03 तृतीयोध्यायः

तृतीयोऽध्यायः

।। अथ तृतीयोध्यायः ।।
।। श्रीहंस उवाच ।।

  1. जालरन्ध्रात् ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि ।
    यदा भवन्ति तस्याः समीपे तिर्गास्थितः ।।
  2. केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः ।
    मर्त्योत्तमो भक्तिपाकात् महरादिषु संस्थितः ।।
  3. यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः ।
    तच्छतांशो हि देवानां तच्छतांशोब्जजस्य तु ।।
  4. भूमौ स्थितानां मर्त्यानां यः कालः परमाणुकः ।
    तच्छतांशो देवलोके स्थितस्य परमाणुकः ।।
  5. तत्कोट्यंशो रमायाश्च तदनन्तांशको हरेः ।
    परमाणुरिति प्रोक्तः तदन्यैर्न्यैव बुध्यते ।।
  6. परमाणुद्वयात्मातु कालो द्व्यणुक ईरितः ।
    परमाणुत्रयात्मस्य त्र्यणुकः परिकीर्तितः ।।
  7. त्रुटिः त्रिभिश्च त्र्यणुकैः वेधः स्यात्तत्रयेण तु ।
    लवोवेधत्रयात्मास्यात् निमेषस्तु त्रिभिर्लवैः ।।
  8. क्षणस्त्रिनमिषः प्रोक्तः काष्ठाख्या क्षणपञ्चकात् ।
    काष्ठाभिः पञ्चदशभिः लघुकालः प्रकीर्तितः ।।
  9. लघुभिः पञ्चदशभिः विनाडिका प्रकीर्तिता ।
    विनाडिका षष्ठिभिर्या नाडिकैका भविष्यति ।।
  10. ताभ्यां मुहूर्तत्रिंशद्भिः अहोरात्रमितीरितम् ।
    अष्टमांशान्न्यूनसप्तघटिकाभिश्च सप्तभिः ।।
  11. सपादसप्तभिर्वापि सार्धसप्तभिरेव वा ।
    यामः कालोष्टभिर्वापि कालभेदेन चोदितः ।।
  12. यामैश्चतुर्भिः अहः स्यात् तावद्भिर्यामिनीमता ।
    अहोरात्रत्रिँशता च मासः पक्षद्वयात्मकः ।।
  13. ताभ्यां ऋतुस्तत्रयेणैवा अयनं परिकीर्तितम् ।
    कर्कादि कार्मुकान्तेषु यदा चरति भस्करः ।।
  14. दक्षिणायनमुद्धिष्टं देवानां रात्रिसंज्ञकम् ।
    यावन्नक्रादिके भानौ मिथुनान्तेषु तिष्ठति ।।
  15. उत्तरायणमुद्धिष्टं तावत्कालं विचक्षणैः ।
    अयनाभ्यां वत्सरस्तु द्विषण्मासात्मकः स्मृतः ।।
  16. षष्ठ्युत्तरत्रिशतकैः अहोरात्रैश्च वत्सरः ।
    अष्टाविंशत्सहस्रैस्तु लक्षसप्तदशाब्दतः ।।
  17. क्लृप्तः कृतयुगस्तस्मात् त्रेतापादोनमुच्यते ।
    सहस्रषण्णवत्येतलक्षद्वादश सम्मितः ।।
  18. त्रेतायुगस्ततः पादन्यूनो द्वापर ईरितः ।
    चतुष्षष्ठिसहस्रेत अष्टलक्षमितिस्मृतः ।।
  19. द्वापररात्तु कलिस्तस्मादर्धपादमितिस्मृतः ।
    द्विषोडशसहस्रेताच्चतुर्लक्षात्मकः कलिः ।।
  20. कृतत्रेताद्वापरश्च कलिश्चेति चतुर्युगाः ।
    चतुर्युगात्मकः कालो महायुग इतीर्यते ।।
  21. विंशत्सहस्रेतलक्षत्रिचत्वारिंशदब्दकैः ।
    क्लृप्तः कालः कालदृग्भिः महायुग इतीर्यते ।।
  22. षष्ठ्युत्तराब्दत्रिंशताद्देवानामब्द ईरितः ।
    तादृगब्दसहस्राणां चतुष्कोणः कृताह्वयः ।।
  23. त्रेता तु त्रिसहस्राब्दा द्विसहस्राब्दसम्मितः ।
    द्वापरस्तु ततो न्यूनसहस्राब्दमितः कलिः ।।
  24. कृतस्यादौ कृतान्ते च पृथगब्दश्चतुश्शतम् ।
    सन्धिस्त्रेतायुगाद्यन्ते पृथगब्दशतत्रयम् ।।
  25. सन्धिस्तु द्वापराद्यन्ते पृथगब्दशतद्वयम् ।
    शताब्दस्सम्मितः कालः सन्धिराद्यन्तयोः कलेः ।।
