13 त्रयोदशोध्यायः

त्रयोदशोध्यायः

।। अथ त्रयोदशोऽध्यायः ।।
।। श्रीहंस उवाच ।।
1.ये प्रोक्ता देवगन्धर्वकर्मज्ञानास्त्वतात्विकाः ।
पक्वाधिकारिणो भूमेरुत्क्रान्ता महरादिषु ।।
2.स्थिता विपशेषोक्तमार्गेण स्वोत्तमेषु ते ।
भोगदेहप्रतिषठास्तु अण्डान्तद्विरजातले ।।
3.(यु)त्यक्तलिङ्गास्तुर्यवशा अण्डनाश उपागते ।
पराष्टमांशावशिष्टकाले श्रहरिगर्भगाः ।।
4.मुक्ता अपि न मुक्ताख्याः पुनर्ब्रह्माण्डसम्भवे ।
विष्णोर्बहिर्गताः कुक्षेः शुद्धसात्वकदेहकैः ।।
5.रमादत्तैर्भोगयोग्यपूर्वोक्तानन्तसात्विकैः ।
अर्थैरभ्युन्नताश्वेतद्वीपस्था हरिमञ्जसा ।।
6.दृष्ट्वा नत्वा प्रसाद्येशं मुक्ताख्यां प्राप्यचाज्ञया ।
अव्याहतेष्टगतयो वैकुण्ठे शुद्धसात्विकैः ।।
7.देहैर्मोदन्ति भूदुर्गाभागयोः श्रीशलालिताः ।
चिन्मात्रदेहैः श्रीभागे न चात्र जडसंस्थिताः ।।
8.वृक्षपक्षिमृगा ह्यब्धिनद्योपि नवकोटयः । *
सरांसि नानाविधबद्धा अपि लोकेषु वै हरेः ।।
9.श्रीभूदुर्गाभाग एते सेवन्ते हरिमञ्जसा ।
स्वाधिक्यस्य सिध्यर्थं स्वानन्दाधिक्यकाङ्क्षिणः ।। ?
10.केवलं लिङ्गदेहेन भोगभागे वसन्ति हि । (भूभागे संवसन्ति हि)
निरंशानां सूक्ष्मदेहाः अण्डान्तस्सत्यलोकगा तु ।।
11.अनिरुद्धादल्पकालव्यत्ययात्प्रभवन्ति हि ।
लयेण्डनाशात्पुरतः नतत्सू(नाशः सू)क्ष्मतनोर्भवेत् ।।
12.तृणादारभ्य सन्मर्त्यगन्धर्वास्त(न्त)स्य कृत्स्नशः ।
एषां सूक्ष्मतनुः सृष्टिः क्रमाद्युक्तमतोलयः ।।
13.स्रष्ट्वैष्वेवामर्त्यगन्धर्वादिकर्म्यन्ते(न्त) देवताः ।
दुर्गाभागस्थानिरुद्धात्सूक्ष्मयुक्ता भवन्ति हि ।।
14.सृष्टिक्रमाद्व्युत्क्रमेण नाशस्तत्रगताद्धरेः ।
अण्डनाशात्पुरैवेते केवलं लिङ्गमात्रगाः ।।
15.तृणाद्याशचातात्विकाश्च भूभागे संवसन्ति हि ।
एषां श्रीभागपरिखाभूत श्रीविरजा जले ।।
6.अण्डनाशात्पुराभग्नलिङ्गानां तुर्यसंश्रयम् ।
प्राप्तानां श्रीहर्रर्गभे तदावासो भविष्यति ।।
17.भूमावुत्क्रममाणास्तु देहंत्यक्त्वा महर्जनाः ।
तपः सत्येषु दुर्गाख्यभागे नीचोच्चकाः क्रमात् ।।
18.वसन्ति देहभोगैस्ते(भोगदेहैः) निरंशानान्तु भोगतः ।
शीर्णा भवन्ति हि अनिरुद्धेन ये चते ।।
19.प्रविष्टानि भवन्ति हि अनिरुद्धेन ये चते ।
अनिरुद्धे प्रविष्टानि सङ्कर्षणजयाय ते ।।
20.सृष्टान्यतो लिङ्गमुक्ताः प्रभवन्ति ह्यतात्विकाः ।
भोगेदेहैः स्वोत्तमेषु प्रविष्टाः प्रभवन्ति हि ।।
21.गन्धर्वाणां कुबेरन्तु पितॄणां यम एव हि ।
