08 अष्टमोध्यायः

अष्टमोध्यायः

।। अथ अष्टमोऽध्यायः ।।
।। श्रीहंस उवाच ।।
1.व्यतीते लयकाले तु सृष्टिकाल उपागते ।
परकालादिमादौ तु पुरुषः सर्वचेतनान् ।।
2.वासुदेवेर्पयल्लिङ्गबद्धान् जीवान् (सृज्यान्)विलक्षणान् ।
तारतम्ययुतान् स्वयोग्यतां कलितांश्च सः ।।
3.स्वस्वोचितमहायत्नाभिमुखान् स्वस्वकर्मणा ।
जन्मलाभोचितान् वासुदेवस्थान् वीक्ष्य चिन्तयन् ।।
4.सृष्टिकालाद्यनिमिषसूक्ष्मदेहोचितं ह्यजाम् ।
लिङ्गबद्धन्तु तत्पूर्वक्षणवैषम्यसंगतः ।।
5.एकं गृहीत्वान्यजीवान् प्रादात् सङ्कर्षणो विभुः ।
स वायुमेकं लिङ्गे तं गृहीत्वान्यान् सुचेतनान् ।।
6.प्रद्युम्रोऽदात्तयोर्भार्ये स गृहीत्वा सलिङ्गके ।
तदन्यान्तात्विकान् सर्वपदस्थान् भावितात्विकान् ।।
7.व्यक्तापरोक्षिणः संख्या नियमात् सूक्ष्मयोगतः ।
स्रष्टुं प्रादात् सचरमे अनिरुद्धोऽखिलेश्वरः ।।
8.वासुदेवो विरिञ्चस्य लिङ्गदेहं व्यचालयत् ।
तत्तलिङ्गदेहस्थत्रिगुणेभ्यस्त्रिबिन्दवः ।।
9.न्यपतन् तत्र योबिन्दुः सात्विकः स तु निर्मलः । *
रजो वैषम्यसंयुक्त रजोबिन्दुस्तथापतत् ।।
10.तमो वैषम्यकलितस्तमोबिन्दुरभूत्ततः ।
रजोबिन्दुगतो विष्णूरजोवैषम्यमूर्जितम् ।।
11.पृथक्स्थाप्य रजोबिन्दुं शुद्धं चक्रे जगद्गुरुः ।
तमोबिन्दुगतोदेवः तमोवैषम्यमुत्कटम् ।।
12.समुधृत्य पृथक्स्थाप्य तं बिन्दुं शुद्धमातनोत् ।
ततो माया प्रार्थितः सन् वासुदेवस्तदादिमः ।।
13.तद्रजोगुणवैषम्यलिङ्गबद्धमजं विभुः ।
अजस्य सूक्ष्मदेहाप्त्यै रजोवैषम्यमूर्जितम् ।।
14.निक्षिप्य च निगीर्येशोमायायां महदाह्वयम् ।
सूक्ष्मरूपं तु तद्वीर्यं प्राकृतं प्राक्षिपद्धरिः ।।
15.तत्र सा सुषुवे सूक्ष्मदेहवन्तमजं विभुम् ।
गुणत्रयाणवः पूर्वं सांख्या नियमतः स्थिताः ।। *
16.यावन्तस्ते सदा नित्याः तेषां नाशो न विद्यते ।
तत्र सत्वाणवः सर्वे दशधोपचिताः सदा ।।
17.भवन्ति राजसास्तामसाणवः पादमात्रतः ।
भवन्त्युपचिता वायुसरस्वत्यादि सूक्ष्मगाः ।।
18.सत्वादयस्तु दशधा ऊर्जितास्सम्भवन्ति हि ।
त्रृणादीनां सूक्ष्मगतानधिकाः प्रभवन्ति हि ।।
19.सत्वाणवो राजसाश्च तामसाह्यणवश्च ये ।
ऋजूनां सूक्ष्मगाः पादोपचिताः प्रभवन्ति हि ।।
20.सांशास्सर्वेषु सांशेषु सूक्ष्मदेहेषु कृत्स्नशः ।