  26. एवं दैवेन मानेन द्वदशाब्दास्सहस्रतः ।
    क्लृप्तः कालः कालविद्भिः महायुग इतीर्यते ।।
  27. सार्धाष्टादशलक्षाब्दे युगानाम् एकसप्तति ।
    मिलितो मनुसन्धातभोगकाल उदीरितः ।।
  28. द्विषट्शताब्दसमितो लयः स्वायम्भुवोत्तरः ।
    स्वारोचिषादिकानान्तु षण्णामप्यन्तरे लयः ।।
  29. प़ञ्चादशशताब्दात्मा लयः काल उदीरितः ।
    चतुर्दशशताब्दात्मा लयः काल उदाहृतः ।।
  30. तदन्य मन्वन्तरेषु नियमात्सर्वदैव तु ।
    चतुर्युगसहस्रन्तु ब्रह्मणो दिन उ(दिवमु)च्यते ।।
  31. रीत्रिश्च तावती तस्य अहोरात्रा तु तादृशा ।
    षष्ठ्युत्तरत्रिशतकाद्वत्सरोऽजस्य कीर्तितः ।।
  32. एवं विधशताब्दात्मा कालोऽजस्यायुषो मतः ।
    वासुदेवात्सूक्ष्मतनुं स्वशताब्दादिमे क्षणे ।।
  33. यः प्राप सशताब्दायुः तद्रूपाणीतराणि तु ।
    मासत्रयाधिकादब्दषट्कात् पूर्वतनादभूत् ।।
  34. सृज्यानां सूक्ष्मसांशानां सूक्ष्मसृष्टिश्चतुस्तनोः ।
    सृष्टानां सूक्ष्मतः पूर्वं स्थूलदेहस्ततोऽभवत् ।।
  35. नारायणादजाद्रुद्रात् क्रमात् कालानुसारतः ।
    यावतां सूक्ष्मतः सृष्टिः स्थूलसृष्टिस्तु तावता ।।
  36. अण्डादूर्ध्वं चावृतयः स्थूलदेहाश्च तन्मयाः ।
    आद्यस्य ब्रह्मणः पूर्वं पञ्चाशद्वत्सरान्ति मे ।।
  37. दिने व्यतीते तद्रात्रावण्डसृष्टिरथाभवत् ।
    तदन्तः स्वपतो विष्णोर्जलमध्यगतस्य तु ।।
  38. नाभ्युत्थिताल्लोकमयात् प्राकृतात् पद्मकोशतः ।
    पाद्मः ब्रह्मोत्थितस्सार्धं सप्तत्रिंशच्चतन्मये ।।
  39. दिनान्तिमे निशायां च नाशोऽण्डस्य जगत्पतेः ।
    व्युत्क्रमात्पूर्वमानेन स्थूलसूक्ष्मस्य नाशनम् ।।
  40. एवं शतायुषः पूर्णेद्विपरार्धात्मकायुषी ।
    स्वयं चात्मस्वरूपाणाम् एकीभावं करोत्यजः ।।
  41. यावत्कालेनात्मसृष्टिरेकीभावस्तु तावता ।
    एकीभूतेपि रमति तथैकीभूतमायया ।।
  42. तावत्कालं ततः पश्चात् सुप्तवत् स्वापयत्यजः ।
    सार्धद्विषड्ब्रह्मवर्षमिति शिष्टे निशान्ति मे ।।
  43. भागे पुनः पूर्ववच्च आत्मसृष्ट्यादिमीश्वरः ।
    करोति पुरुषस्तस्य नायुर्मानं विधीयते ।।
  44. एवं विधापरिमितानन्तानन्तपरात्मके ।
    काले भाविन्यपि हरिः सृष्ट्यादीशः करिष्यति ।।
  45. स्वन्तन्त्रस्यास्य मर्यादा अस्वतन्त्रैर्न शक्यते ।
    लङ्घितुं पूर्णशक्तेर्हि वशे सर्वं चराचरम् ।।
  46. येऽनन्तकालतस्तस्य मृतिजन्मजरादयः ।
    आयासदुःखदौर्भाग्यचिन्तासन्तापपूर्वकाः ।।
  47. अज्ञानेर्ष्यासूयपीडा कामक्रोधभयादयः ।
    कृशतारोगदुरितपुण्यलेपादयस्तथा ।।
  48. आशाहानिश्च वृद्धिश्च क्षुत्तृट्कम्पादयस्तथा ।
    नासन् दोषाः नोत्तरत्र भविष्यन्त्यखिलेश्वरे ।।
  49. तत्तद्दुर्जनसङ्घैश्च ये कल्प्याः दोषसञ्चयाः ।
    तत्तद्विरोधि सुगुणानन्त्यपूर्णस्य मीलुषः ।।
  50. तद्दोषलेशगन्धोपि न विष्णोरिति निश्चयः ।
    यः कालः परमाण्वादि द्विपरार्धावसानकः ।।
  51. तेषु सर्वेषु कालेषु तत्तन्नाम्ना रमापतिः ।
    तत्सामर्थ्यव्यञ्जकश्च स्थित्वा रक्षत्यजः प्रभुः ।।
