द्वादशोध्यायः
।। अथ द्वादशोऽध्यायः ।।
।। श्रीभगवानुवाच ।।
1.त्रिविक्रमनखोद्भिन्नाजाण्डखर्पररन्ध्रतः ।
अन्तः प्रविषटबाह्याम्बु वैकुण्ठशिखरात्ततः(दधः) ।।
2.पतत्कमणडुले धाता दधारेश पदाम्बुजे ।
प्रक्षाल्यतच्छेषजलाद्गङागानामनदी व्यधात् ।।
3.अरनाम्नीण्यनाम्नी सा भूदुर्गाभागयोर्द्वयोः ।
पृथक् सप्तावर्णगा परिघा रूपिणी मता ।। *
4.नन्दिनी सत्यलोके सा नलिनी च तपोमये ।
जनोलोके मालिनीति महर्लोके तु भोगिनी ।।
5.स्वर्धुनी सा स्वर्गलोके वियद्गङ्गा ध्रुवालये ।
मदापगा सान्तरिक्षे मेरोर्ब्रह्मसदोर्ध्वतः ।।
6.निपतन्ती च पूर्वादि चतुर्दिक्षु क्रमेण सा ।
सीताचा(?अ)लकालकनन्दा च चक्षुर्भद्राह्वया शुभा ।।
7.सीताख्यातिरवोद्वेगात् सर्वत्रेलावृताद्बहिः ।
निपात्यमाना हरिणा पूर्वमब्धिंगमिष्यति ।।
8.सैवदक्षिणभागस्था कालेन महता किल ।
सगरात्मजशुद्ध्यर्थं भगीरथसमर्चिता ।।
9.भागीरथीति गदिता सर्वलोकैकपाविनी ।
जह्नुना राजऋषिणा पीतात्यक्ता च वाक्यतः ।।
10.सा जाह्नवी मेरुनगस्योत्तराधःस्थलस्थितात् ।
मार्गादतलपूर्वेषु सप्तलोकेषु संस्थिता ।।
11.सैव त्रिपथगा देवी भाति नारायणाश्रया ।
सैषा रम्यक(?त)पूर्वेषु हरिवर्षादिषु त्रिषु ।।
12.भद्राश्वकेतुमाले तु चरन्ती सागरप्रिया ।
भारतेस्मिन् महावर्षे नद्यः सन्ति सहस्रशः ।।
13.श्रीरङ्गो वेङ्कटेशाख्यो तोताद्रिः पुष्कराह्वयः ।
श्रीमष्णनैमिषारण्ये गण्डकी बदरीस्थलम् ।।
14.अष्टावेते स्वयंव्यक्ताः भारते सर्वसिद्धिदाः ।
स्वामिपुष्करणीपूर्वाः पुष्करिण्यः सहस्रशः ।।
15.मनवः पितरः सिद्धाः सर्वसाधनतत्पराः ।
सुरासुरा भारतेस्मिन् स्वसाधनपरायणाः ।।
16.अत्र सत्कर्मणा स्वर्गं निरयं पापकर्मणा ।
मिथ्था ज्ञानेन च तमो ज्ञानेनैव पदं हरेः ।।
17.प्राप्नोति पुरुषो ह्यत्र पदस्थास्तत्वदेवताः ।
केचित् सर्वावतारेषु भूमौ भूत्वा भवन्त्यलम् ।।
18.सर्वेसुराः पदस्थाश्च रामकृष्णावतारयोः ।
जाता भूमावुपास्येशं पुनर्मूलस्वरूपकैः ।।
19.एकी भवन्त्यपि सुराः भाविनः प्रायशोत्र तु ।
स्वसाधनैकनिरताः देवदासादयोपि च ।।
20.सांशाः निरंशाश्च तथा स्वस्वसाधनतत्पराः ।
विधयश्च निषेधाद्याः अत्रत्यानां भवन्ति हि ।।
21.लक्षयोजनविस्तीर्णलवणाम्बुधिवेष्टितः ।
द्वीपोयं जम्ब्वाख्यो हि मेरुस्तस्यैव मध्यमः ।।
22.सुमेरोपरितश्चेलावृतं तद्गवनं शुभम् ।