सत्वाणवो दशाधिक्यं यान्त्येवोपचितौ सताम् ।।
21.रजस्तमाणवस्तूच्चेष्वल्पनीचेषु चाधिकाः ।
तद्रजोगुणवैषम्यमादायाद्यानुजः स्वयम् ।।
22.सर्वेषां सूक्ष्मदेहानां अन्ते वसति नाशकृत् ।
सत्वंरजस्तमः सृष्टं विष्णुब्रह्मशिवात्मकम् ।।
23.श्रीभूदुर्गापतिर्विश्वतैजसप्राज्ञनामकाः ।
शुक्लरक्तात्मिकानीला आदायानन्तरूपकः ।।
24.तत्तत्सूक्ष्मशरीरस्थस्थानत्रयगतो हरिः ।
तदा ह्यवस्था त्रितयं तद्विशेषादिमे सुखम् ।।
25.एकोनविंशतिमुखौ विश्वतैजसनामकौ ।
सव्यापसव्यगान्येवं पुरुषास्यानिमध्यगम् ।।
26.गजाभं तु तयोरस्याः मुखानां कृत्यमप्युत ।
दक्षिणाक्षिस्थितो विश्वः सत्वस्थः सत्वभागतः ।।
27.उत्तमानां मध्यमानां नीचानां तत्वमानिनाम् ।
त्रिभिर्मुखैः सत्वगतैः अवस्थां जाग्रदाह्वयाम् ।।
28.करोत्ययं मध्यगाख्य त्रितयेन स एव हि ।
उच्चमध्यावरामर्त्यदासानां जाग्रदाह्वयाम् ।।
29.करोत्यवस्थामन्तस्थैः त्रिभिरास्यैः स एव हि ।
निरंशानां च जीवानां जाग्रतां सम्प्रवर्तकः ।।
30.पुंसामेवं वामगास्यैः स्त्रीणामेवं करिष्यति ।
अनन्तानन्तजन्मोरु मर्त्यदेहैः कृतानि तु ।।
31.जाग्रद्धशायां मनसा वाचका येन चेन्द्रियैः ।
कृतानि सात्विकादीनि कर्माण्युच्यावचानि च ।।
32.यानि यान्यपि सर्वाणि संचिंतान्यपि तेष्वलम् ।
नष्टेषु तददृष्टानि लिङ्गानि निवसन्त्यलम् ।।
33.तेषु भोगाय दत्तानि भुक्त्वा नाशं प्रयान्ति हि ।
भोगाय च प्रदत्तानि अर्धभुक्तानि सर्वशः ।।
34.प्रारब्धानि च तेष्वेव कानिचिद्भोगतः क्षयम् ।
यान्ति प्रारब्धशिष्टानि अपरोक्षे सतिस्फुटम् ।।
35.न नयान्ति च सर्वाणि भोगयोग्यान्य संशयः ।
तत्र दुष्प्रारब्धजातं बह्वल्पं करोत्यजः ।।
36.भगवद्भक्ति योगेन हरेरिच्छा हि तादृशी ।
हरिणा जीवभोगाय न दत्तानि ह्यनन्तशः ।।
37.राशीकृतानि लिङ्गस्थकर्मादृष्टानि कोटिशः ।
स़ञ्चितान्यपि तानीह अपरोक्षे सति स्फुटम् ।।
38.दग्धान्यपि विनष्टानि भवन्त्येव न संशयः ।
मर्त्यो जीवन्भारतेस्मिन् नित्यं कोटिसहस्रशः ।।
39.करोति विवशो बद्धः प्रकृत्यातान्यनन्तशः ।
अनन्त जन्मनानन्ताऽनन्तायुः परिमाणतः ।।
40.कृतान्यभुङ्क्तस्वकृतकर्मणां भोगतो लयः ।
सञ्चितानामनन्तोरु ब्रह्मकालैरपि क्वचित् ।।
