षष्ठोध्यायः
।। अथ षष्ठोऽध्यायः ।।
।। श्रीभगवानुवाच ।।
1.अतलाद्या सप्तलोकाः बिले स्वर्गाः प्रकीर्तिताः ।
मेरोरधस्तात्ते सर्वे प्रायशो ज्ञानि सङ्कुलाः ।।
2.एषामुपरि भूलोकः सर्वलोकतमो मतः ।
तस्मिन् हि भारते वर्षे बर्हिष्मत्ताख्यपत्तने ।।
3.शतरूपापतिः पूर्वं मनुः स्वायंभुवोऽभवत् ।
देवदासानेककोटिसेविताङ्घ्रिसरोरुहः ।।
4.शशास मेदिनीम् एतां प्रजाड्योरसवत्सदा ।
देवहूतिस्तु तत्पुत्री क्वचिद्धर्म्यगता भवत् ।।
5.तां दृष्ट्वा संगनोभूमौ गन्धर्वाधीश्वरोऽपतत्(भवत्) ।
रूपयौवनसम्पन्नां तामारोप्य रथे स्वयम् ।।
6.भार्यया सह तत्रागात् सरस्वत्यां तटं प्रति ।
तत्र बिन्दुसरस्तीरे तपतः कर्दमस्यताम् ।।
7.पुण्याश्रमं प्रदत्वात्तु मनुः कृछ्रात् स्वकं पुरम् ।
गते राजनि सा देवी वस्त्राभरणसञ्चयम् ।।
8.नद्यां प्रास्य विरक्तस्य चीर्णवेणाजिनाम्बरा ।
व्रतक्षामापर्यचरत्पतिं भक्त्या जटाधरा ।।
9.इत्थं तया सेविताङ्घ्री राजपुत्रीमभाषत ।
हितं वदेति सा देवी(वव्रे) तं तु योगप्रभावतः ।।
10.संयोजनायामुमुद्यद्रविरक्त(त्न)प्रभान्वितम् ।
सर्वोपस्करणोपेतं पक्षिवृक्षजला(समा)कुलम् ।।
11.सौवर्णं कालगमतं सुगन्धि सुमनोहरम् ।
स्वयं तदाहृदे स्नात्वा बभौ सर्वमनोहरः ।।
12.सापि श्रीरिव सौन्दर्यवस्त्राभरणभूषणैः ।
तुष्ट्वा स सतया सार्धं रेमेब्दशतकं ऋषिः ।।
13.मेर्वादिषु चरन् दिव्यविमानस्थः समुक्तवत् ।
सुशब्दस्पर्शसुरसरूपगन्धमनोहरः ।।
14.निन्ये कालं क्षणमिव कुसुमाकरवायुभिः ।
इत्येनं(रत्येत)बिन्दुसरसस्तीर आसन्नवाङ्गनाः ।।
15.तत्पुत्रिकानां नामानि श्रुणु मे वदतः सदा ।
कलानसूया श्रद्धा च हविर्भूश्च गतिः क्रिया ।।
16.अरुन्धती च चित्तिश्च ख्यातिः कर्दमपुत्रिकाः ।
कलां मरीचये प्रादादनुसूयामथा त्रयी ।।
17.श्रद्धामङ्गिरसे प्रादात् पुलस्त्याय हविर्भुवम्(भुवि) ।
पुलहाय गतिं प्रादात् क्रतवे सक्रियां सुताम् ।।
18.अरुन्धतीं वसिष्ठाय चित्तिं च भृगवेर्पयत् ।
अथर्वणाय च ख्यातिं दत्वा हृष्टो बभूव ह ।।
19.ततः शताब्दं चिक्रीड्य ततोस्यां कपिलं व्यधात् । Imp
स कर्दम तपोयोगात् साक्षान्नारायणो भवत् ।।
20.त्यक्त्वा विमानं भार्यां च कर्दमस्तपसे ययौ ।
औत्पत्तिब्रह्मचारी तु तस्मिन् बिन्दुसरस्तटे ।।
