥
सूत्रं पुनश्च त्रिगुणं कृत्वा सूत्रेण तं द्विज।
शिखां प्रक्रम्य पादान्तं पंचविंशति संख्यया।
वेष्टयेन्मूलमन्त्रेन कायं शिष्यस्य सर्वशः।
होमविधिः
सर्पिषाष्टोत्तरशतवारान् पूर्णाहुतिं ततः।
स्वप्नाधिपतिमन्त्रेन सर्पिषाष्टोत्तरं शतम्।
माषोदकेन भूतेभ्यो बलिं दद्याद्विशेषतः।
विमुक्तनेत्रबंधस्य शिष्यस्य तनुबन्धनम्।
मायासूत्रं समादाय शरावे न्यस्य पद्मज।
(विनिवेश्य च)
कुंभपार्श्वं शरावेण पिधायान्येन देशिकः।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[103]]
स्वप्नार्थशयनम्
दर्भानास्तीर्य तत्तल्पे शिष्यस्स्वापं समाचरेत्।
मण्डलस्थं च कुम्भस्थं देवं नोद्वासयेद्गुरुः।
द्वितीयदिवसे शांति होमः
ततः प्रभाते विमले स्नात्वाचार्य पुरस्सरम्।40
नित्यं निर्वृत्य (नित्यकर्म निवृत्याथ) विधिवन्मण्डलस्थं जनार्दनम्।
स्वप्नशांतिं ततः कृत्वा पुनर्नेत्रे च बंधनम्।
कृत्वाचाग्नौ तु जुहुयान्मूलमन्त्रं शताहुतीः।
मायासूत्र संहार क्रमः
मायासूत्रं ततश्छित्वा संहारक्रममाश्रितः।
तत्वानुद्दिश्य जुहुयात्प्रकृत्यन्तानि देशिकः।
शोषणादीनि कर्माणि शिष्यदेहे समाचरेत्।
शिष्यशरीरस्य शोषणादीनि
पंचोपनिषदन्यासं सृष्टिपूर्वं न्यसेत्तनौ।
प्रोक्षयेन्मूलमन्त्रेण नेत्रबन्धं विमोचयेत्।
चक्राब्जं दर्शयित्वाथ शिष्येणसहितो गुरुः।
श्रीमन्नारायणं देवं लोकानां गुरुमीश्वरम्।
मन्त्रोपदेशः
ध्यात्वा च दक्षिणे कर्णे शिष्यस्य प्रणवान्वितम्।
मन्त्रं दद्यादृषीं छंदो दैवतम् चाङ्गमेव च।
न्यास ध्यानादि सहितमुपदेशस्ततः परम्।
अष्टाक्षरं चोपदिश्य द्वादशार्णं ततः क्रमात्।
षडक्षरं च विष्णोस्तु गायत्री च ततः परम्।
चतुर्णां मूर्तिमन्त्राणामन्येषामपि पद्मज।
मूर्तिमन्त्राश्च तदनु तमध्याप्य यथाविधि।

श्रीपुरुषोत्तम संहिता
[[104]]
धर्मोपदेशः
तस्मिन् काले तु शिष्यस्य नियमान्प्रवदेद्गुरुः।
मन्त्रःपरं तु नाख्येयः नाक्षमालां प्रदर्शयेत्।
न गुरुं दूषयेद्वाचा (स्वगुरुं प्रणिपत्यच) न कलंजं च भक्षयेत्।50
नानृतम् तु वदेद्वाचा नगच्छेत्परयोषितः।
प्रासादं देवदेवीयमाचार्यं पांचरात्रिकम्।
अश्वत्थं च वटं धेनुं साधुसंघं गुरोर्गृहम्।
दूरात्प्रदक्षिणं कार्यं समीपे प्रतिमां हरेः।
विष्णुव्रतपरंचैव विष्ण्वायतन पूजकम्।
विष्ण्वालापकथासक्तं मानयेद्विष्णुवत्सदा।
इत्यादि नियमान्सर्वानाज्ञाप्य गुरुसत्तमः।
शिष्यनाम निर्देशः
शिष्यस्य नाम निर्दिश्य गुरुभट्टारकादिषु।
एवं कुर्यात्ततश्शिष्यो तं गुरुं प्रणिपत्य च।
दक्षिणां च यथाशक्ति स्वाचार्यायप्रदापयेत्।55
(गोभूधान्यादिकं सर्वं यथाशक्ति समर्पयेत्।)
दीक्षितस्य प्रशस्तता
य इत्थं वैष्णवीं दीक्षां प्राप्नोति सुविनिश्चयम्।
ब्राह्मणो वेदविद्विद्वान् स सर्वाश्रमिणां वरः।
परार्थयजने स्वार्थे स आचार्यः परिकीर्तितः।
स एव सूरि सुहृत् सात्वतः पांचरात्रवित्।
एकांतिकस्तन्मयश्च देशिको दीक्षितोऽर्चकः।
गुरुर्भागवतश्चैव पूजकस्साधको हरिः।
भट्टारकादिराख्याभिराख्येयः कमलासन।
दीक्षापरिसमाप्तिः

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[105]]
पूर्णाहुतिं ततो हुत्वा देवतोद्वासनं चरेत्।
ग्रामं प्रदक्षिणं नीत्वा वेदवाद्यपुरस्सरम्।
यानमारोप्यदेवेशं देवागारं प्रवेशयेत्।60
इति संयक्समाख्यातो देवदीक्षाविधिर्मया।
पंचसंस्कारविधिः
प्रसंगादद्य वक्ष्यामि पंचसंस्कार संज्ञिकाम्।
दीक्षां मत्प्रीतिजनकां (पूजायोग्यो यथा द्विज) पूजायोग्याययोद्विज।
पंचसंस्कारावसर निरूपणम्
तेषामेतां विना दीक्षां गतिरन्या न विद्यते।
तापःपुण्ड्रस्तथानाम मन्त्रोयागाश्च पंचमः।
पंचसंस्कारदीक्षेषा देवदेव प्रियावहा॥
पंचसंस्कारदीक्षावान् महाभागवतस्स्मृतः।
अंकुरार्पणम्- कुंभावाहन, अग्निकार्यादयः
महाकुंभं समासाद्य अंकुरार्पणपूर्वकम्।
अग्निप्रतिष्ठां कुर्वीत आघारान्तं तु पूर्ववत्।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा।
मूलमन्त्रेण हुत्वा वै चरुणाषोडशाहुतीः।
नृसूक्तेन ततो हुत्वा प्रायश्चित्ताहुतिर्हुनेत्।
शिष्याभिषेचनादि
ततो पूर्णाहुतिं हुत्वा अनुज्ञाप्य द्विजानपि।
ततः कलशमभ्यर्च्य शिष्यं तेनाभिषेचयेत्।
तं शिष्यं शुभ्रवस्त्राद्यैरलंकृत्य ततः परम्।
बद्धांजलिस्ततो शिष्यः दण्डवत्प्रणमेत् क्षितौ।
प्रार्थयेत गुरुं शिष्यः गाधया वक्ष्यमाणया।

श्रीपुरुषोत्तम संहिता
[[106]]
गुरुप्रार्थना
विष्ण्ववर्चनासुदीक्षां च पंचसंस्कारमार्गतः।
दत्वानुज्ञां रक्षरक्ष विष्णुप्रीत्यै च मां तथा। (गुरूत्तमा)
तापसंस्कारः
प्रार्थयन्तममुंशिष्यं होमकुण्डसमीपतः।
कुण्डस्य दक्षिणे पार्श्वे चोदङ्मुखमुपाविशेत्।
चक्रं शंखं तथासंयक्पूजयेन्मन्त्रवित्तमः।
नैवेद्यान्तं समभ्यर्च्य होमान्ते तापयेद्गुरुः।
(सुदर्शनाद्यायुधानां होमं कृत्वा यथाविधि।)
तत्संदृष्ट्वा तु शिष्यस्य भुजमूले तु दक्षिणे।
चक्रं तदितरेशङ्खं विन्यसेत्स्वस्य मन्त्रतः।
पश्चात्प्रक्षार्य तौ ब्रह्मन् पूजास्थाने निवेशयेत्।
(पश्चात्प्रक्षालयेत्तौ च गोक्षीरेण गुरुस्स्वयम्।)
ऊर्ध्वपुण्ड्र संस्कारः
पूर्वोक्तविधिना कुर्यात् पुण्ड्राणां धारणं ततः।
नाम संस्कारः
दास्यनामापि शिष्यस्य दत्वा शास्त्रोक्तमार्गतः।
मन्त्र संस्कारः
अष्टाक्षरप्रशम्सा
सर्वार्थवेदगर्भस्था वेदश्चाष्टाक्षरेस्थितः।75
तस्मात्समस्तमन्त्राणां मूलमष्टाक्षरं स्मृतम्।
अष्टाक्षरींचोपदेशे न्यासपूर्वं यथाविधि।
द्वयं च चरमं चैव तथाचोपदिशेद्गुरुः।
अष्टाक्षरस्य मन्त्रस्य उपदेशेन केवलम्।
अन्येषामपिमन्त्राणामुपदेशस्तु सिद्ध्यति।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[107]]
तस्मात्समस्तमन्त्राणां उपदेशःपृथक्पृथक्।
नापेक्षते हि सर्वत्र भानुर्दीपमिवाब्जज।
याग संस्कारः
श्रीमूर्तिदानम् शिष्याययागविद्या समन्वितम्।
(आचार्यः कुर्वतां ब्रह्मन् निर्मलेनैव चेतसा।
ततो शिष्यं समाहूयचाशीर्वादं च कारयेत्।
शिष्यस्तु स्वगुरुं मत्वा केवलं भगवानिति।
यथाविधि समभ्यर्च्य अर्चयेद्दक्षिणां क्वचित्।)
एते हि पंचसंस्काराः कथितास्संग्रहेण च।
येनमर्त्यो धूतपापः प्राप्नोति परमांगतिम्। (मुक्तिमाप्नोति निश्चयः॥)
इति चक्राब्जमण्डल चक्राब्जमण्डल दीक्षादिविधिर्नाम द्वाविंशोऽध्यायः॥
««««_____________»»»»
त्रयोविंशोध्यायः
महोत्सवविधिः
ध्वजारोहण, देवताह्वान विधिः
महोत्सवविधाने ब्रह्मप्रश्नः
भगवन्पुण्डरीकाक्ष शरणागतवत्सल।
महोत्सवः कथं कश्चित्कीदृक्तस्य फलं च किम्।
मम जिज्ञासमनसः विस्तराद्वद मे प्रभो।(सुव्रत)
भगवत्प्रतिवचनम्- महोत्सवप्रशस्तता-
ब्रह्मन्नाराधनमिदं श्रेयःकामैरनुष्ठितम्।
मत्प्रीतिजनकं भद्रं महोत्सवमनुष्ठितम्। (मितीरितम्)
पुरा वृत्रवधे तात तत्पापस्य प्रशांतये। (प्राप्त पापमोचन हेतवे।)
देवेंद्रेणापि मत्प्रीत्यै कृतमेतन्महोत्सवम्।
(इंद्रेणाचरितं वत्स! शृणुष्वेतन्महोत्सवम्।)

श्रीपुरुषोत्तम संहिता
[[108]]
उत्सवशब्दार्थः
विधानं तस्य वक्ष्यामि उत्सवस्य विशेषतः।4
सवस्सांसारिकं दुःखमुत्तरंति तदम्बुधिम्।
कर्तायति च विध्वाम्सो निर्ब्रुवन्त्युत्सवाह्वयम्॥
उत्सव भेदाः
नित्योनैमित्तिकःकांयो स्त्रिविधस्समहोत्सवः।
(नित्यम्नैमित्तिकंकाम्यमुत्सवं त्रिविधं स्मृतम्।)
पापोपनोदनैकान्तं कर्तुरायुर्विविर्धनम्॥6
प्रजानामपि राष्ट्रस्य सर्वाभ्युदयसाधकम्।
दुर्भिक्ष दुर्निमित्तादि घोराणां शांतिदं परम्॥7
धर्मार्थकाममोक्षाणां(मोक्षादि) पुरुषार्थप्रदं शुभम्।
(समस्तपापहरणम् सर्वारिष्ट निवारणम्।)
तीर्थ नक्षत्र निर्णयः
(अयनंचोत्तरम् शस्तं चारंभेतु हरेस्सवः।)
आरम्भे देवयागानामुत्तरायणमुत्तमम्॥8
दर्शेतु पौर्णमास्यां च द्वादश्यां श्रवणेपि वा।
अयने विषुवे चैव रोहिण्यां तु पुनर्वसौ॥9
(अन्येषु पुण्यतिथिषु ग्रहणादिक पर्वसु।
यजमानस्य जन्मर्क्षे प्रतिष्ठा ऋक्षके तथा॥)
निश्चित्य तीर्थदिवसं यागकर्मसमारभेत्।
उत्सवदिन निर्णयः
द्वादश्याहं नवाहं वा सप्ताहं वा चतुर्मुख।10
पंचाहं त्रयहंचापि चैकाहं वा महोत्सवम्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[109]]
ध्वजकर्म निर्णयः
एकाहे च त्रयाहे च(त्रयहेचैव) ध्वजकर्म न कारयेत्॥11
यागमण्टप लक्षणम्
देवालयस्यैशान्ये पूर्ववद्यागमण्टपम्।
दशहस्तायतं यद्वा नवहस्तायतं तु वा॥12
पंचहस्तायतं वापि विस्तारायाम संमितम्।
चतुर्द्वारसमायुक्तं मण्टपं परिकल्पयेत्॥13
मण्टपस्य चतुर्दिक्षु कारयेन्महतीं प्रपाम्।
मध्ये तस्य महावेदीं हस्तोच्छ्रेदां मनोहराम्॥

निर्माय तच्चतुर्दिक्षु कूण्डानि परिकल्पयेत्।
अश्रं चापं तथा वृत्तं त्र्यश्रं पूर्वदितः क्रमात्॥15
यद्वैकं चतुरश्रं वा कल्पयेत्कर्तुरिच्छया
शालाऽलंकरणम्
अश्वत्थतोरणादीनि पूर्ववद्बंधयेत्ततः॥16
स्रुक्स्रुवौ कारयेदष्टमंगलानि यथाक्रमम्।
क्षौमैःकार्पासकै(र्वस्त्रैः)श्चित्रयेन्मण्टपप्रपाम्।
स्तंभांश्च वेष्टयेत्क्षौमैर्मुक्तादामानि लंबयेत्॥17
स्तंभेषु दीपानारोप्य पताकाभिर्विभूषयेत्।
शुभ्रैर्वितानैर्बध्नीयात्पुष्पमाल्यैश्च शोभयेत्॥18
एवं शलामलंकृत्य आचार्यादीन् वरेत्ततः॥
ऋत्विग्वरणम्
ऋत्विजष्षोडश ब्रह्मन् ! यद्वाष्टौ चतुरोपि वा।
ते च भूष्या यथावित्तं स्वर्णहारांबरादिभिः॥20
सुगंधद्रव्यलेपैश्च उष्णीषैरूर्ध्वपुण्ड्रकैः।
अलंकार्य यथावित्तं यजमानेन भक्तितः॥21

श्रीपुरुषोत्तम संहिता
[[110]]
उत्सवारंभः
देवस्य स्नपनं कुर्यादुत्सवारम्भणांतयोः।
उत्सवारंभणात्पूर्वं ध्वजारोहणमुच्यते॥22
ध्वजारोहणपूर्वेष्वंकुरार्पण माचरेत्।
कौशेये वाथ कार्पासे पटे गरुडमालिखेत्।(गरुडं लेखयेत्पटे)।
ध्वजपटलक्षणम्
दशहस्तसमायामं विस्तारं पंचहस्तकम्।
तन्मध्ये नवतालेन गरुडं कांचनप्रभम्।
नीलनासाग्रसंयुक्तं कुंचितं सव्यपादकम्।
पक्षविक्षेपसंयुक्तं श्वेतांबरधरम् विभुम्॥25
गगने गमनाकारं ललाटे रचितालकम्।
हारकेयूरसंयुक्तं नूपुराभरणोज्ज्वलम्।26
नागेंद्राभरणं देवं गरुडं लेखयत्नतः।
पंचवर्णैश्चित्रयित्वा *शिल्पिनान्येनवा गुरुः॥27
*(मनन्तादि यथाक्रमम्।)
(कलशेषु यजेत्संयग्यथोक्तेनैववर्त्मना)
गरुडाधिवासः
तत्पटं गृह्यथामादि प्रादक्षिण्येन देशिकः।
प्रवेशयेद्यागभूमिं पटं धान्याधिवासयेत्।
नयनोन्मीलनादीनि प्रतिष्ठायामिवाचरेत्।
दर्पणे स्नपनं कृत्वा शय्यायां शाययेद्गुरुः।
तट्पटस्य च वायव्ये धान्यतण्डुलमण्डले।
विन्यस्य च महाकुंभं उत्तरे करकं न्यसेत्॥30
अष्टदिक्ष्वष्टकलशान् शास्त्रलक्षण संयुतान्।
संस्थाप्य मध्यमेकुम्भे गरुडं वेदरूपिणम्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[111]]
आवाह्य करकेचक्रमिन्द्रदीनष्टदिक्षु च।
(छत्रचामरकुंभादि मङ्गरानि यथाक्रमम्।
पटस्य पार्श्वे मतिमान् यथाविधि समालिखेत्।)
नैवेद्यान्तं तु सम्पूज्य पटस्थं गरुडं ततः।
अधिवासहोमम्
संशोध्यशोषनादिभ्यः कुण्डाग्निं ज्वालयेत्ततः।
दर्भमालेन पर्यग्निं कृत्वा देशिकसत्तमः।

प्राणप्रतिष्ठा
तत्वानां सृष्टिसंहार न्यासहोमौच कारयेत्।
कुंभस्थ शक्तिं कूर्चेन समादाय पटेन्यसेत्।
ततः प्राणप्रतिष्ठाम् च गरुडन्यासपूर्वकम्।
कृतांजलिपुटो भूत्वा प्रार्थयेद्विनतासुतम्।35
गरुडप्रार्थना
एहिदेव महाभाग वैनतेय महाबल।
सान्निध्यं कुरु पक्षीन्द्र प्रसीदात्र नमोस्तुते।
आहूतःकर्मणासिद्धिं कुरु त्वं विनतासुत।
आहूतव्यास्त्रयोलोकाः देवस्योत्सवसंपदि।
गायत्र्यानि खगेशस्य पूजयेदुपचारकैः।
प्रभाते ग्रामप्रदक्षिणं,ध्वजारोहणम्
प्रभाते तत्पटं न्यस्य शिभिकादौ यथोदिते।
नर्तगायकवादित्र*वेदघोषसमन्वितम्।(वेदवादित्रनिस्स्वनैः)
ग्रामप्रदक्षिणेनैव देवागारं प्रवेशयेत्।
ध्वजस्तम्भसमीपोर्वीं गत्वा ध्वजपटेनतु।
(अलंकृत्य ध्वजस्थानं स्तंभं च तु यथोदितम्।

श्रीपुरुषोत्तम संहिता
[[112]]
दर्भमालादिभिःपुष्पैः पल्लवैश्च गुरुस्स्वयम्।
पुण्याहंवाचयित्वा तु तुर्यवादित्र निस्स्वनैः)
पुण्यैरब्लिङ्गकैर्मन्त्रै स्तम्भं सम्प्रोक्ष्य वारिणा।40
विष्णुसूक्तं समुच्चार्य दर्भसूत्रेण वेष्टयेत्।
स्तंभावटे रत्नलोह धातुबीजानि निक्षिपेत्।
स्तंभाग्रेपटमाबध्य सुपर्णोसीतिमन्त्रतः।
रत्नन्यासकृतेगर्ते स्तंबमूलं धृढं यथा।
प्रतिष्ठापन मन्त्रेण स्थापयेद्देशिकोत्तमः।
देवस्याभिमुखं स्थाप्य पटस्थं विनतासुतम्।
चतुर्दिक्षु चतुर्देवानावाह्य विधिपूर्वकम्।
गरुडप्रार्थना
गरुडम् प्रार्थयेत्तत्र गाधया वक्ष्यमाणया।
“पक्षीन्द्रपक्षविक्षेपतरङ्गाऽनिलसंपद।
निरस्तसुरसन्नाह समरेशत्रुसूदन।45
सन्निधत्स्व पटे यावदुत्सवाऽवभृथान्तिमम्।‘’
एवं विज्ञाप्य पक्षीशं तदारभ्य दिनेदिने।
कालद्वये चार्चनीयं यावत्तीर्थदिनावधि।
एवं कृत्वातु सायाह्ने देवताह्वानमाचरेत्।
भेरीपूजा स्थानशुद्धिः-
चरणं पवित्रमन्त्रेण भुवं प्रक्षार्यवारिणा।
भूमिंप्रक्षार्य वारिणा
विष्णोरराटमन्त्रेण दर्भैस्संमार्ज्य देशिकः।
गंधद्वारेतिमन्त्रेण गोमयेनाऽनुलिप्यच।
आप उन्दंतुमन्त्रेण रङ्गवल्लीः प्रकल्पयेत्।
पंचचूर्णैरलंकृतम्

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[113]]
अक्षतान्विकिरेद्भूमौ देवस्यत्वेति मन्त्रतः।50
धास्यमन्येतिमन्त्रेण धान्यपीठं प्रकल्पयेत्।
शन्नोदेवीति मन्त्रेण पद्मपत्रैरलंकृतिः।
त्रातारंमन्त्रमुच्चार्य पद्ममध्ये समालिखेत्।
धन्वनागेति मन्त्रेण दर्भैरूर्ध्वं परिस्तरेत्।
दर्भानस्तीर्य देशिकः
मूर्धानमितिमन्त्रेण नमस्कुर्याद्भुवं गुरुः।
न्यसेत्कोणचतुष्केषु घृतदीप चतुष्टयम्।
विष्वक्सेनपूजा, पुण्याहम्
विष्वक्सेनं प्रपूज्याथ पुण्याहंवाचये त्ततः।
तज्जलैःप्रोक्षयेद्भेरी मापवुंदन्तु मन्त्रतः।
अग्निरायुष्ममन्त्रेण प्रोक्षयेत्सर्ववाद्यकान्।
अर्यमायेति तद्भेरीं विन्यसेद्धान्यविष्टरे।55
संस्थाप्य भेरीं तन्मध्ये देवानावाहयेत्क्रमात्।
भेर्यधि देवतावाहनः
भूतेशं च महाभूतं विष्णुभक्तं गदाधरम्।
प्रजापतिं सूर्यर्चंद्रौ शेषं भूमातृकास्ततः।
वाचस्पतिं सप्तऋषी न्नंदीशंच समर्चयेत्।
मद्दराद्युपवाद्यानि
मद्दरं काहरं शङ्खं मृदङ्गं वल्लकीं तथा।
पटहं झल्लरीं कांस्यतारमिन्द्रादिषु क्रमात्।
परितः स्थाप्य तद्बाह्ये स्थापयेन्नृत्तगायकान्।
पटस्थं गरुडं पूज्य भेरीमावेष्ट्य वाससा।
तद्विष्णोरितिमन्त्रेण भेरीताडनमाचरेत्।
श्रीसूक्तं तु समुच्छार्य सर्ववाद्यानि घोषयेत्।60

