चतुर्थोध्यायः
।। अथ चतुर्थोऽध्यायः ।।
।। श्रीहंस उवाच ।।
1.साङ्गज्ञानात्मकतनुमनन्तगुणपूरितम् ।
साङ्गासद्भीषयन्त्वीशं वेद्यैः शास्त्रैर्निरूपितम् ।।
2.अनन्तनामरूपाढ्यं स्व स्व योग्यफलप्रदम् ।
विचारितमुपास्यं च रमा ब्रह्मादिभिः सदा ।।
3.स्वभिन्नस्वावरानन्तमुक्तामुक्ताणुजीवकैः ।
सेवितं श्रीपतिं व्याप्तं चेतनाचेतनस्य तु ।।
4.सत्यस्य सृष्टिकर्तारं हरिं दुःखादि भोगिनम् ।
जानन्ति तस्य चाज्ञानं क्वचित् क्वापि न युज्यते ।।
5.मिथ्याभूताज्ञानमस्तीत्यत्र मानं न विद्यते ।
अज्ञाना भवितास्तष्ठोपाधिर्निवह युज्यते ।।
6.सिद्धौ ज्ञाने तु तज्जोपाधिः सिद्धै तदन्वये ।
सर्वस्याज्ञानयोगस्तदभावात्तदेवन ।।
7.अज्ञानाभावतोज्ञासी अधिकाधि न विद्यते ।
अज्ञानाभावतस्तन्निवृत्तिरूपं न हि क्वचित् ।।
8.अज्ञानकल्पितं शास्त्रं नैवाज्ञाननिकृन्तनम् ।
इति हेयं तन्मतं हि बद्धस्येशो विमुक्तिदः ।।
9.विश्वं सत्यं नैव मिथ्या न बाध्यं सत्यकारणम् । Imp
प्रत्यक्षादिप्रमाण्यैस्तु सिद्धं नारोपितं जगत् ।।
10.नार्थक्रियाकारि शुक्तौ प्रतीतं रजतं जगत् ।
अर्थक्रियाकारि तेन तद्दृष्टान्तो न युज्यते ।।
11.दृष्टान्तरहितो यत्तु जगन्मिथ्यात्वकारणम् ।
न भवेत् तन्मते ब्रह्म दृश्यत्वाच्च तथा भवेत् ।।
12.मिताकाशादि वेदोक्तं विष्णुनेति नतन्मृषा ।
न च न्यायोक्तमिथ्यात्वे मानं तन्मतापि न ।।
13.श्रुतिर्नित्याऽपौरुषेया दुर्वाक्यैर्न च दूष्यते ।
इति ज्ञात्वा विधिर्विष्णोर्माहात्म्यं ज्ञानबोधयत् ।।
14.सत्याशेषजगन्नाथः सत्यसत्साधनेन च ।
सत्यैर्जीवैस्सदोपास्यः सत्यसत्यविमुक्तिदः ।।
15.इति मेरुस्थितो ब्रह्मा निशान्ते यज्ञमीश्वरम् ।
अभिषिच्य सपत्नीकं सर्गे सम्पार्थ्य योजयत् ।।
16.अपीपलद्हरिः स्वर्गं सर्वदेवगणेडितः ।
ततः स्वायंभुवमनुं शतरूपा समन्वितम् ।।
17.अभिषिच्य विधिर्भूमौ बर्हिष्मत्यामवासयत् ।
भावीनश्च पदस्थाश्च उपदेवाः सहस्रशः ।।
18.मनुं पर्यचरन् प्रीत्या ते निरंशास्ततो भवन् ।
विधिस्ततो मय(सू)सुतमन(त)वेधाद्वलाह्वयम् ।।
19.स तु षण्णवती (प्रा)मायाः स्वविजृम्भणतोसृजत् ।
स्वैरिण्यश्चैव कामिन्यः पुंश्चल्य इति त्रिधा ।।
20.तज्जाताभिसमुद्भूताः भोगिन्यो बहुशो मताः ।
कृत्वाकाम्यं भारतेस्मिन् मर्त्याधम पुरोगमाः ।।
21.अधो लोकेषु विहरः एताभिः सह दुर्मदाः ।
अनेकाः दानवोपेताः बलस्तदधिनायकः ।।
22.तदधस्ताच्च वितले त्रिवृद्भूतगणावृतः ।
कैश्चिद्रक्षौ (गु)गणैर्युक्ताः भ(वा)वन्त्यास्ते भवः किल ।।
23.तया सदा रमति सः तद्वीर्याद्हाटकादिभिः । &