21.स्वमात्रे कपिलस्तत्वमुक्त्वामुक्तिं ददौ मुनिः ।
तत्तत्वं कपिलोपाख्यं कर्मग्रन्थिनिकृन्तनम् ।।
22.मरीचेः कश्यपो जज्ञे इह वैवस्वतान्तरे ।
पुनर्जातस्य दक्षस्य त्रयोदशसुतासु सः ।।
23.कश्यपाय प्रदत्तासु दित्यादित्यादिकासु च ।
पूर्वोक्तास्तनया आसन् पूर्वमन्वन्तरेषु सः ।।
24.कश्यपो नाम भेदेषु मरीचेस्तनयो भवत् ।
अन्यस्यामपि भार्यायां दक्षजाः षष्ठिकन्यकाः ।।
25.प्रतिमन्वन्तेरेष्वासुः कश्यपाय त्रयोदश ।
दत्तास्यासुर्नामभेदेन ता जाताः सुरासुराः ।।
26.पूर्वोक्ता नामभेदेन स्वस्वव्यापारसाधकाः ।
अस्मिन् कश्यपनामासीद्भार्यापुत्रादयोधुना ।।
27.प्रोक्तव्यापारनामानः पूर्ववद्भावि कालके ।
स तात्विक ऋषिप्रोक्तपुष्कराच्च शतावराः ।।
28.अजास्य दक्षतनयाः पूर्वमन्वन्तरेषु च ।
सप्तविंशति संख्याकाः इन्दोर्भार्या बभूविरे ।।
29.अश्विन्याद्यास्तारकास्ते कालचक्रप्रवर्तकाः ।
सरोहिण्यां पक्षपातादन्यासु विपरीतदृक् ।।
30.दक्षशापादसन्तानाः सर्वमन्वन्तरेष्वपि ।
भूताङ्गिरकृशाश्वेभ्यो द्वे द्वे दत्ते च भानुजाः ।।
31.भानुनां नक्षत्राणां मनुजः——— ।
दत्ताश्चतश्रो दक्षाय दशधर्माय तासु वै ।। *
32.बभूवुस्तनयाः प्रायो ज्ञानभक्त्यादिमानिनः ।
अत्रिनेत्रोद्भवश्चन्द्रः सर्वमन्वन्तरेष्वपि ।।
33.वृक्षाणामौषधीनां च नक्षत्राणां च वल्लभः ।
निशाकरो हिमकरस्तपहृत् सुखदस्सदा(कृत्सदा) ।। (निराशकरो?)
34.अमृतांशोसदन्नेशो ह्यब्दिजः श्रीसहोदरः ।
एधमान कलानाथः शशाङ्को लोकबान्धवः ।।
35.अनसूयासुतावत्रे दत्तदूर्वाससावुभौ ।
योगप्रवर्तको योगाद्ब्रह्मण्यौ ब्रह्मचारिणौ ।।
36.दत्तो नारायणस्साक्षात् दूर्वासाः शङ्करांशकः ।
संचण्डकोपः पृथया पूजितो मनुमादिशत् ।।
37.तेनैव कर्णधर्मादीन् त्रीनसूत सुपूजिता ।
सोम्बरीषादल्पशिष्टद्वादश्यां भोजनेर्थितः ।। Imp
38.ओमित्युक्त्वा तु कालिन्द्यां मग्नो नागाच्चिरं नृपः ।
विप्राज्ञयाम्भसा चक्रे पारणं साधनेच्छया ।।
39.तज्ञात्वाथादिशत्कृत्यं राज्ञे सोप्यस्मरद्हरिम् ।
पूर्वमाप्तं हरेश्चक्रं कृत्यां हत्वा विभीषयत् ।।
40.स ऋषिः सर्वलोकेशैः विष्णुना च निराकृतः ।
अम्बरीशं प्राप्य तेन मोचितो भोजितोभ्यगात् ।।
41.स दूर्वासाः रामकृष्णौ प्राप्य कृष्णामयाचत ।
