द्वितीयोध्यायः
।। अथ द्वितीयोऽध्यायः ।।
।। श्रीहंसः ।।
1.चक्रेस्थूलशरीराणि यद्धेशेस्थाप्ययान्विराट् ।
तेषां तदुपयुक्तार्थान् जडानि विविधानि च ।।
2.सर्वस्थूलशरीराणि उपादानान्यजः स्वयम् ।
विराट्दत्तानि सङ्गृह्य क्रमात् कालानुसारतः ।।
3.तत्तद्गुणक्रियाजातिरूपलक्षणसम्पदः ।
व्यवहाराश्रयाचारवेषभाषास्वरूपकान् ।।
4.दानमाना(न्नपानार्ह)शनायाशनार्हपूर्वानन्तार्थसञ्चयान् ।
चतुर्लक्षाधीकाशीतिलक्षजीवगुणोचितान् ।।
5.विराडुक्तान् विराड्डन्तान् स्तद्भावज्ञस्तथाकरोत् ।
यथोत्तरत्र स्थूलोपि न दृष्टस्तेन तच्छ्रुतम् ।।
6.तत्पूर्वं पद्मनाभोत्थ त्रिविक्रमपदाम्बुजात् ।
दक्षिणाद्युधृता गङ्गा तस्याङ्गुष्ठनखाग्रतः ।।
7.विशीर्णाजाण्डमध्योर्ध्वरन्ध्रात् क्ष्मावरुणोर्ध्वगम् ।
अम्भः प्रागग्नितत्वस्था(स्थं) प्राकृतांघ्रभिरक्षितम् ।।
8.विष्णोः पादात् समुद्भूतं तद्वार्याण्डान्तराविशत् ।
(ए)तत्मण्डुलुगं कृत्वा ब्रह्मा विष्ण्वङ्घ्रिमज्जनम् ।।
9.चकार तेन तद्वारि गङ्गाख्या सुसरद्वरा ।
अतो विष्ण्वङ्घ्रिजां ब्रह्मकमण्डलुसमुद्भवम् ।।
10.वदन्ति सा सुषुम्ना हि ब्रह्माण्डव्यापिनो हरेः ।
निशायाः पञ्चमांशे तु ब्रह्मेशाद्याखिलामरान् ।।
11.सृष्ट्वा वैकुण्ठलोकस्थदुर्गाभागगतान् व्यधात् ।
सेवार्थं तद्गतानन्तरूपस्य श्रीहरेः श्रियः ।।
12.तेषामुचितविज्ञानं हरेः सेवाम् उपादिशत् ।
षष्टमांशे निशायाश्च पुनः सर्वान् सुरोत्तमान् ।।
13.अजो सृजत्स्वसेवार्थं तांश्च(ते च) पूर्वोक्तरीतितः ।
सप्तप्राकार(के)गान् सप्तलोकेशं तोषयत्यलम् ।।
14.तावत्सत्याधस्थलस्पृग्वार्यण्डपरिपूरितम् ।
महोग्रवायुना शुष्यन् महर्लोकादधोविशत् ।।
15.सप्तमांशे निशीथिन्याः पुनर्देवानजोसृजत् ।
तेषु प्रधानान् सर्वान् मनसो देहतोऽसृजत् ।।
16.तेषु प्रधानान् शेषादीं तपोलोकेव्यधादजः ।
तत्र लोकपतिः साक्षात् सङ्कर्षणमनामयम् ।।
17.आराधयतोऽन्य सुरान् मनसा देहतो सृजत् ।
इन्द्रकामौ जनोलोके तृतीयोतावजो व्यधात् ।।
18.प्रद्युम्नन्तावभजतां सृष्ट्वा तौ स्वावरामरान् ।
अनिरुद्धादिकान् धाता महर्लोकगतान् व्यधात् ।।
19.अनिरुद्धं भजन्तस्तेवृसृजन् स्वावरामरान् ।
अष्टमांशेत्रियामाया सनकादीन् पितामहः ।।
20.सृष्ट्वा सृष्ट्वैतन्नियुक्तास्तदाज्ञानाचरन् द्रुतम् ।