41.क्वापि नो घटते भोक्तुं किन्तु श्रीविष्णुदर्शने ।
नैषां फलं हि जीवानां भवेदित्याज्ञया हरेः ।।
42.लिखितान्यपि पत्रेषु चित्रगुप्तैः पुनः पुनः ।
रमाब्रह्मादयो देवाः सर्वकर्माभिमानिनः ।।
43.यच्छन्ति न फलं पुण्यं पापं वा तस्य कर्हिचित् ।
च्छित्वा लिखितपत्राणि यमदूतैर्हरिः प्रियैः ।।
44.बोधयन्त्यपि हे जीव न ते सञ्चिततो भयम् ।
इति कारणतो नाशं सञ्चितस्य वदन्ति हि ।।
45.घटादिनाशवन्नाशः कर्मणां नैव शस्यते ।
सुप्रारब्धस्य सर्वस्य भोगादेव परिक्षयः ।।
46.अपरोक्षानन्तरन्तु कृतं कर्म शुभाशुभम् ।
आगामीत्युदितः सद्भिर्नतलोपो भविष्यति ।।
47.न लिखन्ति पटे चित्रगुप्तास्तानि सुरोत्तमाः ।
यच्छन्ति न फलं तेषामतो न श्लिष्यते जनः ।।
48.आगामिकर्मभिस्तच्चानिष्टं काम्यं हि राज(क्ष)साः ।
गृह्णन्तीष्टं काम्यपुण्यं तदिष्टाः प्राप्नुवन्ति हि ।।
49.आगामि विष्णुद्वेषादि कलिर्गृह्णाति नेतरः ।
आगामि भक्तितो मुक्तो प्राप्तव्यानन्दमश्नुते ।।
50.वेदोक्तमप्यवेदोक्तं ज्ञानाज्ञानादिभिः कृतम् ।
बाल्ययौवनवार्धिकैः कृतं वाक्कायमानसैः ।।
51.भीत्या प्रीत्या आवेशतो वा कृतं कर्म शुभाशुभम् ।
ज्ञायन्नेव करोत्येषः भुङ्क्ते जागृद्धि तत्फलम् ।।
52.समस्त भूतले वापि विवरेष्वन्तरिक्षके ।
स्वर्गादि सर्वलोकेषु ब्रह्माण्डाद्बहिरन्तरे ।।
53.निरये वा तमसि वा वैकुण्ठादिषु वा जनः ।
जाग्रद्भुङ्क्ते कर्मफलं विश्वाधीनः सदैव हि ।।
54.आनन्तासनवैकुण्ठश्वेतद्वीपेषु संस्थिताः ।
महरादिषु सत्यान्तलोकेष्वण्डाद्बहिस्तथा ।।
55.तात्विकाः स्वाधिकारेषु नियता नेतरे जनाः ।
स्वप्रारब्धफलं यान्ति ते सर्वे ह्यपरोक्षिणः ।।
56.अतात्विका निरंशानां योग्यानां क्वापि कर्हिचित् ।
नाधिकारस्त्वयोग्यानां किं वाच्यं दुःखभोगिनाम् ।।
57.ईयुः त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् ।
तत्र मख्या हरिं यान्ति तदन्ये वायुमेव तु ।।
58.अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा ।
स्थानमात्राश्रितास्ते तु पुनर्जनि विवर्जिताः ।।
59.ज्ञानगम्येषु लोकेषु अण्डान्तर्महरादिषु ।
अतात्विकनिरंशानां मुक्तान्तानां क्रमोन्नताम् ।।
60.वासः प्रारब्धपुण्येन निष्कामो न भविष्यति ।