कृष्टाङ्गसङ्ग गोपीनां सर्वजातिषु सप्ततेः ।।
22.मितानामाजानजानां सस्त्रीकाणां धनाधिपे ।
तत्समानास्तु ऋषयः शतोनशतकोटयः ।।
23.एतेषां तुलयोदक्षे ह्यग्निपुत्रगणस्य तु ।
वह्नौ कर्मजदेवानां लयः स्वायम्भुवे मतः ।।
24.तस्मिन्नेकादशमितामनवोविध्यतात्विकाः ।
तात्विकौ द्वौ सप्तमाद्यौ यौ तौ मनुपदेश्वरौ ।।
25.नारायणः स्वयं विष्णुः तापसोमनुरीरितः ।
विना तान् स्त्रीन् मनून् स्वायम्भुवे लय उदीरितः ।।
26.आद्य इन्द्रो हरिर्यज्ञः वायुधर्मोश्विनौ क्रमात् ।
षष्टस्तु मन्द्रद्युम्ननामा सप्तमस्तु पुरन्दरः ।।
27.द्वौ शचीरमणांशौ तौ षडैते तात्विकाः स्मृताः ।
भावीन्द्राः कर्मजाभास्ते तेषामाद्यमनौ लयः ।। *
28.सप्तकानां ऋषीणान्तु शतस्य च लयः स्मृतः ।
दक्षे धर्मे च तत्तुल्यपितॄणां सप्तकस्य तु ।।
29.तत्समास्त्वष्टगन्धर्वास्त्वष्टोन शतयोषितः ।
उर्वश्याद्यास्तत्समाहि कुबेरं प्रविशन्ति हि ।।
30.अतो निरंशास्तूत्क्रान्ति योगिनस्तु त(नस्त)दुत्तमाः ।
अतात्विकास्तु भूलोकादुत्क्रान्त महरादिगाः ।।
31.भोगदेहैरुत्तमैस्तु भक्षिताः प्रभवन्ति हि ।
उत्क्रमाणुत्क्रमेण गायन् योगिनस्तानथो जगुः ।।
32.नित्यसंसारिणः पृथ्व्यां त्यक्त्वा स्थूलन्तु सूक्ष्मतः ।
धर्मे प्रविश्यसन्त्यक्तानाद्यविद्या भवन्ति हि ।।
33.केचिदत्रैव मुच्यन्ते केचिद्वैमेरुमूर्धनि ।
वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा ।।
34.त्यक्त्वाऽविद्यां मिश्रपाकालये नाभौ हरेर्गताः ।
स्वर्गभूम्यादिषु सृष्टौ भ्रमन्ति श्रीहरीच्छया ।।
35.लयेऽयोग्या गर्भोदगतसङ्कर्षणाग्निना ।
पाताले नित्यनरके भग्नसूक्ष्मकलेवराः ।।
36.वायोर्गदाप्रहारेण भग्नलिङ्गास्तमोनुगाः ।
लये सृष्टौ तमस्यन्धे पतन्ति श्री हरीच्छया ।।
37.तत्वाभिमानिनो देवाः ह्यणडान्तर्बहिरूपतः ।
अनुत्क्रमाः स्वोत्तमेषु विपशेषादि मार्गतः ।।
38.त्यक्तदेहाः सूक्ष्मदेहैः सत्यलोके वसन्ति हि ।
नष्टे सत्ये ब्रह्मदेहे नष्टे तैः सह पद्मजाः ।।
39.अण्डनाश उपावृत्ते विशेषं यातितैः सह ।
अत्रस्थितैस्सूक्ष्मदैहैः सर्वतत्रस्थसूक्ष्मकैः ।।
40.एकीभवन्त्येवमेकविंशत्तत्वगणा(ता) अपि ।
व्युत्क्रमेण तु भूम्यादि तत्वोपादान सञ्चये ।।
41.स्थले तथा नाभिमानिवशगे सति विष्णुना ।
अन्नादि नाम्नादेवैस्तदूर्ध्वमूर्ध्वगतक्रमात् ।।
42.त्यक्तान्यावरणान्येते पूर्वमानेन नाशनम् ।
यन्ति पूर्वोक्तमानेन अनिरुद्धादिवत्क्रमात् ।।
