04 चतुर्थोध्यायः

चतुर्थोध्यायः

।। अथ चतुर्थोऽध्यायः ।।

।। श्रीहंस उवाच ।।

  1. सूक्ष्मं सर्वजगद्बीजं मितं त्रातं च विष्णुना ।
    प्रधानमव्यक्तमिति यद्वदन्ति मनीषिणः ।।
  2. महामायेत्यविद्येति प्रकृतिर्मोहिनीति च ।
    त्रिगुणात्मकमव्यक्तं त्रिरूपं तत्त्रिशक्तिमत् ।।
  3. अविद्याकामकर्मादि बीजमित्यपि तां विदुः ।
    रक्षितं प्रलये सृष्टा(वेवा)वण्वनन्तस्वरूपवान् ।।
  4. अनादिकर्मग्रन्थीति बन्धोबन्धकमित्यपि ।
    अजामनन्यवशगां कलाषोडशसंयुताम् ।।
  5. तीव्रदुःखात्मकां नानायोनिप्रापकमीरितम् ।
    नारिकेलसमाकारं परिच्छेदत्रयात्मकम् ।।
  6. मूर्ध्निच्छिद्रयुतं दिव्यं रत्नवद्भास्वरं सदा ।
    विष्णुना रमयाच्छन्नाच्छिद्रगर्भावकाशवत्।।
  7. सृष्टौ लये रमा तस्य मानिनी च निरन्तरम् ।
    सृष्टावेव ब्रह्मवायू सभार्यावभिमानिनौ ।।
  8. रजस्सत्त्वतमस्संज्ञभागत्रयसमन्वितम् ।
    सत्वभागः शुक्लवर्णः रक्तवर्णस्तु राजसः ।।
  9. नीलवर्णस्तमोभाग इति भागत्रयात्मकः ।
    ज्ञानकर्मेन्द्रियकलाः रजोभागे व्यवस्थिताः ।।
  10. तमोभागगताः प़ञ्चतन्मात्रासंज्ञिताः कलाः ।
    मनः कला सत्वभागगता सर्वप्रधानिका ।।
  11. मनोबुद्धिरहंकारश्चित्तं चेति चतुर्विधम् ।
    कामक्रोधमहालोभमदमात्सर्यमोहकाः ।।
  12. द्वेषाहंकारममकारेर्ष्यसूयाभयादयः ।
    मनोदोषास्तद्विहीनं मनोज्ञानाय साधनम् ।।
  13. मनश्चतुर्विधं नित्यं जडप्रकृतिगं मतम् ।
    तज्जन्यमप्यनित्यं स्यात्तत्र चित्तं न दोषयुक् ।।
  14. मनः स्वर्णाद्यनेकार्थमपेक्षां जनयिष्यति ।
    बुद्धिर्निषिद्धभोग्च्छां सदासंकल्पयिष्यति ।।
  15. अहङ्कारः पुमर्थानां घातकः स्सोत्तमैः सह ।
    स्पर्धां विष्णुसुरद्वेषं कल्पयत्यपि सर्वशः ।।
  16. चित्तं सत्साधनगतं करोति पुरुषं सदा ।
    सत्साधनमहङ्कारकलितं पापमेवहि ।।
  17. अहङ्कारविहीनं तच्चित्तं विज्ञानसाधनम् ।
    रचिते भारते वर्षे यथा मानुषसत्तनुम् ।।
  18. लब्ध्वा गुरुकुलावासं कृत्वानेकसुजन्मभिः ।
    कृत्वात्मयोग्यसत्कर्म लब्धसद्गुरुसेवया ।।
  19. प्रसन्नैरुपदिष्टोरु सच्छास्त्रश्रवणादिभिः ।
    वृत्तिज्ञानप्रदं तच्च वृत्तिभक्त्यादि साधकम् ।।
  20. ताभ्यां स्वारूपिकज्ञानभक्तिर्व्यक्तिर्भविष्यति ।
    स्वारूपिकं मनो नित्यं ततः स्वारूपिकी मतिः ।।
  21. व्यक्ता भवति नित्या सा भक्तिः स्वारूपिकी तथा ।
    सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ।।
  22. इन्द्रियाणां गोलकानि दृश्यान्याहुः समग्रशः ।
    अतीन्द्रियाणीन्द्रियाणि ज्ञानकर्ममयानि च ।।