ततः प्रकुपिताद्धातुः रुद्रो एकादशात्मकः ।।
21.जातोभूत्सपत्नी(क्षी)कः ससृष्ट्यर्थमजोदितः ।
तपस्तप्त्वाथकालेन पीते स्वर्गान्तवारिणी(णा) ।।
22.अजेनावाप्यसस्वर्गभूतान् प्रेतांश्च राक्षसान् ।
नन्दिनं मातृकास्सप्त पिशाचान् लोकभीकरान् ।।
23.भक्तान् सुरांशानपि दुर्भावयुक्तान् दिगम्बरान् ।
क्रूरसृष्टिं ततो ज्ञात्वा ब्रह्मा तं प्रत्यषेधत ।।
24.ततोजः स्वाकं देशेन नारदं त्वसृजदृषीम् ।
दक्षं दक्षाङ्गुष्टतोजस्तन्वा भृगुमचीक्लृपत् ।।
25.मरीचीं मनसा नेत्रेणात्रिमाङ्गिरसं मुखात् ।
कर्णरन्ध्रात् पुलस्त्यं च पुलहं नाभिदेशतः ।।
26.करात् क्रतुं वसिष्ठं च प्राणात् कामाच्चगाधिजम् ।
छायया कर्दमं बुध्यारुचिं व्यजनयद्विभुः ।।
27.ऋगादि देवान् पद्मोत्थः पूर्वाद्यास्यैः क्रमाद्व्यधात् ।
भारतं पञ्चरात्राणि पुराणानि स्मृतिस्तथा ।। V.Imp
28.पूर्वादिभिर्व्यधादास्यैस्तथा वर्णाश्रमादिकान् ।
भृगुं मनुं बुधशनी चतुर्वर्णप्रवर्तकान् ।।
29.चकार(रा) कालावयवान् दिशस्तदभिमानिनः ।
यज्ञान् हृदापुण्यधर्मो पृष्टेनाधर्मविस्तृतिम् ।।
30.तथा पञ्चवि(धा)ज्ञानं दुर्गां तदभिमानिनीम् ।
अहोरात्रे पक्षयोश्च लज्जां मूर्धोष्टतोसृजत् ।।
31.अधरोष्टात्ततो लोभं नाडिभ्यो व्यसृजन्नदीः ।
अस्थिभ्यः पर्वतान् कुक्षेः सर्वसागरमानिनः ।।
32.मेघान् केशैर्लोमजातैर्वृक्षा(श्चैव लतादिकान्)न् गुल्मान् लतान्वितान् ।
चतुर्लक्षाधिकाशीतिलक्षयोनिषु तात्विकान् ।।
33.दशसंख्यामितान् धाता व्यसृजच्चान्य चेतनान् ।
कर्मदेवादिकान् देवाः क्रमाज्जातास्तु कालतः ।।
34.शतं गन्धर्वाप्सरसां त्रिंशच्चारणरक्षसाम् ।
शतं सिद्धास्तथान्यासु सप्ततिस्सर्वजातिषु ।।
35.आजानजाः कुबेरोत्थास्तेभ्य एव निरंशकाः ।
देवदासा निरंशाश्च पद्मकल्पादनन्तरम् ।।
36.स्वयम्भुवेन्तरे भूमौ जाताः सर्वत्र सङ्गताः ।
क्षणदानवमे भागे महीदासहयाननौ ।। Imp
37.सनत्कुमारमछाख्यावादिशेतां मनुं विधेः ।
अवतीर्याखिलान् वेदान् सारं चैव(वेद सारं) पुराणकम् ।।
38.पञ्चरात्रं महाशास्त्रं श्रीमद्भागवतं शुभम् ।
दशमे तु निशाभागे पद्मनाभस्य कर्णयोः ।।
39.कल्पितात्तामसाद्भूरि कीकसादासतूरिपू ।
तदा कुसुमनाभस्य निशांशदशमे शुभे ।
40.कल्पितात्तमसाद्भूरि कीकसादासतूरिपू ।