आतात्विकनिरंशानां सर्गमर्त्याधमेष्वपि ।।
61.स तात्विकानां प्ररब्धात् पुण्यात्पापाच्च संचितात् । *
भोगदत्तात् पुण्यपापात् सुखदुःखादि शस्यते ।।
62.तिर्यग्योनिषु गर्भेषु वासेभ्येषां प्रकल्प्यते ।
निरंशनीचसांशानां नरके वास इष्यते ।।
63.प्रारब्धतः सञ्चिताद्वा न योग्यानां तमोगतिः ।
अयोग्यानां द्वेषपाकात् तमः प्राप्तिर्भविष्यति ।।
64.देवगन्धर्वपर्यन्ताः देवशब्दोदिताः क्रमात् ।
देवानां निरयो नैव तमश्चापि कथञ्चन ।।
65.ना सुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित् ।
भारताद्यष्टवर्षेषु सप्तद्वीपेषु चाद्रिषु ।।
66.सर्वेषां पापपुण्यैश्च मुख्यप्रारब्धसञ्चयैः ।
तमो मिथ्याज्ञानयोगात् ज्ञानेनैव हरेः पदम् ।।
67.तेषां प्रागुक्त कर्मोत्थ फलं वै जाग्रता भवेत् ।
जाग्रत्प्रवर्तको विश्वः सोऽज दक्षाक्षिगो भवेत् ।।
68.लिङ्गोत्थ सत्वमादाय तत्सूक्ष्मस्थ तथा चरन् ।
न धातुः सञ्चितं काम्यं न दृष्टं पातकादिकम् ।।
69.न दैन्यावेशदुःखादि न संशयविपर्ययौ ।
न दुरिच्छानान्यरतिः न भोगेच्छा कुसङ्गतिः ।।
70.न देहाभिमतिर्नाऽसत्पथे देहेन्द्रियोद्गतिः ।
निष्काम्यकर्मसज्ञानसद्भक्तिषु सदारतिः ।।
71.ब्रह्मणो हि परस्यास्य प्रसादात् सर्वदासुखम् ।
स्वप्ननिद्राव्याधिपूर्वं तच्च दुःखफलं त्यजेत् ।।
72.सोन्तरङ्गो हरेः साक्षात् सर्वोत्कृष्ट प्रियो मतः ।
पक्वशेषादिभिर्दृश्यमापरोक्षेण केशवम् ।।
73.अनादिकालमारभ्य अजजीवगणाः सदा ।
पश्यन्त्यात्मोचितहरेरपरोक्षाय जन्मभिः ।।
74.यतन्तेशतकल्पान्त्यैः दृष्ट्वेशं शतकल्पकैः ।
कृतयानन्तवेदोक्त गुणोपासनया पदम् ।।
75.प्राप्नोति तस्य सूक्ष्मापिर्वासुदेवात्तदाभवत् ।
तद्धेहलिङ्गजं शुद्धं रज आदाय तेजसः ।।
76.तत्सूक्ष्मकण्ठे वसति स्वप्नकृद्भगवान् हरिः ।
एकादशेन्द्रियैः कर्मकर्तव्यमिति वासना ।।
77.मनस्युत्पद्यते तच्च न करोति प्रयत्नतः ।
निद्राज्ञानोन्मादभयरोगायासा विदुन्मतैः ।।
78.अनुकूला भावताव(भवत्येव) जन्मजन्मान्तरेष्वपि । *
अकृतानां कर्मणान्तु स्वप्नः(प्न)स्येशफलप्रदः ।। *
79.स्वप्नदृष्टा अनन्तार्थास्तत्काल सुखदुःखदाः ।
न जाग्रदृष्टिपथगाः किन्तु तत्काल कल्पिताः ।।
80.स्वप्ने स्वस्थस्य जीवस्य वासनानन्त्यमीश्वरः ।