श्रीपुरुषोत्तम संहिता
[[114]]
देवताह्वानम्
कुमुदादिगणानां च ऋषीणां ब्रह्मणस्ततः।
रुद्रानांचैव सर्वेषामाह्वानं संयगाचरेत्।
तत्तद्देवादितृप्त्यर्थं तत्तत्तारानि घोषयेत्।
बलिप्रदान विधिः
ततस्तुचोत्सवंबिम्बं श्रीभूमिभ्यां समन्वितम्।
शिभिकादौ समारोप्य चालंकृत्य विशेषतः।
बलिबेरेणसहितो भ्रामयेत्क्रमयोगतः।
नृत्तगीतयुतैर्वाद्यैस्सर्वैः परिजनैस्सह।
अर्घ्यैर्गंधैश्च माल्यैश्च तांबूलैर्धूपदीपकैः।
विमानद्वारमारभ्य ग्रामवीध्यांतमेव च।
पायसेन बलिं दद्याद्देवताह्वान पूर्वकम्।65
ग्रामस्य प्राग्भागे कर्तव्य बलिः
ग्रामस्यदिशिपूर्वस्यां प्राङ्मुखस्संस्थितो गुरुः।
देवतावाहनं कुर्यामन्त्रेणानेन देशिकः।
विरूपाश्च सुरूपाश्च सपर्यामुद्यतामिमाम् ॥
गृहीत्वा पान्तु नस्तृप्ता: कुमुदस्यानुयायिन: ।
महंत्विममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ॥
मन्त्रेणानेनकुमुदान्सगणान्पूजयेत्तत: ।
गंधादि दीपपर्यन्तं पायसान्नं बलिं क्षिपेत्।
ताम्बूलं च समर्प्यथ तत्तत्संगीततालकैः।
संतोषयेत्ततः पश्चात्प्राप्याग्नेयां दिशं गुरुः।70
“आगच्छतामरगणा: येऽग्न्याशामधिशेरते ॥
भीमाभीममुखा रौद्रा: सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ता: कुमुदाक्षानुयायिन: ॥

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[115]]
महंत्विममुपयान्तु प्रीतास्तेभ्यो नमोनमः । "
अनेन कुमुदाक्षं तु तोषयित्वातु पूर्ववत्।
“आगच्छतां पितृगणा: याम्याशांयेधिशेरते ॥
दारुणाऽदारुणाचारा: सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ता: पुण्डरीकानुयायिन: ॥
महंत्विममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु व: । "
अनेन पुण्डरीकाख्यं समावाह्य च पूर्ववत्॥
“आगच्छतां यातुधाना: कोणेशां येधिशेरते ॥
क्रव्याशिन: क्रूरधिय: सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ता वामनस्यानुयायिन: ॥
महंत्विममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु व: । "
इत्येवं निॠतिंपूज्य प्रतीचींयेधिशेरते।
“आगच्छताऽहि प्रथमा: । प्रतीचीं येधिशेरते ॥
महद्विषा दन्तशूका: सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ता शंकुकर्णानुयायिन: ॥
महंत्विममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु व: । "
इत्यावाह्ययजेत्प्राग्वत् ,पश्चात् संप्राप्य वायुदिक्॥
“आयान्तु गन्धर्वगणा: ! वाय्वाशां येऽधिशेरते ।
संदर्शना भीमवेगा: सपर्यामुद्यतामिमाम् ॥
गृहीत्वा पान्तु नस्तृप्ता: स(र्प)र्वनेत्रानुयायिन: ।
महंत्विममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।
वायुमेवंतु संपूज्य कौबेरिं दिशमाश्रितः।
“आगच्छतां यक्षगणा: ! उदीचीं येऽधिशेरते ।
विरूपा दण्डहस्ताश्च सपर्यामुद्यतामिमाम् ॥
गृहीत्वा पान्तु नस्तृप्ता: सुमुखस्यानुयायिन: ।

श्रीपुरुषोत्तम संहिता
[[116]]
महंत्विममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।
(इत्थं कौबेरमभ्यर्च्य महेश्वरदिशंगतः। 85
आयांतु पैशाचगणाः रौद्राशांयेधिशेरते।
सशूलायुधहस्ताश्च सपर्यामुद्यतामिमाम्।
गृहीत्वापांतु नस्तृप्तास्सुप्रतिष्ठानुयायिनः॥
महंत्विममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।
एवं संपूज्य ग्रामस्य मध्यं गत्वाथ देशिकः।
आगच्छतां सिद्धगणाः गगनम् येधिशेरते।
शुचयस्सत्यहृदया स्सपर्यामुद्यतामिमाम्।
गृहीत्वापांतु नस्तृप्तापृश्निगर्भाऽनुयायिनः॥
महंत्विममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।
एवं संपूज्य गगनं पृथिवीं पूजयेत्ततः। 90
आगच्छताधरगणाः पृथिवीं येधिशेरते।
गृहीत्वापांतु नस्तृप्तामानवस्या नुयायिनः॥
महंत्विममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु व: ।
आवाह्य तोषयेदेवं तत्तद्देवस्य तृप्तये।
ततो नृत्तैश्चतारैश्च तोषयित्वातु देशिकः।
भेरीताडनपूर्वं तु देवताह्वान माचरेत्।
ग्राममेवं परिभ्रांय आलयं संप्रविश्य च।
ध्वजस्थानं समासाद्य (गरुडम् पूजयेद्गुरुः) संपूज्य गरुडं ततः।
तारादि नृत्तगीतैश्च विष्वक्सेनंतु तोषयेत्।
कृत्वैवं देवताह्वानं महाकुंभं समर्चयेत्॥
इति ध्वजारोहणदेवताह्वानविधिःनाम त्रयोविंशोऽध्यायः-
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[117]]
चतुर्विंशोऽध्यायः
ब्रह्मोत्सवविधिः-2
कुंभार्चना विधिः
श्रीभगवान्
कुंभार्चनविधानं तु वक्ष्यामि शृणु पद्मज।
षोडशस्तंभसंयुक्ते अलंकारैरलंकृते।
मण्टपे मध्यमेभागे कुंभावाहनमाचरेत्।
तदर्थं मण्डलंकुर्याच्चक्राब्जं पंचवर्णकैः।
चक्राब्जमण्डलरचनाक्रमः
चतुरँ क्षेत्रविस्तारं शतद्वययुतेन च।
षट्पंचाशत्समधिकं कोष्ठानि विभजेत्ततः।
षट्त्रिंशकोष्टमध्ये तु पंचवृत्तानि कारयेत्।
प्रथमं कर्णिकाक्षेत्रं दरस्थानं द्वितीयकम्।
नाभिस्थानं त्रितीयं तु अरक्षेत्रं चतुर्थकम्।
पञ्चमं नेमिभूमिस्तु चाष्टाविंशति कोणकैः।5
बहिःपीठं प्रकल्प्याथ बहिःपङ्क्तिद्वयेनतु।
लतावीधीं प्रकुर्वीत चतुर्द्वारं प्रकल्पयेत्।
प्रत्येकं च चतुःकोष्ठैश्शंखानां शुद्धये पुनः।
कोणे कोणे द्विकोष्ठं तु समार्ज्य विधिना ततः।
अर्धशोभाप्रसिद्ध्यर्थं त्रीणित्रीणि च मार्जयेत्।
चत्वारिचोपशोभार्थं मार्जनीयं पृथक् पृथक्।
वर्णरचना विधिः
शोभयेन्मण्डलं तत्र पंचवर्णैस्सितादिभिः।
रत्नजैर्धातुजैश्चूर्णैर्गंधचूर्णैस्सितादिभिः।
शालिपिष्ठैश्शितैश्चित्रैश्चित्रयेन्मण्डलं ततः।

श्रीपुरुषोत्तम संहिता
[[118]]
कर्णिकां पीतवर्णेन शुक्लैर्बिन्दून् विभूषयेत्।10
कर्णिकां पाटलेनैव कृष्णैर्वा केसरावनिम्।
श्यामैःपीतैश्च रक्तैश्च नाभिरेखात्रयं लिखेत्। (क्रमात्)
दरानि श्वेतवर्णैश्च रक्तवर्णैरराणि च।
कृष्णैर्नेम्यन्तभूमिं च पीठं पीतैश्च शोभयेत्।
चित्रैर्लतावितानैश्च वीधिकां शोभयेत्ततः।
रक्तैश्शोभां तथा पीतैरुपशोभां च कल्पयेत्।
शुक्लं रक्तं तथापीतं कृष्णं द्वारचतुष्टयम्।
मण्डलं चित्रयित्वैव *मारभेतसमर्चनम्।*(मारभेन्मडलार्चनम्)
मण्डलार्चनम्
मन्त्राध्वानं कर्णिकायां वर्णाध्वानं दरेषु च।
तत्वाध्वानं केसरेषु कलाध्वानमरेषु च।15
पदाध्वानं नाभिभागे भुवनाध्वानमर्चयेत्।
नेमिभागे कर्णिकायां समावाह्याक्षराणि वै।
परमात्मान मावाह्य सकरीकृत्य पूजयेत्।
दरद्वादशके शक्तिं केसरेषु यजेत्ततः।
श्रियादींश्च ततः पूज्य दरांतवलये हरिः।
द्वितीयवलये ब्रह्मन् त्रिनेत्रस्तु त्रितीयके।
विष्ण्वादयः पूजनीया अरेषु द्वादशस्वपि।
मत्स्यादीन्वलये पूज्य नेम्यामायुध पूजनम्।
पीठस्यच चतुर्दिक्षु वराहनरकेसरी।
अनंतश्च हयग्रीवोतं द्रेग्न्यायुधः क्रमात्।20
द्वारपालाः पूजनीयाः चण्डादींश्च ततो यजेत्।
विष्वक्सेनमथैशान्ये गरुडं पुरतोर्चयेत्।
दक्षिणे हेतिराजं च गदांच द्वार पश्चिमे।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[119]]
अनन्तरदरेष्वेवं पूजयेत्क्रमयोगतः।
वासुदेवादिकृष्णांतं द्वादशादित्यपूजनम्।
अष्टाक्षराणां न्यसनमष्टबिंदुषु कारयेत्।
चतुर्विंशतिपद्मेषु चतुर्विंशतिमूर्तयः।
इत्थं देवान् समावाह्य *महाकुम्भं तु विन्यसेत्। *(कुंभस्थापनमाचरेत्)
कुंभस्थापनम्
सोपकुम्भं सकरकं मध्ये चक्राब्जमण्डले।
कृत्वा मानसयागंतु बहिः*कुंभे यजेत्प्रभुम्।25 *(मध्यकुंभे यजेत्प्रभुम्।)
महाहविर्निवेद्याथ होमं कुर्याद्यथाविधि।
समिद्भिराज्यैश्चरुभिः मूलमन्त्रेणदेशिकः।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा।
अष्टोत्तरशताभिश्च गायत्रीभिस्समावृतम्।
वैकुण्ठपार्षदहोम क्रमः
वैकुण्ठपार्षदं होमं कुर्यात्तंत्रविचक्षणः।
आदौनारायणं देवं श्रीभूनीरासमन्वितम्।
नित्यसूरित्रयं पंचायुधान्पुरुषान् तथा।
श्रीवत्सं कौस्तुभं चैव वनमालां किरीटिनं।
रत्नकुण्डलयुग्मं च श्रीवैकुण्ठविमानकम्।
धातारं च विधातारं भुवंगं च पतङ्गकम्।30
मणिकं तापसं चैव सिद्धं साध्यमतःपरम्।
मत्स्यं च हंसरूपं च हयग्रीवं च कार्मुकम्।
वराहं नारसिंहं च वामनं भृगुरामकम्।
श्रीरामजानकींचैव लक्ष्मणं भरतं तथा।
श्रीकृष्णं रुक्मिणीं चैव सत्यभामां तथैवच।
बुद्धं च कल्किरूपं च द्वारलक्ष्मीं ध्वजं तथा।

श्रीपुरुषोत्तम संहिता
[[120]]
ब्रह्माणं सृष्टिकर्तारं वाणीं च सनकादयः।
नारदं च भृगुंचैव मार्कण्डेयमतः परम्।
वेदव्यासं शुकंचैव अगस्त्यं काश्यपं तथा।35
अधितिंचैव चाल्विंद्राननसूया तथैव च।
भारद्वाजं कौशिकं च गौतमं च वशिष्टकम्।
अरुंदतीं जामदग्निं रेणुकां च ततः परम्।
इंद्रादिचाष्टदिक्पालान् गायत्री द्वितयेन च।
पार्वतीचैव गङ्गाच द्वयोर्गायत्र्यनन्तरम्।
उषापद्मानि छायाभिस्सहितादित्य पूर्वकम्।
नवग्रहाश्चोदधींश्च गायत्र्याष्टोत्तरंशतम्।
अनेनविधिना होमं कृत्वा देशिकसत्तमः।
चतुरश्रे वासुदेवं चापेसंकर्षणं तथा।
पश्चिमेचैव प्रद्युम्नमुत्तरेचानिरुद्धकम्।40
पायसैःकृसरैर्गौडैर्हरिद्रान्नैश्च मौद्गकैः।
पौरुषेणैव सूक्तेन होतव्यं पृथगग्निषु।
चतुरश्रे तु कुण्डे तु ब्रह्म (रुद्राष्टदिक्पतीन्) ब्रह्मरुद्रादि देवताः।
तत्तन्नामचतुर्थ्यन्तं परिवारपदेनच।
स्वाहान्तं मन्त्रमुच्चार्य होतव्यं तु यथाक्रमम्।
ब्रह्मप्रजापती रुद्रास्सर्वेदेवा यथाक्रमम्।
छंदासि वेदऋषयः गंधर्वाश्च सरीस्रपाः।
यक्षाश्चाप्सरसश्चैवमासाद्यैस्सहवत्सराः।
सरितश्च समुद्राश्च पर्वताश्च तथापगाः।
भूतानिपशवो वृक्षाः तथैवोषधयस्स्मृताः।45
वनस्पतीश्चोद्बीजाश्च स्वेदजांश्चाण्डजास्तथा॥
जरायुजाश्च भूरादिसप्तलोकस्तथैव च।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[121]]
अतलाद्यस्तथालोकास्सप्त चण्डादिदेवताः।
इत्येतेभ्यो बलिद्रव्यं जुहुयान्मूलविद्यया।
पूर्णाहुतिः
इदम्विष्णुरिति प्रोक्ष्य पूर्णाहुतिमथाचरेत्।
एवं प्रतिदिनं कुर्यात्सायंप्रातर्विशेषतः।
उत्सवे बलिप्रदान विधिः
ततो बलिप्रदानं तु कुर्याद्यागस्य मण्टपे।
बलिबिंबं च चक्रं वा शिभिकादौ निवेश्य च।
आलयाच्च विनिष्क्राम्य तद्द्वारे कुमुदादिकम्।
समभ्यर्च्य बलिं दद्यात् शुचौ भूमितले पुनः।50
प्रथमादि दिवसभेदेन बलिद्रव्य भेदः
नित्योत्सवप्रक्रियाया बलिं कुर्याद्विधानतः।
तिलजंरजनीचूर्णं करंबान् लाजसंयुतान्।
चरुणासहसंयोज्य प्रथमेह्नि बलिं क्षिपेत्।
द्वितीयेहनिसंयोज्य चरुणातिलतण्डुलम्। (चरुंच)
मिश्रितांश्चरुणाल्लाज धान्यानापूपकांस्तथा।
त्रितीये च चतुर्थे च नारिकेरजलैस्सह।
सक्तूंश्च शालिपिष्टं च संयोज्य चरुणा सह।
पंचमे पद्मबीजानि पायसंशालितण्डुलम्।
षष्टेत्वपूपान् संयोज्य चरुणा च बलिं क्षिपेत्।
सप्तमेऽहनि सर्वत्र *सार्धमन्नैश्चतुर्विधैः। *(बलिरन्नैश्चतुर्विधैः)55
सक्तूनपूपान् संयोज्य स्थानेष्वष्टसु पूर्ववत्।
अष्टमे नवमे चैव बलिदानं समं स्मृतम्।
अपूर्वाभरणैर्माल्यैरपूर्वैश्चांबरैस्सह।
उत्सवं प्रत्यहं कुर्याद्यावत्तीर्थदिनांतिकम्।

श्रीपुरुषोत्तम संहिता
[[122]]
ग्रामोत्सव विधिः
ग्रामोत्सवविधानं तु श्रुणुष्व कमलासऩ।
नित्यपूजावसाने तु विशेषोत्सवमाचरेत्।
तदर्थंचोत्सवंबिम्बं भद्रपीठे निवेश्य च।
नृत्तगीतैश्च वाद्यैश्च छत्रचामरकेतुभिः।
स्वस्ति सूक्तादिकं सर्वं पठद्भिर्ब्राह्मणैस्सह।
स्नपनविधिः
धामप्रदक्षिणं(नीत्वा)कृत्वा प्रापयेत्स्नपनमण्टपं। 60
देवस्य तु पुरोभागे स्नपनार्थं तु मण्डलम्।
तिलतण्डुल धान्यैश्च कारयित्वा (तु देशिकः) ततः परम्।
कलशाल्लक्षणोपेतान् नववा पंच वा क्रमात्।
विन्यस्य पूरयेत्सर्वान् कलशान् गारितांभसा।
तत्तद्द्रव्यान्विनिक्षिप्य तत्तद्देवान् समर्चयेत्।
विधिवत्स्नपनं कृत्वा श्रीसूक्तेन हरिद्रया।
सहस्रधारया कुर्यात्स्नपनं च नृसूक्ततः।
प्लोतशाट्यातु सम्मृज्य वस्त्राभरण माल्यकैः।
भगवंतमलंकृत्य धूपदीपान् समर्प्य च।
भक्ष्यभोज्यादिकं सर्वं विनिवेद्य *ततः परम्। *(यथाविधि)65
तांबूलवीटिकाम् दत्वा नीराजनमथाचरेत्।
निवेदितान्न भक्ष्यादीन् भक्तेभ्यस्संप्रदाय च।
उत्सवे वाहनक्रमः
ततो देवं तु संस्थाप्य पूर्वोक्ते भद्रपीठके।
वाहनस्तु समीपोर्वीं गमयेत्सर्ववाद्यकैः।
विभवानुगुणं स्थाप्य मन्त्रन्यासं यथाविधि।
कृत्वा देवस्यचार्घ्याद्यै रुपचारैस्तु पूजयेत्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[123]]
देवस्यवाहनारूढाः छत्रचामरधारिणः।
अर्चका देवपार्श्वे तु स्थातव्यं भक्ततत्पराः।
ततो भगवतस्संयग्ग्रामोत्सवमथाचरेत्।
नृत्तवादित्र गीतैश्च वेदघोषैर्महाजनैः।70
छत्रध्वजपताकाभिर्वितानै श्चामरैश्शुभैः।
वीणावेणुरवैश्चापि शंखदुंदुभि निस्स्वनैः।
आकाशे संचरद्भिश्च सिद्धगंधर्व विग्रहैः।
द्रष्टूनां प्रीतिजनकैर्विनोदै*र्विभवैस्सह। * (र्विविधैस्सह)
एवमादिभिरन्यैश्च देवस्योत्सवमाचरेत्।
तत्काले भगवद्भक्ता दद्यः पुष्पफलादिकम्।
तत्सर्वं तु समादाय प्रोक्षयेत्पूजकस्स्वयम्।
निवेद्य देवदेवाय पुष्पादीन् विकिरेद्गुरुः।
वाहनक्रमः
प्रथमेहनि देवस्य हंसवाहनमिष्यते।
द्वितीयेहनि सिंहं च त्रितीयेतु खगेश्वरः।75
चतुर्थेहनि शेषश्च पंचमेचांजनीसुतः।
षष्टे तु सूर्यचंद्रौ च रथारोहं तु सप्तमे।
अष्टमे तु तुरङ्गंस्यान्नवमे गजमेव च।
(यारी पुष्पकयानादि वाहनानि यथेच्छया)
एवं क्रमेण देवस्य विवाहोत्सवमीरितम्।
उत्सवानन्तरं देवं पुनस्स्नपनमाचरेत्।
भगवन्तं समभ्यर्च्य अपूपादीन्निवेदयेत्।
(उत्सवांते तु देवस्य पुनस्स्नपनपूर्वकम्।
यथाविधि समभ्यर्च्य नैवेद्यान्तं प्रपूजयेत्।)
श्रीभूमिभ्यां ततो देवमालये सम्प्रवेशयेत्।

