द्वितीयोऽध्यायः
।। अथ द्वितीयोऽध्यायः ।।
।। श्रीहंस उवाच ।।
- संस्तुतो भगवानेवं तदैवोत्थाय केशवः ।
शून्यनामाथ जगृहे परुषाख्यां तनुं हरिः ।। - पुरुषः सर्वरूपाणां व्यक्ताबीज इवस्थितः ।
सोनन्तात्मा व्याप्ततनुः विश्वकुक्षिरितीरितः ।। - पुरुषाद्वासुदेवाद्याश्चत्वारो ह्यभवंस्ततः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।। - श्वेतरक्तपीतनीलाः वासुदेवादयः क्रमात् ।
मुक्त्यैहृत्यै तथा गुप्तै सृष्ट्यै स्वेच्छातनुर्हरिः ।। - शून्यनाम्नी रमादेवी श्रीर्भूत्वा पुरुषंश्रिता ।
सैवमायाजयाभूत्वा कृतिश्शान्तिरितीरिता ।। - वासुदेवादि भार्यासीत् सर्वदा सानपायिनी ।
चतुर्मुखो वासुदेवः ब्रह्मणो बिम्बरूपकः ।। - सङ्कर्षणः सहस्रास्यः फणिराड्बिम्बरूपकः ।
प्रद्युम्नो मारबिम्बात्मा ह्यतिसुन्दरविग्रहः ।। - बिम्बात्मा कामपुत्रस्यानिरुद्धास्यानिरुद्धकः ।
सकृद्धोल्कादि पञ्चात्मा विश्वाद्यष्टतनुर्हरिः ।। - विमलादिनवात्माभूत् समत्स्यादि दशाकृतिः ।
शक्त्यादि द्वादशात्माभूद्वारकादि षोडशरूपवान् ।। - आनन्दादि त्रयोविंशद्रूप आसीत्परात्परः ।
केशवादि चतुर्विंशद्रूपवानभवद्धरिः ।। - अजादि पञ्चाशद्रूपः ततोभूत् पुरुषोत्तमः ।
कालाख्यषष्ठिरूपोभूत् संवत्सरनियामकः ।। - नारायणादि शतकः स विश्वादि सहस्रकः ।
पराद्यनन्तरूपोभूदात्मभेद विवर्जितः ।। - तदाज्ञयैव देवी सा रमापि बहुरूपिणी ।
स तयानन्तरूपिण्या अनन्तरूपो रमापतिः ।। - स्वरतोऽपि तया देव्या तत्प्रीत्यर्थं दयानिधिः ।
लयकालाष्टमांशन्तु नीत्वा पुरुषपुङ्गवः ।। - प्रारम्भे सृष्टिकालस्य अजादीन्स्रष्टुमारभत् ।।
।। इति श्री परतत्वनिर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे द्वितीयोध्यायः ।।