सुकुमाराभिधं रुद्रशापात्तत्रगतः पुमान् ।।
23.नारीभवति पार्वत्यारन्तुकामस्तथाकरोत् ।
एतस्माद्विगुणः प्लक्षस्त्विक्षूदाम्बुधिवेष्ठितः ।।
24.स्थूलाश्च पर्वताः सन्ति तत्र श्रीहरिसम्मिताः ।
तास्ते क्षीराब्धिमारभ्य इक्षुसागरसंस्पृशाः ।।
25.भारताद्यष्टवर्षेषु षड्द्वीपा अपरा अपि ।
मध्यस्तत्काम्यपुण्यानां भोगार्थं हरिनिर्मिताः ।।
26.पापादत्र जनीनैव पुण्यादेव हि काम्यतः ।
न तत्र चायुर्नयमो यावत्पुण्यन्तु जीवनम् ।।
27.नरानार्यः सुन्दराङ्गाः सन्ति भोगोचितार्थदाः ।
वृक्षाश्च पुण्यरत्नानि गृहाश्च स्वर्णभूमयः ।।
28.विनैव कालमरणं तत्र दुःखादिकं न हि ।
इच्छामात्रेण सर्वाथसिद्धिस्तत्रेशनिर्मितः ।।
29.सूर्यात्मकं हरिं तत्र पूजयन्ति विचक्षणाः ।
ततो हि द्विगुणोद्वीपः शाल्मलः सर्ववर्तुलः ।।
30.योजनानां चतुर्लक्षं मध्वब्धि समवेष्टितः ।
जाम्बवं पुष्करं त्यक्त्वा मध्यद्वीपेषु पञ्चसु ।।
31.सर्वेषु सप्तनद्यः स्युः पर्वताः सप्तकीर्तिताः ।
सप्तद्वीपगता नद्यः दद्बाह्याम्बुधिगामिनः ।।
32.भोगोपयुक्ता निखिलाः पदार्थजनसङ्कुलाः ।
तत्रत्याः पर्वताः पूर्वोत्तरसागरसंस्पृशः ।।
33.तैर्विभक्तास्सप्तवर्षास्तत्तन्मनुसुत्राश्रयाः ।
चन्द्रान्तर्यामिणं विष्णुं शाल्मलस्था भजन्ति हि ।।
34.क्रौञ्चद्वीपस्तद्विगुणोद्व्यष्टलक्षार्णवे न तु ।
पव्यम्बुना वेष्टितोलं सूर्यकान्तादि सन्मणिः ।।
35.वरुणान्तर्गतं विष्णुं भजन्ति हि ततोत्र हि ।
ततो हि द्विगुणाः शाकद्वीपः क्षीराब्धिवेष्ठितः ।।
36.द्वात्रिंशल्लक्षविस्तारः समीरोपासकोदितः ।
शाकद्वीपस्य मध्येतु अनन्तरूपी हरिस्वयम् ।।
37.अर्धलक्षस्थलतनुः सप्तलक्षोन्नतः प्रभुः ।
मेरुलोकालोकनगाभिमुखानन्तलसन्मुखः ।।
38.चक्रप्राकाररूपात्मा तद्वीपे परितः सदा ।
लक्षोन्नतस्थेषु जगच्चक्षुस्सूर्यश्चरत्यसौ ।।
39.मेरुं प्रदक्षिणी कुर्वन् रूक्षचक्रोनुवेगतः ।
दिनेदिनेत्वेकवारं सहस्रांशुः प्रकाशकृत् ।।
40.सूर्यस्याक्षोत्तराग्रन्तु तैलयन्त्रमिवोलितः ।
लुप्तमन्यच्चक्रयुतं मानसोत्तरपर्वते ।।
41.परिभ्रमन्ति तन्मध्येऽनसि भूमेः समोन्नते ।
चत्वारिंशद्योजनोर्ध्वप्रदेशस्प्रशिमध्यतः ।।
42.तावत्परिमितान्यक्षसम्बन्धो तावदन्तराः ।
स्तम्भाः षष्ठिसहस्राश्च चत्वारः सन्ति सदृढाः ।।
43.शतयोजनका स्थूला दीप्यध्वज्रमयाः शुभाः ।