श्रीपुरुषोत्तम संहिता
[[124]]
विशेषोत्सवक्रमः, नवाह्निकोत्सवः
प्रथमेहनि कल्याणं वनविहारमनन्तरे।
प्लवोत्सवं त्रितीयेह्नि चतुर्थे डोलिकोत्सवम्।
पंचमेपूरणं प्रोक्तं जलद्रोणीं तु षष्टके।80
सप्तमेदिवसेप्राप्ते रथारोहणमाचरेत्।
अष्टमे मृगयात्रेच नवमेऽवभृथं तथा।
इत्येवं कथितं ब्रह्मन् नवाहोत्सवपद्धतिः।
ब्रह्मोवाच
कल्याणोत्सवविधिः
भगवन् देवदेवेश भक्ताभीष्टफलप्रद।
श्रियादीनां विवाहं तु ब्रूहि तेऽनुग्रहो यदि।
विस्तारेणैव तत्सर्वं वदतां वदतांवर।
भगवानुवाच
अथ श्रियादिदेवीनां पाणिग्रहणमुत्तमम्।
कथ्यते श्रुणु तत्सर्वं सावधानेनचेतसा।
यस्य श्रवणमात्रेण जन्मसाफल्यमाप्नुयात्।
कल्याणोत्सवदिन निर्णयः
यस्यावतारदिवसे तस्य कल्याणमाचरेत्।85
अवतारेषु सर्वेषु अनुक्ते जन्मतारके।
चैकादश्यां प्रकुर्वीत कल्याणं भक्तिभावतः।
जगत्कल्याणसिद्ध्यर्थं प्रत्यब्दं कारयेत्सवम्।
कल्याणोत्सव क्रमः,रक्षासूत्रविधिः-
विष्वक्सेनं प्रपूज्यादौ पुण्याहस्य जलेन तु।
संप्रोक्ष्य सर्वसंभारान् रक्षासूत्राणि धारयेत्।
ध्रुवादिमूलबिम्बानां श्रियादीनां तथैव च।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[125]]
आचार्याणां च सर्वेषां ऋत्विजांश्च यथाविधि।
रक्षासूत्रबंधनाऽवसरनिरूपणम्-
उत्सवे तु प्रवृत्ते तु दृष्टिदोषस्य नाशने।
आशौचपरिहारार्थं योग्यतासाधनाय च।
स्वर्णेनकृतसूत्राणि धारयेयुः पृथक्पृथक्।90
होमविधिः
अग्निप्रतिष्ठां कुर्वीत अश्रेवृत्ते यथातथम्।
संस्काराणि ततः कृत्वा चाघारांतं हुनेत्ततः।
अग्नेर्वैष्णवसिद्ध्यर्थं पंचसूक्तैर्हुनेत्क्रमात्।
मूर्तिमन्त्रेण जुहुयात्षोडशाहुतयस्तथा।
द्वादशाक्षरमंत्रेण चाष्टाविंशति संख्यया।
समिदाज्यचरून् हुत्वा होमशेषं समापयेत्।
कल्याणमण्टप प्रवेशः
तद्रात्रौ वा दिवा देवं विवाहागारमुत्तमम्।
प्रवेशयित्वा तं देवं नगरोत्सवपूर्वकम्।
पाणिग्रहण विधिः
विष्वक्सेनं प्रपूज्याथ पुण्याहं वाचयेत्ततः।
विज्ञाप्य पाणिग्रहणकर्मदेवाय भक्तितः।95
पाणिग्रहणोत्सव कारण निरूपणम्-
कदाचिन्न परित्याद्यं वर्षे वर्षेतु निश्चितं।
नित्योत्सव विहीने तु प्रायश्चित्तं विधीयते।
अक्षतारोपणं नाम ह्युत्सवं प्रतिवार्षिकम्।
भाक्तिश्रद्धान्वितोदेवं पाणिग्रहणमाचरेत्।
प्रधानहोमादि
कुण्डस्य चतुरश्रस्य समीपे प्राङ्मुखं हरिम्।

श्रीपुरुषोत्तम संहिता
[[126]]
देवीभ्यां सह देवेशं निवेश्य सुसमाहितः।
इद्मादानादिसंस्कारानाघारान्तं यथाविधि।
प्रधानहोमं कुर्वीत प्रवेशाख्यमतः परम्।
लाजहोमं प्रकुर्वीत तांत्रिकं होममेव च।100
सप्तावरणहोमौ च कृत्वा वैकुण्ठपार्षदान्।
श्रीसूक्तहोमं कुर्वीत तिथिवाराधिदेवतान्।
नक्षत्राणामधिपतीन् च जयादींश्च हुनेत्क्रमात्।
प्रणीतामर्चनान्तं तु कृत्वाकर्म यथाविधि।
याने देवंसमारोप्य नृत्तवाद्य पुरस्सरम्।
ग्रामं प्रदक्षिणीकृत्य देवागारम् प्रवेशयेत्।
(धामप्रदक्षिणं नीत्वा आलयं च समाविशेत्।)
इति संयक्समाख्यातं पाणिग्रहणमुत्सवम्।
वनविहारोत्सवम्
ततो वनविहाराख्यमुत्सवं तूच्यतेधुना।
द्वितीयदिवसे देवं नित्यपूजावसानके।
श्रियावसुधयासार्धं वाहने तु निवेशयेत्।105
भद्रं कर्णेतिमंत्रेण सुवर्णप्रभयासह।
पुष्पमाल्यैरलंकृत्य पूर्ववत्तूर्यमङ्गलैः।
उद्यानवनमासाद्य तन्मध्ये स्थितमण्टपे।
देवीभ्यांसह देवेशं भद्रपीठे निवेशयेत्।
स्नापयेद्गारितांबोभिः पंचविंशतिभिर्घटैः।
(कुण्डे वा स्थण्डिले वापि होमं कृत्वा यथोदितम्।)
अलंकारासनेभ्यर्च्य वन्यमूलफलादिकम्।
शीतलंतर्पणजलं मुद्गापूपम् गुडान्वितम्।
ताम्बूलं च निवेद्याथ नीराजनमथाचारेत्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[127]]
स्तोत्रैस्तुत्वा तु देवेशं साष्टाङ्गं प्रणिपत्य च।
देवस्य पादयोर्दद्यात् पुष्पांजलिमतःपरम्।
देवस्य पुरतोनृत्तगीतवाद्य विशारदैः।
वाद्यं बहुविधं नाट्यं दर्शयेयुर्मुहुर्मुहुः।
वेदपाठावसाने तु पूर्ववन्मङ्गलैस्सह।
याने देवं समारोप्य मन्दिरान्तः प्रवेशयेत्।
एवं वनोत्सवं कृत्वा प्लवोत्सवमथाचरेत्।
प्लवोत्सवविधिः
त्रितीयेदिवसे प्राप्ते देवं देवीसमन्वितम्।
शिभिकायां समारोप्य चालंकृत्य विभूषणैः।
प्रदक्षिणक्रमेणैव सरस्तीरं समानयेत्।
तत्सरोवरमध्यस्थ मण्टपे सुमनोहरे।
सिंहासने समारोप्य नैवेद्यान्तं सुपूजयेत्।115
दिव्यंप्लवं समादाय फलकाभिद्धृडीकृतम्।
अलङ्कृतं वितानाद्यैः पुष्पमाल्योपशोभितम्।
ध्वजैश्चविविधाकारैर्दर्पणैश्चामरैस्तथा।
नारिकेलस्य पूगस्य कदल्याःफलसंचयैः।
घण्टाभिः किंकिणीभिश्च सर्वतस्समलंकृतम्।
पुण्याहं वाचयित्वाथ प्लवं संप्रोक्ष्य देशिकः।
तस्मिन् खगेशमावाह्य पूजयित्वा यथाविधि।
नैवेद्यं भक्तितो दत्वा संप्रार्थ्य विहगेश्वरम्।
सरस्तोयं तु संस्कृत्य दहनाप्यायननादिभिः।
तस्मिन्दुग्धाब्दिमावाह्य इन्द्रादीन् परितोषयेत्।120
कुण्डे वा स्तंडिलेवाग्निं प्रतिष्ठाप्य यथाविधि।
आज्यभागान्तिमं कृत्वा शेषमन्त्रेण देशिकः।

श्रीपुरुषोत्तम संहिता
[[128]]
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा।
चरुं पुरुषसूक्तेन जुहुयात्षोडशाहुतीः।
संपाताज्यं समादाय *सेचयित्वा प्लवं ततः। *(सेचयेत्प्लवमध्यतः।)
तत्प्लवे देवदेवेशं संयगारोपयेत्गुरुः।
(भद्रंकर्णेतिमंत्रेण धृवाद्यौरितिमन्त्रतः।)
अर्चकादीक्षिताश्चैव तथैव परिचारकाः।
देवस्यपरितस्सर्वे तिष्ठेयुर्भक्तिसंयुताः।
देवस्याग्रे प्लवेऽन्यस्मिन् नृत्तगीतादिकं चरेत्।
मण्टपं त्रिःपरिक्रंय तस्मिन्नारोपयेत्प्रभुम्।125
देवं तत्र समभ्यर्च्य चार्हणं पृथुकादिकम्।
नारिकेरमपूपादीन् निवेद्य तदनन्तरम्।
यानेदेवंसमारोप्य पूर्वोक्तेनैव वर्त्मना।
ग्रामं प्रदक्षिणं नीत्वा मन्दिरं संप्रवेशयेत्।
एवं प्लवोत्सवं कृत्वान्यत्पूजां समाचरेत्।
डोलोत्सवविधिः-
चतुर्थेदिवसे कुर्याड्डोलोत्सवमनुत्तमम्।
डोलासंस्थापनार्थाय निर्मिते मण्टपे गुरुः।
सुरंयं समलंकृत्य विष्वक्सेनं तु पूजयेत्।
पुण्याहंवाचयित्वा तु प्रोक्षयेड्डोलिकां ततः।
डोलिकायामनन्तं च वेदान् रज्जुषु पूजयेत्।130
इंद्रादिभ्यो बलिं दत्वा देवं याने निवेश्य च।
शङ्खभेरीनिनादैश्च डोलायां स्थापयेद्गुरुः।
(नृत्तगीता विनोदानि कारयेद्देवसन्निधौ।)
तत्र देवं समभ्यर्च्य चित्रान्नानि फलोदकम्।
निवेद्य पानकं चैव तांबूलं तु समर्पयेत्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[129]]
ततो पुरुषसूक्तादि पठद्भिर्ब्राह्मणैस्सह।
डोलारज्जून् गृहित्वा तु चालयेत्तु शनैश्शनैः।
ततस्तु देवदेवेशं शिभिकायां निवेश्य च।
धामप्रदक्षिणी कृत्य देवागारं नियोजयेत्।
पूरणोत्सव विधिः
पंचमेदिवसेप्राप्ते पूरणोत्सवमाचरेत्।
सौवर्णं राजतं वाथ ताम्रजं वेत्रजं तु वा।135
वैणजं वाथकुर्वीत पूरणार्थं तु पञ्जरम्।
प्रतिमानुगुणेनैव पंजरं परिकल्पयेत्।
उत्स्येधःप्रतिमायश्च चतुरङ्गुलमुच्यते।
प्रतिमा परितःकुर्यात् वैपुल्यं तु दशाङ्गुलम्।
एतल्लक्षणसंयुक्तं पञ्जरं प्रोक्ष्य वारिणा।
धान्याधिकृतपीठे तत्पंजरम् सन्निवेशयेत्।
(धान्यराश्यौ तु सम्स्थाप्य पञ्जरं देशिकोत्तमः।)
योगपीठं समभ्यर्च्य बिंबमुत्तिष्ठमन्त्रतः।
देशिकस्स्वयमादाय पंजरे *विनिवेशयेत्। *(सन्निवेशयेत्)
भद्रंकर्णेतिमन्त्रेण रक्षाबंधनमाचरेत्।
तूर्यादिवेदघोषेषु प्रवृत्तेषु हरिं स्मरन्।140
पूरणद्रव्यभेदेन फलभेद निरूपणम्-
रत्नैश्च पूरणंकुर्यात्सर्वदोष प्रशांतये।
रत्नपूरेण यो भक्त्या पूजयेत्पुरुषोत्तमम्।
सर्वक्रतुफलं प्राप्य विष्णुसायुज्यतां व्रजेत्।
स्वर्णादिलोहपूरेण यो भक्त्या पूजयेद्धरिम्।
अग्निष्ठोमफलं प्राप्य विष्णुलोके महीयते।
फलैश्चपूरयेद्यस्तु प्रतिमां भक्तितो हरेः।

श्रीपुरुषोत्तम संहिता
[[130]]
अश्वमेधफलं प्राप्य मोदते विष्णुमंदिरे।
घृतपूरेण यो भक्त्या पूरयेद्देवमव्ययम्।
चातुर्मास्यफलं प्राप्य विष्णुलोके महीयते।
मधुनापूरयेद्यस्तु भक्त्या देवं जनार्दनम्।
सद्यः क्रतुफलं प्राप्य विष्णुसायुज्यमाप्नुयात्।
(पूरणद्रव्यभेदेन मंत्रभेदः प्रवक्ष्यते।
सहिरत्नानीतिरत्नैस्स्वर्णादीनि हिरण्यतः।
याः फलेत्यादि च फलैः घृतं तन्मन्त्रमुच्चरन्।
मधुवातेति मधुना पूरणं कुरुतां गुरुः।)
इति संयक्समाख्यातं पूरणोत्सवमुत्तमम्।
जलद्रोण्युत्सव विधिः
जलद्रोण्युत्सवं वक्ष्ये यथावदवधारय।
जलद्रोणीं च सौवर्णं राजतं वाथताम्रजम्।
बिम्बमानानुसारेन कारयेद्विभवं यथा।
कर्पूरैः कुङ्कुमैः पुष्पैः सुगंधद्रव्यसंचयैः।
सुरभीकृतेनतोयेन जलद्रोणीं प्रपूरयेत्।
शोषणादि ततः कृत्वा गंगाद्यास्ताश्च पूजयेत्।
ततो देवं समानीय प्रवृत्ते वेदपाठके।
वाद्यघोषप्रवृत्तेतु स्वस्तिसूक्तं जपेद्गुरुः।
निमज्जयेत्ततो देवं देवीभ्यां सह देशिकः।150
स्नानार्द्रवाससा देवमारोप्य शिभिकादिभिः।
आपादमस्तकं लिंपेत्कुङ्कुमेनसुगंधिना।
ततो ग्रामे परिभ्रांय नयेदास्थान मण्टपम्।
उत्सवांतोचितस्नानं कृत्वा देवस्य भक्तितः।
द्वात्रिंशदुपचारैस्तु पूजयित्वा यथाविधि।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[131]]
आलये संप्रविश्यैव कुर्यान्नित्यार्चनं विभोः।
एवमुक्तप्रकारेणषष्टेहन्युत्सवं चरेत्।
रथोत्सव विधिः
रथोत्सवं प्रकुर्वीत सप्तमेह्नि यथाक्रमम्।
छत्रध्वजपताकाद्यैः पुष्पधाम्नैर्वितानकैः।155
मुक्ताधामैश्च सौवर्णैर्मंजीराणांगणैस्सह।
घण्टाभिश्चामरैश्चैव स्वर्णकुम्भैरलंकृतम्।
बर्हिबर्हावतंसैश्च संयुतं सुमनोहरम्।
नानाचित्रैश्चसंयुक्तं दीपमालादिभिर्युतम्।
रथं सम्प्रोक्ष्य तोयेन पंचगव्येन(यैश्च) प्रोक्षयेत्।
रथादिदेवतापूजा
पादादिशिखरान्तस्थान् तत्तद्देवान् समर्चयेत्।
सत्यंसुपर्णं गरुडं तार्क्ष्यं चक्रेषु पूजयेत्।
चक्रदण्डद्वयेमायां विहगेंद्रं(मनन्तं च )समर्चयेत्)
केशवादीन् तलेऽभ्यर्च्य धर्मादीन् पादभागके।
स्थंभेषुचायुधान् पूज्य स्थूपिकायां सदा हरिम्।
शालासु वासुदेवादीन् कूर्मादीन्वेदिकासु च।160
अनन्तं शिखरेचैब पद्मनाभं तदूर्ध्वके।
चण्डादिद्वारपालांश्च कुमुदादिगणान्यजेत्।
दिक्पालां च समभ्यर्च्य अष्टदिक्षु यथाक्रमम्।
कोणेषु च समभ्यर्च्य पुरुषं सत्यमच्युतम्।
अनन्तं च ततो पूज्य तुरगेषु खगाधिपम्।
अतलादीनि लोकानि चांतरेषु ततो यजेत्।
हेतिराजं समभ्यर्च्य रथस्यांतर्बहिस्थले।
विष्वक्सेनंतु संपूज्य *सारथ्यां विग्रहे गुरुः। *(रथसारथि विग्रहे)।

श्रीपुरुषोत्तम संहिता
[[132]]
बलिदानं ततःकुर्यात् रथस्य परितः क्रमात्।
(तिललाजाक्षतयुत चरुणा बलिमाचरेत्।)
ततो देवं देवीभ्यां यानमारोप्य देशिकः।
रथमध्ये भगवन्निवेशन विधिः
जयघोषैर्नृत्तगीत भेरीपटह निस्स्वनैः।165
शङ्खतूर्यमृदङ्गाद्यैर्वीणावेणुरवैस्सह।
रथं प्रदक्षिणीकृत्य शाकुनं सूक्तमुच्चरन्।
“धृवंत इति मंत्रेण देवमारोपयेत्ततः।
तत्र देवं समभ्यर्च्य नैवेद्यान्तं यथाविधि ।
रथस्थ भगवन्निवेदितप्रसादे स्त्रीणांसंतान प्राप्तिः
नैवेद्यान्नं ततो दद्यात् स्त्रीणां संतानसिद्धये।
तद्रथं भ्रामयेद्ग्रामे सुकरं तु यथा भवेत्।
रथस्थं देवदेवेशं दृष्ट्वा पापैः प्रमुच्यते।
लोकोयं निश्चयंचैतत् जातव्यं कमलासन।
यस्तु गत्वा रथस्थं मां तृप्त्यैतद्भक्ति भावतः।
धनाश्व नगरग्राम गंधपुष्पफलादिकैः।
उपहारैरनेकैश्च बहुमानपुरस्सरम्।
सोस्तुभुक्त्वाऽखिलान्भोगानंते मत्सांयमाप्नुयात्।
ततो देवं रथाद्याने स्थापयित्वा यथापुरम्।
प्रदक्षिणक्रमेणैव (धामप्रदक्षिणेनैव) चालयं तु प्रवेशयेत्।
एवं रथोत्सवं प्रोक्तं देवदेवस्य शार्ङ्गिणः।
मृगयोत्सव विधिः
अथ वक्ष्ये विशेषेण मृगयोत्सवमुत्तमम्।
भगवत्प्रीतिजननं सर्वारिष्ट विनाशनम्।
मृगयोत्सव यात्रायचाष्टमे दिवसे विभुम्।175

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[133]]
यात्रोपकरणैस्सार्धमलंकृत्य विशेषतः।
अश्वरत्ने समारोप्य नानाऽलंकारशोभिते।
महताजनसंघेन गमयेद्विपिनं महत्।
तत्राभ्यर्च्य विशेषेण मृगयां कारयेत्ततः।
मृगबंधन धनुःपूजन विधिः
सेनां विन्यस्य परितः मध्ये क्रूरमृगस्थितम्।
तथा कृत्वा भटास्तत्र मृगान्बध्वा हरेःपुरः।
दर्शयेयुर्मृगांस्तान्स्तान् मोचयेयुःक्रमाद्बहिः।
हतानां क्रूरजंतूनां भवेत्पुण्यमनन्तकम्।
देवस्य तु पुरोभागे धनुर्बाणौ प्रपूजयेत्।
चतुर्दिक्षु चतुर्बाणान्न्पूर्वेचैकं विसर्जयेत्।180
ततो देवं तु संपूज्य यथाविभवविस्तरम्।
ग्रामप्रदक्षिणेनैव चालयं संप्रवेशयेत्।
अवभृथोत्सव विधिः
तस्यामपररात्रौ तु तीर्थबिंबाधिवासनम्।
बिंबस्य दक्षिणकरे कौतुकं बंधयेद्गुरुः।
धान्यराश्यौ तु विन्यस्य यथाविधि समर्चयेत्।
निशाचूर्णघट्टनादयः
देवस्य तु पुरोभागे धान्यराशावुलूखलम्।
स्थापयित्वा ततो लक्ष्मीं ध्यायेच्छ्रीसूक्त वर्त्मना।
क्षारितं मूलमन्त्रेण मंत्रितं मुसलं गुरुः।
मूर्तिपैश्च समादाय निशाचूर्णं तु घट्टयेत्।
चतुर्भिर्वैष्णवैश्चापि वैष्णवीभिस्तुवा यथा।
घट्टयेश्च निशाचूर्णं तथा सूक्ष्मतरं भवेत्।
कुंभे निक्षिप्यतच्चूर्णं वेष्टयेन्नववाससा।

श्रीपुरुषोत्तम संहिता
[[134]]
तत्कुम्भंतण्डुले पीठे स्थापयेन्मूलविद्यया।
गंधैरभ्यर्च्य तच्चूर्णै श्श्रीसूक्तेनाभिषेचयेत्।
वाहने देवमारोप्य तीर्थबिंबपुरस्सरम्।
नद्यादि पुण्यतीर्थं वा सरस्तीर्थमथापि वा।
पौर्णमास्यां, दर्शेच कर्तव्य विशेष विधिः
(समुद्रस्नानम्)
पौर्णमास्यां च दर्शेच स्थितंचेद्योजनान्तरम्।
समुद्रतीरमथवा नीत्वा तत्रस्थमण्टपे।
प्रपायां भद्रपीठे तु प्राङ्मुखोवाप्युदङ्मुखः।
वाहनाद्यवरोप्याथ देवं तत्र निवेशयेत्।
अग्रतः कलशान् पंचविंशतिर्दशसप्त वा।
नव वा पंच वा न्यस्य कलशैरभिषेचयेत्। (स्थाप्यतैर्देव मभिषेचयेत्)
तीरेषुतेषुगङ्गाद्याश्चावाह्य विधिवत्ततः।
चक्रबिम्बं समादाय देशिकेंद्रस्समाहितः।
तीर्थेनिमज्जयेत्तत्र त्रिवारं तु यथाविधि।
अब्लिङ्गपवमानादि सूक्तोच्चारणपूर्वकम्।
चक्रेणसह स्नातानां फलविशेष कथनम्
तत्काले सहदेवेन निमज्जंति च ये नराः।
ते निर्धूयाशुभंसर्वं महापातकसंचयम्।
ध्रुवं यांतिमदुष्पापं स्थानमाचंद्रतारकम्।
ततो देवं समानीय मण्टपे विनिवेश्य च।
अर्घ्याद्यैःपूजयेत्तत्र पौरुषेणैव सूक्ततः।
निवेद्यान्नादिकं तत्र भोजयेद्ब्राह्मणान् ततः।
याने देवं समारोप्य प्रापयेदालयांतरम्।
तद्रात्रौ पूजयेद्देवं पुष्पयागाख्य मण्डले।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[135]]
महोत्सवे आचार्यः स्वेच्छया ऊहावूहादिकं कार्यम्
महोत्सवे प्रवर्तेतु देशिकेंद्रेष्टवर्त्मना।
ऊहापोहविधानेन कर्तव्यं सुमनोहरम्।
नवाहोत्सव मध्येपि देशिकस्तु यथोचितम्।
महदाशीर्वचाख्यं च आस्थानोत्सव नामकः।
पुष्पधामविलासंच यथाविभवविस्तरम्।
कवाटबंधनं देवदेवीसंभाषणं तु वा।
अन्यान्यनेकचित्राणि विनोदानि च कल्पयेत्।
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां ब्रह्मोत्सवविधिर्नाम चत्वारिंशोऽध्यायः।
««««_____________»»»»
पंचविंशोऽध्यायः
पुष्पयागविधिः
पुष्पयागश्रवणार्थं ब्रह्मप्रश्नः
देवदेवजगन्नाथ सृष्टिस्थित्यंतकारक।
भक्ताभीष्टप्रदानार्थं ह्युत्सवोक्तम् त्वया पुरा।
(भक्ताभीष्ट प्रसिद्ध्यर्थमुत्सव क्रममीरितम्।
तदुत्सवे प्रवर्ते तु चाऽस्पृश्यस्पर्शने सति।
तद्दोषपरिहारार्थं कर्तव्यं किं जगत्प्रभो।
तत्सर्वं विस्तरेणैव वद त्वं वदतां वर।)
तदुत्सवे पर्यटने चास्पृश्य स्पर्शनेपि वा।
यत्किंचिद्दोषशांत्यर्थं संभवेचेन्महोत्सवे।
तद्दोषप्रशांत्यर्थं तस्य निष्कृति सिद्धये।
उपायः किं देवदेव तद्वदस्व जगत्पते।3

