05 पञ्चमोध्यायः

पञ्चमोध्यायः

।। अथ पञ्चमोऽध्यायः ।।

।। श्रीहंस उवाच ।।

  1. ज्ञानेन्द्रियाणि पञ्चानि पञ्चकर्मेन्द्रियाणि च ।
    रजोभागगतान्येषु श्रोत्रमा(त्रं)द्यं विशिष्यते ।।
  2. श्रावणास्याद्यभक्तेस्तु साधकत्वाद्गुणाधिकम् ।
    त्वक्चर्मगोलके सर्वदेहगे समु(पाश्रिता)पस्थिता ।।
  3. कुष्ठभङुरपामाद्याः त्वक्दोषाः परिकीर्तिताः ।
    अव्यक्तादि स्पर्शदोषशून्याः शीतोष्णपूर्वकाः ।।
  4. स्पर्शास्तद्विषयाः प्रोक्ताः वायुतेजोम्बुभूमयः ।
    पदार्थाः केचनगुणाः सत्वगिन्द्रियगोचराः ।।
  5. त्वक्स्पर्शौ प्रकृतिस्थौ द्वौ नित्यौ स्थूलावनित्यकौ ।
    तज्जन्यौ प्राकृतौ वायुसंश्रयौ नश्वरौ मतौ ।।
  6. इन्द्रियाणान्तु विषयाः गुणामात्राः प्रकीर्तिताः ।
    ज्ञानात्मकानां ते सर्वे द्विविधाः परिकीर्तिताः ।।
  7. विष्णुवैष्णवसेवायै अनुकूलाश्शुभा मताः ।
    अशुभाः प्रतिकूलाश्च पुनस्ते त्रिविधा मताः ।।
  8. मुक्तियोग्याश्रिता नित्याः नित्यसृतिषु मध्यमाः ।
    तमोयोग्याश्रिता नीचास्तत्तद्योग्यसुसाधनैः ।।
  9. नीचमध्योत्तमस्थानप्रापकाः क्रमयोगतः ।
    जीवस्वरूपभूतानि मनोमात्रेन्द्रियाणि च ।।
  10. तत्स्वरूपाणि नित्यानि उत्तमेषु शुभान्यपि ।
    उत्तमा मुक्तियोग्यास्तु नित्यबद्धास्तु मध्यमाः ।।
  11. अधमास्तु तमोयोग्याः मनोमात्रादयस्तथा ।
    स्वारूपिकाश्चलिङ्गस्थाः अनित्याः स्थूलदेहगाः ।।
  12. विष्णोरमायाब्रह्मादि मुक्तानां क्रमयोगतः ।
    मनोमात्रेन्द्रियज्ञानसुखधैर्यबलादयः ।।
  13. स्वरूपाण्येवविष्णोस्तु नित्यव्याप्तानि कृत्स्नशः ।
    स्वतन्त्राणि स्वतन्त्रस्य (कर्माणि तु)पुरुषस्य महात्मनः ।।
  14. स्वस्वरूपस्थितौ यस्य ज्ञानेकर्मण्यपि स्फुटम् ।
    सर्वस्वरूपचेष्टासु परापेक्षा न यस्य हि ।।
  15. स स्वन्तन्त्र इति प्रोक्तः स विष्णुर्नेतरः क्वचित् ।
    अव्यक्ततत्कार्यमय देहशून्यारमापि हि ।।
  16. तच्चित्तेन्द्रियमात्रास्तु नित्या व्याप्ता स्वरूपका(काः) ।
    विष्ण्वैकवशगास्तस्याः हर्यपेक्षासदस्ति हि ।।
  17. परापेक्षयुतत्वात्सा अस्वतन्त्रा प्रकीर्तिता ।
    ब्रह्मादिमुक्तामुक्तानाम् अस्वतन्त्र्यमनादितः ।।
  18. सिद्धमेव स्वरूपे च ज्ञाने कर्मण्यपि स्फुटम् ।
    नीचानीचस्वरूपाणाम् उत्तमोत्तमचेतसाम् ।।
  19. प्रसादतः प्रवृत्तिर्हि ज्ञानभक्त्यादि चाखिलम् ।
    ज्ञानाज्ञानतमोमोक्षाः नित्यानित्यजडस्य च ।।
  20. नोत्पत्तिनाशौ जीवानां त्रिविधानां समस्तशः ।
    स्वरूपदुःखद्वेषेर्ष्या चिन्तासन्तापपूर्वकाः ।।
  21. न मुक्तानां देहयोगो यावत्तेषां भयादिकम् ।
    भयादीनि च योग्येभ्यः उत्तमेष्वल्पमेव च ।।
  22. ज्ञानं मुक्तिरयोग्यस्य न च स्वप्नेपि दृश्यते ।
    स्वरूपाज्ञानतमसी योग्यानां न कदाचन ।।
  23. सृष्टिं स्थितिं संहृतिं च नियतिं जगतोस्य तु ।
    ज्ञानाज्ञाने तमोमोक्षौ विष्णुनैव विदो विदुः ।।