नदी तदन्तगा तत्र शुष्मत्यप्यग्निवायुभिः ।।
24.यन्नदीवारिपानेन अधोलोकेषु संस्थिताः ।
मदोद्धता नरानार्यः क्रीडन्ति सुचिरं सदा ।।
25.तदधस्ताच्च सुतले प्रतिमन्वन्तरेष्वपि ।
नामरूपविभेदेन प्रह्लादः सानुगोऽवसत् ।।
26.वैवस्वतान्तरे विष्णोर्वामनाय पदत्रयम् । Imp
याचमानाय पुत्राय कश्यपस्य महात्मनः ।।
27.बलिर्विरोचनसुतो ददौ लोकत्रयं विभुः ।
सोपीन्द्राय पदस्थाय तस्मादादाय दत्तवान् ।।
28.लोकत्रयं हि देवानामनुजो वटुरूपदृक् ।
पयोव्रतप्रभावेन्यैवाविर्भूतः स कश्यपात् ।।
29.इन्द्र प्रवासतः खिन्नमातृतुष्ट्यै जगत्पतिः ।
बलिं विरोचनसुतं महाभागवतोत्तमम् ।।
30.स्थापयामास तल्लोके स्वयं तद्वारपालकः ।
बभूव वामनः सर्वे स्वरूपामरसेवितः ।।
31.तस्य त्रिकोटिलोमभ्यो वायुस्तावत्स्वरूपकः ।
वाण्या तावद्रूपवत्या वामनस्यार्चको(का) भवत् ।।
32.विन्ध्यावली पतिस्तत्र बलिस्तिष्ठति सानुगः ।
तदधस्त(त्प्रि)न्मयो विष्णुः भक्तोप्यखिलदानवैः ।।
33.अर्थितो दानवकुले जातस्तक्षा भवत्पुरा ।।
तल्लोकपः सदैत्यानां त्रिपुराणि व्यचीक्लपत् ।। *
34.अभेदाभेद्यरूपाणि स्वर्णरौप्यायसानि च ।
स निर्ममे पुरास्तिस्रः स्वर्णरौप्यायसीमयः ।।
35.कामया तेषु तेष्वेते संस्थिता त्रिपुरौकसः ।
विहारान्तरे ह्यस्मिन् सर्वान् जन्तूनपीडयन् ।।
36.सुरास्तत्पीडया रुद्रशरणं ययुरूर्जिताः ।
रुद्रः पृथ्वीरथं कृत्वा रथाङ्गं शशिभस्करौ ।।
37.देवान् कृत्वा हयानब्जभवं कृत्वैव सारथिम् ।
शेषं मौर्व्यां विधायेशो पतत्रं(तं) च खगेश्वरम् ।।
38.कृत्वा विष्णुं बाणरूपं स्वयमेकक्षणे हरः ।
त्रिपुराणि ददाहेशः सर्वलोकस्य शङ्करः ।।
39.त्रिपुरासुरपुत्राद्यैः सहा वसति तत्र हि ।
वैवस्वतेन्तरे दक्षपत्न्याः कश्यपभार्यकाः ।।
40.त्रयोदशासं(शाः)स्तपसा तासु पुत्रानवाप सः ।
विवस्वान् शक्रवरुणमित्राः पूषार्यमाभगः ।।
41.सविता त्वष्ट्रृपर्जन्यो धातायां वामनो वटुः ।
अदितेस्तनयादित्यां हिरण्याक्षहिरण्यकौ ।।
42.दनौ तु दानवा गावो महिष्यः सुरभीसुताः ।
तान्माया पक्षिणोरिष्टा यातुधानाश्च निर्ऋतिः ।।
43.इलायां भूसुरा आसन् श्वादयः परमासुताः ।
पोष्टाया चैव बेतालाः कार्द्रवेया महाहयः ।।
44.एतन्मन्वन्तरे षष्ठिसहस्राणि भुजङ्गमाः ।
कर्द्रुजास्तेषु केचित्तु तात्विकाः शेषसेवकाः ।।
45.अपरे कर्मजाजान स्तुल्यास्तत्पुत्रपौत्रकाः ।
सस्त्रीका मणिभूधन्याः महातल निवासिनः ।।
46.महाविषाः महाघो(धा)राः कामरूपधराः खलाः ।
सरस्वत्यां सपत्नीकः कश्यपस्तप आचरत् ।।
47.तस्या विदूरे पत्नीनां भवनानि व्यचीक्लृपत् । *