  23. श्रोत्रत्वङ्नेत्ररसनघ्राणाद्या ज्ञानशक्तयः ।
    वाक्पाणिपादपायूपस्थाः सर्वे कर्मशक्तयः ।।
  24. श्रोत्रं शब्दग्राहिशब्दो द्विविधः परिकीर्तितः ।
    शब्दो ध्वन्यात्मको वर्णात्मकश्चेति तदादिमः ।।
  25. अहङ्कारात्समुद्भूतः आकाशोत्पत्तिकारणः ।
    ध्वन्यात्मकस्तु शब्दस्तु प्रथमः परिकीर्तितः ।।
  26. ज्ञानकर्मेन्द्रियमनोमात्राः सूक्ष्माह्यनादयः ।
    नित्याश्च प्रलये सृष्टावनित्यास्ते प्रकीर्तिताः ।।
  27. वर्णात्मकस्तु यश्शब्दो नित्यः सर्वगतो विभुः ।
    द्रव्यमित्येव सर्वेषां न गुणः कस्यचिन्मते ।।
  28. वेदाः पदाद्वर्णतश्च शब्दतः स्वरतस्तथा ।
    अनादिनित्यास्ते सर्वेप्यपौरुषेयगुणोत्कराः ।।
  29. विष्णोर्माहात्म्यविज्ञप्तौ सत्प्रमेये च साधकाः ।
    शास्त्राणिच पुराणानि पौरुषेयाणि कृत्स्नशः ।।
  30. यथार्थानि प्रणीतानि हरिणाथ सुरर्षिभिः ।
    नित्यान्येवार्थतो वर्णक्रमयोगादनित्यकाः ।।
  31. सात्विकानि पुराणानि मन्वादि स्मृतयस्तथा ।
    यथार्थ एव तत्रोक्तं ग्राह्यं श्रीहरितत्परैः ।।
  32. वाराहं वैष्णवं पाद्मं वायुप्रोक्तं च गारुडम् ।
    श्रीमद्भागवतं चैव सात्विकानीति हि श्रुतिः ।।
  33. ब्रह्माण्डं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ।
    भविष्यं नारसिंहं च राजसानि षडैव हि ।।
  34. मात्स्यं कौर्म्यं तथा लैङ्ग्यं शैवं स्कान्दं तथैव च ।
    पाशुपतसंज्ञिकं चेति तामसानि विदो विदुः ।।
  35. ग्राह्यं सर्वं सात्विकोक्तं योजना भेदतोथवा ।
    वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।।
  36. इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ।
    व्यासोक्तानि पुराणानि सात्विकान्यपि कृत्स्नशः ।।
  37. क्वचित् क्वचित् पुराणानि प्रायोज्ञानकराण्यपि ।
    आसुरावेशवशतः तदन्योक्तान्यनन्तशः ।।
  38. श्रोत्राग्राह्याणि सन्त्येव अप्रमाणानि तान्यलम् ।
    परशुक्लत्रयोक्तानि नित्यं विष्ण्वाज्ञयैव तु ।।
  39. अतिप्रमाणानि दैत्यावेशाज्ञानादि वर्जनात् ।
    बधिरत्वादयः श्रोत्रृदोषास्तद्वर्जितेन्द्रियैः(याः) ।।
  40. एतानि विषयाण्याहुः श्रोतव्यानि सहस्रशः ।
    शब्ददोषविहीनानि ग्राह्याणि मनसा सह ।।
  41. तत्रोक्तानन्तसुगुणं निर्दोषं ज्ञेयमीश्वरम् ।
    गम्यं सत्यं च सुखचिन्मयं विष्णुं सनातनम् ।।
  42. आत्मेश्वरं हरिं भक्त्योपा(स्त्या)स्यमुक्ता भवन्ति हि ।
    कुशास्त्रेषूक्तदुर्मार्गे हेयता बुद्धिसंयुतम् ।।

।। इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे चतुर्थोऽध्यायः ।।