तदूर्ध्वमण्टपे पादलक्षोच्चमणि दीपिते ।।
44.योजनायुत देदीप्यमण्डले भानुराजतिः(रूर्जितः) ।
अहःकरः सर्व सत्साधनकृत्फलदोर्यमा ।।
45.मेरोः पूर्वस्थितो भारतस्थानामुदयंकरः ।
मेरोर्दक्षिणगोमध्य(ध्यं)दिनकृत्सप्तसन्धयः ।।
46.मेरोः पश्चिमगो भारतत्स्थानामस्तमानकृत् ।
मेरोरुत्तरगश्चार्धरात्रिकृद्भारते नॄणाम् ।।
47.एवमेव चतुर्दिक्षुविद्यमानजनस्य तु ।
प्रातर्मध्यन्दिननिशीथार्धरात्रप्रवर्तकः ।।
48.नारायण विशेषावेशैधितात्मगतिः स्वयम् ।
एकमेव पृथङ्नामभेदेन श्रीहरीच्छया ।।
49.सप्तद्वीपेषु योभानुवरिपोहस्तबाधिपः ।
सव्येन भ्रमतां भानां त्रिलक्षोन्नतवर्तिनाम् ।।
50.तिर्यगूर्ध्वं च षट्पञ्चाशल्लक्षाधिककोटितः ।
दीर्घाभिश्च शलाकाभिः निर्मिते रूक्षचक्रके ।।
51.शतयोजनविस्तीर्णं शलाकाग्रेषु भान्त्यलम् ।
वसन्ति तन्मार्गगताः सञ्चरन्ति नवग्रहाः ।।
52.ते शलाका वज्रमयाः अष्टोत्तरशतात्मकैः ।
छिद्रैश्च कलितापाशैः ध्रवाधीनैश्च वारुणैः ।।
53.सम्बन्धाग्राभिरंशेन क्लृप्यैकैकेनभाश्रयाः ।
चतुश्चिद्रयुताः सर्वशलाकास्तेषु वारुणाः ।।
54.पाशाश्चान्तः प्रविष्टाश्च भूमेर्लक्षोन्नतान्तरे ।
स्थितस्य सूर्यरथाग्रेताः अक्षकोट्यस्तथाग्रतः ।।
55.धुराग्राक्षाग्रयोर्बद्धपाशाग्रेणसमन्विताः ।
पाशाध्रुवस्य नक्षत्रपादैरेवापसव्यतः ।।
56.संवत्सरेणैकवारं भ्रमन्तं भ्रामयत्यलम् ।
ध्रुवस्तस्य हयास्सप्तहरिद्वर्णा महाजवाः ।।
57.अनुक्तस्तात्विकैस्तुल्यास्तद्यन्ता गरुडाग्रजः ।
सोऽनूरुरुस्त्वरुणस्सर्पपाशैस्तान्योजयत्यलम् ।।
58.मानसोत्तरमेरोः तु संस्प्रष्टाक्ष सुमध्यगे ।
अनेहर्म्यकलितवज्रसम्भाव्यग्रमण्टपे ।।
59.चरतो भास्करस्यास्यत्वाधारः शाकमध्यगः ।
हरिर्मेरोस्सार्धसप्तोत्तरसप्ततिलक्षकः ।।
60.तावत्तदुत्तरगत मानसोत्तरपर्वते ।
योजनानां षष्ठिसहस्रोन्नतं चक्रमूर्जितम् ।।
61.मध्यछिद्रान्वितं वज्रमयं भ्रमति विष्णुना ।
द्वादशारं हि षण्णेमि त्रिनाड्यन्तर्बहिस्थले ।।
62.युगकूबराक्षत्रयस्य रेखासु तिथिवारपाः ।
अपरेषु मासास्तिष्ठन्ति ऋतवस्तस्य नेमिगाः ।।
63.चतुर्मास्यास्त्रिनेमिस्थाः द्विपरिश्चेदगेयने ।
वत्सरः सर्वचक्रस्थस्त्वेकचक्रोरथस्य तु ।।
64.स कर्कटादिषु चरन् एकोह्ना(ह्नां)क्षयकृद्रविः ।
षट्सुरात्रदीर्घ्यमानः कारयन् दक्षिणायनम् ।।