उपयुक्तनतद्युक्तं तद्भृत्यास्तेषु चावसन् ।।
48.कदाचिद्महिमवत्पार्श्वं वियाहि(विपाहि)पति मातरौ ।
गत्वा दृष्ट्वोच्चैश्रवसं नीलवालमहीप्रसूः ।।
49.प्राहस्वच्छन्द विनताकद्रुते वचनं यदि ।
सत्यं दासी तवाहंस्यामन्यथात्वं ममेति च ।।
50.अद्या सरात्रिश्च प्रातरिति ते गृहमीयतुः ।
तद्बालनैल्यवर्ण्ये तु सुतानाह च साधवः ।।
51.नैश्चन्तानलपद्वैह्वौ कालान्ना शोभवेत्तव ।
क्रूराहयास्तथाकृत्वा ता चक्रुर्मातृ किं करीम् ।।
52.शप्ताहयः शेषवाक्यात्स्वरुच्या(त्स्वस्त्र्याक्ष)क्षममात्मनः ।
ज्ञात्वा ददुर्जरत्कारोः सनाम्नीं भगिनीं मुनेः ।।
53.स विरक्तोपि सन्तप्तैः निराश्यैर्नरकास्थितैः ।
पितृभिः प्रार्थितो गृह्णंस्तद्गर्भे त्वास्तिकं व्यधात् ।।
54.तां त्यक्तुमूरौ सुष्टाप सा सन्ध्यार्थेव्यबोधयत् ।
निद्राभङ्गकरा गच्छेत्याहु तत्याज तां मुनिः ।। *
55.साग्रजं प्राप्य सुषुवे शिखायज्ञोपवीतिनम् ।
स आपदि स्मृतो यामीत्युक्तोगान्मातुलं प्रति ।।
56.नैमिशं वासुकिः प्राप्य सुधाममृतमन्थने(ते) ।
शप्ता हीना तात्विकानो तेनात्यन्विप सम्मताः ।।
57.तक्षकः शृङ्गिशापेन व्यदशच्च परीक्षितम् ।
शशास पृथिवीं तस्य सुतः स जनमेजयः ।।
58.तदोदंको गालवस्य शिष्यः सेवा सुखात्मनः ।
दक्षिणामपि दास्यामीत्युक्तः स कुपितोऽदिशत् ।।
59.असाध्य पौष्यभार्यायाः राज्ञा देहि सुकुण्डले ।
इत्युक्तोगात् पुरं तस्य मार्गे गोमयभक्षणम् ।।
60.कृत्वाऽनाचाम्य राजानं दृष्ट्वा याचत्स्व भामिनीम् ।
याचयेत्याह तां गेहे हेनायस्य शप्तुमारभत् ।।
61.नृपं न शप मां ब्रह्मन् शुद्धः पश्यसि भामिनीम् ।
तत आचम्य गत्वा तां दृष्ट्वा तां प्राप सङ्कुण्डले ।।
62.साह पूर्वे तक्षकायेमादामाया च तेपि च ।
पतिव्रतानसंदृश्या(धृष्या)हन्तु(न्तुं)शक्रोहमादृ(गमद्रृ)तम् ।।
63.यतो भवेति तं प्राहगुरुभक्तं न मा स्पृशेत् ।
इत्युक्तौ याचितः पौष्याद्भुंजन् श्राद्धान्नगं कचम् ।।
64.दृष्ट्वा शत्भवान्ध(शपद्भान्ध)वस्त्वम् इति सोप्यशपन् मुनिम् ।
अपत्नी कोसीति राज्ये लोकस्यान्धोपि पश्यसि ।।
65.इति दत्वा वरं विप्रो ययौ मार्गेथ तक्षकः ।
शिष्यो भूत्वा ग्रन्थिवाहः सोविशच्च रसातलम् ।।
66.मुनिश्च योगसामर्थ्यात्तत्रागान्नागमायया ।
अधोस्तुवधि(वेश्चि)वन्तस्य गोमूत्रं नेत्रयोर्व्यधात् ।।
67.ततो पश्यन्नागराजो भियादात् कुण्डलद्वयम् ।
तदादाय गुरोर्दत्वा क्रुद्धोगाज्जनमेजयम् ।।
68.तं प्राहत्वं वृथाजातो पितृमृत्युं न चावधीः ।
अहं मन्त्रप्रवक्तास्मि सम्भारान् छटयाश्चलम् ।।
69.विना शेषं सर्वलोकान् निर्भुजंगान् करोम्यहम् ।