सद्योन्नं दीयतामह्यम् इति तैस्तुष्ट आव्रजत् ।।
42.श्रद्धयामङ्गिराः प्राप गुरुमग्निमुचथ्यकम् ।
संवर्तकाग्नितनयाः प्रागुक्ताश्च गुरोरभूत् ।।
43.भूमावुचथ्यभार्यायाम् अन्तर्वर्तिरिरंसतः ।
गर्भस्थदीर्घतपसः पादाच्छन्नेभगे भुवि ।।
44.पतिताद्रेतसो जातो मुनिः परमधार्मिकः ।
भरद्वाजो मरुद्भिः स पालितोभूत् पुरा किल ।।
45.वैवस्वतेन्तरे चन्द्रवंशे भरतनामके ।
निःसन्ताने सति तदा मरुतस्तस्य तं ददुः ।।
46.स उदूसत्प्रचुतुत्वंतुमुत्थाप्य च विसृज्यतान् ।
पुनस्तपोचरद्धीर्घकालं भरतवंशजे ।।
47.शन्तनौ श्याशितजगद्गङ्गायां चरतस्तपः ।
भरद्वाजस्कन्नमूर्वशी दर्शनादनु ।।
48.रेतो दधार द्रोणी(णे) सः तस्माद्रोणो भवद्गुरुः ।
तस्मात् कृपी शङ्करांशमश्वत्थामा समाप हि ।।
49.बृहस्पतेस्तु ताराभ्यां कच आसीत् सुतः पुरा ।
वैवस्वतेन्तरे सोभूच्छुक्रशिष्यः तपोनिधिः ।।
50.निषिद्धा तेन सा विद्या नस्यात्त इति शासयत् ।
कामातुरापतिर्मास्तु तानि वेत्य(त्थ?) शपन्मुनिः ।। *
51.मृतसञ्जीविनीमाप तेनयातास्ततः क्वचित् ।
देवयानीं गुरुसुतां वने तद्योगमैच्छत ।।
52.सह विध्य(द्य?)स्तु शिष्येतो भर्तातेस्तु द्विजेतरः । *
इत्याहातो कविप्रोक्तशिष्येष्वप्यधिकं भवेत् ।।
53.देवया(धा)नी हृदे पुत्र्याराज्ञावेदषयघर्षणः । *
निक्षिप्ता शुक्रशिष्यस्य तयाम्बुक्रीडनेतरा ।।
54.स्ववस्त्रधारणादात्मक्षिप्तया दुःखिताभवत् ।
ह्रदेऽव सद्देवयानी राजकन्याहृताम्बरा ।।
55.गतायां राजनन्दिन्यां पुरतः समुपागतः ।
ययातिश्चन्द्रवंशोत्थो मृगयार्थं तदाचरत् ।।
56.तां विवस्त्रां समुधृत्य स्वोत्तरीयं ददौ नृपः ।
तं धृत्वा सा गृहं प्रापराजागात् स्वपुरं तदा ।।
57.तदर्थं कुपितं शुक्रं राजानत्वा प्रसाद्य च ।
गुरोः सुतायै स्वसुतां दासीत्वेऽकल्पयन्नृपः ।।
58.शुक्रो ययाति नृपतेः कन्यां स्वां प्रददौ मुदा ।
दास्या शर्मिष्टया युक्तां दासी राज्ञे भवेत् सती ।।
59.यदुःसुतो देवयान्यां तद्वंशः कृतवीर्यजः ।
अर्जुनो यो दशग्रीवं निगृह्य पुनराप तत् ।।
60.हृतो दत्तावितोबाहुसहस्रयुगपि स्फुटम् ।
तद्वंशजाप्सरसुताद्वसुदेवादभूद्हरिः ।।
।। इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे षष्ठोऽध्यायः ।।