४३ अध्यायः

अथ त्रिचत्वारिंशोऽध्यायः

श्रिभगवानुवाच

विश्वास-प्रस्तुतिः

प्रासादावासतः कोणे समारभ्य यथारुचि ।
प्राङ्कणं 1 सर्वदिक्कृत्वा प्राकारं परिकल्पयेत् ॥ १ ॥

मूलम्

ग्रहिकासप्रतोलीकं केवलं वामरान्वितम् ।
प्रासादे तु चतुर्द्वारे चतुर्मूर्तिरलङ्कृते ॥ २ ॥

द्विद्विकं तु प्रतोलीनां दिक्षु प्राकारगं हितम् ।
चतुष्कं ? प्राष्टकं कुर्यात् प्रासादानां महामते ॥ ३ ॥

एकरूपं हि वा नाना लक्षणं भगवद्वशात् ।
यथाभिमतमानं च प्रासादाभासमात्रकम् ॥ ४ ॥

मूलम्

एकरूपं हि वा नाना लक्षणं भगवद्वशात् ।
यथाभिमतमानं च प्रासादाभासमात्रकम् ॥ ४ ॥

विश्वास-प्रस्तुतिः

पक्वेष्ठकाश्मदारूत्थं तत्र कोणचतुष्टये ।
चतुष्कं विहितं विप्र अष्टकं कल्पयेद्यदि ॥ ५ ॥

परस्परमुखं कुर्यात् द्वारोद्देशद्वये ततः ।
सान्तरं दिक्त्रये कुर्यात् प्रासादानां द्विकं द्विकम् ॥ ६ ॥

सपीठाद्देवमानाच्च द्वारोच्छ्रायमुदाहृतम् ।
प्रमाणेनोन्नतानां च देवानां च महामते ॥ ७ ॥

नानाह्रस्वप्रमाणानां पीठेनोन्नतिमानयेत् ।
वैतत्येनोन्नतत्वेन लक्षणानियमोज्झिता ॥ ८ ॥

द्वारं सुखप्रवेशं च सङ्कटानां गुणावहम् ।
कृतायां शुद्धविहितं ऋक्षेणानुगतम् ? ॥ ९ ॥

विस्तारायामयोश्चैव आदायाङ्गुलसन्ततिम् ।
शुभाय ऋक्षलाभार्थं गुणयेच्च परस्परम् ॥ १० ॥

शोधयेद्वाथ लाभार्थं मुष्टिभिश्चाङ्गुलिस्थितिः ।
एकत्रिपञ्च वै सप्त शेषास्सर्वे शुभास्स्मृताः ॥ ११ ॥

ध्वजशार्दूलवृषभगजेन्द्राः क्रमशो हिते ।
एवं नक्षत्रलाभार्थं शोभयेत्तां स्थितिं पुनः ॥ १२ ॥

आदेकात् सप्तविंशान्तं शेषान्तं हृष्टमाचरेत् ।
वरयेदङ्गुलं चैकं पादयोर्वा प्रयत्नतः ॥ १३ ॥

नूनमङ्गुलराशेर्वै शुभ-ऋक्षाय सिद्धये ।
विचार्यैवं पुरा सम्यक् कुर्याद् भूमिसुरालयम् ॥ १४ ॥

शयनासन आसीनस्सुपर्णस्थस्य वा विभोः ।
दिक्त्रयेऽभिमते चैव एकं वा दिक्त्रये त्रयः ॥ १५ ॥

उपविष्टं तु याम्यायां पश्चिमे या दिगुत्थितम् ।
उदग्दिग्दक्षिणद्वारे प्रासादे गरुडासनम् ॥ १६ ॥

चतुष्टयं चतुर्णां तु कोणानां यत् प्रकीर्तितम् ।
तत्रानले दिगल्पस्थमुदग्द्वारे तु प्राक्चरम् ॥ १७ ॥

स्वबोधपरिमाणेन 2 सत्त्वेनाभिमतेन च ।
कलासक्ता इयत्ताख्याः परिच्छेदवशात् स्मृतम् ॥ १८ ॥

तमास्थापनसञ्ज्ञं च विशेषं कमलोद्भव ।
सम्पन्ने ब्रह्मपाषाणसंस्कारे पैठिकेऽपि च ॥ १९ ॥