मधुश्च कैटभश्चैव राक्षसौ दुर्मदोद्धतौ ।।
41.कदामेरुरूर्ध्वदेशस्थं पीत्वा तावज्जलं स्थितम् ।
रूपान्तरेणाब्जभवं प्राप्य युद्धाय राक्षसौ ।।
42.आह्वयामास तु ब्रह्मा तावाहाहं हि दुर्बलः ।
इत्युक्त्वा स हरिं दध्यौ हयग्रीवाह्वयं हरिः ।।
43.व्यक्तो भूद्ब्रह्महृदासताभ्यां चिरमयोधनम् ।
कृत्वा हत्वाच्छाद्यकुन्तं मेधसा मेदिनीं व्यधात् ।।
44.क्षणदैकादशांशे तु ब्रह्मा मेरुस्थितः स्वयम् ।
पिशाचान् दानवान् दैत्यान् निरंशान् सांशरूपकान् ।।
45.एतान् विष्णुद्विषो योग्यान् राक्षसांश्च कलिंस्तथा ।
व्यसृजत्तानधोलोकवासिनः कालतोकरोत् ।।
46.अजेयत्वमवध्यत्ववरं तेषामदाद्विधिः ।
कालेन भारते जन्म प्रतिमन्वन्तरेष्वपि ।।
47.यथायोग्यं जन्मलब्ध्वा तपस्तप्त्वा शिवाद्वरम् ।
प्राप्य विप्रार्यगुर्वादिगोसुरद्वेषिणः सदा ।।
48.भविष्यथेति तेषां तु वरं प्रादादथाब्जजः ।
परशुक्लत्रयं हित्वा छिन्नभागवतेष्वलम् ।। *
49.प्रविश्य बुद्धिव्यामोहं कल्पयित्वा क्वचित् क्वचित् ।
योग्यतातिक्रमोद्भूतपुण्यं नाशयथेति च ।।
50.शरीरतत्वोपादानस्थितसर्वोत्तमान् सुरान् ।
सर्वे(र्व)तत्त्वो(त्वा)पचयगा भवन्तो भीषयन्त्यथ ।।
51.पापदुःखादि सम्बन्धो भवतां च भवेदिति ।
विष्णुविस्मृतियुक्तानां शरीरेषु सातामपि ।।
52.असतां मिश्रबुद्धीनाम् अभिमानित्वमस्तुवः ।
मिथ्याभिमानिनो दैत्याः देवास्तत्वाभिमानिनः ।।
53.सर्वतत्वेष्वथ कलिर्जीवमानी दुराग्रहात् ।
देहस्थ देवताः पू(र्ण)र्वपुण्य(भुजः)सौख्यभुजः क्रमात् ।।
54.पापदुःखभुजश्चान्ये देहमान्युभयात्मकाः ।
अन्तर्बहिस्थजीवानां किञ्चिदुःखं भवत्यपि ।।
55.दैत्यावेशान्न वायोर्हि दैत्यावेशः कदाचन ।
जीवमान्युत्तमो ब्रह्मा देहस्थो मध्यमः स्वयम् ।।
56.अधमस्तु कलिर्जीवमान्येव हि सुरासुराः ।
इति तत्वार्थवित्तेषां ब्रह्मादादुचितं वरम् ।।
57.शुद्धोदसागरबहिर्महर्लोके तदूर्ध्वतः ।
गर्भोदके तु(च) दैत्यानाम् आवेशो नास्ति सर्वथा ।।
58.एतदन्यत्र दैत्यानां स्थित्यै प्रादाद्वरं विभुः(धिः) ।
द्वादशांशे तु(स)तामस्याः ब्रह्माण्डस्थाम्बुनिर्गमे ।।
59.चिन्त्यतोजस्य वै घ्राणात् घ्रोणी रूपी बभूव ह ।
घ्रोणी रूपी वराहात्मा हरिस्त्ववततार च ।।
60.स तु श्वेतवराहाख्यः ब्रह्मणा सं(यु)स्तुतोऽसृजत् ।