43.सङ्कर्षणाद्विनष्टे(षु) तु सूक्ष्मदेहेषु कृत्स्नशः ।
तदा सत्वार्ध श्रीभागस्थलक्ष्म्यालक्ष्म्यात्मके जले।।(प्रधानविरजा नद्यामित्यर्थः)
44.नीचक्रमात् भग्नलिङ्गाः विशन्ति जठरे हरेः ।
पुनरण्डे समुत्पन्ने श्वेतद्वीपे समाप्य च ।।
45.मुक्तौ भवत्यसौ लोकः क्षीरसागरमध्यगः ।
लक्ष्म्यैश्चतुषष्ठिमितैः विस्तृतं(विसृजः) पुष्कराह्वयः ।।
46.द्वीपः क्षीराब्धिपरितो मणिवज्रमयद्युतिः ।
तन्मध्यदेशपरितो वर्तुलो मानसोत्तरः ।।
47.महीधरोयुतोन्नहः द्विसहस्रसुविस्तरः ।
धृढो वज्रमयः सप्तरथचक्रं रवेः स्थितम् ।।
48.तदन्तर्मर्त्यसंसारः तद्वाह्योमर्त्यगोचरः ।
द्वीपायामसमशुद्धवारिसागरवेष्टितः ।।
49.तस्यापि परितो वज्रलेपिकास्वर्णभूः शुभा ।
चतुर्लक्षन्यूनकोटिविस्तरात्तद्गतो नगः ।।
50.लोकालोकाभिधोवर्तुलाकारो परितो गिरिः ।
मणिस्वर्णमयः प्राकाराकारो निर्मलो महान् ।।
51.स पञ्चाशत्सहस्रेतत्पञ्चाशल्लक्षविस्तृतिः ।
तावतैवोच्छ्रितस्तस्मात् अर्धलक्षाधिकोन्नतः ।।
52.नानावृक्षाश्रयो यत्र भाति पूर्वोदितं जगत् ।
तदष्टदिक्षु शिखराण्यपि छिद्रान्वितानि च ।।
53.शतोन्नतानि दिग्दन्तिगणास्तदुपरिस्थिताः ।
तच्छिद्रवेष्टितः शुण्डादण्डैरूत्तंभयन्ति ते(तैः) ।।
54.गोत्रन्ते चान्तरिक्षस्थाः हर्यावेशयुताः शुभाः ।
ते च पूर्वाद्यष्टदिक्षु गर्भोदस्थागतं(ता) भुवम् ।।
55.ऊर्ध्वोश्चित्रैरात्महस्तैर्धरन्ति श्रीहरीच्छया ।
ते मानसोत्तरे मेरौ स्वर्गे रूपान्तरस्थिताः ।।
56.कुर्वन्ति श्री हरेराज्ञां दिक्पालानां च वाहनाः ।
अनन्तरूपैर्भगवान् उपरिस्तंन्नगोर्ध्वगः ।।
57.ऊर्ध्वाधः शिखरस्पृष्टानन्तमूर्ध्वोति यो हरिः ।
लोकालोकान्तराले तु सूर्येन्द्वृक्षग्रहप्रभाः ।।
58.वसिष्ठनारदात्र्याद्यानन्तगं स्वर्णभूमिगम् । *
वदन्ति पूर्वद्वीपेषु यथा सूर्यो(पूर्वो)दयान्तरे ।।
59.यथा तथैव गिरिशृङ्गे मैत्रेयपूर्वकाः ।
स्वर्णभूमिमतीत्यैवस्थितमाहुर्नगोत्तमम् ।।
60.तदुक्तमाहुः पैङ्ग्याद्याः तन्नेत्याहुर्मृ(क)कुण्डजः ।
मेरुलोकालोकमध्यप्रदेशस्तु त्रिकोटिकः ।।
61.योजनानां सार्थकोटिसम्मितः परिकीर्तितः ।
लोकालोकध(र)भूम्यासहितः परिमाणतः ।।
61.अन्धन्तमस्तन्नगस्य परितः सप्तकोटिकः ।
यत्र मिथ्याज्ञानयुक्ताः पतन्ति शतकोटिशः ।।
62.हरीरसुरगुर्वायर्विष्णुवैष्णवविद्विषः । *
निष्कारणं साधुयोषिद्वेदशास्त्र विदूषकाः ।।
63.भक्तिलेशविहीनाश्च नित्यनैमित्तिकोज्जिताः ।
अनन्तपापकरणे भयलेशविवर्जिताः ।।