श्रीपुरुषोत्तम संहिता
[[136]]
भगवत्प्रतिवचनम्
श्री पुष्पयाग विधिः
शृणु वत्स प्रवक्ष्यामि पुष्पयागाख्यमुत्सवम्।
कर्तव्यं मम संप्रीत्यै सर्वदोषान् दहेत्पुनः।(दोषापहारकम्)
तस्मात्समाहितो भूत्वा समाप्तदिवसेनिशि।
तत्परेद्युर्निशिवाथ पुष्पयागं समाचरेत्।5
आस्थानमण्टपे वापि यागमण्टपमध्यतः।
तलोछ्रेधां द्वितालेन विस्तारायाम संमिताम्।
मृदावेदीं प्रकल्प्याथ तस्यां देवं निवेशयेत्।
तत्पुरो भूतलेचैव द्विहस्तायाम विस्तृतम्।
तालमानोन्नतां वेदीं दर्पणोदरवत्समान्।
तद्दक्षिणे पंचवर्णचूर्णानि कुसुमानिच।
पुष्पयागमण्डलरचनाक्रमः
प्रोक्ष्य निक्षिप्य तद्वेद्यां मण्डलं रचयेद्गुरुः।
प्रथमं श्यामचूर्णेन कर्णिकां कारयेत्तत:।
तदूर्ध्वे पीतचूर्णेन वृत्तं कृत्वा तथापरम्।
इन्द्रादि दिग्विभागेन चतुर्दिक्षु चतुर्दरम्।
श्वेतं रक्तं तथापीतं श्यामं चूर्णैस्सुपूरितम्।
दरांतरेखा तन्मध्ये श्वेतपीतद्वयं ततः।
तदूर्ध्वे श्वेतवर्णेन चूर्णेन भ्रमणं चरेत्।
ततोऽष्टदरमालिख्य दिक्षुवर्णं तु पूर्ववत्।
ईशान्यांदिशि पीतं च श्यामं श्वेतं च कर्तकम्।
दरांतरेखा तन्मध्ये रक्तधूम्रप्रपूरणम्।
रक्तचूर्णेनसंवेष्ट्य तदूर्ध्वेऽष्टदरं लिखेत्।
पीतवर्णेनसंपूर्य दरांते कृष्णवर्णकम्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[137]]
दरमध्ये श्वेतवर्णचूर्णेन प्रविभाजयेत्।
कृत्वा नेमिं धूम्रवर्णचूर्णेन परितो लिखेत्।15
तदूर्ध्वे द्वादशदरं पंचवर्णैर्विमिश्रितम्।
संपूर्यदररेखांते श्वेतरक्त दरान्वितैः।
मिश्रितेनैव चूर्णेन पीतं स्याद्दरमध्यके।
परितश्यामचूर्णेन वृत्तं कृत्वा मनोहरम्।
तत्समंता श्वेतरक्त कृष्णचूर्णत्रयं न्यसेत्।
द्वारैश्चतुर्भिस्संयोज्य देवानावाहयेत्क्रमात्।
मण्डलेदेवतावाहन क्रमः
प्रथमं कर्णिका मध्ये देवदेवं सनातनम्।
मयूरकण्ठवच्छ्यामं पीतकौशेयवाससम्।
श्रीवत्सवनमालाद्यै *श्चक्राद्यैश्च समन्वितम्। *(शंखचक्रादिभिर्युतम्।)
द्वादशाक्षरमंत्रेण प्रतिपाद्यं मनोहरम्।20
परात्परम् वासुदेवमभीष्टफलदं यजेत्।
ततो दरचतुष्केतु चंद्रादिक्रमयोगतः।
शुद्धस्फटिकसंकाशं वासुदेवं समर्चयेत्।
जाज्वल्यमानवपुषं रक्तवर्णं महौजसम्।
संकर्षणं द्वितीये तु त्रितीये कनकप्रभम्।
ज्ञानादिगुणसामान्यं प्रद्युम्नं पीतवर्णकम्।
व्यूहांतर्वर्तिनं श्यामवर्णं देवं महाप्रभम्।
अनिरुद्धं समभ्यर्च्य एवं दरचतुष्टयम्।
अष्टाक्षरं त्वष्टदरे तारकार्णं तु षड्दरे।
तदूर्ध्वं द्वादशदरे द्वादशार्णं समालिखेत्।
कर्णिकावृत्तमारभ्य वृत्तरेखा सु पंचसु।
पृथिव्यादीनिभूतानि समावाह्य ततोर्चयेत्। (पंचचावाह्य पूजयेत्।)

श्रीपुरुषोत्तम संहिता
[[138]]
तद्दराग्रस्थरेखासु चतुरावरणेष्वपि।
सात्विकं राजसं चैव तामसीं त्रिगुणात्मिकान्।
तद्दरांतेषु भागेषु ऋगादींश्च यथाक्रमम्।
तदूर्ध्वावरणेचैव ब्रह्मादीनर्चयेत्क्रमात्।
ब्रह्मविष्णुमहेशानं रक्तपाण्डुरमेचकैः।
वर्णैश्चूर्णानुसारेण चावाह्यावरणत्रये।
प्रथमावरणद्वार चतुष्के पालिकान्न्यसेत्।
द्वितीयावरण द्वारचतुष्केषुचाष्टमङ्गलान्।30
त्रितीयावरणद्वार चतुष्केषु कुमुदादयस्तथा।
आवाह्यगंध पुष्पाद्यैः अर्चयेत्तु पृथक्पृथक्।
मण्डलांतस्थ देवानां तत्तद्वर्णानुरूपतः।
सुगंधकुसुमैश्चैव पूजयेच्छास्त्रवर्त्मना।
तन्मण्डलेचोत्सवार्चां *ध्यात्वाभ्यर्च्य यथाविधि। *(स्थाप्याभ्यर्च्य यथाविधि)
पुष्पयाग द्वादशाराधन विधिः
श्रीवैष्णवमहायागनामानं यागमुत्तमम्।
उपचारैष्षोडशभिर्द्वादशावर्त संमितैः।
यजेच्चैवं निशायांतु वेदवाद्यपुरस्सरम्।
पायसादीनि चान्नानि फलानाम्रादिकानि च।
भक्ष्यानि घृतपक्वानि निवेद्य बहुविस्तरम्।35
पानीयमाचमनं दत्वा कर्पूरयुतमुत्तमम्।
तांबूलं भक्तितो दद्यात् पादौ पुष्पांजलिं क्षिपेत्।
देवं याने समरोप्य देव्यौ शयनमण्टपे।
सर्वालंकारसंयुक्ते मुक्ताजालविराजिते।
मणिकांचन दीपैश्च सर्वत्रसमलंकृते।
कस्तूर्यगरुधूपैश्चधूपितेषु मनोहरे।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[139]]
शय्यासनोपकरणै स्सर्वैर्वस्तुभिरन्विते।
पुष्पशय्यासमायुक्ते सुवितानेषु तोरणे।
संस्थाप्याभ्यर्च्य यत्नेन देवं यानेन देशिकः।
सप्तप्रदक्षिण क्रमः
देवागारं परिक्रंय सप्तधात्परितेन च।40
(यद्वा द्वादशवारं वा नीत्वा धामप्रदक्षिणम्।
एकैकवाद्यघोषेण प्रतिवारं प्रदक्षिणे।
यानाद्देवं मण्टपस्य मध्यभागे मनोहरे।

लक्ष्मीसंवादोत्सवः
भद्रपीठे निवेश्याथ देव्योरभिमुखं यथा।
लक्ष्मीसंवादनामानमुत्सवं परिकल्पयेत्।
संयगाचरेत
कवाटबंधसहितमुत्सवं प(न?)टनं चरेत्।
लक्ष्मीकटाक्षमत्यंतमनुगृह्णंतमच्युतम्।
ततः प्रवेशयेद्देवं देव्योर्मध्ये जगत्प्रभुम्।
दर्पण दर्शनम्
संस्थाप्य दर्पणेचैककाले देवं रमासखम्।
देवीभ्यां सह पश्यंति जनात्यन्त हर्षताः।
तेषां पापानि नश्यंति सिद्ध्यते सर्वसंपदः।
पायसान्नं निवेद्याथ क्षीरं शर्करयायुतम्।45
कर्पूरेण लवङ्गेनयुक्तं तांबूलमुत्तमम्।
नीराजनं समर्प्याथ पुष्पांजलि समर्पणम्।
प्रणंयदण्डवद्भूमौ भक्तियुक्तेन चेतसा।
शय्योपाचारविहितानुपचारान् समाचरेत्।

श्रीपुरुषोत्तम संहिता
[[140]]
सर्वदुःखविनिर्मुक्ता भवंति सुखिनो नराः।
पालिकापात्रसंस्थाने चांकुराणि समाचरेत्।
समर्प्य देवदेवस्य पादयोः प्रीतिपूर्वकम्।
होमविधिः
ततोऽग्निं च प्रतिष्ठाप्य समिदाज्यचरून्हुनेत्।
अष्टोत्तरशतंचैव मूलमंत्रेणदेशिकः।
प्रायश्चित्ताहुतीन्हुत्वा पंचोपनिषदा घृतम्।
पूर्णाहुति, देवतोद्वासनम्
पूर्णाहुतिं ततःकुर्यादग्निंचोद्वास्य देशिकः।50
तोरणध्वजदेवादीनुद्वास्य च यथाक्रमम्।
गरुडं तु ततोऽभ्यर्च्य कृत्वा चापि प्रदक्षिणम्।
पटादुद्वासयेत्तार्क्ष्यं संहारक्रमयोगतः।
ध्वजस्तंभध्वजपटादिकं आचार्याय दद्यात्-
ध्वजस्तंभं च गृह्णीयात्तद्रज्जुं तत्प्रपां गुरुः।
देशिकग्रहणेनैव गरुडः परितृप्यते।
देवतानावाहितान्सर्वान् बलिं दत्वा विसर्जयेत्।
देवं प्रदक्षिणीकृत्य याने देवं निवेश्य च।
भक्तान् देशांतरात्प्राप्तान् विष्णुसेवार्थमागतान्।
स्वदेशान्गंतुमाज्ञाप्य देशिकस्य मुखेन तु।
प्रदक्षिणं परिक्रम्य सर्वावरणभूमिषु।55
सर्वमङ्गरवाद्यैश्च देवमन्तःप्रवेशयेत्।
आचार्यदक्षिणा
महोत्सवांते तत्कर्ता देशिकं पांचरात्रिकम्।
वस्त्रैश्च स्वर्णभूषाद्यैः गंधपुष्पादिभिस्सह।
संपूज्य दक्षिणां दद्यात् शतनिष्कं यथावसु।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[141]]
ऋत्विजाच तदर्धं स्यात् तदर्धं परिचारिणाम्।
नृत्तवाद्य जनान्सर्वान् यथावित्तानुसारतः।
संभाष्य विदुषां चापि ब्राह्मणान् दक्षिणादिभिः।
दीनां च कृपणादींश्च वस्त्रान्नैद्यैस्तु तोषयेत्।
दक्षिणावसर निरूपणम्
क्रियाशरीरमित्युक्तं दक्षिणाजीवमुच्यते।
क्रियादक्षिणयाहीना सजीवति निष्पलम्।60
तस्मात्स्वल्पाहि दातव्या दक्षिणायागकर्मणि।
(दक्षिणाहीनयागेन कर्ता श्रेयो न विंदति।)
यागश्च दक्षिणाहीना कर्तृदोषाय कल्प्यते।
तस्माद्वित्तानुसारेण देयात्स्वल्पापि दक्षिणा।
आचार्यं गंधपुष्पाद्यैः यजमानोऽतिभक्तितः।62
अभ्यर्च्य यानमारोप्य कृत्वा ग्रामप्रदक्षिणम्।
गृहं प्रवेशयेद्भक्त्या सर्ववाद्य पुरस्सरम्।63

उत्सवकरणे फलशृतिः
एवमुक्तप्रकारेण यःकरोति महोत्सवम्।
उत्तारयन् स्वयं विष्णोस्सायुज्यं गच्छति ध्रुवम्।64
यागःप्रवर्तते विष्णोः ग्रामेवा पट्टणेपि वा।
देशेराष्ट्रेपि वा तत्र नास्तिदुर्भिक्षसंभवः।65
(यत्र प्रवर्तते विष्णोः कल्याणं देशिकोत्तम।
तत्रचान्यानुत्सवानि समकाले तु नाचरेत्।
प्रवर्तते दैवयागे चान्यं मानवयागकम्।
यःकरोति समूढात्मा त्वचिरेणैव नश्यति।
विष्णोरुत्सवमध्येतु दैवतांतर मुत्सवम्।

श्रीपुरुषोत्तम संहिता
[[142]]
भवेच्छेतस्य राष्ट्रस्य राज्ञो नाशो भवेद्धृवम्।
सर्वदुःखविनिर्मुक्ता भवंति सुखिनो नराः॥
(तस्मात्सर्वप्रयत्नेन हरेःकल्याणमध्यतः।
न कदापि च कर्तव्यमन्य मुत्सवमाचरेत्।)
सर्वदुःख विनिर्मुक्ता भवंति सुखिनो नरः।
इत्येवं पुष्पयागाख्यमुत्सवं कमलासन।66
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां पुष्पयागविधिर्नाम पंचविंशोऽध्यायः
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[143]]
षड्विंशोध्यायः
पवित्रोत्सव विधिः
पवित्रोत्सवविधाने ब्रह्म प्रश्नः
ब्रह्मा
भगवन्पुण्डरीकाक्ष पवित्रारोपणोत्सवम्।
कदाकार्यं पवित्राणां लक्षणं वद मेऽनघ।
(किमर्थमुत्सवं प्रोक्तं विधानं किं जगद्विभो।
तत्सर्वं विस्तरेणैव ब्रूहि मे पुरुषोत्तम।)
भगवत्प्रतिवचनं- श्रीभगवान्-
पवित्रोत्सवकाल निर्णयः
श्रुणुष्व परमं गुह्यं पवित्रारोपणोत्सवम्।
श्रावणेवाथकार्तिक्यां मासेचाश्वयुजे तथा।
मासिभाद्रपदेवापि पवित्रारोपणं स्मृतम्।
द्वादश्यां वा दशंयां वा पौर्णमास्यां यथाविधिः।
द्वितीयायां त्रयोदश्यां पंचम्यां वा शुभे तिथौ।
शुक्लपक्षेशुभेलग्ने सुनक्षत्रे सुशोभने।
पवित्रारोपणं कार्यं मङ्गलांकुरपूर्वकम्।
पवित्रोत्सवक्रमः
पालिका घटिकाश्चैव शरावं तु त्रिभेदतः।
प्रत्येकं द्वादशं ग्राह्यं मङ्गलांकुरकर्मणि।5
अङ्कुरारोपणं कृत्वा यथाविधि ततःपरम्।
पवित्रमण्टप लक्षणम्
मण्टपम् कारयेत्पूर्वं प्रासादस्याग्रतश्शुभम्।
त्रयोदशकरं सम्यक् नवहस्ता च वेदिका।
एकहस्तोच्छ्रयं मध्ये कृत्वाऽलंकारभूषितम्।

श्रीपुरुषोत्तम संहिता
[[144]]
द्वारतोरणसंयुक्तं पताकध्वजशोभितम्।
वितानादिभिराकर्णं दर्पणादिभिरन्वितम्।
आर्द्रशाखासमायुक्तं फलगुच्छैस्समन्वितम्।
क्रमुकादिफलैश्चैव नारिकेलफलैस्सह।
नारङ्गलिकुचैश्चैव शोभयेन्मण्टपं ततः।10
नवंयामेवसंगृह्य यागद्रव्याणि सर्वशः।
पवित्रनिर्माणविधिः, सूत्रभेदानि
प्रथमं गर्भसूत्रं तु पट्टसूत्रमतःपरम्।
क्षौमसूत्रं तृतीयं तु पद्मसूत्रं चतुर्थकम्।
कार्पासं सूत्रमथवा कन्याभिःकृतसूत्रकम्।
मलिनं नीलसूत्रं च प्रयत्नेन विवर्जयेत्।
ब्राह्मणीभिःकृतं सूत्रं त्रिगुणीकृत्य तंतुभिः।
पवित्रं तेन कुर्वीत(पवित्राणि प्रकुर्वीत) कनिष्टोत्तम मध्यमम्।
पवित्रभेदाः
वनमालापवित्रं तु पवित्रंचाधिवासकम्।
परिवारपवित्राणि पवित्रं दीक्षितस्य तु।
(एवमादिविभेदस्तु पवित्राणि च कारयेत्।)
उत्तमादिभेदानि
मूर्धादिनाभिपर्यन्तं पवित्रं तु कनिष्ठकम्।15
ऊरुमात्रं तदारभ्य पवित्रं मध्यमं स्मृतम्।
उत्तमं जानुमात्रं तु पवित्राणां प्रमाणकम्।
वनमालादि पवित्रप्रमाणानि
वनमालापवित्रं तु प्रतिमायामसम्मितम्।
कनिष्ठिकपवित्रं तु पवित्रमधिवासकम्।
पवित्रं दीक्षितस्यैव नाभिमात्रं प्रचक्ष्यते।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[145]]
उपलिप्ते शुचौदेशे दर्भानास्तीर्यभूतले।
आसने प्राङ्मुखोविद्वान् शिष्यैस्सर्वैस्सहात्मवान्।
गायत्रीं च जपेदादौ सूत्रशङ्कून् परीक्षयेत्।
देवानुरूपकं कुर्यात् पवित्रं तु प्रमाणतः।
सूत्रसंख्या निर्णय विधिः
कनिष्टं तंतु विज्ञेयमष्टाविंशतितंतुभिः।20
चतुर्विंशतिविज्ञेयं तंतूनां मध्यमं परम्।
उत्तमं चैवतन्तूनां अष्टोत्तरशतं भवेत्।
अष्टोत्तरसहस्रं तु तन्तूनां परिसंख्यया।
वनमालाख्ययाविष्णोर्दत्ता सा मुक्तिदायिनी॥
सप्तविंशतिकं ज्ञेयं तन्तूनामधिवासके।
वनमालाविशेषेण चोत्तमाधममध्यमम्।
तदर्धंसार्धमेनं च तन्तूनां परिसंख्यया।
तन्तूनां द्वादशं ज्ञेयं परिवारपवित्रकम्।25
सप्तविंशतितन्तूनामाचार्यस्य पवित्रकम्।
पंचविंशतितन्तूनां घटायाश्च पवित्रकम्।
अष्टाविंशतितन्तूनां कुण्डस्य च पवित्रकम्।
चतुश्शतं तु तन्तूनां प्रासादस्य पवित्रकम्।
चतुर्विंशतितन्तूनां धूपदण्डपवित्रकम्।
पंचत्रिंशतितन्तूनां दीपदण्डपवित्रकम्।
अष्टाविंशति तन्तूनां आलयस्य पवित्रकम्।
एकोनविंशतितंतूनां गोपुरस्य पवित्रकम्।
नवत्रिंशच्चतन्तूनां बलिपीठ पवित्रकम्।
उपपीठपवित्रं तु पंचविंशति तन्तुभिः।
सूत्रं तु त्रिगुणं कृत्वा प्राकारस्य पवित्रकम्।

श्रीपुरुषोत्तम संहिता
[[146]]
पवित्रग्रंथिसंख्या
एवं कृत्वा पवित्राणि (ततो)पुनर्ग्रंथीश्च बंधयेत्।30
अङ्गुष्ठमानमात्रं तु ग्रंथितानां यथातथम्।
कनिष्ठाङ्गुलमानं वा मध्यमाङ्गुरिमानतः।
वनमालापवित्रे तु शतमष्टोत्तरं शुभम्।
अधिवासपवित्रेषु ग्रंधयोद्वादशस्मृताः।
ग्रंधयश्चाऽष्टविज्ञेया परिवारपवित्रके।
ग्रंधयो द्वादशप्रोक्तं क्षेमायुश्च विवर्धनम्।
अन्येषु च पवित्रेषु यथासंभवमाचरेत्।
कुङ्कुमोशीरकर्पूर चंदनादिविलेपयेत्।
पवित्राणि विनिर्माय शास्त्रोक्तविधिना ततः।
सायंकाले तु संप्राप्ते ऋत्विग्भिस्सहदेशिकः।35
यजमानेनसहितो सम्विशेद्भगवद्गृहम्।
भगवत्प्रार्थना
तत्र देवं समभ्यर्च्य दण्डवत्प्रणेमेच्चवै।
उत्थाय प्रांजलिर्भूत्वा गाधामेनामुदीरयेत्।
“संवत्सरोपचारेषु यत्किंचिल्लोप संभवे।
तद्दोषशमनार्थाय भवेत्प्रीत्यै करोम्यहम्।
पवित्रारोपणं देव तस्मादनुग्रहण माम्।‘’
पवित्राधिवासः
इति विज्ञाप्य देवेशं विष्वक्सेनं तु पूजयेत्।
पुण्याहवाचनं कृत्वा पवित्राणि च प्रोक्षयेत्।
रात्रौ प्रतिसरं बध्वा दर्भाणां संस्तरे स्वपेत्।
द्वितीयदिवसे
प्रातरुत्थाय नियतो दंतधावन पूर्वकम्।40