65.करोति नक्रादिषु षट्सुचरन् रात्रिक्षय(यं)करः ।
अह्नान्यभ्येधयन्नेकश्चोत्तरायणकारकः ।।
66.विनाडिकानां पञ्चाशन्मासिमास्येधेयेत्यसौ ।
अहान्युत्तराणेन्यत्र रात्रिकालर्धिकृत्तथा ।। *
67.यदा तु मेषतुलयोः चरत्येष समानिशा ।
द्यस्राश्च वृश्चिकाद्येषु पञ्चस्वपि निशार्धिकृत् ।।
68.वृषादि पञ्चसु चरन् दिवाकालसमर्धिकृत् ।
त्रिलक्षोन्नतनक्षत्रशलाकाग्राष्टविंशके ।।
69.उदग्दक्षिणकोणाद्याः कृत्तिकाद्याः समाश्रिताः ।
तिर्यगूर्ध्वं सप्तसप्तशलकाभिर्विनिर्मितम् ।।
70.द्वाभ्यां द्वाभ्यां कोणयोस्तु रेखाभ्यामुपकल्पितम् ।
नक्षत्रमण्डलं भूमेरूर्ध्वं लक्षत्रयेण हि ।।
71.एकैकस्यां शलाकायां छिद्राणि च पृथक् पृथक् ।
चत्वारि तानि दंस्रक्षाद्यादिकानि वनानि च ।।
72.मेषाङ्कानि वृषाङ्कानि नृयुग्मकानि वै नव ।
कर्कसिंहाङ्गकन्यानि तुलका वृश्चिकानि वै ।।
73.धनुर्नक्षत्रशङ्खानि मीनाङ्कानि च वै नव । *
तेषु तेषु प्रविष्टाश्च पादद्यष्टोत्तरं शतम् ।। *
74.पादैर्धुवस्ससूर्यस्तु अपसव्यक्रमेण वै ।
सर्वनक्षत्रपादेषु क्रमाद्वृद्धौ भविष्यति ।।
75.ध्रुवान्तर्हरिणा विंशद्घटिकान्तदिनत्रयम् ।
एकैक नक्षत्रपादे बद्धो भवति वै क्रमात् ।।
76.सार्धत्रयोदशादिनैरेकनक्षत्रगो रविः ।
मासेन नवपादानि भुञ्जन् द्वादश राशिषु ।।
77.संवत्सरेण चरति ह्यप्रदक्षिणतो रविः ।
मेषाध्यङ्कितरन्ध्राणि मेषाद्याः राशयस्मृताः ।।
78.लक्षोन्नतप्रदेशेस्थ ध्रुवपादाग्रगो रविः ।
द्विलक्षोन्नतदेशस्थ ध्रुवपादाग्रतः शशी ।।
79.चन्द्रसूर्यौ ऋक्षचक्रादधौ देशगतौ मतौ ।
कुजादयश्च पञ्चापि ऋक्षचक्रोर्ध्ववर्तिनः ।।
80.ध्रुवपाशैः सदाबद्धाः सञ्चरत्यपसव्यतः ।
ज्ञः पञ्चलक्षोन्नतगतः सप्तलक्षोन्नतः कुजः ।।
81.नवलक्षोन्नतः शुक्रः लक्षैकादशको गुरुः ।
त्रयोदशं तु सूर्यस्यमण्डलं परिकीर्तितम् ।।
82.लक्षपञ्चादशादूर्ध्वं शनिमण्डलमस्ति हि ।
षड्विंशति सुलक्षाणाम् ऊर्ध्वं सप्तर्षिमण्डलम् ।।
83.लक्षैकादशतस्तत्मात् ध्रुवःसंस्थो हरिप्रियः । *
स विष्णोः शिंशुमारस्य महाचक्रपदास्थिताः ।।
84.ध्रुवादीन् ग्रहान् विष्णुः चक्रे सर्वान् सुवारुणैः ।
पार्शैयोर्जयति श्रीमान् शलाकारन्ध्रसङ्गताः ।।
85.सर्वेह्येते भानुसमाप्रदेशेषूत्तरोत्तरम् ।
चरन्ति ऋक्षपादस्थपाशैरेवतु तन्मितैः ।।
86.एतेषां राशिसञ्चारैः कालं योजयतीश्वरः ।