64.जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा । Imp
साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च ।।
65.प्रादुर्भावविपर्यासः तद्भक्तद्वेष एव च ।
तत्प्रमाणस्य निन्दा च द्वेषा एतेखिला मताः ।।
66.सम्प्राप्य भारते जन्म विष्णुद्वेषादि पाकतः ।
यथा योग्यं वैपरीत्या परोक्षगुरुविद्विषः ।।
67.पक्वस्वरूपविद्वेषाद् व्युदस्यात्मीय सञ्चितम् ।
भुक्त्वा दुष्प्रारब्धफलं पूर्णं प्रमादिका गतम् ।।
68.सुप्रारब्धफलं विष्णुद्वेषादल्पीकृतं हरेः ।
भुक्त्वागामि व्युदस्यैव ह्यागामि द्वेषयाकृतः(पाकतः) ।।
69.प्राप्तव्यदुःखमिच्छन्ति स्थूलदेहान् विषाग्निभिः ।
शस्त्रत्यक्त्वा यातनाद्यैः नित्यतामिश्रनामकः(रकाः) ।।
70.अण्डनाशात्पुरा सूक्ष्मदेहान् तत्र विसृज्य च ।
वायोर्गदाघाततश्च लिङ्गभङ्गो भविष्यति ।।
71.चिरं श्रीहर्यूरुदेशे क्लृप्तदुःखभुजः खलाः ।
पुनरण्डे समुत्पन्ने तमस्यन्धे पतत्यलम् ।।
72.मर्त्याधमा निरंशाश्च पिशाचाः स्वल्पतामसाः ।
तेषु केचित्तत्वदेवाभासरूपास्त्वधस्तने ।। *
73.स्वर्गादिषु चरन्तस्ते पापकर्माभिमानिनः ।
दैत्याश्चराक्षसाश्चैव सांशास्ते बहुरूपिणः ।।
74.रसातलस्थानिरुद्धात् प्राक् सूक्ष्मं देहमाश्रिताः ।
कर्मानुवशतः स्थूलदेहान् प्राप्य महासुरैः ।।
75.स्वयं नष्टा परान् साधून् नाशयन्ति कुसाधनैः ।
तमस्यन्धे लक्षनिम्नोध्युपर्यस्थले स्थिताः ।।
76.प्राप्तव्यदुःखं भुञ्जन्ति शुद्धं तामसविग्रहैः ।
पूयासृङ्मूत्रविष्टाद्यैः तप्ततैलास्त्रशस्त्रकैः ।।
77.अदृष्टाश्रुतदुःखाप्ति साधनोचितवस्तुभिः । *
दुर्गयाकल्पितैः घोरैः निर्घाताद्यैरनेकशः ।।
78.सिंहव्याघ्रादिरूपिण्या सह तादृक् स्वरूपवान् ।
अवर्णनीयदुःखौघं वायुर्दास्यति तान् प्रति ।।
79.तत्प्राप्तव्यमिति प्राहुः क्लृप्तं दुःखं ततोप्यधः ।
भुञ्जन्ति स्वस्वरूपस्थं सर्वरोगव्रणादिकम् ।।
80.सर्वक्षतादिकं नित्यं पूर्णदुःखं व्रजन्त्यलम् ।
ततो द्विसप्तकोटिभ्यां(क्यां) घनोदः परितः स्थितम् ।।
81.यत्र नारायणोनन्ततनुरूपात्मकश्रिया ।
सदा विहरति श्रीशो ब्रह्माद्यैरपि सेवितः ।।
82.ततोर्धकोटिसमितमनन्तासनमीशितुः ।
धामण्डखर्परस्पृष्ट विंशल्लक्षोच्च वेदिमत् ।।
83.चत्वारिंशल्लक्षामितो भूभागः परिकीर्तितः ।
त्रिंशल्लक्षमितस्तूच्चः श्रीभागः सर्वतः शुभः ।।
84.तदन्यानन्तगुणितः श्वेतद्वीपसमः स्मृतः ।
।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे त्रयोदशोऽध्यायः ।।