सप्तमोध्यायः
।। अथ सप्तमोऽध्यायः ।।
।। श्रीहंस उवाच ।।
- नारीकेलफलाकारो लिङ्गदेहस्त्रिवृन्मतः ।
मूर्ध्निच्छिद्रयुतो गर्भावकाशकलितः सदा ।। - अन्तर्निबद्धा जीवास्ते त्रिविधा अपि मोचने ।
न शक्तः रमयाश्चन्न मूर्ध्निच्छिद्रावसन्त्यलम् ।। - दुःखस्पृष्टा लिङ्गबद्धाः दुःखाऽस्पृष्टा रमैव हि ।
यस्मन्नकाले यस्य सूक्ष्मः नाशो भवति विष्णुना ।। - अनिरुद्धेन तन्नीच क्रमतोन्डान्तरे बहिः ।
तदुत्तरक्षणे लिङ्गदेहे च गुणसाम्यता ।। - भूम्याकृता भवति सा (स्वरूपज्ञानरूपिणी)जीवानां ज्ञानरोधिनी ।
स्वारूपिकज्ञानसुखे प्रयत्नेच्छाः सतां लये ।। - रुद्धा भवन्ति साम्ये तु वैषम्ये व्यक्तिमञ्जसा ।
यान्त्यवस्थाद्वयं लिङ्गे लये सृष्टौ क्रमात्किल ।। - क्षणक्षणेन भ्रमतां स तां सव्येन चान्यथा ।
भ्रमतां लिङ्गदेहस्थगुणत्रयसुयोगतः ।। - सृष्टिकाले त्रिधाभिन्ना जीवानां बुद्धिरिष्यते ।
सात्विकी राजसी चेति तामसीति समस्तशः ।। - योग्यानां सात्विकीबुद्धिः बहुला अन्येऽल्पके मते ।
मध्यमानान्तु जीवानां राजसी तामसी मतिः ।। - क्रमात्बहुतरेऽन्येतु स्वल्पमात्रे भविष्यतः ।
पञ्चमात्रागताऽज्ञानपञ्चकं लिङ्गदेहगम् ।। - अनाद्यज्ञानमुद्दिष्टं बाह्यमस्वारूपिकं तु तत् ।
साक्षीन्द्रियाणां (तमसा)मनसा योगे तद्धि भविष्यति ।। - साक्षीन्द्रियाणां सत्वस्थमनसा सङ्गमो यदि ।
बाह्या स्वारूपिकंज्ञानं त्रिविधानां चितामिह ।। - साक्षीन्द्रियाणां रजसा मनसा सङ्गमो यदि ।
बाह्यमस्वारूपिकं च कामक्रोधादिकं च यत् ।। - अनादिकामो जीवानां त्रिविधानां भविष्यति ।
रजः परिच्छेदगताः ज्ञानेन्द्रियकलाः यदि ।। - साक्षीन्द्रिययुताबाह्यशब्दादीच्छा भविष्यति ।
अनादिकामस्सा प्रोक्ता त्रिविधानां चितामिह।। - रजः परिच्छेदगताः कर्मेन्द्रियकलाः यदि ।
साक्षीन्द्रियुताः कर्मजनयन्त्यप्यनादिकम् ।। - बाह्यलिङ्गगतं कर्म न तु स्वारूपिकं मतम् ।
अनाद्यविद्याकामौ चानादि कर्म च लिङ्गगम् ।। - मदीयमितिमत्वा तु बद्धो भवति चेतनः ।
कालेन भारते वर्षे लब्धजन्मापि मानुषम् ।। - ब्राह्मण्यं सद्गुरोः सङ्गं भक्तिज्ञानेधिगम्य च ।
प्रसादात् श्रीहरेः कर्म देवतानामथान्तरे ।। - अण्डाद्बहिस्तात्विकानां वैकुण्ठपरिघालये ।
अण्डखर्परसंस्पृष्ट श्रीभागेवा हरीच्छया ।। - परान्त्यवृत्तिपरितः स्थितेवारि निमज्य च ।
अभिव्यक्तस्वरूपाणां सतां लिङ्गविपर्यये ।। - हरीरमासुराद्वेषाद्भारते मर्त्यजन्मनि ।
दुःसङ्गवृद्धात् अण्डान्तर्लिङ्गदेहस्य नाशने ।। - सतिवायोर्गदाघातादसतां कालयोगतः ।
अनाद्यविद्याकामौ चानादिकर्मापि नश्यति ।। - अतो बाह्यं न स्वरूपा अविद्याद्याः प्रकीर्तिताः ।