  24. ब्रह्मादीनां स्वरूपन्तु अत्यन्ताणुतमं मतम् ।
    तदिन्द्रियाणि सूक्ष्माणि सूक्ष्माण्येव स्थिराणि तु ।।
  25. चक्षुर्गोलकगं नेत्रं रूपग्राह्यमतीन्द्रियम् ।
    नित्यमव्यक्तगं स्थूलमनित्यं जन्यमक्षि च ।।
  26. स्वरूपनेत्रकलितं नित्यानित्ये अक्षिणी उभे ।
    ज्ञानप्रदे साक्षिसंज्ञे सर्वस्वारूपकेन्द्रियम् ।।
  27. उक्तानां वक्ष्यमाणानाम् इन्द्रियाणां समग्रशः ।
    स्वारूपेन्द्रियसाहाय्यं विना शक्तिर्नविद्यते ।।
  28. वृद्धिं हानिं च लभते गुणैर्दोषैः स्वरूपतः ।
    साक्षीन्द्रियन्तु योग्यानां स्वोत्तमद्रोहतां विना ।।
  29. तत्रापीषत्कुतश्चित्तु तत्सर्वं कुण्ठितं भवेत् ।
    पटलं कामिला काचः प्रतिदीधिति सङ्गतिः ।।
  30. नेत्ररोगं व्रणाद्याश्च पैत्यप्रतिहतास्तथा ।
    अक्षिभ्रमणशैत्याद्याः नेत्रदोषाः प्रकीर्तिताः ।।
  31. आरस्थत्वं दूरगत्वं सौक्ष्मं च व्यवधानतः ।
    स्थितिः समानाभिघातः अर्थदोषाः प्रकीर्तिताः ।।
  32. निर्दोषविषया ये च निर्दोषेक्षणगोचराः ।
    शुक्लं रक्तं श्वेतपीतहरितादीनि कृत्स्नशः ।।
  33. चित्रादीनि स्वरूपाणि चक्षुषो विषयाणि च ।
    उद्भूतरूपसंयुक्ताः तेजोवार्भूमयात्मका ।।
  34. चक्षुषो विषयाः प्रोक्ताः केचित्सूर्योदयोऽमराः ।
    जिह्वा गोलकगं प्राहुः रसनेन्द्रियमुत्तमम् ।।
  35. अतीन्द्रियमरुच्याद्यास्तद्धोषास्फोटकादयः ।
    कषायश्च कटुस्तिक्तः लवणो मधुराम्लकौ ।।
  36. तथा चित्ररसश्चेति रसनेन्द्रियगोचराः ।
    दोषहीनस्य च रसज्ञानं जनयति स्फुटम् ।।
  37. ज्ञानं जनयति क्षिप्रं प्राकृतंप्रकृतिस्थितम् ।
    दुष्टा पर्युषिता यामहीना पूतियुता रसाः ।।
  38. सदोषा रससम्बन्धे रसना ज्ञानदा न हि ।
    भूमयाम्मया अर्थाः रसनेन्द्रियगोचराः ।।
  39. घ्राणगोलकगं प्रोक्तं नासिकेन्द्रियमूर्जितम् ।
    पीनसाद्याः घ्राणदोषाः गन्धग्राहेन्द्रियं मतम् ।।
  40. व्यामिश्राद्याः दोषभागाः गन्धदोषाः प्रकीर्तिताः ।
    वक्त्रगोलकगं प्रोक्तं वागिन्द्रियमतीन्द्रियम् ।।
  41. नित्यानित्यवचांस्तस्य सत्यासत्यवचांसि च ।
    वचांसि युक्तायुक्तानि गीर्वाणप्राकृतानि च ।।
  42. मूकत्वादि महादोषहीनवाग्गोचराणि च ।
    गद्गदत्वाऽस्पष्टताद्याः वाग्दोषाः परिकीर्तिताः ।।
  43. हस्तगोलकगं प्राहुः पाणीन्द्रियमतीन्द्रियम् ।
    व्यङ्गुलत्वादयस्तस्य दोषाः निर्दोषामिन्द्रियम् ।।
  44. गृह्णाती(व)ह परत्रापि यद्धितः स्वात्मनः सदा ।
    भूमयारत्नहेमाद्या बह्वर्था विषयामताः ।।
  45. अश्मयाश्च तथाभावाः हस्तयोर्विषयामताः ।
    कण्टकोच्छिष्टपाषाणवृश्चिकाद्या अनिष्टदाः ।।
  46. हेया अर्थाश्च हस्ताभ्यां परित्याज्याः सदा मताः ।
    सानिष्टदं हितकरं हस्तयोर्हितदं मतम् ।।
  47. अङ्घ्रिगोलकगं प्राहुः पादेन्द्रियमलं बुधाः ।
    पङ्गुत्वाद्याः अङ्घ्रिदोषाः निर्दोषगतिसाधनम् ।।
  48. स्वारूपिगं प्रकृतिगं प्राकृतं त्रिविधं मतम् ।

