01 प्रथमोध्यायः

प्रथमोऽध्यायः

।। द्वितीयपरिच्छेदः ।।
।। अथ प्रथमोऽध्यायः ।।
।। श्रीहंस उवाच ।।
1.कञ्जस्थितः स्वयं ब्रह्मा नापश्यत् सर्वगं हरिम् ।
यत्नवानपि तत्पूर्वमनसीत्थमचिन्तयत् ।।
2.भावरूपाज्ञानमानिन्यपि दुर्गाजगद्गुरोः ।
नित्यानुग्रहपात्रत्वात् पुत्र(उच्च)त्वाच्च रमा मम ।।
3.स्वोपासनारतत्वाच्च नाज्ञानं भावरूपकम् ।
इच्छतिस्म सलिङ्गस्यानाद्यविद्यायुतस्य च ।।
4.स्वकीयस्येन्दिरेषन्मे ह्यभिप्रायं शिवादयः ।
अविदित्वान्यथाब्रूयुः दुर्गाज्ञानप्रदैव सा ।।
5.न समर्थाज्ञानदाने विधेरित्यसुराश्रयाः ।
इत्यज्ञावाक्यैर्मा(तुर्मेऽयशसः कारणं वचः।।)मेह्ययशः कारणं न च ।।
6.तत्राहं सम्मतो मातुः कीर्त्यर्थं प्रार्थयामि ताम् ।
दुर्गामिति तथा चक्रे तेनादात्सस्य संशयम् ।।
7.दत्वाज्ञानं क्षणार्धन्तु स्वभर्तुर्भक्तिमातनोत् ।
भयशोकौ च तेनासावज्ञोभीतो बभूव हा ।।
8.तदज्ञनं भावरूपं चतुर्वारं हरेर्भयम् ।
शोको द्विवारं रमया प्रार्थितो जगदीश्वरः ।।
9.ददावलोचनाभाव दशायां नियमः कृतः ।
वृत्यज्ञानस्य बहुशः सम्भवाद्ब्रह्मणोपि तु ।। V.Imp
10.संख्याविशेषस्योक्तत्वात् भावाज्ञानं वदन्ति तत् ।
ततस्त्वित्थं संशयोभूत् त्रिवारं पद्मजन्मनः ।।
11.स्वतः पद्ममिदं जातं किंपुंसान्येन केनचित् ।
इति सञ्चिन्त्य पुंस्यैव जातं नैव जडस्य तत् ।।
12.स्वतः प्रवृत्तिर्घटते ज्ञानेच्छादेरभावतः ।
अहं पद्मेन वा जातः मत्सृष्टिः पुरुषेण वा ।।
13.इति संश्चित्य मत्सृष्टिः पुरुषेणै नो वा ।
इति निश्चित्य स पुमान् स्वतन्त्रो वास्वतन्त्रकः ।।
14.इति सञ्चिन्त्यास्वतन्त्रः कथं मां स्रष्टुमर्हति ।
तस्मात् स्वतन्त्राज्जातोहं तं पस्यां पुनरुत्थितः (पश्येयं)।।
15.इति नालं प्रविश्यान्तः नापश्यत् पुनरुत्थितः ।
कञ्जस्थ आस तज्ज्ञानं विपरीतमजस्य हि ।।
16.बहिर्नदृष्टः स कथमन्तर्दृष्टि प(क)थं व्रजेत् ।
ततः प्रचण्डवातोत्थाद्भूमिर्मज्जलकम्पितात् ।।
17.पद्मात् पतन्निव महाभयग्रस्थो बभूव ह ।
तदा क्षणार्धं शोकोभूद्ब्रह्मणः परमेष्ठिनः ।।
18.सृष्ट्वा कालं महाकालं मानिनं विधिमातनोत् ।
कालावासाने त्वासन्ने तङ्ग्रनिष्यति चाददत् ।।
19.आस्यं नृसिह्मस्तु तदा भयशोकान्वितो भवत् ।
अत्रैव तत्कारणेन भावाज्ञानयुतो भवेत् ।।
20.नान्यत्र दुःखाज्ञानाद्यं य(म)दुक्तं तन्मृषैव हि ।
ततस्तपतप इति विष्णोरेव वचो श्रृणोत् ।।
21.ततो ध्यानं जगद्धातुः कृत्वा पश्यत् ससर्वगम् ।
ब्रह्मा ददर्श वैकुण्ठं हरेर्लोकं महाद्भुतम् ।।
22.पूर्वोक्ताशेषसुमहाविशेषार्थगुणोन्नतम् ।
दृष्ट्वा तुष्टाव नत्वेशं कृतार्थोभूत् सकंजजः ।।
23.सर्वाधिपत्यं तस्यादात् सर्वज्ञत्वं विकुण्ठपः ।
तद्वशोभूत् स्वतन्त्रोपि भगवान् भक्तवत्सलः ।।
24.द्विसप्तमनुभोगार्हकालं धातुरहो व्यधात् ।
यथा तथा रात्रिकालं व्यभजद्भगवान् विभुः ।।
25.तत्राद्यरात्रिभागे तु साङ्गंब्रह्माण्डमातनोत् ।
तत्राण्डनामको विष्णुः प्रविश्यान्तः समेधयत् ।।
26.रात्रिद्वितीयभागे तु पद्मनाभस्य नाभितः ।
संसृष्टस्यान्यभागेन लोकपद्मं व्यधाद्धरिः ।।
27.पद्माग्रगं च ब्रह्माणं तदज्ञानभयादिकम् ।
तच्छान्तिं तस्य तद्भक्त्युद्रेकं तस्य तपस्थितिम् ।।
28.तस्मिन्पूर्णानुग्रहं च कृतवान् हरिरूर्जितम् ।
रात्रि तृतीयभागे तु वैकुण्ठमतिसुन्दरम् ।।
29.ससर्ज तल्लोकपतिरजस्यादर्शयद्धरिः ।
स दृष्ट्वा तं विदध्यौ मुक्तामुक्तेश्वरं हरिम् ।।
30.चतुर्थांशे निशायांश्च विराट्सृष्टिं ददर्श ह ।
दृष्ट्वा द्विसप्तलोकेषु विराट्देहस्थितान् सुरान् ।।
31.सूक्ष्मदेहस्थान् पूर्वमनिरूद्धात् ससूक्ष्मकान् ।
तथाजस्तत्र तत्रैव स्थूलदेहयुतान् व्यधात् ।।
32.अण्डनिर्माणकाले तु ह्यसंसृष्टानि सर्वशः ।
तत्वान्यादाय संयोज्य तत्रिधाव्यभजद्धरिः ।।
33.अण्डं तदादितश्चक्रे द्वीतीयेनाब्जमातनोत् ।
तृतीयं तु त्रिधाभित्वा पुनरेकैकशास्त्रिधा ।।
34.देवोपदेवमर्त्यानां स्थूलान्यादैस्त्रिभिर्व्यधात् ।
द्वितीयांशैस्त्रिभिस्थूलान्यासुराणां श्री हरीच्छया ।।
।। इति श्री प्रकाशसंहितायां द्वतीयपरिच्छेदे प्रथमोऽध्यायः ।।