प्। २६५)

विश्वास-प्रस्तुतिः

उद्वर्तनाभ्यञ्जनेन मृद्भूतिगोमयादिना ।
शिल्पिदोषोपशमने स्नानमात्रे कृते सति ॥ २० ॥

निष्पन्ने नेत्रदाने तु स्नाने सम्पादिते परे ।
उत्थाप्य मूर्तिपालैस्तु गुर्वादीन् बहुभिर्बलात् ॥ २१ ॥

निवेशनेन मन्त्रं यद्विविधं साम्प्रतं कृतम् ।
त्रितये चैकतां प्राप्ते वज्रलेपेन पौष्कर ॥ २२ ॥

प्रोक्ते लग्नोदये मन्त्रन्यासमाचरणात्तु वै ।
यच्छक्तेरनुसन्धानात्तत्स्थितिस्थापने तथा ॥ २३ ॥

प्रासादान्तरभित्तीनां लिखितं वाम्बरादिके ।
सिध्यर्थं साधकेन्द्रैस्तु सिद्धिकालावधिं तु वै ॥ २४ ॥

चलबिम्बस्य यन्मन्त्रं न्यासं वै सासनस्य च ।
नित्यमाराधनार्थं तु कर्मार्चायामपि द्विज ॥ २५ ॥

तं विप्र चलनाख्यं तु स्थितिस्थापनमेव च ।
क्ष्माभङ्गैर्जलपूर्वैस्तु दोषैर्या चातिदूषिता ॥ २६ ॥

उद्धृत्य योजनान्यत्र स्थाने तु शुभलक्षणे ।
सम्यक् स्संस्थापनाद् भूयस्संस्थापनमुदाहृतम् ॥ २७ ॥

विद्युत्प्रपातपूर्वैस्तु दोषैर्या चाभिदूषिता ।
तदुत्थानकृते शश्वन्निर्दोषे चासने स्थितिम् ॥ २८ ॥

तत्समा लक्षणाढ्या च प्रतिमान्या महामते (हे) ।
अन्यस्मिन् वा नवे पीठे बिम्ब (व ?) त्परियोजिता ॥ २९ ॥

बोद्धव्यं तद्विशेषं च स्थापनोत्थापनं तु वै ।
ज्ञानसङ्घोज्झितत्वाच्च एकदिक्सममीक्षणात् ॥ ३० ॥

प्राधान्येनाथ दिक्चक्रं स्वगात्रैरिह वासनात् ।
शयनासनसंस्थानचलाचलवशादपि ॥ ३१ ॥

प्रतिष्ठाख्यविशेषाश्च बहवस्सर्वसिद्धिदाः ।
सामान्यसन्निवेशाच्च तद्विशेषगुणात्तु वै ॥ ३२ ॥

स्थितं चाक्षरया शुद्धा सामान्यार्च्चा फलार्थिनाम् ।
फलसाम्यं परिज्ञेयं किं त्वन्यस्मिन् हि जन्मनि ॥ ३३ ॥

चातुरात्म्यप्रतिष्ठा च ज्ञानं यच्छति शाश्वतम् ।
यत्प्राप्य न पुनर्जन्म पुनरेवाप्नुयान्नरः ॥ ३४ ॥

फलकामस्तु यः कुर्याच्चतुर्मूर्तिनिवेशनम् ।
श्रद्धया परया भक्त्या संरुल्पादेव पद्मज ॥ ३५ ॥

पैतृकं मातृकं चैव जायाख्यं 3 सप्तसङ्ख्यकम् ।
कुलमुद्धरते तस्मिन् जन्मप्राप्तौ क्षितौ पुनः ॥ ३६ ॥

धर्मोपेतां हरेर्भक्तिमाश्रय(त्य ?)न्त्यब्जसम्भव ।
जातजन्मा तृतीया तु ? प्राप्नुयात् सद्विवेकवत् ॥ ३७ ॥

समुत्तरति वै येन घोरात् संसारसङ्कटात् ।
रूपमाद्यप्रतिष्ठाया इत्युक्तं द्विजसत्तम ॥ ३८ ॥