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[147]]
स्नानं संध्यादिकं कृत्वा जप्त्वा मन्त्रं यथाविधि।
भगवन्तं समभ्यर्च्य कलशैस्स्नपनं चरेत्।
महाहविर्निवेद्याथ वैष्णवान् भोजयेत्ततः।
रात्रौ तु नित्यपूजांते चक्राब्जं वर्तयेद्गुरुः।
पूर्वोक्तेनैव क्रमेण मण्डले देवतान् यजेत्।
उपोष्यदेशिकेंद्रस्तु तूर्यघोषे प्रवर्तिते।
पात्रस्थानि पवित्राणि धान्यराशौ विनिक्षिपेत्। (धान्यराशिषु विन्यसेत्)
गंधादिभिस्समभ्यर्च्यपुष्पाणि विकिरेत्ततः।
वस्त्रेणाच्छाद्य पात्राणि मंत्रेणास्त्रेण पूजयेत्।
(अधिवासपवित्रेषु देवं नारायणं यजेत्।
गायत्र्या विष्णुमंत्रैश्च चाभिमंत्र्य ततः परम्।
दीक्षिताणां पवित्रेषु हेतिराजं प्रपूजयेत्।
चक्रराजस्य गायत्र्या चाभिमंत्रणमाचरन्।
परिवारपवित्रेषु समावाह्य खगेश्वरम्।
तन्मन्त्रेण च गायत्र्या देशिकेंद्रोभिमंत्रयेत्।)
शालायाश्च चतुर्दिक्षु*बलिमन्नेन कारयेत्। *(बलिं दत्वा यथा क्रमम्)45
पवित्राधिवासः
चतुस्थानार्चनं कृत्वा होमं कुर्याद्यथाविधि।
होमः
अधिवासपवित्राणि गृहीत्वा देशिकस्स्वयम्।
कुंभे च करके कुण्डे मण्डले च यथाक्रमम्।
तद्विष्णोरिति मन्त्रेण न्यसनीयानि पद्मज।
तृतीयदिवसे पवित्रारोपणम्
ततः प्रभाते देवेशं चक्राब्जे स्थाप्य पूजयेत्।
अर्घ्यादि धूपदीपान्तं नैवेद्यं तु चतुर्विधम्।

श्रीपुरुषोत्तम संहिता
[[148]]
होमं तु पूर्ववत्कृत्वा होमशेषं समापयेत्।
ततो ध्रुवादि बिंबानां कर्मार्चानां यथाक्रमम्।
विष्वक्सेनादि भक्तानां चण्डादीनां तथैव च।
दुर्गारुद्रेंद्रदेवीनां (खगेशस्य तथैव च) गरुडस्यच भक्तितः।50
घटार्घ्यस्रुक्स्रुवादीनां पात्राणां धूपदीपयोः।
कुंभानां तोरणानां च बलिपीठांतमेव हि।
एवं पवित्राण्यारोप्य तूर्यघोषप्रवर्तिते।
भक्तानां धारणार्थाय कल्पितानि यथातथम्।
पवित्रारोपणं कार्यं विमानेगोपुरेषु च।
पवित्राणि समादाय न्यस्य देवस्य पादयोः।
यजमानाय दातव्यं धारयन् देशिकः पुरा।
ऋत्विजां ब्राह्मणादीनां भक्तानां चैव दापयेत्।
पवित्रधारणे भेदः
ब्राह्मणक्षत्रियश्चैव धारयेयुश्च हारवत्।
यज्ञोपवीतवद्धार्यं वैश्यैर्वैष्णव लक्षणैः।
(योभक्त्याधरेतेचेदं पवित्रं श्रद्धयान्वितः।
तस्य तत्संवत्सरकृतकर्मलोपो विनश्यति।
ददंति सर्वकर्माणि तस्य पूर्णं महाफलम्।)55
ततो देवस्य पार्श्वे तु स्थित्वेदं प्रार्थयेद्गुरुः।
भगवत्प्रार्थना
भगवन् पुण्डरीकाक्ष भक्ताभीष्टप्रदायक।
संवत्सरस्य मध्ये तु ज्ञानतोऽज्ञानतोपि वा।
मया च मदनुज्ञातैस्तथान्यैः परिचारकैः।
पूजालोपादिकं यच्च कृतं तद्दोषशांतये।
कर्मसंपूरणार्थाय पवित्रारोपणं मया।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[149]]
कृतं तदनुगृह्णीष्व मदनुग्रहकांयया। (भक्तानुग्रहकांयया)
अस्वतंत्रश्च किंचिज्ञः किंचित्कर्तुमशक्तवान्।
तस्मात्त्वत्पादविन्यस्त भारोहं प्रेरितस्त्वयाम्।
सर्वं करोमि देवेश रक्ष मां शरणागतम्।60
इति संप्रार्थ्य देवेशं यानमारोप्य देशिकः
पवित्रधारकैर्भक्तैर्विशेषोत्सव माचरेत्।
उत्सवांतोचितस्नानं मंदिरे कारयेत्ततः।
(पवित्रधारणफलः-
नैवेद्यान्तं समभ्यर्च्य देवागारे निवेशयेत्।
नवाहं सप्तपंचाहं त्रयहमेकाहमेव वा।
यामं वाप्यर्धयामं वा मुहूर्तमथवा गुरुः।
देवदेवं समभ्यर्च्य सविशेषं यथा तथा।
उत्सवांते तु दिवसे सायंकाले तु देशिकः।
यानमारोप्य देवेशं ग्रामं नीत्वा प्रदक्षिणम्।
नृत्तवादित्र निर्घोषैरालयं तु समाविशेत्।
ब्राह्मणान्भोजयित्वा तु यथा विभवविस्तरम्।)
आचार्यो देवमभ्यर्च्य प्रविशेद्यागमण्टपम्।
तत्र मण्डलमध्यस्थं कुण्डस्थं कुंभगं तथा।
पवित्रावरोहणम्
देवमुद्वास्य विधिवन्नित्यपूजां समाचरेत्।
एकविंशद्दिने वापि चतुर्दशदिनेपि वा।
सप्तमेदिवसेवापि त्रिरात्रेवाऽवरोहणम्।
पवित्राणिसर्वाण्यपि आचार्यायायेव दद्यात्-
तत्पवित्राणिसंछावानाचार्याय प्रदापयेत्।
तत्प्रदानं हरेःप्रीत्यै भविष्यति न संशयः।65

श्रीपुरुषोत्तम संहिता
[[150]]
अन्यथा विनियुक्तैश्चेद्राजराष्ट्रं विनश्यति।
आचार्यदक्षिणादि
तत्काले यजमानस्तु आचार्यं तोषयेद्धनैः।
इति संयक्समाख्यातं पवित्रारोपणं परम्। (क्रमम्)66 ½॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां पवित्रारोपणविधिर्नाम षड्विंशोऽध्यायः,
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[151]]
सप्तविंशोऽध्यायः
संवत्सरोत्सव विधिः
संवत्सरोत्सवः श्रीभगवान्
(अथातस्संप्रवक्ष्यामि संवत्सर व्रतक्रमम्।)
वसंते देवतृप्त्यर्थं वर्षादौ पूजयेद्धरिम्।
विधिवत्स्नपनं कृत्वा (नूतनांबर) नवाभरण वस्त्रकैः।
वसंतऋतु संप्राप्तैः पुष्पमाल्यैर्मनोहरैः।
अलंकृत्य ततो देवं दक्षिणामुखमर्चयेत्।
मंदिरेवापि चोद्याने नदीतीरे यथारुचि।
देवमभ्यर्च्य गंधाद्यैः फलादीनि निवेदयेत्।

श्रीरामनवम्युत्सवः
चैत्रेमासि सितेपक्षे नवंया च पुनर्वसौ।
श्रीरामजन्मदिवसे देवदेवं जगत्पतिम्।
नवभिः कलशैस्नाप्य हविरन्तं समर्चयेत्।
सीतालक्ष्मणसंयुक्तं हनुमत्सहितं विभुम्।5
श्रीरामं डोलिकादौ तु विन्यस्योत्सवमाचरेत्।
दमनोत्सवः
चैत्रमासे तु पौर्णंयां कुर्याद्दमनिकोत्सवम्।
पुष्पैस्तु मण्टपं कृत्वा दमनीदरसंयुतैः।
अलंकुर्यात्ततो देवं पुष्पैर्दमनिकादरैः।
संपूज्य विधिना कुर्याद्धोमं दमनिकादलैः।
नृसिंहजयंती
चैत्रे श्रवणनक्षत्रे सायंकाले नृकेसरिः।
भूमावाविरभूत्तस्माद्देवं तस्मिन् विशेषतः।

श्रीपुरुषोत्तम संहिता
[[152]]
अर्चयित्वा विशेषेण शीतलादीन्निवेदयेत्।
नीराजनं ततो दद्यात् स्तोत्रैस्संतोषयेद्धरिम्।10
कल्हारोत्सवः
कल्हारकुसुमैरेव देवस्योत्सवमाचरेत्।
वैशाखे शुक्लपक्षे तु पौर्णमास्यां यथाविधि।
चतुस्थानार्चनं कृत्वा ग्रामोत्सवमथाचरेत्।
दिवसे पूर्वभागे वा मध्याह्नेचोत्सवं हितम्।
वामनजयंति
नक्षत्रे श्रवणेचैव पूर्वाह्नेतु त्रिविक्रमः।
प्रादुरासीत्तदा तस्य चोत्सवं कारयेद्द्विजः।
हनुमज्जयंति
हनुमज्जन्मनक्षत्रे सीताराघवसंयुतम्।
मारुतिं विधिवत्स्नाप्य विशेषोत्सवमाचरेत्।
स्वापोत्सवः
आषाडे तु सितेपक्षे द्वादश्यां देवमर्चयेत्।
शयनार्थं तु देवस्य मासेषुच चतुर्ष्वपि।
विविक्तेऽभिमतेदेशे पर्यङ्कं (कारयेद्गुरुः)तत्र कारयेत्।15
देवीभ्यां सह देवेशं शाययित्वार्चयेत्ततः।
(शय्याभेरे तु कुर्वीत स्वापं देशिकसत्तमः)
बोधनैकादशीयावत्तावत्कालं प्रपूजनम्।
कृष्णजन्मोत्सवः
श्रावणे कृष्णपक्षे तु रोहिण्यामष्टमी तिथौ।
श्रीकृष्णभगवज्जन्मदिवसे शौरिं समर्चयेत्।
स्नपनं तु यथाशक्तिं ग्रामेकुर्यान्महोत्सवम्।
एतद्दिवसमारभ्य मासंपक्षं नवाहकम्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[153]]
सप्ताहं वाथ पंचाहं त्रयहमेकमेव वा।
श्रीकृष्णलीलानटकैः ग्रामोत्सवमथाचरेत्।
प्रतिनित्यं विशेषार्चामाचरेत्तु यथावसु।
वराहजयंति
मासे भाद्रपदे चैव श्रवणर्क्षांग देशिकः।20
आविरासीद्भूवराहो विशेषेणार्चयेच्च तम्।
स्नपनंचोत्सवंचैव पूर्वोक्तेन विधानतः।
वीरलक्ष्म्युत्सव विधिः
अथ चाश्वयुजेमासि वीरलक्ष्म्योत्सवम् चरेत्।
प्रतिपद्दिनमारभ्य नवाहोत्सवमाचरेत्।
संस्नाप्य कलशैर्नित्यमलंकृत्य तु देशिकः।
चतुस्थानार्चनं कृत्वा हविरन्तं प्रपूजयेत्।
यानेदेवीं समारोप्य देवंग्रामप्रदक्षिणम्।
एवं प्रतिदिनं कृत्वा नवम्यां कुंभतोयतः।
प्रोक्षयेन्नित्यपूजांते देवीं देवेन पूजयेत्।
विजय दशमी
दशम्यामश्वमारोप्य देवं ग्रामप्रदक्षिणम्।
नीत्वा शमीं समासाद्य तन्मूले स्थाप्य यानकम्।25
विष्वक्सेनं तु सम्पूज्य पुण्याहं वाचयेत्ततः।
प्रोक्ष्य पुण्याहतोयेन धनुर्भाणौ प्रपूजयेत्।
पूर्ववद्भाणमोक्षं तु कृत्वा देवं च पूजयेत्।
शमीपत्र धारण फलम्
शमीपत्राणि संगृह्य पूजयेद्देवपादयोः।
देवस्य पदविन्यस्थ शमीपत्राणि ये नराः।
शिरसा धारयिष्यंति ते दृवं मुक्तिकिल्बिषाः।

श्रीपुरुषोत्तम संहिता
[[154]]
वैभवे सततो देवं नयेद्देवालयं प्रति।
आस्थानमण्टपेभ्यर्च्य स्नपनं कारयेत्ततः।
मंदिरे संप्रविश्यैव नित्योत्सवमथाचरेत्।30
दीपावर्युत्सवः-(नरकचतुर्दशी)
मासिचाश्वयुजे कृष्णचतुर्दश्यां हरिः पुरा।
नरकंसंहरत्तस्मात्तन्नाम्ने तच्चतुर्दशी।
एतस्यां देवदेवं तु सतैलाभ्यांजनेन तु।
सम्स्नाप्य नूतनैर्वस्त्रै रलंकृत्य विभूषणैः।
चतुर्विधानिचान्नानि पानीयानि समर्पयेत्।
दीपावरि
अमावास्यां तु सायाह्ने नित्यपूजां विधाय च।
देवालयेषुस्तंभेषु प्राकारे गोपुरेषु च।
दीपानां पङ्क्तयस्थाप्य नानाकारैः पृथक्पृथक्।
ततो देवं तु देवीभ्यामारोप्य गजवाहने।
छत्रचामरवाद्यैश्च भटसंघैश्च सायुधैः।35
प्राकारेवापि ग्रामे वा कारयेदुत्सवं ततः।
देवं प्रवेशयेद्धाम्नि महताविभवेन तु।
बोधनोत्सवः
कार्तिके शुक्लपक्षे तु द्वादश्यां बोधयेद्धरिम्।
उत्थिष्ठ”इतिमंत्रेण वाद्यघोषपुरस्सरम्।
ततो देवं तु संस्नाप्य पंचविंशतिभिर्घटैः।
होमं तु विधिना कृत्वा चाभ्यर्च्यविधिचोदितम्।
उत्सवं तत्र कुर्वीत यथा विभवविस्तरैः।
कार्तिका दीपोत्सवः
कार्तिख्यां वह्निनक्षत्रे रोहिण्यां वा परेहनि।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[155]]
पौर्णमास्यां वृषेलग्ने दीपारोपणमाचरेत्।
तदर्थं कौतुकं बद्ध्वा धान्यराशौ यथाविधि।40
देवस्य तु पुरोभागे दीपपात्रं तु विन्यसेत्।
लोहजं मृण्मयं वाथ तत्पात्रे गोघृतं क्षिपेत्।
अभावे तिलतैलं वा चान्यथा दोषमाप्नुयात्।
ऋजुवर्तिं ततो न्यस्य ज्वालयेद्धामवह्निना।
अग्निमन्त्रं ततो जप्त्वा दीपमभ्यर्च्य भक्तितः।
तद्दीपेनैव सर्वांश्च दीपानारोपयेद्द्विजैः।
परिचारैश्च भक्तैश्च नानावाद्यपुरस्सरम्।
देवं याने समारोप्य दर्शयेद्दिपमालिकाः।
महाहविर्निवेद्यार्चाऽपूपान् पृथुकानपि।
निवेद्यगमयेद्देवं मंदिराभ्यंतरं ततः।
धनुर्मासोत्सवः
धनुर्मासे तु संप्राप्ते देवदेवं प्रपूजयेत्।
अरुणोदयवेरायां मुद्गान्नादीन्निवेदयेत्।
मासांतमेवं कृत्वा तु तस्मिन्विंशद्दिनेषु च।
मण्टपे देवमास्थाप्य कुर्यादध्ययनोत्सवम्।
ऋग्वेदं पूर्वदिग्भागे यजुर्वेदं तु दक्षिणे।
पश्चिमे सामवेदं तु अथर्वंचोत्तरे तथा।
इतिहासं चाग्निदेशे नैऋत्यां स्तोत्रमुच्यते।
धर्मशास्त्रं तु वायव्ये चैशान्यां मन्त्रपाठकम्।
भक्तैर्विरचितैस्तोत्रैर्देशभाषानुसारिभिः।
एवमादिभिरन्यैश्च कारयेदुत्सवं महत्।50
तिलपद्मोत्सवः
माघशुक्ले तु पंचम्यां तिलपद्मोत्सवं भवेत्।

श्रीपुरुषोत्तम संहिता
[[156]]
देवस्य पुरतो भागे गोमयालिप्त भूतले।
रङ्गवल्यादिकं कृत्वा वस्त्रेणाच्छाद्य देशिकः।
कृष्णाजिनं ततो न्यस्य विष्णुसूक्तं जपेद्गुरुः।
पुनर्वस्त्रं समास्तीर्य तिलान् तस्योपरि न्यसेत्।
द्वौभारंचैकभारं वा समास्तीर्य तिलोपरि।
द्वौभारंचैकभारं वा समास्तीर्य तिलोपरि।
धान्यपूर्णानि पात्राणि द्वेद्वे प्रतिदिशं न्यसेत्।
तैल, घृत, दध्यादिकुंभानां स्थापनम्-
दक्षिणे प्रस्थतैलेन पूरितं कुंभमुत्तरे।
तत्प्रमाणाज्यसहितं कुंभमन्यंनिवेशयेत्।
दध्ना प्रस्थचतुष्केन पूरितं कलशं न्यसेत्।55
पुरोभागे ततो गंधपुष्पाद्यैः पूजयेत्ततः।
पद्ममध्ये श्रियोपेतं गरुडादि समन्वितम्।
देवं सम्पूज्य विधिवद्देशिको श्रद्धयान्वितः।
तिलैस्सहस्रं जुहुयादाचार्यो मूलविद्यया।
तत्पद्मं भक्तितो दद्याद्देवाग्रे वारिपूर्वकम्।
प्रीयतां भगवान् विष्णुरितिमन्त्रं समुच्छरन्।
एवमुक्तप्रकारेण तिलपद्मं ददाति यः।
आत्मानंच पित्रून्सर्वान् पुनाति च परापरान्।
श्रीमहालक्ष्मि उत्सवम्
फाल्गुणे शुक्लफल्गुण्याम् महालक्ष्म्युत्सवं हितम्।(चरेत्)
तदर्थमण्टपं कुर्याच्चतुर्द्वार समन्वितम्।
तत्र सिंहासने स्थाप्य पद्माष्टदलसंयुते।60
नीलमेघनिभं विष्णुं सुखासीनं श्रियासह।
वासुदेवादिकान् दिक्षु पूजयेत् कमलासन। (क्रमयोगतः)

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[157]]
विदिक्षुहस्तिनश्चैव स्वर्णपीठस्य पार्श्वयोः।
पूजनीयौ नदी तत्र इन्द्रादीन्परितो यजेत्।
द्वारतोरणकुंभादीनभ्यर्च्य विधिपूर्वकम्।
ततो गुरुर्महालक्ष्मीं पूजयेद्विष्णुनासह।
पद्मबिल्वदरैश्चापि चरुणापायसेन च।
द्वादशाक्षरमन्त्रेण श्रीदेव्याहोममाचरेत्।
जपेयुःऋत्विजोदिक्षु श्रीसूक्तानि यथाक्रमम्।
लक्ष्मीस्तोत्रान् पठेत्तत्र भक्तियुक्तेनचेतसा।
इत्येवं पूजयेद्देवं वत्सरान्तं यथाविधि।
राजराष्ट्राभिवृद्धिस्याद्दुर्भिक्षं हरतेध्रुवम्।
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां संवत्सरोत्सवविधिर्नाम सप्तविंशोऽध्यायः॥
««««_____________»»»»
अष्टाविंशोऽध्यायः
सालग्रामलक्षणम्
ब्रह्मा
भगवन् देवदेवेश सर्वसंपत्करप्रभो।
प्रश्न:
सालग्रामादिमूर्तीनां लक्षणं वक्तुमर्हसि।
भगवत्प्रतिवचनम्-श्री भगवानुवाच
सालग्रामलक्षणम्
श्रुणु ब्रह्मन् प्रवक्ष्यामि सालग्रामस्य लक्षणम्।
यस्त्वर्चनं सदानॄणां सर्वपापक्षयं भवेत्।(शुभम्)
सालग्रामप्रतिष्ठा वर्जनम्
सालग्रामे सदाशौरिस्तिष्ठत्येव न संशयः।
प्रतिष्ठाप्य समाचीनं सदापूज्यो मुमुक्षुभिः।