उपादानीकृत्यमुख्यैः पूर्वोक्तैरेव तैजसः ।।
81.कल्पयित्वा बहूनर्थान् दर्शयत्यखिलेश्वरः ।
स्वप्नः सत्यस्ततो यस्मात् भावीनफलसूचकः ।।
82.शेषादिसर्वजीवानां योग्यकाले तथा चरन् ।
तैजसः स्वप्नकृच्चेति जनस्य स्वप्नकृद्भवेत् ।।
83.तत्तमोगुणमादाय प्राज्ञस्तसूक्ष्महृद्गतः ।
जीवस्य लिङ्गबद्धस्य पादस्थस्य जगद्गुरोः ।।
84.ध्यानावस्थां ददात्येवमेकास्यो देह्वयोनितः ।
लिङ्गबद्धं ग्रसन्नर्धं मूर्छावस्थां प्रयच्छति ।।
85.लिङ्गबद्धं मुखेस्थाप्य प्राज्ञोत्यल्पोन्यरूपतः ।
यदाश्लिष्यति तं देवः तदा निद्रां प्रयच्छति ।।
86.प्राज्ञो जीवेश्वरस्तं वै विना जीवोक्षमः स्मृतः ।
प्राज्ञः कण्ठस्थितं प्राप्य जीवानां स्वप्नदो भवेत् ।।
87.जीवं गृहीत्वा दक्षाक्षिगतोसौ जग(जागृ)दीश्वरः ।
न प्राज्ञतेजसौ धातुः स्वप्ननिद्रा प्रवर्तकौ(का?) ।। *
88.ध्यानावस्थां विना तस्य तत्तद्दुष्कर्म वर्जनात् ।
प्राज्ञं जीवेश्वरं प्राहुः स सर्वहृदिसङ्गतः ।।
89.सांशजीवं स वै प्राज्ञो रूपैण्यैकेन पादयोः ।
हृदिसंस्थाप्य सूक्ष्मान्यरूपेणादाय चेतनम् ।।
90.सलिङ्गं स यदा विश्वे नैकीभूतो भविष्यति ।
सोणुः प्राज्ञोहृदिस्थेन एकीभूतो भवेद्यदि ।।
91.ध्यानावस्थां सञ्जनयत्यपि जीवपतिप्रभुः ।
विश्वादयो निरंशानां अवस्था त्रितयप्रदाः ।।
92.विना ऋजून् सर्वसुरान् भुविजातान् जगद्गुरुः ।
अवस्थात्रयसंयुक्तान् कुर्वन्ति प्राज्ञपूर्वकाः ।।
93.ऊर्ध्वलोकस्थितानान्तु सदा जागृत्प्रवर्तकः ।
एवं सूक्ष्मशरीरेण ब्रह्माणमसृजद्विभुः ।।
94.एवं सङ्कर्षणो वायोः जयायां सूक्ष्मदेहकृत् ।
वासुदेवः सरस्वत्याः ब्रह्माणमकरोत्पतिम् ।।
95.सङ्कर्षणस्तु भारत्याः मुख्यप्राणं व्यधात्पतिम् ।
सरस्वत्याश्च भारत्याः प्रद्युम्नः सूक्ष्मदेहकृत् ।।
96.तयोस्ताभ्यां सूक्ष्मतनू विपशेषौ बभूवतुः ।
सूत्रनामा तदावायुः ब्रह्मा पुरुषनामकः ।।
97.वेदादि सर्वनित्यानाम् अर्थानां जीवसन्ततेः ।
नित्यानामपि सृष्टौ हि तावुभावाभिमानिनौ ।।
98.ते भार्ये तौ विनाकश्चनार्थोपि स्थितिमर्हति ।
ब्रह्मा निरभिमानित्वात् शरीर्यप्यशरीरवान् ।।
99.अशरीरो वायुरभ्रं विद्युदित्यादि नामभिः ।
परशुक्लत्रयं वाच्यं योगात्ते सर्वमानिनः ।।