  52. नित्यः कालप्रवाहोयमनित्यास्तु क्षणादयः ।
    नष्टेषु सत्सुकालेषु वर्तमानेषु वै क्रमात् ।।
  53. अविनाश्य स्वरूपोसौ तत्प्रवाहस्य रक्षकः ।
    शताब्दस्सम्मितः कालो ब्रह्मणः परसंज्ञकः ।।
  54. सकालस्तु निमेषाख्यः अहश्च परमेशितुः ।
    इत्यज्ञजनबुद्धीनां शुद्ध्यर्थमुपचर्यते ।।
  55. अत आहुर्महाप्राज्ञाः कालतोनन्तमीश्वरम् ।
    अथापि परकालान्तं ब्रह्माणं जनयन्विभुः ।।
  56. अङ्गीकरोति तं कालमहोयदखिलेश्वरः ।
    रात्रिमानादि शून्योपि तावन्तं कालमीश्वरः ।।
  57. रात्रित्वेन चरत्येवं ब्रह्मादीन्स्वापयत्यजः ।
    निशायाश्चरमे भागे आत्मसृष्ट्यादिमीश्वरः ।।
  58. करोति पुरुषस्तस्य आयुर्मानं विधीयते ।
    एवं विधापरिमितानन्तानन्तपरात्मकः ।।
  59. कालाव्यतीता सृष्ट्यादि कर्तुर्विष्णोः परात्मनः ।
    स्वरूपेन्द्रियवद्योसौ कालोरूपादिवर्जितः ।।
  60. पूर्वपूर्वसु कालेषु नष्टेष्वन्ये भवन्ति हि ।
    उत्तरत्रायास्यमानपरमाणुप्रवाहतः ।।
  61. संयोज्यघटिकाद्यास्तु कालोज्ञेयः समानतः ।
    घटिकायाममासाद्या नैकदा सम्भवन्ति हि ।।
  62. आयुर्मानविहीनस्यानन्तानन्तपरात्मकैः ।
    विष्णोः कालानन्त्यमितौ कालज्ञान(नं)प्रयोजकम्।।
  63. वेदानामक्षराणाञ्च देशन्याव्याकृतस्य च ।
    रमायाः सर्वजीवानां मुक्तानां लिङ्गसंयुजाम् ।।
  64. समस्तलिङ्गदेहानां जडायाः प्रकृतेस्तथा ।
    एतेषामस्वतन्त्राणां स्वतन्त्रवशवर्तिनाम् ।।
  65. कालानन्त्यमितौ नित्यं कालज्ञान(नं)प्रयोजकम् ।
    अनित्या(अनन्ता)नां जडानां च सूक्ष्मस्थूलशरीरिणाम् ।।
  66. आयुर्माने शरीराणां कालज्ञनं प्रयोजकम् ।
    एवं कालगतिं जानन् कालभीतिं तरिष्यति ।।
  67. एकस्मिन्परकालेतु एकमण्डं जगद्गुरुः ।
    दशावरणसंयुक्तं सृजत्यवति हन्त्यजः ।।
  68. नैकदाजाण्डबहुलं स्रष्टुमिच्छति केशवः ।
    ब्रह्माणं गरुडं शेषम् इद्रं प्राणं रविं सुरान् ।।
  69. एकमेकं हरिर्मुक्तं(क्त)परकाले करोत्यजः ।
    तथाप्यजाण्डानन्तानां नियन्ताऽजाण्डरूपवान् ।।
  70. हरिः तादृङ्महारूपानन्तानन्तानि वै हरेः ।
    रोमाङ्कुरेष्वनन्तेषु संवसन्तीति हि श्रुतिः ।।
  71. तादृशानन्तरूपाणाम् अनन्त्यानन्त्ययोगतः ।
    अधश्चोर्ध्वं चाष्टदिक्षु संयुक्तानामनन्तशः ।।
  72. रूपानन्त्यैरपूर्णोरु देशे पूर्णतनुर्हरिः ।
    अत्यभिन्नोरुचित्सौख्यबलादि गुणविग्रहः ।।
  73. निर्विशेषः सर्वगतः सूक्ष्मस्थूलादिरूपकः ।
    समशक्तिः समज्ञानबलादिशुभसद्गुणः ।।
  74. समाधिकविहीनश्च रमयानन्तरुपया ।
    सहस्वाधीनया सत्याऽशेषचिज्जडभृद्धरिः ।।
  75. स्वभिन्नायाः श्रियाः भिन्नाः मुक्तामक्तासुचिद्गुणैः ।
    भिन्नैर्नित्यजडैस्सत्यैः भिन्नैः जीवेश्वरैः सदा ।।
  76. विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः ।
    अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः ।।
  77. पूर्णोपि जडचिद्रूपं सृजत्यवति हन्त्यजः ।।

।। इति श्री परतत्तवनर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे तृतीयोऽध्यायः ।।