विशेषसन्निवेशेभ्यस्त्विदानीमवधारय ।
मनीषितं फलं भुक्त्वा दिव्येषु भुवनेषु च ॥ ३९ ॥

जन्मासाद्य समुत्कृष्टमाचरेत् पुनरेव हि ।
दैवी ब्रह्मप्रतिष्ठाद्या या परस्मिन् हि जन्मनि ॥ ४० ॥

प्राग्वद्यच्छति विज्ञानं परमेशपदाप्तिगम् ।
एतावदुक्तं वैषम्यं सति साम्यं महामते ॥ ४१ ॥

यज्ञोत्तमस्य दिव्यस्य सफलस्याब्जसम्भव ।
अच्युतस्याविनाशस्य भवक्षयकरस्य च ॥ ४२ ॥

मूलम्

यज्ञोत्तमस्य दिव्यस्य सफलस्याब्जसम्भव ।
अच्युतस्याविनाशस्य भवक्षयकरस्य च ॥ ४२ ॥

विश्वास-प्रस्तुतिः

भेदं यद्वस्तुमात्रेण स्थितं तदवधारय ।
वर्णा(दी)नां ब्राह्मणादीनां गृहाश्रमरतात्मनाम् ॥ ४३ ॥

आदीक्षितानां प्राग्विप्र भीतानां मरणादिके ।
व्यवहारस्थितानां च प्रतिष्ठाद्या महामते ॥ ४४ ॥

निवर्जिताः प्रयच्छन्ति फलमुक्तं हि यन्मया ।
निर्वाणदीक्षितानां च गुरुणाच्युतवेदिनाम् ॥ ४५ ॥

प्। २६६)

विश्वास-प्रस्तुतिः

भक्त्या प्राप्ताधिकाराणां नित्यमाराधनं प्रति ।
सम्यक्समाधिनिष्ठानामिह जन्मैकशेषिणाम् ॥ ४६ ॥

विकल्पक्षीणचित्तानां प्रतिष्ठा विहिताब्जज ।
त्राणार्थं स्वकुलादीनामनन्तानां च सम्भवात् ॥ ४७ ॥

यावज्जीवावधिं कालं तेषामास्थापनं तु वै ।
विहितं परितोषार्थं बुद्धेर्बुद्धिमतां वर ॥ ४८ ॥

ज्ञात्वैवं धर्मलब्धेन धनेन च बलेन च ।
आक्षिपन् ग्रहणात् सर्वं ध्वजान्तं वै समाप्य च ॥ ४९ ॥

विश्वावासपदावासं दक्षिणाननमासितम् ।
पीठस्थमुपविष्टं च प्राग्द्वारे नि-ऋते गृहे ॥ ५० ॥

एवं खगेशपृष्ठस्थं वायुदिङ्मन्दिरे हितम् ।
दिव्यभोगफलावाप्तिं 4 सह दिक्तल्पगात्तु वै ॥ ५१ ॥

प्रजापतित्वमापन्ना 5 उक्तदिग्विनिवेशनात् ।
स्थिति त्रिविष्टपादीनामुपरिष्टात्तु शाश्वतीम् ॥ ५२ ॥

विहायसगतिं दिव्यां यानगात् प्राप्यते पुमान् ।
भक्तानां फललिप्सूनां स्थानस्थलफलादिकम् ॥ ५३ ॥

फलदिक्संस्थितास्सर्वे नगराणां फलार्थिनाम् ।
उत्कृष्टजन्मपूर्वं तु जन्म चात्मप्रकाशकम् ॥ ५४ ॥

तद्विद्धि भवशान्त्यर्थमचिरादेव पद्मज ।
यथोद्दिष्टक्रमेणैव दिक्त्रये विनिवेश्य च ॥ ५५ ॥

नृसिंहकपिलक्रोडमूर्तयो वा महामते ।
प्राग्वद्विदिक्चतुष्केषु चतुर्णां विहितं क्रमात् ॥ ५६ ॥

वाजिवक्त्रं तु मुक्तानां सिंहादीनां निवेशनम् ।
दिक्त्रये कच्छपादीनां कुर्यात् संस्थापनं तु वा ॥ ५७ ॥

