सप्तमोध्यायः
।। अथ सप्तमोऽध्यायः ।।
।। हरिः ॐ।।
1.चन्द्रोश्वमेधकृद्धर्पाद्गुरोर्भार्यामरीरमत् ।
बृहस्पत्यनुजो यज्ञं सर्वं वाकारयदृषिम् ।।
2.तदर्थं युध्यतो देवदानवान् सन्निवार्य च ।
तारां व्यमोचयद्धाता गर्भिणीं गर्भमाह सा ।।
3.धात्रे विधोश्चेति बुधं तज्जसो प्रायशो दिशत् ।
स सौम्यस्त्वेकरूपेण भद्राश्वे चिरमावसत् ।।
4.बृहस्पत्यनुजो यज्ञं सकर्ताकारयदृषिः ।
मरुतस्यामृतक——वंशजस्य महात्मनः ।।
5.हविर्भुज पुलस्त्यस्य विश्रवास्तपतां वरः ।
शशिबिन्दोरिलाविला सुता तस्य सविश्रवः ।।
6.कुबेरं यक्षपं वित्तपतिं दिक्पालकं व्यधात् ।
गन्धर्वाप्सरसां नाथस्त्वलङ्कायामथाविशत् ।।
7.सगरस्यात्मजान् षष्ठिसाहस्रं लवणाम्बुधौ ।
शतयोजनवार्मध्ये त्वं नृभोगे व्यकल्पयत् ।।
8.अश्वमेधहये नीते चक्रेण सगरस्य तु । *
विचिन्वन्त उपद्वीपान् शतयोजनसम्मितान् ।।
9.चक्रुस्ते वर्तुलान् सर्वसद्रत्नद्रुमवर्मयान् ।
नवैव शुक्लवृत्तौ च चन्द्रप्रस्थमसाह्वयम् ।।
10.द्वीपं सुमन्दहरणं सिंहकं रणकं तथा ।
कलुहरणं पाञ्चजन्यं लङ्कां च व्यसृजद्बलात् ।।
11.कनिष्ठभार्यातनयास्तुरगान्वेषिणः पुनः ।
कपिलस्याश्रमं प्राप्य तद्वेषा(हा)त्तेन भस्मिताः ।।
12.तज्जेष्ट(ष्ठ?)भार्यातनयस्त्वसमञ्जस नामकः ।
बलान्नद्यां प्राश्य मृतानुज्जीव्य सङ्गतोवनम् ।।
13.तस्यपुत्रोंशुमान्नाम मुर्वीं(र्तिं)स्तुत्वा नयध्त(द्ध्ह)यम् ।
स्वर्याते कृतयज्ञेस्मिन् स्वर्याताः(त्म)स्म भगीरथात् ।।
14.पुत्रादंशुमतो गङ्गावारिस्पर्शाद्गतैनसः ।
उपद्वीपेषु यज्ञाद्याः कपिरूपोपदेवताः ।।
15.वसन्ति सप्तद्वीपेषु लङ्कारमणकेनृते ।
आशीविषारमणके कालोयस्सगुणोवसत् ।।
16.लङ्कायान्तु त्रिकूटाख्यान्नगंस्थाप्य शतोन्नतम् ।
योजनानां तदुपरि श्री दो लङ्कां विनिर्मिमे ।।
17.स तत्र वासरूपेण परेणा(प्रकारेणा)प्सरसां पतिम् ।
स्वपितुस्तस्य सेवार्थम् अस्मिन् मन्वन्तरे दिशत् ।।
18.कैकेयां च बकात् पुण्योत्कटां लोकैकसुन्दरीः ।
स्मरार्दितः सकैकेय्यां रावणं कुम्भकर्णकम् ।।
19.ताटकां शूर्पनखीं प्रापेते गुह्यकेश्वरम् ।
व्यवास्य ब्रह्मवरतो लङ्कां प्राप्य सुरारयः ।।
20.आसुः सीताकृतिद्रोहात् सर्वे रामेण ते हताः ।
सागरान्वयसम्भूत राघवान्वय सम्भवात् ।। *
21.जाताद्दशरथाज्जातो रामस्तस्यां विभीषणम् ।
पुष्पोत्कटसुतप्यस्ता बकं चक्रे चिरायुषम् ।।
22.गत्यां ऋषीनजनयत् पुलहः शतकोटिशः ।
क्रतोः क्रियासुतान् षष्ठीसहस्रं वालखिल्यकान् ।।