येनेन्द्रियेण यत्कर्मक्रियते साधुभिस्सदा ।।
49. तत्तस्य विषयः प्रोक्तः तन्नामेन्द्रिय गोचरम् ।
पक्वापक्वं च भुक्तं च वातं जीर्णं च कुक्षिगम् ।।
50. कालेन विपरीतन्तु शकृदित्युच्यते बुधैः ।
तादृगर्थोत्सर्गसंज्ञो पायोर्विषयमीरितम् ।।
51. भगन्धरादयो मूलव्रणाद्याः पायुसंस्थिताः ।
दोषाः निरोधातिसाराः पायोर्न यदि कार्यकृत् ।।
52. स्त्रीपुंसोर्भगमेढ्रादि गोलकस्थं ह्यतीन्द्रियम् ।
उपस्थशिश्नसंज्ञे द्वे इन्द्रिये दोषवर्जिते ।।
53. रत्युत्सृतौ प्रभवतः असृक्शुक्लाश्रयौ मतौ ।
मेहव्रणाद्याः तद्धोषाः निर्दोषं स्वार्थसाधकम् ।।
54. प्रकृतं प्राकृतं चैव स्वरूपेन्द्रिय संयुतम् ।
अर्थक्रियाकारि तद्धि नान्यथा भवति ध्रुवम् ।।
55. ज्ञानेन्द्रियाणि पञ्चापि पञ्चकर्मेन्द्रियाणि च ।
रजः परिच्छेदगानि भिन्नशक्तियुतानि च ।।
56. ज्ञानेन्द्रियाणां विषयाः क्रमाच्छब्दादयोमताः ।
शब्दस्पर्शारूपरसगन्धास्ते च गुणामताः ।।
57. मात्रातमः परिच्छेद पञ्चभूतान्तरामताः ।
भूतानि मात्रा गर्भेषु लीनाहुर्मनीषिणः ।।
58. भावरूपाज्ञानगतं पञ्चकं गुणगर्भकम् ।
मात्रासु लीनभूतेषु संस्थितं भावपञ्चकम् ।।
59. तमोमोहमहामोहतामिश्रान्धतामिस्रकाः ।
तमः शब्दगतं प्राहुः मोहः स्पर्शगतो मतः ।।
60. महामोहो रूपगतः तामिश्रो रसगोमतः ।
गन्धे अन्धतामिस्राख्यस्त एते भावरूपकाः ।।
61. एतानि प्रकृतिस्थानि नित्याण्यणुतराणि च ।
स्थूलानि भूतव्यक्तानि अनित्यान्यामनन्ति हि ।।
62. जीवस्वरूपं नैवते तद्विभिन्नं लिङ्गदेहगम् ।
जीवस्वरूपविज्ञानाच्छादकं परिकीर्तितम् ।।
63. तत्साधनाद्व्यञ्जमानस्वरूपज्ञानबाधकम् ।
तमः स्वरूपज्ञानस्य विपरीतप्रवर्तकम् ।।
64. यो मोहः स उपदेशेपि महामोहोऽनिवर्तयेत् ।
विद्वेषकारणं प्राहुः तामिश्रमुपदेष्टृषु ।।
65. कुयुक्तिभिः क्वागम्यैश्च गाढाज्ञानैकसाधनम् ।
अन्धतामिश्रसंज्ञाख्यम् अनाद्यज्ञानमीरितम् ।।
66. अनादिकालमारभ्यानन्तानन्ताणुमात्रकाः ।
केशाद्यायुततुल्याल्पस्वरूपाह्यात्मगोचराः ।।
67. तत्तत्स्वरूपकाकार हरिणाबिम्बरूपिणा ।
रक्षिताः प्रलये सृष्टा नित्यं तदनपायिना ।।
68. एतत्कल्पादिभावीनां तत्तकल्पेषु वै क्रमात् ।
सृज्याः विलक्षणास्तुल्याः अतुल्यास्त्रिविधात्मकाः ।।
69. जीवाः अनादितः सर्वेप्यस्वतन्त्रा रमावशाः ।
प्रकृत्यात्मकलिङ्गेन बद्धाः श्रीहरिकुक्षिगाः ।।
70. लये सृष्टौ हरिस्सृष्टाः अण्डाद्बहिरथान्तरे ।
सात्विकानीचमध्याश्च अन्तः सृज्या अतात्विकाः ।।
71. निरंशामर्त्यगन्धर्वपूर्वाः सर्वे तृणान्तिकाः ।
योग्या नित्यसृतिस्थाश्च तमो योग्याश्च कृत्स्नशः ।। *
72. सर्वेपि लिङ्गसम्बद्धा ये ते जीवा न चान्यथा ।
तेपि पूर्वानन्तकाल्पेष्वेवं स्वोचित साधनैः ।।
73. मुक्ताः मध्यास्तमः‡ प्राप्ताः सन्ति श्रीहरिगर्भगाः ।
नैषां क्वापि क्वचित्पूर्तिर्भविता नियमाद्धरेः ।।

।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चमोऽध्यायः ।।