यज्ञाभिमानिनो यज्ञान् मन्त्रतन्त्रार्त्विगोषधीः ।।
61.तिलदर्भाश्वपश्वाज्यहवींषिसमिधः क्रमात् ।
सत्राणि सोमसदनं रा(र)म्भभैश्यादिकान् व्यधात् ।।
62.युपाग्नीन् स्पृषदाज्यं च फलान्यप्यसृजत्किटिः ।
तदा हयग्रीवनामा राक्षसो घोरदर्शनः ।।
63.अजस्य मुख(ख्य)तोव्यक्तं गुरुं वेदाभिमानिनम् ।
निगृह्यागात्रदा वेदाः अपपाठतिरोहिताः ।।
64.तदा प्रार्थितो मच्छरूपी जलमुपाविशत् ।
हत्वा हयशिरस्कन्तं वेदानुद्धरदीश्वरः ।।
65.तदा धात्रार्थितश्चादिसूकरोण्डगतं जलम् ।
अशामयद्भुवमधोलोकांश्च विमलान् व्यधात् ।।
66.सूर्यादयो ग्रहाः सर्वे तदाद्याः सप्रकाशकाः ।
तदादि कल्पं तं प्राहुः वाराहमिति सज्जनाः ।।
67.रात्रौ त्रयोदशांशे तु पुरीं बर्हिष्मतीं व्यधात् ।
वराहात्माह्यादिमनोरावासार्थमशेषवित् ।।
68.तदैवाष्टस्वयंव्यक्ताः पुराणि विविधानि च ।
नद्यश्च देवखा(घा)ताश्च वनान्युपवनानि च ।।
69.तदा सर्वोपयुक्तानि सर्वत्र व्यसृजद्विधिः ।
चतुर्दशांशे रात्रेस्तु दिक्पालान् सर्वलोकगान् ।।
70.सर्वत्राज्ञापयद्धिक्षु विदिक्षु च यथाक्रमम् ।
तत्प्रागेव समुत्पन्ना ब्रह्मणा लोकपालकाः ।।
71.विराड्देहगतस्तुर्यो ह्यनिरुद्धा(क्षिगो विभुः)भिधो हरिः ।
अतलादिष्वयोग्यानां सूक्ष्माण्य(प्य)जमदर्शयत् ।।
72.(सं)स तान् पद्मजसम्भूतः(तो) मेरुमध्यस्थकञ्जजः ।
ऊर्ध्वमुधृत्य च स्थूलदेहयुक्तांश्चतान् पुनः ।।
73.तत्तल्लोकेषु संस्थाप्य मुख्यप्राणवशान् व्यधात् ।
तदा ब्रह्मवरोद्भूतो हिरण्याक्षो हि राक्षसः ।।
74.पञ्चभूतावरां भूमिं गृहीत्वाथ रसातलम् ।
विवेश तन्मोचनाय वराहात्माण्डजार्थितः ।।
75.रसातलं प्रविश्यैव मोचयित्वा भुवं त्वरन् ।
तं गदापाणिना(मा) क्रुद्धं प्रापयित्वैव भारत ।।
76.युध्वा स्वं दंष्ट्राग्रहतं कृत्वा तं नरके व्यधात् ।
ततो मेरुगतो धाता सव्यात्स्वायंभुवं व्यधात् ।।
77.देहापसव्यतस्तस्य शतरूपां सतीं व्यधात् ।
भुगुदक्षमरीच्यादीन् तपसे(स)मनुमादिमम् ।।
78.आहूयाजः प्राहसृष्टिं बृंहणाय सतां गतिः ।
शतरूपा पतिः प्राह तपस्तप्त्वा सुदारुणम् ।।
79.वराहोद्धारणाप्तश्च कियत्कालं विचक्षणः ।
वराद्धरेश्च स्त्रीपुंसो योगात्स्यैष्विविधीरिताम् ।।
80.स्त्रिपुंसयोगाद्भाव्यं च सृष्टिमेतां विधीरिताम् ।