मीनवामननाथानां देवानां प्राक्फलाप्तये ।
विदिक्षु विनियोक्तव्यं यथोद्दिष्टक्रमेण तु ॥ ५८ ॥

त्रिविक्रमकुठारास्त्रकरं कान्तावपूर्धरम् ।
सर्वदेवमयं विश्वरूपं तु परमेश्वरम् ॥ ५९ ॥

एतावदुक्तनियममतोऽन्ये येऽखिलास्तु वै ।
प्रादुर्भावान्तराश्चैव प्रादुर्भावाब्जसम्भव ॥ ६० ॥

गुरूणां सम्मतेनैव योक्तव्यं नान्ययाजकैः ।
सदेवां हि कुटीं रम्यामापाद्याभिमतां ततः? ॥ ६१ ॥

द्वाराग्रे मण्डपाभासं सोपानपदवीयुतम् ।
वेदीविभूषितं कुर्यात् स्थितमाराधनाश्रयम् ॥ ६२ ॥

भोगानां स्थितयेऽन्येषां वातवृष्टिक्षमं शुभम् ।
प्रासादाङ्घ्रिप्रतिष्ठार्थमापाद्याब्जज वै ततः ॥ ६३ ॥

पञ्चानां वा नवानां च एकस्मिन् वा घटोदके ।
सर्वरत्नमयोपेते न्यस्तं यत्परमेश्वरम् ॥ ६४ ॥

आङ्गं सलाञ्छनं मान्त्रं परिवारसमन्वितम् ।
स्वशक्तिखचितं चैव प्रत्यहं पूजयेच्च तम् ॥ ६५ ॥

मन्त्रबिम्बप्रतिष्ठार्थं कालविघ्नोपशान्तये ।
अन्यथा जायते विघ्नमनिवार्यं महामते ॥ ६६ ॥

गच्छन्ति सन्निधिं मन्त्रा नित्यं त्रैकाल्यमर्चनात् ।
यच्छन्त्यनर्चनाच्छोकं रोधितं यत्र यत्र च ॥ ६७ ॥

पदानि प्राङ्कणे चैव देवानां विनिवेशने ।
उक्तानि पद्मसम्भूत इदानीमवधारय ॥ ६८ ॥

मूलम्

पदानि प्राङ्कणे चैव देवानां विनिवेशने ।
उक्तानि पद्मसम्भूत इदानीमवधारय ॥ ६८ ॥

विश्वास-प्रस्तुतिः

मध्यदेशे तु तद्भूमेः प्रासादेऽभिमते तते ।
सन्निवेशवशेनैव नानासञ्ज्ञावसंस्थितः ॥ ६९ ॥

पीठब्रह्मवशास्थानस्त(म्भ)म्ब?स्य? चतुरात्मनः ।
चतुर्दिग्वीक्षमाणस्य यानुसन्धानलक्षणा ॥ ७० ॥

बोद्धव्यं सा प्रतिष्ठा च दिग्व्यूहपरिपूरकी ।
घृतिशक्तिस्वरूपेण अमूर्तेनात्ययात्मना ॥ ७१ ॥

प्। २६७)

विश्वास-प्रस्तुतिः

स्थितये प्रक्रियार्थं च ब्रह्मपाषाणताम्रता ।
सर्वं ब्रह्मशिलानिष्ठमाक्षितेः कमलोद्भव ॥ ७२ ॥

व्याप्तमामूलतश्चैव तेनामूर्तेन वै पुनः ।
द्रव्यमूर्तिममूर्तां च गृहीतस्तम्ब?लक्षणाम् ॥ ७३ ॥

एकस्याच्युतबीजस्य भिन्नेषु प्रतिवस्तुषु ।
संस्थिता स्थितिरच्छिन्ना सा प्रतिष्ठित एव हि ॥ ७४ ॥

भिन्नानां व्यूहमूर्तीनां केवला(द्य)खिलस्य च ।
प्रादुर्भावसमूहस्य द्व्यादिकस्य ? तु यद्द्विज ॥ ७५ ॥

एकस्मिन् विश्वपीठे तु स्थितिरेकस्य चेच्छया ।
प्रतिष्ठाख्यं विशेषं तत् स्थापनं समुदाहृतम् ॥ ७६ ॥