100.अथानिरुद्धः कालेन ब्रह्मवाय्वोः सभार्ययोः ।
त्रिचतुस्त्वेकविंशत्यवारं सूक्ष्मशरीरकृत् ।।
101.त्रिवारमेकविंशत्सवारं सूक्ष्म(तनुप्रदः)तनुं प्रदात् ।
अनिरुद्धो विपादीनां नीलादीनां तथैव च ।।
102.सौपर्ण्यादि त्रयाणाञ्च कालदेशक्रमेण च ।
इन्द्रादि पुष्करान्तानां तात्विकानाम् अशेषतः ।।
103.एकविंशतिवारन्तु अनिरुद्धस्तु सूक्ष्मकृत् ।
यदा यस्य च सूक्ष्माप्तिस्तत्पूर्वक्षण एव च ।।
104.तत्तज्जीवगणस्यासु लिङ्गवैषम्यमित्यपि ।
पञ्चसप्तभिर्मासैर्बाह्यमानेन सर्वशः ।।
105.तात्विकानां तु देवानां सूक्ष्मसृष्टिरभूद्धरेः ।
ततो स सत्वतमसः वैषम्यावस्थयायुताम् ।।
106.जडाख्यां प्रकृतिं सम्यक् चेष्टयामास विश्वसृट् ।
ततो बिन्दुत्रयं जातं सत्वं चेति रजस्तमः ।।
107.ऊर्ध्वदेशे सत्वबिन्दुः रजोबिन्दुस्ततोप्यधः ।
तदधोभूत्तमो बिन्दुः स्थूलश्चाद्यास्त्रिबिन्दवः ।।
108.श्रीभूदुर्गेति रूपा मा क्रमात्रिगुणमानिनी ।
विष्णुब्रह्माशिवश्चेति बिन्दुक्रमनियामकाः ।।
109.ब्रह्मवायू सभार्यौ द्वौ त्रिरूपावभिमानिनौ ।
सत्वादिबिन्दुषु श्रीश्च श्रिता नश्वरेषु वै ।।
110.रजस्तमो बिन्दुगतवैषम्ये जगदीश्वरः ।
ब्रह्मा सङ्कर्षणात्मा तु समुधृत्य ररक्षतुः ।।
111.ततो विष्णुः सत्वबिन्दुगतः संवर्धयत्यजः ।
सत्वावरणमाद्यं च चक्रे तत्र वृतोद्यमम् ।।
112.रजोविन्दुगतो ब्रह्मनामकस्तदधस्तने ।
देशे द्वितीयावरणं राजसस्यैव नामकम् ।।
113.तमोबिन्दुस्थितो रुद्रस्तामसावरणं व्यधात् ।
तद्धि द्वितीयावरणं रजसस्यैव गर्भगम् ।।
114.विष्णुब्रह्मशिवौ द्वौ द्वौ ब्रह्मवायू सभार्यकौ ।
श्रीभूदुर्गास्वाद्यमाद्य तृतीयावरणेषु हि ।।
115.तत्तदात्मस्थूलदेहत्रिगुणेष्वभिमानिनौ ।
आद्यं शुक्लं द्वितीयं तु रक्तं नीलं तृतीयकम् ।।
116.रजोगुणस्यवैषम्या त्रिगुणावरणान्तरे ।
महदावरणं चक्रे ब्रह्मनामा स भूपतिः ।।
117.चतुर्थावरणं तत्र विष्णुब्रह्मशिवात्मकः ।
जाताभ्यां ब्रह्मवायुभ्यां जतौ द्वौ द्वौ त्रिरूपकौ ।।
118.सभार्यौ ब्रह्मवायू च महत्तत्वाभिमानिनौ ।
महत्तत्वनियन्तेशः आनन्दाख्यो हरिः स्वयम् ।।
119.आनन्दनाम्नस्तनयौ ब्रह्मवायू महद्गतौ ।
रजोगुणस्य वैषम्यात् सर्वांशेन मतः कलाः ।।
120.राजसांशेनेन्द्रियाणां दशानां च कलास्तथा ।
