ओं
श्रीमत्पांचरात्रे श्रीपुरुषोत्तमसंहितायां
नवमोध्यायः
रथादियानलक्षणविधिः
रथलक्षणं.
श्लो. रथस्य लक्षणं वक्ष्ये देवदेवस्य शार्ङ्गिणः
विमानोच्छ्रायमानंवागोपुरोच्छ्रायमेवना. 1
ध्वजस्तंभसमुच्छ्रायंमंटपोच्छ्राय मेवना
लोहेन दारुणा वापि कारये द्रथ मुत्तमम्. 2
अंतस्सारं दारुजं चेल्लोह श्चॆत्स्वर्णराजितम्
[अधिकपाठानि
कांस्येन वा धनाकुर्यात् यथावित्तानुसारतः]
नवरत्नैश्चखचितं द्वारस्तंभशतावृतम्. 3
षोडशद्वादशाष्टौ वा यथा विभवविस्तरम्
भूरादिनप्त वा कुर्या दतलादि चतुर्दश. 4
भूर्भुवस्सुव रि त्यादिलोकत्रयतलं यथा
उच्छ्राय स्यानुगुण्येन (कथायामं प्रकल्पयेत्) आयामं परिकल्पयेत्. 5
भूमिकाया श्च प्रथमे भागे सक्राणि कल्पयेत्
पार्श्वयो रुभयोः कुर्याद्रथस्यानुगुणंयथा. 6
तदग्रे च शिखाकुंभं चक्रेणोज्वलितं महत्
घंटाशतसमायुक्तं पताक ध्वजशोभितम्. 7
हया न्वा द्विरदा न्वापि प्राग्भागे परिकल्पयेत्
तस्मध्ये सारथिं स्थाप्यतोत्रं वांकुशधारिणम्. 8
चित्ररचना
अतलादिपदे तत्तल्लोकस्थान् परिकल्पयेत्
नागा न्यक्षान्किन्नरांश्च गंधर्वान् गरुडस्तथा. 9
सिद्धा न्विद्याधरां चैव देवदानवराक्षसान्
पिशाचा न्गुह्यगा स्साध्यान्मुनी न्परमवैष्णवान्. 10
रामकृष्णादि विभगुवन्मूर्तिलीलाःप्रकल्पयेत्
रथमध्यपीठ लक्षणं
तन्मध्ये वेदिकायां तु कूर्मपीठं प्रकल्पयेत्. 11
तस्योपरि ह्यनंतं च सहस्रफणिमंडितम्
कल्पयित्माध तन्मध्ये डूलिकां स्वर्णनिर्मिताम्. 12
तन्मध्येष्टदलं पद्मं कर्णिका केसरान्वितम्
आसीनार्थं तु देवस्य स्वर्णपीठं प्रकल्पयेत्. 13
रथनिर्माणफल विशेषः
एवं कृत्वा रथं दिव्यं विष्णो रतुलतेजसः
येर्पयं त्यतिभक्त्यातु तेयांति परमंपदम्. 14
तदितरवाहनानि तल्लक्षणानिच-
अतःपरं प्रपक्ष्यामि वाहनानां च लक्षणम्
पीठ मादित्य सोमं च सिंहव्यानिखगाधिपाः. 15
हनूमान्हंस मत्तेभा हयस्यंदन एव च
शिबिकां सर्वभूपालवाहनानि यथाक्रमम्
गर्भालयसमं वा वाहनानि च कारयेत्. 16
इति श्रीपांचरात्रे महोपनिषदि पुरुषोत्तम संहितायां.
रथादिलक्षणंनाम नवमोध्यायः
श्री श्री श्री