श्रीपुरुषोत्तम संहिता
[[158]]
तेषां तु लक्षणं वत्स (वक्ष्ये)समासाच्छृणु सांप्रतम्।
कूर्ममूर्ति लक्षणम्
कूर्मस्यादुन्नत:पृष्ठोश्वेतभोगोखुरांचितः।
द्विचक्रभूदराख्योयं मनोरथफलप्रदः।
मंदरधरकूर्मलक्षणं
बिंदुद्वयान्वितो चक्रशंखद्वयमतोपि च।
दीर्घदक्षिणानामास्यु:भूगेवलयपंचक:।
सामंदरधरःकूर्ममूर्तिस्यात् सर्वकामदः।
आदिकूर्मलक्षणम्
वृत्तायताकूर्ममूर्तिः केनकच्छवि संयुतः।
स्नुहिपुष्पाकृतिर्वापि चक्रस्योभयपार्श्वयोः।
आदिकूर्म इति ख्यातस्सर्वकामफलप्रदः।
कूर्मलक्षणं
वर्तुलामकराकारा दीर्घद्वारा तु वै द्विज।
नाभिचक्रमुतो संयक्कूर्माकारा तु पार्श्वतः।
स्थिरासने च तत्पृष्टे उन्नता नीललोहिता।
कूर्ममूर्तिरितिख्यातो पुत्रपौत्राभिवृद्धिदा।
क्षत्रियाणां(तदाराज्ञां)चेहि तथा सर्वशत्रु विनाशिनी।10
लक्ष्मीवराहलक्षणम्
इन्द्रनीलनिभस्थूलं श्रीरेखालांछितश्शुभः।
दक्षिणेतु स्थितेचक्रे समलग्ने प्रदेशतः।
वनमालायुतो लक्ष्मीवाराहश्शुभदस्स्मृतः।
अतसीकुसुमप्रख्या नीलोत्पलनिभस्तथा।
भूवराहलक्षणं
दीर्घद्वारयुतो दीर्घद्वारयुक्तस्सगंह्वरः।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[159]]
पृष्ठोन्नतस्तु दीर्घास्यो वामतश्चक्रमुन्नतः।
पृष्टरेखा समायुक्तो वराहाकृतिरेव च।
आस्यमात्रं तु वा बृह्मन् पादलांगूलकं तथा।
दृश्यते कौस्तुभाकारा रेखापृष्टे च पार्श्वतः।
भूवराहमितिप्रोक्ता राज्यलक्ष्मीप्रदो नृणाम्।
वराहमूर्तिस्त्रिविधः
नानारत्नयुतश्चापि कालवर्णयुतोपि च।
दीर्घद्वारयुतस्निग्धो द्वारमध्ये द्विचक्रयुत्।
वनमालायुतश्चापि वराहःपरिकीर्तितः।
पुत्रपौत्रधनैश्वर्य गोभूधान्य विवर्धनः। (भूप्रभुर्ज्ञानवर्धनः।)
लक्ष्मीनरसिंहः
वामभागेस्थितेचक्रे कृष्णवर्णस्सबिन्दुकः।
लक्ष्मीनृसिंहविख्यातो भुक्तिमुक्ति फलप्रदः।
वीरलक्ष्मीनृसिंहः
द्विचक्रस्तुबृहद्वक्त्रः कपिलःकनकःप्रभः।
वीरलक्ष्मीनृसिंहाख्यो बृह्मचारीभिरर्चितः।
विदारणनृसिंहलक्षणम्
कपिलोग्रथिमूलार्थो शक्तिबिंदु खुराकृतिः।
करारवदनोदेवः पृथुचक्रस्सुदंष्ट्रकः।
विदारणाबिदानश्च नृसिंहोदीर्घ केसरः।
ब्रह्मचर्येणपूज्यश्च नान्यथापूज्यतो भवेत्।
ज्वालाविदारण नारसिंहः
अंतश्चक्रोवृहद्वीर्यः दीक्षिणोन्नत मस्तकः।
ज्वालाविदारणोनारसिंहो दंष्ट्रोपशोभितः।
ब्रह्मचर्यविहीनेन पूजितो नष्टदायकः।

श्रीपुरुषोत्तम संहिता
[[160]]
नृसिंहलक्षणम्
नारसिंहस्त्रिबिंदुश्च कपिलाभो बृहद्बिलः।
दंष्ट्राकरारवदनो बृहदास्योति रूक्षकः।
अथवा नारसिंहश्च उदरे वा चतुर्मुख।
झषाकृतिर्वाचक्रस्य पार्श्वदंष्ट्राकृतिस्तथा।
नारसिंह इतिख्यातो यतिभिःपूज्य उच्यते।25
कपिल नारसिंह लक्षणम्
स्थूलचक्रद्वयं मध्ये गुंजालाक्ष्मक्तकर्तकः।
स्फुटितेविषयेचक्रे नारसिंहस्तुकापिलः।
संपूज्य मुक्तिमाप्नोति संग्रामेविजयी भवेत्।
सर्वतोमुख नारसिंहः
सप्तचक्रोबहुमुखः समन्तात्स्वर्णभूषितः।
बहुवर्गंमोक्षदास्यो नृसिंहोसर्वतोमुखः।
विलिक्तास्योवामचक्रो वर्तुलःकपिलप्रभः।
भीताख्यनृसिंहः-पाताराख्यनृसिंहः
नारसिंहो गृहस्थानां भीतिदोभीतिनामकः।
त्रादित्रयोदशांतैस्तु चक्रैर्युक्तंबहूदरम्।
बहुवर्णयुतं वापि बहुद्वारसमन्वितम्।
पातारनरसिंहाख्यं यतीनां मोक्षसिद्धिदम्।30
बिक्षूणाममृतप्रदम्
तत्तन्मूर्त्युक्तचिह्नैस्तु रहितेश्चेद्विशेषतः।
पातारनरसिंहो वा बहुरूपाथवा भवेत्।
कुक्षिनारसिंहलक्षणं
अल्पिष्टमल्पचक्राड्यमल्पभार महोदरम्।
तत्कुक्षिनारसिंहाख्यं वनवासिभिरर्चनम्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[161]]
राक्षसनृसिंहः
बहुच्छिद्रं भिन्नवक्त्रं सुवर्णघनकान्तिमम्।
द्विचक्रंराक्षसंज्ञेयं नृसिंहंगृहदाहकम्।
विद्युज्जिह्वसिंहः
दूर्वाभोन्नतशीर्षंच विद्युज्जिह्वनृसिंहकः।
द्विचक्रतश्शोभयुतो मुखोदारिद्र्यदोर्चितः।
अधोमुखनृसिम्हः
मुखेपार्श्वे च पृष्टे च त्रिचक्रैरुपशोभितः।
अधोमुखनृसिंहाख्यमर्चकानां विमुक्तिदम्।
बालनृसिंहः
सूक्ष्मरंद्रंद्विचक्राड्यं वनमालाविभूषितम्।
तद्बालनारसिंहाख्यं नृणां संसारमोचकम्। विभीषणनृसिंहः-
दीर्घाकारो दीर्घचक्रो ऋषकास्यो बृहत्तरः।
विभीषणनृसिंहाख्यो नृणां दुःखप्रदस्सदा।
दधिवामनलक्षणम्
अतिह्रस्वोवर्तुलास्यो वामनःपरिकीर्तितः।
अतसीकुसुमप्रख्यो बिंदुवःपरिशोभितः।
चक्रद्वयसमायुक्तो श्वेतबिंदुयुतो मुखे।
दधिवामनसंज्ञास्यात् गोभूधान्यसमप्रदः।
अभीष्टवामन लक्षणम्
वर्तुलं स्निग्धमत्यन्तं स्पष्टचक्रसमन्वितं।
ह्रस्वमुन्नतमश्चैव दीर्घास्यमतिगह्वरे।40
स्फुरद्रेखामलयुतं नाभिस्तस्योन्नता भवेत्।
केसरांबंच वै बृह्मन् दृश्यते चक्रपार्श्वतः।
अभीष्टवामनंज्ञेयं सुखसौभाग्यदायकम्।

श्रीपुरुषोत्तम संहिता
[[162]]
अन्नवृद्धिंप्रजावृद्धिं भूलाभं दृशति बृशम्।
वामन लक्षणम्
मध्यचक्रमतिह्रस्वं अतिस्निग्धं तु कांस्यवत्।
स्पष्टचक्रं वामनं स्यात् नृणामीप्सितकामदं।
बालवामन लक्षणम्
अतसीकुसुमप्रख्यं किंचिदुन्नतमस्तकम्।
किंचिदस्पष्टचक्रंच कामदं बालवामनम्।
बृहत्कक्षवामनः-(कुक्षि?)
वर्तुलंनीलमेखाभं वनमालाविभूषितं।
सूक्ष्मरंद्रं बृहत्कुक्षिं वामनंचक्रयुक्शुभम्।
परशुरामलक्षणम्
पीतकृष्णोऽरुणोपेता दीर्घाकारोबृहद्बिलः।
भित्तभागगतंचक्रं वामे वा दक्षिणेपि वा।
चक्रभागेभवेद्बिंदु परश्वाकृतिरेव वा।
पृष्टेवा पार्श्वतो वापि रेखादंष्ट्राकृतिर्भवेत्।
जामदग्निस्तु तन्मूर्तिः पूज्यास्योभूबृतामपि।
शांतपरशुरामः
केवलंलांछितंपृष्टे परश्वाकृतिरेखया।
सचक्रोजमदग्निस्तु शांताख्यो शांतिदोर्चिते।
वीररामः
बाणतूणीरचापाद्याः कुण्डलस्रुक्स्रुवान्वितः।
सूक्ष्मकेसरचक्राड्यो वीररामश्रियासह।
सीतारामः
वदनेप्येकवदने श्चतुश्चक्रांभरःप्रभुः।50
चापबाणांकुशश्चत्र ध्वजचामरसंयुतः।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[163]]
वनमालाधरोदेव सीतारामःप्रकीर्तितः।

षट्चक्र सीतारामः
अस्त्रक्षतेन धनुषा नूपुरेण च लांछितः।
बिलत्रयसमायुक्तो षट्सुदर्शनसंयुतः।
श्यामलोन्नतपृष्टश्च स्थूलजंबूफलं यथा।
सीताबिलसमायुक्तो दीर्घजम्बूशिलामयः।
सीताराम स्सविज्ञेयो स्तारकब्रह्मसंज्ञिकः।
स एवमष्टचक्रस्तु त्रिलोकेषु च दुर्लभः।
दशकण्ठकुलांतक रामः
सचक्रःकुक्कुटाकारः श्यामरःपृष्टमुन्नतः।
रेखाद्वयसमायुक्तः द्वारपार्श्वे तु पद्मज।
धनुराकृतिरेखाच दृश्यते पार्श्वतोथवा।
पृष्ठतो वा भवेद्रामो दशकण्ठांतकश्शुभः।
बालरामः
पृष्ठभागे पंचरेखाः चापबाणौच पार्श्वयोः।
बालरामोद्विचक्राड्यः पुत्रदायी न संशयः।
विजयरामः
दिव्यबाणेनसंयुक्तः चापतूणीरसंयुतः।
करारवदनोरक्त बिंदुयुक्चक्रशोभितः।
श्रिदोवीयरामाख्यो केशलीकृतचक्रिणः।
हृष्टरामः
मूर्ध्निमालाधनुर्भाणः पार्श्वे खुरयुतस्तथा।
हृष्टरामोद्विचक्राड्यो भुक्तिमुक्तिफलप्रदः।
कोदण्डरामः

श्रीपुरुषोत्तम संहिता
[[164]]
बाणतूणीरचापाड्यो वर्तुलःकिंचिदायतः।
कोदण्डरामश्चक्राड्यो नीलांबुदनिभश्शुभः।
कवित्वरामः
एकचक्रं तु वदने श्यामवर्णस्सुशोभनः।
साराममूर्तीविज्ञेयः पूजकस्यकवित्वदा।
यदुवीरकृष्णः
कृष्णकृष्णोस्थूलश्चक्र श्चातीवशोभनः।
यदुवीर इति ख्यातः श्रीयशःपुष्टिदो नृणाम्।
श्रीकृष्णः
कृष्णःपीताःकृशतनुः भित्तिपार्श्वेतु चक्रयुत्।
द्वारतुल्योभवेन्नाभिः कूर्माकारस्तु पृष्ठतः।
पार्श्वचक्राड्य कृष्णोयं धर्मदःपापनाशनः।
(पार्श्वचक्रयुतो कृष्णः धर्मदःपापनाशकृत्।)
गोपाल कृष्ण लक्षणं
वनमालिका चक्रयुतः श्रीवत्सेनचलांछितः।
(वनमालायुतश्चक्रयुत श्रीवत्सलांछनः।)
दण्डशृंगयुतःपार्श्वे वेणुराशोभितेमुखे।
गोपालकृष्णमूर्तिस्यात् गोभूधान्यधनप्रदः।
मदन गोपाल लक्षणम्
शिरश्चक्रद्वये वेणुदण्ड श्रीवत्सलांछनः।
पार्श्वमूलायुक्त भागे तरुयुग्मश्चकल्पकम्।
सस्यान्मदनगोपालकृष्णःकुण्डल शोभितः।
पुत्रपौत्रधनैश्वर्य सर्वलोकैकवश्यदः।
संतानगोपालमूर्ति लक्षणम्
दीर्घाकारः कृष्णवर्णोप्यर्धचंद्रास्य चक्रयुत्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[165]]
कृष्णस्सन्तानगोपालः पुत्रपौत्राभिवृद्धिदः।
बालकृष्णः
उन्नतोमूर्ध्निकृष्णाभो निम्नोधस्ता त्रिबिंदुकः।
सबालकृष्णोद्वेचक्रे दीर्घस्योपुत्रभाग्यदः।
श्रीकृष्णः
समचक्रंद्वारदेशे कृष्णवर्णस्सुशोभनः।70
साकृष्णमूर्तीविज्ञेयः पूजितो सौख्यदायिनी।

बुद्धमूर्तिलक्षणं
अंतर्गह्वरसंयुक्तो चक्रहीना यथा भवेत्।
बुद्धमूर्तिरितिख्यातो ददाति परमंपदम्।
कल्किमूर्तिलक्षणम्
अतिरक्तस्सूक्ष्मबिल सृष्टचक्रस्थिरासनः।
कृपाणाकृतिरेखा च द्वारस्योपरिपृष्ठके।
म्लेच्छनाशोभवेत्कल्कि सर्वकिल्बिष नाशनी।
मत्स्यमूर्तिः
दीर्घाकारोश्यामवर्णः वनमालाविभूषितः।
अर्चने सर्वसंसिद्धि पुत्रपौत्रप्रवर्धनम्।
केशवमूर्तिलक्षणम्
रेखात्रयं द्वारदेशे पृष्ठपद्मस्यलांभनम्।75
सौभाग्यःकेशवोदद्याच्चतुष्कोण द्विचक्रयुत्।
श्यामनारायणमूर्ति लक्षणम्
श्यामवर्णयुतोवक्त्रे नाभिचक्रस्तथोन्नतः।
दीर्घरेखात्रयोपेतो दक्षिणेसुषिरं पृथक्।
श्यामनारायणःप्रोक्तो भुक्तिमुक्तिफलप्रदः।

श्रीपुरुषोत्तम संहिता
[[166]]
लक्ष्मीनारायण ध्यानम्
एकवक्त्रश्चतुश्चक्रो वर्तुलश्यामवर्णकः।
ध्वजवज्रांकुशोपेतो मालायुक्तस्सबिंदुकः।
नातिह्रस्वोनातिदीर्घः लक्ष्मीनारायणस्मृतः।
तस्य दर्शनमात्रेण चाभीष्ठफलमाप्नुयात्।
माधवमूर्ति लक्षणम्
मधुवर्णोमध्यचक्रं स्निग्धश्चक्रधरस्तथा।
माधवस्सतु विज्ञेयः यतीनां मोक्षदायकः।80
गोविन्दमूर्ति लक्षणम्
नातिस्थूलो पंचवक्त्रः गोविन्दोदशचक्रकः।
कृष्णवर्णसमायुक्तो सर्वकामफलप्रदः।
विष्णु
वामचक्रोबृहद्द्वारमुन्नतो मध्यनिम्नगः।
सकापिलस्स्निग्धवर्णो विष्णुस्सर्वफलप्रदः।
मधुसूदन:
मधुसूदननामास्यादेकचक्रो महाद्युतिः।
सर्ववर्णसमायुक्तो महातेजप्रदश्शुभः।
त्रिविक्रमः
चक्रद्वययुतोवक्त्रो एकचक्रंतुपार्श्वतः।
त्रिविक्रमस्त्रिकोणाड्यो विप्रैःपूज्यस्तुनेतरैः।
श्रीधरः
मालवच्छ्रीधरोदेवः छिह्नितोवनमालया।
कदंबकुसुमाकारः रेखापंचकसंयुतः।
चक्रद्वयश्चवदने सर्वकामफलप्रदः।
हृषीकेशः

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[167]]
अर्धचंद्राकृतिर्देहो हृषीकेश उदाहृतः।
बिले चक्रयुतोदेवः सर्वाभीष्ठफलप्रदः।
पद्मनाभः
निष्केसरंतूर्ध्वचक्रे मध्यचक्रं स केसरम्।
पद्मनाभस्सविज्ञेयो सर्वकामफलप्रदः।
दामोदरः
दामोदरस्तथास्थूलो मध्यचक्रःप्रकीर्तितः।
दूर्र्वाभोद्वार संकीर्णं पीतरेखायुतश्शुभः।
संकर्षणः
द्विचक्र एकसंलग्न एकभागश्चपुष्करः।
संकर्षणस्सविज्ञेयो रक्ताभश्शोभनप्रदः।
वासुदेवमूर्ति:
द्वारदेशे समेचक्रे दृश्यतेचातिशोभने।90
(समचक्राद्वाथ देशे)
वासुदेवस्सविज्ञेयो शुक्लाभश्च शुभप्रदः।
प्रद्युम्नः
मकराभमुखेरेखा पार्श्वतः पृष्ठतोपि वा।
स प्रद्युम्नस्सूक्ष्मचक्रः पीतवर्ण शुभप्रदः।
अनिरुद्धः
कृष्णवर्णसमद्वारे चक्रभित्ति समीपगं।
अल्पचक्रं भवेदूर्ध्वं पार्श्वे चणकपुष्पवत्।
अनिरुद्ध इति ख्यतस्सर्वलोक सुखावहः।
पुरुषोत्तममूर्तिः
मध्यचक्रश्यामवर्णः मस्तके पृथुचक्रकः।
पुरुषोत्तमनामासौ पूजकस्य सुशोभनः।

श्रीपुरुषोत्तम संहिता
[[168]]
अधोक्षजः
अधोक्षजो रक्तरेखा वृत्तदेवास्तु चक्रवा न्।
किंचित्कपिलसंयुक्तो सूक्ष्मो वा स्थूल एव वा।95
अधोक्षजोबिलयुतः पूजकस्य शुभप्रदः।
अच्युतमूर्तिः
चतुर्भुजोचाष्टचक्रेर्वामदक्षिण पार्श्वतः।
शंखनन्दक पद्मादि शार्ङ्गकौमोदकीधरः।
मुसलध्वजदृक्छ्वेते छत्रमभ्रांकुशैर्वृतः।
सोच्युतः कथितो नाम्ना दुर्लभस्तस्यदर्शनम्।
जनार्दनः
पूर्वभागैकवदनः पश्चाद्रेखासमन्विता।
जनार्दनश्चक्रधरः स्त्रीप्रदो अरिनाशकः।
उपेन्द्रः
उपेन्द्रोमणिवर्णाभो ह्रस्वचक्रातिकोमलः।
मायायुतस्सूक्ष्मबिलस्सर्व सौख्यप्रदायकः।100
हरिः
श्यामलाकोमलाभस्तु सचपार्श्वे तु चक्रयुत्।
अल्पद्वारसमायुक्तः हरिरिष्टप्रदायकः।
हयग्रीवः
हयग्रीवोपि भगवान् रक्तपीतविमिश्रितः।
अंकुशाकृतिगोवक्त्रे चक्रद्वयसमन्वितः।
पद्माकृतिस्तथापार्श्वे कुण्डलाकृतिरेव वा।
ज्ञानदोमोक्षदोलोके भोगदोवापि पद्मज।
अष्टभुज नृसिंहः
चतुश्चक्रोष्टचक्रश्च दीर्घास्योन्नताकृतिः।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[169]]
सोष्टबाहुनृसिंहस्याद्यतिभिः पूजनीयकः।
दिव्य वासुदेव मूर्तिः
षड्बिलोद्वादशश्चक्रः वनमालाविभूषितः।
वासुदेवोति दिव्योयमिति शास्त्रेषु निश्चितः।105
सुदर्शन नृसिंहः
अष्टवक्त्रोन्नत वपुः विवृतास्यो भयप्रदः।
षोडशश्चक्रराजोभिस्संयुतो शत्रुमारकः।
सुदर्शननृसिंहोयं गृहेर्भायां विसर्जयेत्।
सालग्राम पूजाविधिः
इत्येवं लक्षणस्सर्वान् परीक्ष्यार्चनमाचरेत्।
सालग्रामशिलानां तु भक्तियुक्तेनचेतसा।
देवालयेषु सर्वेषु तत्तन्मूर्त्यनुकूलिनम्।
सालग्रामशिलां तीर्थभेरार्थं परिकल्पयेत्।
सालग्रामाभिषेकं रात्रौ निषिद्धः
न कदाविहितं रात्रौ सालग्रामाभिषेचनम्।
शंखेविन्यस्य यो भक्त्या पूजते तुलसीदरैः।
सालग्रामपूजन तीर्थविशेषः
सालग्रामंतु तत्स्सर्वे कामानाप्नोति निश्चयः।
सालग्रामाभिषिक्तं यत्तोयंपिबति मानवः।
तस्य सर्वाणिपापानि नश्यंत्येव न संशयः।
इति संक्षेपतःप्रोक्तो सालग्रामस्य लक्षणम्।
यस्य श्रवणमात्रेण धूतपापो नरो भवेत्।
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां सालग्रामलक्षणंनाम अष्टाविंशोऽध्यायः
««««_____________»»»»

श्रीपुरुषोत्तम संहिता
[[170]]

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[171]]
श्रीपांचरात्रे पुरुषोत्तमदंहितायां एकोनत्रिंशोध्यायः।
स्नपनविधिः।
स्नपनकालनिर्णयः
श्रीभगवान्
स्नपनानां विधिं वक्ष्ये श्रुणुष्व कमलासन।
विषुवेचायनेचैव ग्रहणे चंद्रसूर्ययोः।
राज्ञश्च जन्मनक्षत्रे फल्गुन्यां श्रावणेपि च।
उत्सवानां समारंभे चांते चैवविशेषतः।
देशक्षोभेथचोत्पाते नित्यपूजाविलोपने।
चण्डालाद्यैश्चसंस्पृष्ठे देवबिम्बादिके तथा।
उत्पातादिषु (सर्वेषु)संप्राप्ते बिम्बसंचलनादिषु।
इत्यादिषु निमित्तेषु स्नपनं कारयेद्गुरुः।
स्नपनमण्टपनिर्माणम्
कल्पयेत्स्नपनार्थंतु मण्टपंलक्षणान्वितम्।
षोडशस्तंभसंयुक्तं द्वादशाष्टचतुस्तथा।
स्तम्भैर्युतं यथाशक्तिरलंकारैरलंकृतम्।
मण्टपं कल्पयित्वादौ तस्यचोत्तर पार्श्वतः।
कुण्डनिर्माणं, जलभाजन स्थापनादि
होमार्थंकारयेत्कुण्डमीशान्यां जलभाजनम्।
कलशान्लोहजान्वापि मृण्मयान्वा यथावसु।
कलशावाहन विधिः
संगृह्यक्षारयेत्तोयै र्न्यसेत्तां दर्भसंस्थरे।
अधोमुखान् तदूर्ध्वे तु पुनर्दर्भान् परिस्तरेत्।
संप्रोक्ष्यचार्घ्यतोयेन विकिरेत्तेषुचाक्षतान्।
उत्तानानि ततः कृत्वा तोयैरापूरयेत्ततः।