चिच्छक्तिमनुविद्धं च अव्यक्तं तत्त्वसङ्ग्रहम् ।
द्रव्यमूर्तौ चलाख्ये च नीतमेकात्मना धिया ॥ ७७ ॥

बिम्बसंस्कारकाले तु अधिवासाभिधे द्विज ।
अचलत्वेन सन्मन्त्रं चलभावनया पुनः ॥ ७८ ॥

साङ्गं सलाञ्छनं चैव कृत्वा अभितमतन्तु वै ।
आराधनार्थं हृदयान्यस्तं तद्धृदये पुनः ॥ ७९ ॥

समाहरेत् कृतार्थत्वान्नित्यं कालान्तरेण वा ।
सदाख्यमपरं 6 तत्त्व * * * ॥ ८० ॥

नानासञ्ज्ञं तथानानाप्रमाणं तद्वदेव हि ।
रचनाभिस्तथा नानाविविधाभिस्तु रञ्जितम् ॥ ८१ ॥

बह्वीभिर्भूमिकाभिस्तु चित्रिताभिरलङ्कृतम् ।
आपादभूमेरण्डान्तमनुरूपं च यत्रयम् ॥ ८२ ॥

उत्तरोत्तरतः कुर्याद्भूर्भुवस्वादिकोत्थितैः ।
स्थावरैर्जङ्गमैस्सिद्धैर्विविधैर्मञ्जरीगणैः ॥ ८३ ॥

नगेन्द्रैर्नागराजैस्तु सुशुभैर्नलिनीवनैः ।
मुरजशृङ्खलाबद्धैर्दिव्यैर्नानालतागृहैः ॥ ८४ ॥

पुरुजाद्यैर्जलोद्भूतैः प्राणिजालिस्तथैव हि ।
वनजैर्नगजैश्चान्यैर्मृगराड्गणपूर्वकैः ॥ ८५ ॥

वारणाश्शबराश्चैव हंसपद्मसमाश्रितैः ।
शङ्खस्वस्तिककह्लारपूर्वैरन्यैस्तु 7 वारिजैः ॥ ८६ ॥

नन्दिकैः केसरै रम्यैश्शतपत्रवदुत्थितैः ।
सकिङ्किणीकैश्चमरैरातपत्रैर्ध्वजादिकैः ॥ ८७ ॥

भूमिगाभूमिगैस्सर्वैस्समुद्रैस्सरितान्वितैः ।
नवोपकरणैर्देवैश्चन्द्रार्कज्वलनादिकैः ॥ ८८ ॥

प्रादुर्भावान्तरैर्द्विव्यैः प्रादुर्भावसमन्वितैः ।
द्वीपैर्द्वीपान्तरोपेतैः पातालैस्तज्ज?नान्वितैः ॥ ८९ ॥

महर्जनस्तपस्सत्यलोकनाथैर्महाप्रभैः ।
ध्यानमौनपरैर्ब्रह्मन् वह्निदेवयुतैर्द्विजैः ॥ ९० ॥

इत्येवमादिकैश्चान्यैर्जङ्घास्तम्भवतीश्शुभाः ।
भूषयेत् कमलोद्भूत सर्वदिक्नासिकैस्सह ॥ ९१ ॥

गर्भगृहाम्बरमध्यात् कुर्याच्चक्राम्बुजाङ्कितम् ।
पितामहाद्यैर्विबुधैस्सिद्द्धविद्याधरैस्सह ॥ ९२ ॥

पुष्पमालाधरैः प्रहैश्चामरैर्व्यजनोद्धतैः ।
वनमालागदाशङ्खचक्रपद्मश्रियादिकैः ॥ ९३ ॥

स्वगेशवेदवेदाङ्गैरक्षसूत्रकराङ्कितैः ।
आवार्यावरकत्वेन चक्रपह्माद्बहिः स्थितैः ॥ ९४ ॥

अन्तर्भित्तिगणं सर्वदेवदैत्यादिकैर्गणैः ।
नृत्तगी(त)परैश्चान्यैर्नारदाद्यैर्विभूषयेत् ॥ ९५ ॥