तामसांशेन तन्मात्राः कलाः पञ्चमहद्गताः ।।
121.अभवन्ताः कला नित्यं षोडशापि सदातनः ।
महत्तत्वाद्विकुर्वाणाद्ब्रह्मणः स्थूलदेहतः ।।
122.आनन्दवशगाज्जातस्त्वहङ्कारस्त्रिवृन्मतः ।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।।
123.उद्यद्रविप्रभावत्वान् महताहं त्रिवर्णकः ।
वैकारिकस्तु सत्वांशजातः शुक्ल उदहृतः ।।
124.तैजसो राजसांशोत्थः रक्तवर्णः प्रकीर्तितः ।
मनो हृषीकाणि मात्राः पूर्वं सूक्ष्मस्वरूपतः ।।
125.महत्तत्वगताह्येता अहंकाराश्रिताः क्रमात् ।
गायत्रीशो विधिः सत्वे विरिञ्चस्तु रजोगुणे ।।
126.सावित्रीशो भवत्यद्धा तमसि ब्रह्मनामकः ।
सरस्वतीशो वसति तादृग्रूपत्रयोत्थितौ ।।
127.त्रिरूपौ वै ब्रह्मवायू तन्नामानौ महद्गतौ ।
विद्यादिभिस्त्रिभिस्तासु गायत्र्यादिषु तिसृषु ।।
128.क्रमाद्ब्रह्मा च वायुश्च शेषश्चासन् हरीच्छया ।
विपशेषौ सभार्या च महद्राजे रजोत्रिधा ।। (र्यौ)? *
129.हर्याज्ञयैवत्रिविधाहंरेष्वभिमानिनः ।
विद्याद्युत्थैर्ब्रह्मपूर्वैस्त्रिभिः रुद्रस्त्रिरूपकः ।।
130.सभार्यस्त्रिविधाहंकृन्मानीतुस्थूलदेहकः ।
महत्तत्वस्य गर्भस्थमहदावरणं मतम् ।।
131.लक्ष्मीनारायणो ब्रह्मवायू भार्यासमन्वितौ ।
उक्तेषु वक्ष्यमाणेषु सर्वतत्वेषु सर्वदा ।।
132.वसन्ति तान्विना शेषवीशाद्या नक्षमा क्वचित् ।
वैकारिकाद्धि कुर्वाणान् मनस्तत्वं जगद्गुरुः ।।
133.सृष्ट्वाहङ्कारगर्भस्थं चकार पुरुषर्षभः ।
तैजसात्तु विकुर्वाणात् हरिणा चेन्द्रियाणि च ।।
134.ज्ञानशक्तीनि पञ्चापि कर्मशक्तीनि पञ्च च ।
सृष्टा भावीनि काले तु सृज्यं वै भूतपञ्चकम् ।।
135.यत्र यत्र स्थाप्यमीशस्तत्रतानि क्रमाद्व्यधात् ।
आकाशं तु विकुर्वाणात् स्पर्शमात्रमभूद्धरेः ।।
136.ततो वायुं समुत्पाद्य वाय्वावरणमातनोत् ।
वायोश्चैव विकुर्वाणाद्रूपमात्रं ह्यभूत्ततः ।।
137.ततो वह्निं समुत्पाद्य वह्न्यावरणमातनोत् ।
वह्नेरपि विकुर्वाणाज्जलमात्रं व्यधाद्धरिः ।।
138.ततः सलिलमुत्पाद्य जलावरणमाचरत् ।
जलावृत्ते विकुर्वाणात्तु गन्धमात्राभवद्विभोः ।।
139.ततः पृथ्वीं सनिर्माय चक्रे भूम्यावृतिं हरिः ।।
।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे अष्टमोऽध्यायः ।।