श्रीपुरुषोत्तम संहिता
[[172]]
कलशानुगुणेनैव सूत्राण्यास्फाल्य देशिकः।
कोष्टानि विभजेत्तेषु पीठानि परिकल्पयेत्।10
शालितण्डुलपीठोर्ध्वं तिलैःपीठं प्रकल्पयेत्।
तदर्धार्धप्रमाणेन तत्पीठे कलशान्न्यसेत्।
एकाशीतिस्तथैकोनपंचाशदशसप्त च।
जघन्यास्नपनेचोक्त मुत्तमादिविभेदतः।
शतद्वयसमायुक्तो सप्ततिसप्तरेवच।
पंचाशीतितथाचैकविंशतिर्मध्यमे त्रिधा।
त्रिसप्तत्युत्तरेयुक्त च्चतुश्शतमतःपरम्।
एकाशीत्युत्तरेयुक्त द्विशतं पंचविंशतिः।
उत्तमस्नपनेचोक्त मुत्तमादि विभेदतः।
एवं विज्ञाय (ज्ञात्वा तु भेदानि)तद्भेदान्
यत्कर्मणियदुच्यते
तदेव स्नपनं कार्यं जघन्ये तु कनिष्टिकम्।
कलशेषु द्रव्यनिर्णयः
उच्यते स्नपनं ब्रह्मन् मध्यमे कलशंघृतम्।
उष्णोदकं तु पूर्वस्यां आग्नेये रत्नमुच्यते।
फलंयाम्ये च नैरुत्यां लोहं भद्रं च वारुणे।
कृष्णागरुं च वायव्ये चोत्तरे तण्डुलंस्मृतम्।
धान्यमीशानकुम्भे च बहिः प्राचीन कुम्भके।
तुलसींच विनिक्षिप्य चाग्नेये दधि विन्यसेत्।
याम्ये सिद्धार्थकं चैव नैऋत्यां क्षीरमुच्यते।
पश्चिमे घनसारं च वायव्ये मधु निक्षिपेत्॥
उत्तरे पंचगव्यंस्यादीशान्ये खादिरत्वचम्।20
एवं निक्षिप्य कुम्भेषु कूर्चानपि विनिक्षिपेत्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[173]]
(चूतपल्लव रत्नादि धातुबीजान्यथाक्रमम्।
फलानि प्रतिमान्यस्य नववस्त्रैश्च वेष्टयेत्।)
नवेनवाससाच्छाद्य तत्र होमं समारभेत्।
(एवं ज्ञात्वा तु भेदानि,अग्निप्रतिष्ठांकृत्वाथ- )
कलशावाहन, होमः
अष्टाक्षरेणमन्त्रेण समिदाज्यचरून् हुनेत्।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा।
ततःपूर्णाहुतिं हुत्वा संपाताज्येन सेचयेत्।
कलशेषु देवतावाहन विधिः
कलशेषु यजेद्देवान् वासुदेवं घृते तथा।
प्राच्यादिषु क्रमेणैव पुरुषंसत्यमच्युतम्।
अनन्तं च विदिन्क्स्तेषु केशवादीन् यजेत्ततः।
बाह्येंद्रादिचतुर्दिक्षु विष्ण्वादीन्पूजयेत् क्रमात्।
विदिक्स्थेषु च कुम्भेषु श्रीधरादीन् प्रपूजयेत्।25
स्नपन विधिः
देवमर्घ्यैस्समभ्यर्च्य रक्षासूत्रं तु बंधयेत्।
दंतकाष्ठं सुगन्धंच तैलमामलकं ततः।
पुष्पं धूपं तथा दीपं समर्प्य कलशैःपृथक्।
देवस्य स्नपनं कुर्यात्प्रतिष्टायां यथोदितम्।
हरिद्राचूर्णपूर्णं तु कुम्भमादाय देशिकः।
श्रीसूक्तेनैव देवं तु स्नापयित्वा (यथाविधि) ततःपरम्।
सहस्रधारास्नपनं नृसूक्तेन तु कारयेत्।
भगवदाराधनम्
प्लोतशाट्यातु संरुज्य वस्त्रैराभरणैस्सह।(र्विभुम्)
गंधमाल्यैरलंकृत्य पायसादीन्निवेदयेत्।

श्रीपुरुषोत्तम संहिता
[[174]]
तांबूलं च ततो दत्वा दण्डवत्प्रणमेत् क्षितौ।30
भगवत्प्रार्थनम्
यत्फलंसमनुद्दिश्य स्नपनं तु कृतं मया।
तत्फलं संप्रयच्चस्व नारायण नमोस्तु ते।
इति संप्रार्थ्य देवेशं यथापूर्वं निवेश्य च।
आराधनादिकंसर्वं यथाविधि समाचरेत्॥

इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां स्नपनविधिःनाम एकोनत्रिंशोध्यायः।
««««_____________»»»»
श्रीपांचरात्रे पुरुषोत्तमदंहितायां त्रिंशोध्यायः।
प्रायश्चित्तविधिः
प्रायश्चित्तविधिःश्रवणार्थं ब्रह्मप्रश्नः
ब्रह्मोवाच
श्रोतुमिच्छामि भगवन् प्रायश्चित्तान्यशेषतः।
तत्सर्वं विस्तरेणैव ब्रूहि देवदयानिधे।
प्रायश्चित्तावसर निरूपणम्
भगवत्प्रतिवचनम्
श्रीभगवानुवाच
प्रायश्चित्तविधिं वक्ष्ये श्रुणुष्व कमलासन।
देवयक्षमुनीन्द्राद्यैरन्यैः पौराणिकैस्तथा।
प्रतिष्ठितेषु बिम्बे तु यदङ्गभङ्गमेष्यते।
तदङ्गंसंधयेत् यत्नात् सुवर्णेनैवनान्यथा।
भग्नेशिलामयेबिम्बे देवमन्यादिकल्पिते।
तदङ्गंरुक्मजं कृत्वा तत्संधेयं यथापुरम्।
देवादिस्थापिते बिम्बे हीनांगे मृण्मये सति।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[175]]
न कदाचित्परित्यज्यं तत्संधेयं यथाविधि।5
एवं भङ्गे च जीर्णे च अङ्गं संधेयमादरात्।
महांगादिभङ्गे बिम्बंजीर्णे च
महांगोपांगप्रत्यंग भङ्गश्चेद्वे प्रमादतः।
तत्तद्रूपानुसारेण संदेयं पूर्ववद्ब्बुदः।
उत्तमांग विहीने तु तद्बिंबम् परिवर्जयेत्।
(यःपूजयति तद्बिम्बं लोभमोहादि हेतुभिः।
तद्ग्रामनाशनं सिद्धं राजराष्ट्रं च नश्यति।)
हीनांगानि तु बिम्वानि तानि हित्वा पुनस्सृजेत्।
अङ्गमात्र समाधाने सृष्टोसर्वात्मनापि च।
कुम्भावाहन विधिः
सौवर्णंराजतंताम्रं पंचलोहमयं तु वा।
तत्तद्रूपानुसारेण सुपत्राणिच कारयेत्।
क्षारयेच्छुद्धतोयेन धूपयेद्गंधचूर्णकैः ।
संप्रोक्ष्य पुण्यतोयेन पंचगव्येन सेचयेत्।10
धान्याधित्रितयेनैव पीठं कुर्यात्तदग्रतः।
तन्मध्ये विलिखेद्पद्ममष्टपत्रं सकर्णिकम्।
आच्छाद्य नवस्त्रेण प्रोक्षयेन्मूलविद्यया।
गंधपुष्पाक्षतकुशैः पल्लवैः पूरयेत्क्रमात्।
तत्तद्बिम्बसमीपे तु स्थापयेत् कुम्भमुत्तमम्।
ततश्शक्तिस्समाकृष्य स्वस्वमन्त्रैस्तु देशिकः।
देवं संपूज्य विधिवत् कालं विज्ञापयेत् सुधीः।
दर्शयित्वा महामुद्रां चक्रमुद्रां प्रदर्श्य च।
स्थानेविविक्तेभिमते स्थापयेत्कुम्भमुत्तमम्।
मूलबेरेतु संप्राप्ते स्थापयेत्पूर्ववत्क्रमात्।15

श्रीपुरुषोत्तम संहिता
[[176]]
अन्यथाकौतुके वापि विद्यमाने क्वचिद्भवेत्।
पूजालोपो न कर्तव्यः कदाचिच्च न संशयः।
गोवालरज्जुभिर्यद्वा जीर्णबिम्बं समुद्धरेत्।
व्याहृत्याऽवाथसलिले निक्षिपेद्देशिकोत्तमः।
दूर्वाभिर्मधुयुक्ताभिः स्वस्वमन्त्रेण होमयेत्।
निर्माय पूर्ववद्बिम्बं प्रतिष्ठाप्य यथाविधि।
कुम्भमध्यगतांशक्तिं ब्रह्मरंद्रेणमार्गतः।
यथोक्तविधिना चैव बिम्बस्यांतः प्रवेशयेत्।
प्रणवेन ब्रह्मरन्द्रं पिधाय परमेष्टिना।
तत्तत्स्थानेषु संस्थाप्य पूजां कुर्यात् (विशेषतः)द्गरीयसीम्।20
अङ्गजीर्णे तु कर्तव्यविधौ ब्रह्मप्रश्नः-
नमस्ते देवदेवेश सर्वभूतांतरात्मने।
जीर्णबिंबस्यचोद्धारं श्रुतं पूर्वं मयानघ।
अङ्गमात्रं तु जीर्णे तु विधानं किं प्रचक्षते।
भगवत् प्रतिवचनम्
अङ्गजीर्णे कर्तव्य विधिः
श्रीभगवान्
श्रुणु वत्स प्रवक्ष्यामि गुह्याद्गुह्यतरं पुरा।
देवादिस्थापितेबिंबे जीर्णाङ्गे समुपस्थिते।
तत्तत्बिम्बगतां शक्तिग्रहणं तु समाचरेत्।
लोहजे मृण्मय वापि कलशेवस्त्रसंयुते।
रत्नपल्लवकूर्चैश्च द्रोणगंधांबुपूरिते।
जीर्णांगबिम्बात्तच्छक्तिं समाकृष्य निवेशयेत्।25
जीर्णांगंतीक्ष्णशस्त्रेण छेदयित्वा तु शिल्पिना।
लोहंचेद्द्रावयित्वा तु शैलंचेदप्सु निक्षिपेत्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[177]]
पुनस्संधानिते बिम्बे प्रोक्षयेद्गंधवारिणा।
पुरा यद्यत्प्रतिष्ठायांकर्म(विशेषतः)सर्वं समाचरेत्॥
जलाधिवासरहितं नेत्रोन्मीलन वर्जितम्।
तत्वसंहारन्यासादीन् हित्वा सर्वं समाचरेत्।
कुम्भमध्यगतां शक्तिं प्रतिमायां च पूर्ववत्।
निवेश्य देवदेवेशं पूर्ववत्पूजयेद्गुरुः।
अङ्गभेद निरूपणम्
अंगं चतुर्विधं ज्ञेयं महांगादि विभेदतः।
शिरःकण्ठमुरःकुक्षिर्ललाटं बाहुकूर्पकम्।30
कटीचोरूजानुपादौ महांगानि प्रकीर्तिताः।
अंगानि
चक्षुश्चनासिकाकर्णौ ओष्टमङ्गुलयस्मृताः।
इमान्यंगानि प्रोक्तानि सर्वशास्त्रेषु निश्चिताः।
उपाङ्गनि
दंताश्चनखरोमाणि केशहारादिकं च यत्।
उपांगानीति देवस्य प्रोक्तं तंत्रेषु निश्चितम्।
प्रत्यंगानि
शिरश्चक्रं शंखचक्राद्यायुधानि च भूषणाः।
च्छत्रचामर पीठानि पादपीठं प्रभा तथा।
एते प्रत्यंग संज्ञास्युर्देवदेवस्य शार्ङ्गिणः ।
(एतान्यंगानि विज्ञाय पूर्वोक्तेनैववर्त्मना।
संप्रोक्षणविधानश्रवणे ब्रह्मप्रश्नः
संप्रोक्षण विधानं तु कथ्यतां भगवन्मम।
केषु कार्येषु तत्कुर्याद्विधिस्तस्य तु कीदृशः।35

श्रीपुरुषोत्तम संहिता
[[178]]
श्रीभगवान्
संप्रोक्षणावसर समय निरूपणम्
श्रुणु ब्रह्मन् प्रवक्ष्यामि प्रासादेचांगभङ्गके।
ध्वजे प्रभायां पीठे च गोपुरेचायुधेपि च।
बिम्बेचैवांगभंगादि संधाने तु नवीकृते।
नित्यपूजाविहीने च नित्यदीपादि नाशने।
मार्जालमूषिकागौरी मरणे मंदिराङ्गणे।
चण्डाल शबराद्यैश्च स्पृष्टेबिम्बे तथैव च।
स्वेनकुक्कुट काकादि जनने मरणेपि च।
मंदिरे मलमूत्रादि स्पर्शदोषस्तुसंभवे।
क्रिमिकीटादि दुष्टस्य हविषो विनिवेदने।
देवस्य हसनेचैव चलने रोदने तथा।40
वल्मीकादि समुत्पन्ने मंदिरे मण्टपेपि वा।
अज्ञातचोरसंस्पृष्टे खद्योतस्पर्शने तथा।
छत्रचामरवस्त्राणां दहने ज्वलताग्निना।
देवस्यचान्यदेवस्य अन्योन्याभिमुखेपि वा।
वर्षोदकैस्तु संस्पृष्टे बिंबेपादुकयोस्तथा।
आलये मधुसंप्राप्ते वज्रपातेपि वा गुरुः।
बिंबस्य चलनेचैव पतने दहनेपि च।
एवमादि निमित्तेषु संप्रोक्षणमथाचरेत्।
संप्रोक्षणमकृते प्रत्यवायः
संप्रोक्षणमकृत्वा तु अर्चनं कुरुते यदि।
कर्ता च मंदिरंग्रामं राजराष्ट्रं च नश्यति।
तस्मात्सर्वप्रयत्नेन संप्रोक्षणमथाचरेत्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[179]]
संप्रोक्षणविधिः
विष्वक्सेनं प्रपूज्यादौ पुण्याहं वाचयेत्ततः।
(अंकुरानर्पयित्वा तु यथाशास्त्रविधानतः।
देवस्य तु पुरोभागे धान्यपीठं प्रकल्प्य च।
महाकुम्भं तु संस्थाप्य सर्वलक्षण संयुतम्।
कुम्भार्चनं प्रकुर्वीत होमांतं च यथाविधि।
मूलमन्त्रेण जुहुयाच्छांतिहोमपुरस्सरम्।
उत्तमत्रितयेनापि मध्यमत्रितयेन वा।
ततो देवस्य हस्ते तु कंकणं बंधयेद्द्विज:।
दोषप्राबल्यकं दृष्ट्वा स्नपनं कारयेद्गुरुः।
महाकुम्भं समादाय वेदवादित्रनिस्स्वनैः।50
मंदिरं त्रिःपरिक्रम्य देवस्य पुरतो भुवि।
धान्यपीठे तु संस्थाप्य विष्णुसूक्तैश्च वारुणैः।
अघमर्षणसूक्तेन शांतिसूक्तैश्च प्रोक्षयेत्।
भोजयेद् ब्राह्मणांचापि दक्षिणां च यथावसु।
आचार्य दक्षिणादेया यथा विभवविस्तरम्।
यःकरोति विधानोयं सोश्वमेधफलं व्रजेत्॥।
शांतिहोमः विधान श्रवणार्थं ब्रह्मप्रश्नः
ब्रह्मा
भगवन् देवदेवेश शंखचक्रगदाधर।
शांतिहोम विधानं च ब्रूहि मे पुरुषोत्तम।
किमर्थं विहितंशांतिस्तत्सर्वं वद विस्तरात्।
भगवत्प्रतिवचनम्
श्रीभगवान्
प्रतिष्ठाचोत्सवे चैव महोत्सवविधानके।

श्रीपुरुषोत्तम संहिता
[[180]]
संवत्सरोत्सवेचापि नित्योत्सवविधौ च वा।
दुस्स्वप्नसंभवे चैव आभावेशकुनस्य च।
मन्त्रलोपे क्रियालोपे द्रव्यलोपे तु संभवे।
कालातीते भक्तिलोपे श्रद्धालोपे तु शीघ्रतः।
अन्योन्यद्रव्यसंस्पर्शे कुर्याच्छान्तिं विधानतः।
शांतिहोम विधिः
कुण्डे वा स्थण्डिले वापि अग्निमासाद्य देशिकः।
मूर्तिमन्त्रेण देवस्य मूलमन्त्रेण तत्पुनः।
शांतिमन्त्रैश्च सूक्तैश्च अष्टोत्तरसहस्रकम्।
अष्टोत्तरशतं वापि समिदाज्यचरून् क्रमात्।
जुहुयाच्छांति सिद्ध्यर्थं प्रत्येकं च पृथक्पृथक्।
तिलैश्च सर्षपैश्चैव शमीपत्रैश्च होमयेत्।
पूर्णाहुतिं ततो हुत्वा देवं विज्ञापयेदिदम्।
अनेन विधिना विप्र शांतिं यःकुरुते सदा।
कर्मपूर्तिर्भवेत्येव फलसिद्धिर्भविष्यति॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां शांतिहोमविधिःनाम त्रिंशोध्यायः।
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[181]]
पुरुषोत्तमसंहिता एकत्रिंशोध्यायः
अग्निकार्यविधिः
अग्निकार्यावसर कालनिरूपणम्
श्रीभगवान्
अथातस्संप्रवक्ष्यामि वह्निकार्यमनुत्तमम्।
प्रायश्चित्तेषु सर्वेषु दीक्षायां प्रोक्षणेपि च।
उत्सवेषु प्रतिष्ठायां यथावदवधारय।
अग्निकार्य क्रमः
पचनालयमासाद्य द्वारस्थानर्चयेत्क्रमात्।
कुण्डस्य पश्चिमेभागे प्राङ्मुखोवाप्युदङ्मुखः।
कूर्मासनेचोपविश्य प्राणायामत्रयं चरेत्।
आत्मनो दक्षिणेपार्श्वे क्षिपेत्पुष्पाक्षतादिकम्।
वामे तु होमद्रव्याणि निक्षिप्य न्यासमाचरेत्।
कुण्डसंस्कारादि
ऋचा एषहिदेवेति साक्षतोदकपाणिना।
अग्नेः पुरस्तान्निक्षिप्य चात्मनोभिमुखं स्मरेत्।
सुमुखस्सुप्रसन्नश्च वरदो भव सर्वदा।
इति संप्रार्थ्यमतिमान् अग्निकुण्डं च प्रोक्षयेत्।
(कुण्डमध्ये श्रियंध्यात्वाऋतुस्नातांविधानतः।
अग्निमध्ये महाविष्णुं ध्यायेद्देशिकसत्तम:)
अक्षतैरर्चयेद्दिक्षु विदिक्षु च यथाक्रमम्।
(आदौचाहवनीयं च)
आहवनीय्येति पदं गार्हपत्यमनन्तरम्।
दक्षिणाग्निं च सद्भ्यं चावसद्याग्निमेव च।
रत्नाग्निं चै्वदावाग्निं द्विशीर्षकमिति ब्रुवन्।

श्रीपुरुषोत्तम संहिता
[[182]]
प्रणवादिनमोंतैश्च परिषेचनमाचरेत्।
दर्भैरग्निःपरिस्तीर्य अग्नेरुत्तरपार्श्वतः।
द्विदर्भास्समास्तीर्य
(पात्रानासादयेत् क्रमात्।) पात्रासादनमाचरेत्।
पात्रासादनम्
द्वादशं वाष्टपात्रं वा षट्पात्रं वा चतुष्टयम्।
एतेष्वेकंप्रकुर्वीत यथा कर्मानुसारतः।
पात्रसंस्कारः
कृत्वा पवित्रं दर्भाभ्यां प्रोक्षण्यांजलमावपेत्।
त्रिरुत्पूर्य पवित्रेण पात्राणां प्रोक्षणं चरेत्।
प्रणीतासंस्कार:
उत्थानानि ततःकृत्वा प्रणीतायां जलं क्षिपेत्।
उत्पूर्य पूर्ववन्नीरं उद्धरेन्मुखसंमितम्।
अग्नेरुत्तरदर्भेषु प्रणीतां विन्यसेत्ततः।
दर्भैःप्रच्चाद्य तत्पात्रं ब्रह्माणं दक्षिणेऽर्चयेत्।
आज्यसंस्कार:
आज्यपात्रं विलाप्याग्नौ स्थाल्यामाज्यं निरूप्य च।
अङ्गारानुत्तरस्थान्वै निरूह्योपरि विन्यसेत्।
आज्यस्थालीं ततोत्पूर्य पवित्रेण यथाविधि।15
अङ्गुष्ठोपकनिष्ठाभ्याम् ग्रन्धिं विस्रस्य क्षारयेत्।
स्रुक्स्रुवसंस्कार:
प्रागग्रमग्नौ प्रहरेत् स्रुक्स्रुवौ क्षारयेत्त्ततः।
(उष्णोदकेन तदनु मार्जयेत् पंचभिःकुशैः)
स्रुक्स्रुवौ मार्जयेद्दर्भैः चतुर्भिर्गर्भवर्जितैः।
क्षारयित्वा ततो दर्भानग्नौ विन्यस्य देशिकः।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[183]]
अंगुष्टाग्रसमस्थौल्यं प्रादे(श)त्रयसंमितम्।
परिधयः
परिधीं प्रक्षिपेत्पश्चादुदगग्रं यथा भवेत्।
तर्जन्याग्र समस्थाल्यां न्यूनप्रादेशदीर्घिकम्।
परिधीं विन्यसेद्याम्ये प्रागग्रं तु यथा भवेत्।
मध्यांगुलि समस्थौल्यं न्यूनप्रादेशकत्रयम्।
परिधिंविन्यसेत्सौम्ये चाग्रं पूर्ववदिष्यते।20
कनिष्ठाग्रसमस्थौल्व्यौ द्वादशांगुल सम्मितौ।
आघारौ निक्षिपेदूर्ध्वे मुखावग्नीशकोणयोः।
इध्महोमं
इध्मप्रक्षेपणं चाग्नौ कृत्वा तूर्यपुरस्सरम्।
स्रुवेणाज्यं समादाय स्रुचं संपूर्यदेशिकः।
आधारहोमः
वायव्यकोणमारभ्य वैश्वानरदिगंतकम्।
हुनेत्प्रजापतिं ध्यायन् प्रथमाघारहोमके।
नैऋतेर्दिशमारभ्य रौद्रकोणांतमेव हि।
इन्द्रं ध्यायन् ततःपश्चात् द्वितीयाघार होमके।
चक्षुर्होमः
चतुर्गृहीतं कृत्वाज्यं चक्षुर्होमं समाचरेत्।
मध्ये व्याहृतिभिर्हुत्वा ध्यायेदग्निमनुत्तमम्।
सप्तजिह्वा होमम्
मध्यमेविश्वरूपा च कारीतत्पूर्वतो हुनेत्। करारी याम्यतश्चैव पश्चिमे तु मनोजवा।
सुलोहिताचोत्तरे तु धूम्राक्षाचाग्निकोणके। नैऋत्यां विस्फुलिंगा च जिह्वान्वेतासु होमयेत्।
(वैष्णवाग्निं प्रकर्तव्यं संस्कारैश्चतुषोडशैः।
तद्धोमं च प्रकुर्वीत समिदाज्यचरुं क्रमात्।)