चन्द्रोराशिद्वादशकं मासेनैकेन वर्तते ।।
87.कुजो मासार्धतो राशिं भुक्त्वा राशिं समेष्यति ।
गुरुर्द्वादशभिर्मासैः त्रिंशन्मासैश्शनैश्चरः ।।
88.मासेनैव बुधः शुक्रः प्रतिराशिं भजत्यलम् ।
सदा समगती वक्रशून्यौ द्वौ शशिभास्करौ ।।
89.भानुमण्डलगश्चन्द्रो दर्शेचास्तङ्गतो भवेत् ।
एवं कुजादयः पञ्च अस्तं यास्यन्ति भानुगाः ।।
90.प्राक्दिश्यस्तङ्गतौ शुक्रगुरू द्वौ पश्चिमोदयौ ।
प्रत्यगस्तङ्गतौ तौ द्वौ तु पूर्वदिश्युदितौ मतौ ।।
91.एवमन्येपि सूर्यस्य नास्तमानं स्वभावतः ।
मेरुछायागतं चास्तङ्गतं सूर्यं वदन्ति हि ।।
92.चन्द्रार्क कव्यस्तमये लौकिके तु शुभं त्यजेत् ।
पूर्वस्यां दिशि शुक्रोस्तंगतो मासद्वयोत्थितः ।।
93.प्रत्यगस्तंगतः काव्यः सप्ताहोभिरुदेत्यलम् ।
गुरुर्मासेनोभयत्र ह्युदितो भवति ध्रुवम् ।।
94.कुजादीनां वक्रमाद्यास्तम्भ ऋज्वोति शीघ्रतः ।
गतयो विविधास्सन्ति कालस्याशुभसूचकाः ।।
95.न समा हि गतिस्तेषां क्वचिदेव समागतिः ।
लक्षदीर्घयुगद्वन्द्व पुरस्थां रजयोजिताः ।।
96.तद्वादशांशधुरगाः सप्ताश्वा भस्करस्य हि ।
मानसोत्तरस्यपरितो नवकोटिसुविस्तरम् ।।
97.सार्धं प्रदक्षिणं कर्तुं योजयन्ति महाजवाः ।
इत्थं नवग्रहैः कालचक्रं परमः पुमान् ।।
98.सूर्यस्य गत्या मेषादीन् मासान् सौरेण मानतः ।
कल्पयत्यपि चन्द्रस्यगत्या चैत्रादीकान् हरिः ।।
99.चान्द्रमासान् कल्पयन्ति नक्षत्रं ऋक्षसन्ततेः ।
आवृत्यं चतुरोराप्तिं चारान् मानं बृहस्पतेः ।। *
100.सारस्वतन्तु गान्धर्वाः पक्षाहोरात्रयो मताः ।
सारस्वतन्तु गान्धर्वमानमाहुर्विचक्षणाः ।।
101.मासेन स्यादहोरात्रं मैत्रं मानं विदुर्बुधाः ।
दैवमानं वत्सराहोरात्रिकालेन तावता ।।
102.मनुर्मानं मानवाख्यं ब्राह्ममानमजस्य हि ।
मानाश्च नवमानानां विष्णुरेकः प्रवर्तकः ।।
103.द्वात्रिंशल्लक्षविस्तीर्णक्षीराब्धेर्मध्यदेशतः ।
तदर्धविस्तरोच्चक्रमप्राकाररूपकः ।। *
104.दशलक्षोन्नतो भूमेः श्वेतद्वीपो रमात्मकः ।
वेदावर्णा देशकालौ नित्यव्याप्ता जडामताः ।।
105.वाय्वाकाशस्सौरदीप्तिरनित्यास्तु जडामताः ।
द्रव्यान्यप्रतिघातानि तेन्योन्यस्याश्रयाणि च ।।
106.लक्ष्मीनारायणौ शुद्धचिद्रूपौ व्याप्तविग्रहौ ।
सर्वार्थप्रतिघाता च श्वेतद्वीपादयस्त्रयः ।।
107.लोकास्त्वप्रतिघाताश्च स्तम्भाध्यैर्लोकरूपकाः ।