सृत्वा तस्यामजनयत् पुत्रौ द्वौ लोकविश्रुतौ ।।
81.प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च सत्तमः ।
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ।।
82.तत्राद्यायामृचेर्जज्ञे यज्ञनामा रमापतिः ।
तेनैव सह सम्भूता दक्षिणा नामिका रमा ।।
83.अजावयोनिजौ द्वावप्राकृतदेहयुतौ परौ ।
पुत्रिकापुत्रधर्मेण यज्ञमात्मसुतं मनुः ।।
84.चकार दक्षिणा यज्ञे दक्षिणामानिनी च सा ।
तुषिता नाम तत्पुत्राः सम्बभूवुः सुरोत्तमाः ।।
85.तत्त्वाभिमानिनः(तैर्नीचातात्विकाः) सर्वे बभूवुः नवकोटयः ।
आकूतेर्देवहूतेश्च प्रसूतिरनुजातुया ।।
86.दक्षस्या ससती तस्मातस्यां षोडशकन्यकाः ।
अभवन्नर्कपुत्रस्य धर्मस्यैव त्रयोदश ।।
87.पुत्र्यस्त्वेकाग्नये दत्ता तस्यां त्रेता(तत्रा)ग्नयोभवन् ।
आह्वनीयोगर्हपत्यो दक्षिणाग्निरिति त्रयः ।।
88.तेषामेका दक्षसुता भार्या(दत्ता) तस्यां त्रिभिः क्रमात् ।
पृथक् पृथक् पञ्चदशपुत्रा अग्निस्वरूपकाः ।।
89.आसन्नाद्या यज्ञभुजो मध्यमा हव्यभोजिनः ।
अन्त्याः कव्यभुजः पूर्वै पञ्चाशत्संमिताग्नयः ।।
90.एकन्यूना दक्षसुता ज्येष्ठा दत्ता शिवस्य तु ।
धर्मान् वरूत्वती पुत्रान् पञ्चाशन्मरुतोऽसृजत् ।।
91.विश्वेदशासन् विश्वायां वसवौष्टौ वसूद्भवाः ।
रुद्रा असंस्मरुद्राण्यां भूतायां भूतना(य)मकाः ।।
92.उपदेवाश्च साध्यायाम् अन्यास्वपि च धर्मतः ।
उपदेवाश्च देवाश्च बभूवुर्हि बहुप्रजाः ।।
93.धर्मस्य ते पदस्थाश्च सर्वे(सर्ग)वासोचिता मताः ।
तदुत्थिताश्च भावीनाः प्रायशो ह्यपरोक्षिणः ।।
94.प्रागुक्तास्तात्विकाश्चैकरूपेण भुवि भारते ।
उषित्वा भाविसत्कर्मज्ञानभक्त्यादि काङ्क्षिणः ।।
95.शुभाशुभं च प्रारब्धं भोक्तुं योग्यास्ततो भवत् ।
ते च द्वीपाद्रि वर्षेषु भारते(ता)न्येषु सर्वशः ।।
96.सुप्रारब्ध्यैक भोगार्हाः धर्माधर्मोत्थसम्भवाः ।
आसन् देवाश्च पूर्वोक्ता ह्यपरोक्ष्य नपरोक्षिणः ।।
97.सत्साधनं भारतेस्मिन् कर्तुमर्हाः सुरोत्तमैः ।
(त्य)व्यक्तापरोक्षिभिर्जाताः सदैवासन् हरीच्छया ।।
98.प्रियव्रतोत्थानपादौ तयो(पो) निष्ठौ बभूवतुः ।
निशा चतुर्दशांशे तु सृष्टिरेषा सुमेरुगाः ।।
।। इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे द्वितीयोऽध्यायः ।।