श्रीपुरुषोत्तम संहिता
[[184]]
गायत्र्या प्रथमं हुत्वा द्वितीयं विष्णुमन्त्रकम्।
त्रितीयंमूलमन्त्रेण समिदाज्यचरुं हुनेत्।
ततोनपायिनान्हुत्वा हुत्वाभागवतान् प्रति।
दिगीशां च क्रमं प्रोक्तं नित्यहोमे विधीयते।
परिवारादि देवता होमः
उत्सवे परिवारांश्च सप्तावरणदेवताः।
तिथ्यादि ऋक्षदेवांश्च तथा वैकुण्ठ्पार्षदाः।30
चतुर्विंशतिमूर्तीश्च मण्डलस्थान्यथाविधि।
उद्दिश्यतत्तद्देवांश्च समिदाज्य चरून्हुनेत्।
चरुंपुरुषसूक्तेन षोडशाहुतिभिर्हुनेत्।
प्रायश्चित्तहोमः,पूर्णाहुतिः
प्रायश्चित्ताहुतिर्हुत्वा पूर्णाहुतिमथाचरेत्।

प्रणीतिमार्जनं
प्रणीतीमार्जनं कृत्वा स्रुचंसंपूर्य वारिणा।
अग्निप्रदक्षिणम्
ईशानकोणमारभ्य बहिःकुण्डात्प्रदक्षिणम्।
दाराहुतिः
दाराभिस्सेचयित्वा तु स्वशिरः प्रोक्षयेद्द्विजः।
भगवत्समर्पणम्
फलं समर्प्य देवाय प्रार्थयेद्भक्ति संयुतः।
इति संक्षेपतःप्रोक्तो अग्निकार्यविधिः परः।
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां अग्निकार्यविधिःनाम एकत्रिंशोध्यायः।
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[185]]
द्वात्रिंशोध्यायः
नित्योत्सव विधिः
नित्योत्सव विधान श्रवणे ब्रह्मप्रश्नः
ब्रह्मा
भगवन् देवदेवेश सर्वेश्वरजगन्मय।
नित्योत्सवविधिः कीदृक्कदाकार्यं हि किं फलम्।
तत्सर्वं विस्तरेणैव संप्रकाशय मे प्रभो।
उत्सवशब्दनिर्वचनम्
श्रीभगवान्
ऊदुत्युत्कृष्टवचनं सवोयज्ञमितिस्स्मृतम्।
उत्कृष्टस्स सवो यस्मादुत्सवःपरिचक्षते।
नित्यं तत्क्रियमाणत्वान्नित्योत्सवमितीर्यते।
नित्योत्सव महिमा
पावनंसर्वभूतानां तोषणं शांतिकारणं।
नित्योत्सव भेदाः
नित्योत्सवं तु त्रिविधं उत्तमादिविभेदतः।
त्रिसंध्यासुकृतंयत्तदुत्तमं समुदाहृतम्।
द्विकालानुष्टितं यत्तन्मध्यमं परिकीर्तितम्।5
एककाले तु मध्याह्ने कृतं तदधमं भवेत्।
बलिप्रदानावसरः
बलिदानविहीने नोत्सवोभ्युदयावहः।
(तस्माद्बलिप्रदानेन कारयेदुत्सवं परम्)
तस्माद्बलिप्रदानं तु प्रत्यहं कारयेद्द्विज।
बलिद्रव्यभेदः
प्रातस्तु तण्डुलैरेव बलिंदद्याद्यथाक्रमम्।

श्रीपुरुषोत्तम संहिता
[[186]]
अन्नेनैव तु मध्याह्ने सायाह्ने कुसुमैश्शुभैः।
बलिप्रदान विधिः
तदर्थं बलिपात्रं तु स्वर्णादिद्रव्यनिर्मितम्।
समादाय बलिद्रव्यैः पूरयेद्देशिकोत्तमः।
देवस्याग्रेतु तत्पात्रं विन्यस्यावाहयेद्धरिम् (शुचिः)।
पात्रस्थ देवमर्घ्याद्यैः पूजयित्वा यथोदितैः।
पात्रस्थदरमध्ये तु विष्ण्वादीनर्चयेत्क्रमात्।10
परिचारकस्य शिरसि तत्पात्रं न्यस्यमंगरैः।
भद्रंकर्णेतिमंत्रेण बलिबेरं गुरुस्स्वयम्।
शिभिकायां समारोप्य वेदघोषपुरस्सरम्।
छत्रचामरभेर्यादि नृत्तवादित्रनिस्स्वनैः।
प्रदक्ष्णिक्रमेणैव आलयं तु परिभ्रमेत्।
बलिं दत्वा तोयपूर्वं तोयोत्तरमपि क्रमात्।
तत्पीठं तु परिक्रम्य दर्शयेदष्टमंगलान्।
एवमुक्तप्रकारेण सर्वेष्वावरणेष्वपि।
यथाक्रमं बलिं दत्वा (चालयं संप्रवेशयेत्) प्रविशेद्गर्भमन्दिरम्।15
मूलमन्त्रेणदत्वार्घ्यं मूलबेरे नियोजयेत्।
(बलिपीठोपरिगुरुः बलिशेषं समापयेत्)।
विष्वक्सेनस्य शिरसि बलिशेषं क्षिपेत्ततः।
बलिप्रदानकाले नृत्तगीतादि भेदाः
नृत्तं तु बहुधाज्ञेयं परिवारादितोषणम्।
गीतं मध्यमसंयुक्तं गरुडस्य तु शस्यते।
गौडरागं तथा नृत्तं विष्णुक्रान्तमितिस्मृतम्।
नृत्तमब्जभवस्यापि स्वस्तिकाह्वयमुच्यते ।
स्वरंगान्धारमित्युक्तं मुखारीरागमेवच।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[187]]
इन्द्रस्यसर्वतोभद्रं अग्नेःकेटकमुच्यते।
कुट्टिमं वरुणस्यापि वायोश्चपृष्ठकुट्टिमम्।
यमस्य चक्रनृत्तस्यात् कान्तारं नैऋतेस्तथा।20
वामजानुःकुबेरस्य ईशानस्योर्ध्वनृत्तकम्।
स्वरभेदाः
षड्जमस्वरमिन्द्रस्य अग्नेऋषभमिष्यते।
गान्धारं यमदेवस्य नैऋतेर्मध्यमस्मृतः।
पंचमं वरुणस्यापि मारुतस्य तु दैवतः।
कुबेरस्य निषादस्यादीशानस्य तदेवतु॥
तारभेदाः
इंद्रस्य समतारं स्यादग्नेर्बद्दावतारकम्।
यमस्य भृङ्गिणीतारं नैॠतेर्मल्लतारकम्।
मंगरं वरुणस्यापि वायोश्चजयतारकम्।
भद्रतारं कुबेरस्य ढक्करी शूलिनो भवेत्। (रौद्रस्यान्नंदि तारकम्)
रागभेदाः
इंद्रस्य नादनामं तु वह्नेस्तु ललितं भवेत्।
यमस्य मलयं रागं नैॠतेर्भैरवी तथा।
मेघरंजी च वारुण्यां वायोश्चैव वसंतकम्।
कुबेरस्य तु श्रीरागं शंकरस्य तु शांकरम्।
एवमुक्तप्रकारेण नृत्तगीतादिकं चरेत्।
(अन्येषां देवतानां तु भद्रतारं प्रशस्यते।
गान्धाररागमिति च विष्णुक्रान्तं च नृत्तकम्।
मध्यमं सर्वमित्याहुरितिशास्त्रविनिश्चयः॥)
बलिप्रदान फलन्
एवं बलिप्रदानं तु कारयेद्देशिकोत्तमः।

श्रीपुरुषोत्तम संहिता
[[188]]
रक्षणार्थाय ग्रामस्य देवानां तोषणाय च।
राक्षसानां विनाशाय शत्रूणां हननाय च।
सर्वसंपत्समृद्ध्यर्थं बलिदानं समाचरेत्।
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां नित्योत्सवविधिःनाम द्वात्रिंशोध्यायः॥
««««_____________»»»»

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[189]]
त्रयत्रिंशोध्यायः
मुद्रालक्षणविधिः
मुद्रालक्षणे ब्रह्मप्रश्नः
ब्रह्मा-
मुद्राणां लक्षणं ब्रूहि देवदेवदयानिधे।
मुद्रा कदा प्रकर्तव्या तस्या किं तु प्रयोजनम्।
भगवत्प्रतिवचनम्
श्रीभगवान्
मुद्राशब्दार्थ निर्वचनम्
मुदं समस्ततत्त्वानां तत्क्षणाद्द्रावयिष्यति ।
तस्मादन्वर्थनामाभूदेषागोप्या चतुर्मुख॥
न बहिर्दर्शयेन्मुद्रां क्षिप्रं देवप्रसादिनीम्।
गंधलिप्तकरौ कृत्वा मुद्राबंधनमाचरेत्।3
शंखमुद्रा
मुष्टिना वामहस्तस्य सव्यांगुष्टं निबध्य च,।
अंगुष्ठतर्जनी योगश्शंखमुद्रेति कथ्यते।
चक्रमुद्रा
अधोमुखं करं कृत्वा दक्षिणं वामहस्तके। उत्ताने मणिबंधे तु मणिबन्धं तु योजयेत्।5
चक्रवद्भ्रमणादेवं चक्रमुद्रेति कीर्तिता।
गदा मुद्रा
मुष्टिं बध्वा तु हस्ताभ्यां संश्लिष्टौ मध्यमांगुलीः।
कूर्परौ तु समौ कृत्वा गदामुद्रेयमीरिता॥
शार्ङ्गमुद्रा
अग्रेणमध्यमांगुल्यास्तर्जन्यग्रं स्पृशेद्यदि।
शार्ङ्गमुद्रेति कथिता सर्वदुष्टभयंकरी।

श्रीपुरुषोत्तम संहिता
[[190]]
मुसलमुद्रा
सोर्ध्वांगुष्ठं वाममुष्टिं दक्षिणेन तु मुष्टिना।
आबद्यांगुष्टमूर्ध्वं तु न्यासाचेन्मुसलं भवेत्।
खड्गमुद्रा
तर्जनी मध्यमा हीना मुष्टिःखड्गेति कीर्तिता।
पद्ममुद्रा
अंगुरीः विरराःकृत्वा करयोरुभयोरपि।
संश्लिष्टकूर्परौ यत्तत्पद्ममुद्रा निगद्यते।10
वनमाला मुद्रा
संश्लिष्टाश्चांगुलीःकृत्वा करयोरुभयोरपि।
लंभयेद्वनमालास्या त्कथ्यतेऽनन्तमुद्रिका।
अनन्तमुद्रा
पर्वांगुलीभिराकुंच्य फणवत्क्रियते यदि।
गरुडमुद्रा
हस्तयोरुभयो स्पृष्ट्वा संश्लिष्टौ च कनिष्टिकौ।
तदा च तर्जनीयुग्मं बध्वांगुष्टौ समौकृतौ।
पक्षवच्छालनं कुर्यादितरांगुरिभिस्तथा।
विष्वक्सेन मुद्रा
विमुक्ततर्जनीमुष्टिर्विष्वक्सेनस्य प्रीतिदा।
ब्रह्ममुद्रा
सर्वांगुरीनां संस्पृष्टिरुभयोः करयोरपि।
ब्रह्ममुद्रेति कथिता विष्णुमुद्रानिगद्यते।15।
विष्णु मुद्रा
अनामिका मध्यमाभ्यां विमुक्तेनैव पद्मज।
रुद्रमुद्रा

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[191]]
अंगुष्टद्वयसंसृष्टिः रुद्रमुद्राः प्रकीर्तिता।
मुष्टिमुद्रा
मुष्टिमुद्रेति कथिता मुष्टिं बध्वा बलिं क्षिपेत्।
गंधमुद्रा
कनिष्टाऽनामिकामुक्ता मुष्टिस्याद्गंधमुद्रिका।
पुष्पमुद्रा
सर्वांगुलीनां संकोचः विमुक्ता मध्यमाच सा।
पुष्पमुद्रेति कथिता पुष्पाणां च समर्पणे।
यज्ञोपवीत मुद्रा
अंगुष्टस्याग्र पर्वं तु मध्यमांगुलिना स्पृशेत्।
यज्ञोपवीतमुद्रास्स्यात् देवदेवस्य प्रीतिदा।
आभरणमुद्रा
कनिष्टिकाग्र पर्वंतु स्पृशेदंगुष्ठकेनतु।
मुद्राचाभरणं ज्ञेयं अलंकारासने मतम्।20।
धूपमुद्रा
सच्छिद्रमंगुरीनां तु समाश्लिष्टाग्र बंधनम्।
ऊर्ध्वाङ्गुष्ठौ तथा कृत्वा धूपमुद्रा प्रकीर्तिता।
दीपमुद्रा
सर्वांगुरीश्च संहृत्य मध्यमे द्वे प्रदर्शयेत्,।
हस्तयोरुभयोश्चापि दीपमुद्रा प्रकीर्तिता।
ग्रासमुद्रा
अंगुरीनां तु पंचानां अग्रसंयोज्य यत्नतः।
दक्षिणेनकरेणैव मुद्रा सा ग्रासमुद्रिका।
प्रतिमामुद्रा
सोर्ध्वांगुष्ठे तु या मुष्टी मुद्रा सा प्रतिमास्मृता।

श्रीपुरुषोत्तम संहिता
[[192]]
स्वागतमुद्रा
उत्तानाभ्यां च हस्ताभ्याम् किंचिदाकुंच चांगुलीः।
पृथक्कृत्वा तथांगुष्ठौ ज्ञेयास्त्वागतमुद्रिका।
दहनमुद्रा
वामहस्ते त्रिकोणाग्निं ध्यात्वा द्रव्योपरि न्यसेत्।
एषादाहन मुद्रास्स्यात् सर्वद्रव्य विशोदिनी।
आप्यायनमुद्रा
सव्यहस्ते तथा पद्मं षोडशच्छद संयुतम्।
अमृतमुद्रा
तस्मिन् चंद्रंस्थितं ध्यात्वा पीयूषस्रावितं तथा।
अवाङ्मुखेन हस्तेन द्रव्याणामुपरि न्यसेत्।
आप्यायनस्य मुद्रैषा द्रव्यपावन कारिणी।
सुरभिमुद्रा
अनामिका मध्यमया कनिष्ठा तर्जनीः क्रमात्।
संस्पृष्टिश्चेत्तथान्योन्य करयोरुभयोरपि।
मुद्रैषासुरभी ज्ञेया सर्वकामार्थसिद्धिदा।
आवाहनमुद्रा
विररांजलिबंधस्तु मुद्राचावाहनाख्यका।
अंगुष्ठाभ्यां च करयोस्संपुटीकृत्य देशिकः।30
अनामिके च तर्जन्यौ संकोच्य शिरसि न्यसेत्।
श्रीवत्समुद्रा
किरीटे कथितामुद्रा श्रीवत्सं कथ्यतेऽधुना।
उत्तानं वामहस्तं च कृत्वांगुष्ठेन संस्पृशेत्।
कौस्तुभमुद्रा
दक्षिणस्य च हस्तस्य तर्जन्यातु कनिष्ठिकम्।

श्रीमत्पाञ्चरात्रदिव्यागमान्तर्गत
[[193]]
सव्यहस्त कनिष्टेन बध्वा तत्तर्जनीं नयेत्॥
पूर्वांगुरित्रयं देशं कौस्तुभं परिकीर्तितम्।
ज्ञानमुद्रा
तर्जन्यंगुष्ठयोरेव संयोगो ज्ञानमुद्रिका।35
तत्त्वमुद्रा
सैव श्रीवत्समुद्रास्यात्तत्वमुद्रा प्रकीर्तिता।
अग्निप्राकारमुद्रा
अंगुष्टाग्रेण सम्स्पृश्य तर्जनीमध्यपर्वकम्।
संहारमुद्रा
मध्यमामूर्ध्वतःकृत्वा तर्जन्यौ वेष्टयेत्क्रमात्।
अनामिकां कनिष्ठां च तथांगुष्ठेन देशिकः।
संहारमुद्राभिहिता तत्वसंहारणे मता।
सृष्टिमुद्रा
तर्जनीमूर्ध्वतः कृत्वा अंगुरीनां च संगतिः।
सृष्टिमुद्रेति कथिता तत्वन्यासादिके मता।
शिखामुद्रा
अंगुष्ठं मध्यतः कृत्वा मुष्टिं बध्वा हृदिन्यसेत्।
तर्जन्यंगुष्टयोगेन शिरसिन्यसनं भवेत्।40
पश्चाच्छिखायां संस्पृश्येदूर्ध्वांगुष्टेन मुष्टिना।
कवचमुद्रा
करयोरुभयोंगुष्टा संकुच्यांगुरिभिस्तथा।
भुजप्रभृति पादान्तं न्यसेत् कवचमुद्रिका।
नेत्रमुद्रा
शिखामुद्रामथः कृत्वा भ्रुवोर्मध्ये निवेशयेत्।
नेत्रमुद्रेति कथिता तर्जन्यंगुष्ठयोस्तथा।

श्रीपुरुषोत्तम संहिता
[[194]]
अस्त्रमुद्रा
स्फोटनं चैव सर्वत्र अस्त्रमुद्रेति कीर्तिता।
षडङ्गन्यासमुद्राणां विनियोगः प्रदर्शितः।
इति संक्षेपतः प्रोक्तं मुद्राणाम् लक्षणं वरम्।
अधिक पाठानि
वसिष्टः
इत्येवं हरिणा श्रुत्वा पुरा कमलसम्भवः।
हृष्टचेतो जगन्नाथं प्रणिपद्य मुहुर्मुहुः।
जगत्सृष्टिम् समारेभेचाज्ञया तु जगत्पतेः।
मया श्रुतं यथापूर्वं मत्पित्रा ब्रह्मणा द्विजाः।
तत्सर्वम् संग्रहेणैव तुभ्यमद्यसुबोधितम्।
लोकानुग्रहकामेन निगूढम् भगवत्प्रियम्।
महाशास्त्रं पांचरात्रनामकं परमोत्तमम्।
नाशिष्याय नऽभक्ताय नवैष्णवबुधाय च।
न कदापि प्रवक्तव्यं गोप्यम् गोप्यम् मनीषिभिः।
यस्य श्रवणमात्रेण अघनाशो भवेद्ध्रुवम्।
पठनं मननं चैव जन्मराहित्यहेतुकम्। दुर्लभं सर्वलोकानां देवानां च सदाप्रियम्।
ऋषयः
महच्छास्त्रमिदं श्रुत्वा वशिष्ठेन महात्मना। ऋषयो हृष्टमनसा संस्तुवंतावभू पुनः॥

इति श्री पांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां मुद्रालक्षणं नाम त्रयस्त्रिंशोऽध्यायः
««««_____________»»»»

श्रीपुरुषोत्तमसंहिता संपूर्णम्॥
««««_____________»»»»

Books Published by Kriyasagaram for free of cost with Bagavat
and Bagavata Krupa
(All the books are freely available at www.kriyasagaram.in)
Vol. Contents
1
Vasudeva Punyahavachanam,Thiruaradhanam,
Agnikaryam, Mahotsavam and Cakrabjamandala puja
vidhi
2 Prathista vidhi
3 Vacanasaram (I) – Pramanas of Thiruaradhanam
4 Vacanasaram (II) - Pramanas of Mahotsavam
5 Archana (Namavali) of various divyadesa perumal
6 Dhyana sloka ratnavalai
7 Kriyakairava chandrika (I)
8 Kriyakairava chandrika (II)
9 Snapana Vidhi
10 Paramapurusha Samhitha
11 Bruhadbrumha Samhitha
12 Sriranga Mahatmyam(I)
13 Sriranga Mahatmyam(II)
14 Panchamrutham
15 Panchakala prakriya
16 Thula Kaveri Mahatmyam
17 Nagapattinam Sri Saundaryaraja Perumal Vaibhavam
18 Alwar thirunagari (thirukkurugur) Vaibhavam
19 Jitanta storam (mulam and vyakyanam)
20 Padma Samhitha 1st part
21 Padma Samhitha 2nd part
22 Sri Rajamannargdi Vaibhavam
23 Sriprasna Samhitokta Kriyapaddathi
24 Sri Paramesvara Samhitha
25 Sri Pancharatra Agamokta Iswara Samhita
26 Satvataamrutam & Satvataamruta Saram
27 Vacanasaram (III) - Pramanas of Pratishta vidhi

28 Sri Prashna Samhitha Saram
29 Sri Purushothama Samhita
30 Sri Sri Prashna Samhitha Part - 1

And many more to come

***************************