इत्युक्त्वा सर्पयागेन भुजङ्गान् शतकोटिशः ।।
70.व्यहनच्छक्रमगमंस्तक्षकाद्या नचापतन् ।
ततो ऋषिः सहेन्द्रोत्र तक्षकः पततामिति ।।
71.तक्षकायसहेन्द्राय स्वाहेत्यजुहदाहुतिम् । Imp
तदाकम्पत्स्वराण्णागाः अस्मरन्नास्तिकं मुनिम् ।।
72.सोभीत्या पूजितो राज्ञा ह्युदकेनापि चास्तिकः ।
स्वाभिप्रेतं तदोदकमाया च जनमेजयम् ।।
73.दास्येर्थितमिति प्रोक्ते देहि मातुलजीवनम् ।
इति तक्षकपूर्वान् सः कालमृत्योर्व्यमूमुचत् ।।
74.साचोदकं समाधा(ध्या)य तक्षकादीन् वधोर्व्यधात् ।
यज्ञप्राप्य फलं राज्ञे दत्वा सर्पान् अथाशपत् ।।
75.अनागसं मादशध्वं नागसंस्मरणान् मम ।
अन्यथा वः शिरः शीर्णं भवेदिति ययौ मुनिः ।।
76.विनता सेवयाखिन्ना गर्भं गर्भिण्यताडयत् ।
उरुपृष्ठेपुराजातानूरुपादविवर्जितान् ।।
77.स्वाशक्तिं कालतो दास्य प्राज्ञांरभगर्भविपम् ।
प्रोक्त्वा मातुर्ययौ यान्ता सूर्यस्यासरथस्थितः ।।
78.सौदामिन्यां सुतौ तस्य द्वौ सम्पातिजटायुषौ ।
कालेन गरुडो जातो विष्णोर्वाहो बभूव ह ।।
79.पितुर्वाक्याद्बलप्राप्त्यै बभक्ष गजकच्छपौ ।
गन्धमादनगो पूर्वं गन्धर्वौ शापसम्भवौ ।।
80.कद्रूतमाहात्मसुतान् प्रति पीयूषदोसिचेत् ।
दास्यान्मोक्षे मातरं च इत्येपास्तु न चाधिकम् ।।
81.इत्युक्तोऽमृतमादाय प्रादात्तर्गाद्व्यमोचयत् ।
दास्यात् स्वमातरं स्वर्गगतवच्चं सुरेश्वराः ।।
82.प्राक्षिपतृणवतं च विधूय च सुधां पुनः ।
शक्रोयदाप च स्वर्गं(शक्रायदादापसख्य) तस्य कर्द्रुमथावदत् ।। *
83.कुतोमृतं हृतमिति पृष्टे हि विनतासुतः ।
माता त्वया वञ्चिता मे मया त्वं तेन वञ्चितः ।।
84.देहीत्युक्ता सुधां पाययेति नोक्तमतो(हृ)धृतम् ।
तदादि गरुडः सर्पान् वञ्चकान् हन्तुमारभत् ।।
85.कर्दुर्हिस्वोत्तमाद्रोहात् पुत्रशोकातुराभवत् ।
वञ्चकास्ते पतन् यज्ञे तदन्ये गरुडाशिनः ।।
86.तदुत्थितास्तस्य करं दत्वा जीवन्ति कृत्स्नशः ।
कोवा निरागसानुसर्धूगृध्यजीवितुमुत्सहे ।।
87.इहामुत्रापि दुःखं ते योग्या अपि भवन्ति हि । *
किमयोग्या राक्षसास्तु विशन्ति तम ऊर्जितम् ।।
88.एवं शेषस्य सामीप्यसेवायामृतपानतः ।
सख्यात् गरुत्मतः श्रीशभक्तितो गुरुभक्तितः ।।
89.निष्कापट्यादास्तिकस्य वरतः शक्रदासतः ।
मातुः शापं तृणीकृत्य सुखमापुः स पन्नगाः ।।
90.किमलभ्यं जगत्यस्ति विष्णुवैष्णवसेवया । Imp
महातले तु(कु) सर्पाणां स्थानं विपति बिभ्रतम् ।।
91.शिवस्य वरतोन्येषु चरन्तो यान्ति दु(र्ग)र्मतिः ।।
।। इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे चतुर्थोऽध्यायः ।।
।।