दुर्गाभागस्तदुपरि भूभागस्तु तदूर्ध्वतः ।।
108.श्रीभागस्तु ततस्तूर्ध्वं शिखरन्तु तदूर्ध्वगः ।
भागत्रयेपि भूकन्दाः पञ्चलक्षोन्नतायुताः ।।
109.त्रिषुभागेष्वपि रमा देशहर्म्यस्वरूपिणी ।
हर्म्यं प्रदेश भूभागाः लक्षयोजनकन्दकाः ।।
110.उपर्यावर्त्तयो भागस्त्रयो भूकन्दसम्मिताः ।
भागत्रयेपि च स्तम्भामणिमद्भूमितलाश्रयाः ।।
111.सार्धद्विलक्षसमिता नानामणिविराजिता ।
श्रीभागमध्यवेदिस्थः लक्ष्मीशोनन्तभानुरुक् ।।
112.चिन्मात्रानन्तमुक्तेड्यः स्वर्गादुपरि वर्तते ।
स्थानं त्रये त्रिपाद्विष्णोः दिविस्वर्गोन्नतस्थले ।।
113.श्वेतद्वीपोद्व्यष्टलक्ष दुर्गाभागस्तु तन्मितः ।
भूभागस्तु तदर्धेतः श्रीभागस्तु तदर्धतः ।।
114.मणिस्वर्णोज्वलत्सत्वप्राकारान्तात्मभागकाः ।
अनेकतोरणाट्टालवेदीचत्वारशोभिताः ।।
115.मणिमत्ननद्यद्रिसरोवाप्यादिसंकुलाः ।
नानायादोगणोपेतस्वर्णकञ्जाबु भास्वराः ।।
116.सर्वर्तुकालपुष्पाढ्य पल्लवस्वर्णभूरुहाः ।
हंसकोकिलबर्हादि शुकस्वनसमाकुलाः ।।
117.अतिसुन्दर सिंहादि नानामृगसमाकुलाः ।
अवर्णनीयरत्नेरु रचितानेकमण्टपाः ।।
118.नानास्वादुस्वनोपेत नरनारीगणौर्युताः ।
सिद्धचारणगन्धर्वाप्सरो गानमणिताः ।।
119.नानावाद्यमहावीणाशङ्खदुन्दुभिनिस्वनाः ।
गजाश्वरथपादातिध्वजछत्रादि लाञ्छनाः ।।
120.सर्वाभरणवस्त्राढ्या विमानावलिसङ्कुलाः ।
नानाक्रीडासाधनेताः नानाः गन्धोपबृंहिताः ।।
121.अनेकहंसतूले तु मणिशय्या समावृताः ।
भोगस्त्रीभिः समाकीर्णाः मणिव्यजनदर्पणाः ।।
122.मणिस्वर्णात्मकानेक भित्तिभाण्डादि साधनैः ।
अनुक्तानन्तसर्वोपस्करणैरुपशोभिताः ।।
123.चामरान्दोलिकाडोला पादपीठादि संयुताः ।
तुलसीपुष्पसद्रत्नमुक्तामालोपशोभिताः ।।
124.भानुकोटिप्रभादीप्ता पात्रनैवेद्यरूपिणी ।
घृतदध्यम्बुरूपा सा पूर्वोक्तार्थस्वरूपिणी ।।
125.दासीदाससमाकीर्णभार्यारूपाखिलेश्वरी ।
दुर्गाभूःश्रीस्वभागेषु अनन्तानन्तरूपिणी ।।
126.अनन्तरूपिणं विष्णुं सदाराधयतीश्वरम् ।
स्वभावादेव नास्यार्थः प्राप्तव्यः कश्चिदेष्यते ।।
127.पूर्णकामो हरिः प्रीत्या तत्पूजां स्वीकरोत्यजः ।
स्थानत्रयेपि सा देवी ह्यनन्तोक्तार्थरूपिणी ।।
128.सर्वदेशेषु कालेषु सर्वरूपाश्रिता रमा ।।
।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे द्वादशोऽध्यायः ।।