ज्ञानाज्ञाने स्वरूपस्थे नित्ये नैव च नश्वरे ।। - अनाद्यविद्याकामाद्याः साम्यावस्था यदा भवेत्।
तदा जीवस्य सर्वस्य न भवन्ति कदाचन ।। - राजसाणुशतांशाभाः द्विषट्कास्तामसाणवः ।
लये तेषु रजस्येकः सत्वपार्श्वगतादश ।।
27.भवन्त्येकस्तमो मध्ये संस्थितो भवति ध्रुवम् ।
रजोगतोणुस्तमसः सतो द्विगुणराजसम् ।।
28.राजसाणुशतांशाभाः सत्वगास्तामसाणवः ।
दशापिदशतोत्कृष्टान्सात्विकाणून् लये ध्रुवम् ।।
29.नीलीकुर्वन्त्येवमेषा साम्यावस्था प्रकीर्तिता ।
तामसी राजसी चेति साम्यावस्था द्विधा मता ।।
30.साम्यावस्था सात्विके तु न क्वापि किल विद्यते ।।
द्वाभ्यान्तु साम्यवस्थाभ्यां लिङ्गस्ताभ्यां जनस्य तु ।
31.लये सर्वस्य तां निद्रां नाशं प्राहुर्मनीषिणः ।
यदा योगेच्छोपरमः तदा ज्ञापयति प्रभुः ।।
32.अयोग्येच्छा प्रयत्नादि कर्तुराशां छिनत्ति च ।
वैषम्ये सति लिङ्गे तु जननेच्छा हि जायते ।।
33.यदेच्छा जायते जन्तोस्तदा सृजति तं प्रभुः ।
सृज्यानां सर्वजीवानां अण्डाद्बहि रथान्तरे ।।
34.नैकदा विषमावस्था ह्यजादीनां क्रमाद्भवेत् ।
व्युत्क्रमात्पूर्वमानेन अण्डान्तर्बहिरेव च ।।
35.साम्यावस्था च नीचानां प्राक्पश्चादुत्तमस्य च ।
लये सत्वप्रविष्टा ये दशते राजसाणवः ।।
36.स्वशताधिकसत्वस्थपरमाणु समन्विताः ।
सृष्टिकाले श्रियानुन्ना रजो भागं विशन्ति हि ।।
37.तमः परिच्छेदगत राजसाणुर्लये तु यः ।
स्वशतांशं तामसाणुं गृहीत्वा दुर्गयेरितः ।।
38.रजोभागं प्रविशन्ति सृष्टिकाले समागते ।
लये रजोभागमध्यगतोणू राजसस्य यः ।।
39.रजो मध्ये व्यक्तिमेति सृष्टिकाल उपागते ।
प्रकृतौ लिङ्गदेहोऽपि एवं यदि गुणस्थितिः ।।
40.साम्यावस्थां जगुः प्राज्ञाः तया सृष्टिर्भविष्यति ।
लये सत्वप्रविष्ठा ये दशैतत्तामसाणवः ।।
41.राजसाणु शतांशाभाः सात्विकैः स्वसमाणुभिः ।
युक्तास्तामस भागं हि विशन्ति श्रीसमीरिताः ।।
42.रजोविष्टस्तामसाणुः पूर्वाणु(सत्वेण)तुलितः स्वयम् ।
स्वतो(सत्वाच्च) द्विगुणेनैव संयुक्तो राजसाणुना ।।
43.तत्र स्थित्वा लये भूयः सृष्टिकाल उपागते ।
भुवानुन्नः तमोभागं विशन्ति श्रीहरीच्छया ।।
44.एकशुद्धस्तामसाणुः पूर्वैस्तामससात्विकैः ।
दशाभिश्चैकतमसा तथा राजसतामसम् ।।
45.प्राप्यसम्मिलितास्सर्वे तमो वैषम्यनामकम् ।
सहस्रसात्विकाणुभ्यः दशराजसकाणुभिः ।।
46.शुद्धेन रजसैकेन रजसायुक्त तामसः ।
अणुर्यदैकीभवति रजो वैषम्य उच्यते ।।
47.रजो वैषम्यतः सृष्टिः तमो वैषम्यतो लयः ।।
।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे सप्तमोऽध्यायः ।।