प्रणवेन स्वनाम्ना च नतिनिष्ठेन तत्र वै ।
सन्निरोध्य च तन्मन्त्रं भूलोकं पादमाक्षिति ॥ ९६ ॥

एवं प्रासादपीठे तु भुवर्लोकं यथास्थितम् ।
जङ्घायां स्वर्गलोकं च महच्छिखरभूमिगम् ॥ ९७ ॥

प्। २६८)

विश्वास-प्रस्तुतिः

स्तम्भं च तलपं चैव चरणं जङ्घमेव च ।
स्थानं स्थूणं च पादं च पर्यायवचनास्त्विमे ॥ ९८ ॥

जनर्लोकं च तद्वेद्यान्तस्तपस्सञ्ज्ञं ? च दण्डकम् ।
सत्यसञ्ज्ञश्च तल्लोकं तच्छिखायां सुरालये ॥ ९९ ॥

भावयेच्च परां व्याप्तिमेवं वै साप्तलौकिकीम् ।
भुवनोर्ध्वमयीं विप्र प्रासादेऽभिमते तु वै ॥ १०० ॥

अनुबिद्धं पादपाद्यैरन्यैस्वत्तास्वरूपकैः ।
परस्परं हि सर्वत्र व्यापकैः परलक्षणैः ॥ १०१ ॥

भूर्लोकांशं विना ब्रह्मंस्तथान्यैरुज्झितं हि तत् ।
रजस्तमोमहत्वाच्च ईषत्सत्त्वगुणात्तु वै ॥ १०२ ॥

सत्त्वैकगुणरूपाणामन्येषामत एव हि ।
भूर्लोकं च पृथक्संस्थं पादाद्यध्वगणस्य च ॥ १०३ ॥

कूर्मब्रह्मात्मसञ्ज्ञायां शिखायां च पदत्रयम् ।
न्यस्तव्यं जाग्रदाद्यं यद्रत्नन्यासे कृते सति ॥ १०४ ॥

तुर्यब्रह्मपदोपेतं मन्त्राध्वप्रतिमासने ।
ताभ्यां तं पादतोऽन्यस्य तत्वेयं कामलोद्भव ॥ १०५ ॥

आनाभेमूर्धपर्यन्तं कलाध्वं भावयेत्ततः ।
तद्ब्रह्मरन्ध्रकमले मन्त्रब्रह्मतलक्षितौ ॥ १०६ ॥

कर्णिकायां परं ब्रह्म सामान्यं शाश्वतं विभुम् ।
दीक्षाकाले यथोद्दिष्टा मया तेऽध्वमयी स्थितिः ॥ १०७ ॥

प्रासादानां तु सा सिद्धिश्शिखान्तानां महामते ।
प्रतिमानां सपीठानां साधिभूतादिलक्षणम् ॥ १०८ ॥

तत्राध्यात्मं हि भगवान् मूर्तं शान्तं ममाच्युतम् ।
स एव हि विराडात्मा ह्यधिदैवतमव्ययम् ॥ १०९ ॥

अधिभूतं द्विजाव्यक्तं सर्वतत्त्वमयं हि तत् ।
विद्याकलादिकैश्चान्यैः परार्थैर 8 (खि) लैस्सह ॥ ११० ॥

सबीजे विलये यद्वत्सुसूक्ष्माद्यैर्व्यवस्थितः ।
तत्त्वाश्शब्दादयश्चैव बुद्धिनिष्ठा महामते ॥ १११ ॥

तद्वत्प्रासाददेहे तु ते देवाधिष्ठिते स्मृताः ।
सर्वशक्तिमये विप्र शुद्धं सत्सत्त्वलक्षणैः ॥ ११२ ॥

यथोपचारा विहितं मन्त्रं सर्वेश्वराद्विभोः ।
सर्वज्ञं सर्वगं चैव सर्वकर्तारमीश्वरम् ॥ ११३ ॥

मन्त्रमूर्तेस्तथा विद्धि उपचारात्तु तद्गृहम् ।
संस्कृतस्य त्वतो यत्नात् सपीठस्य यथाविधि ॥ ११४ ॥

देववत्स्थापनं तस्य विहितं सत्त्वजस्य च ।
सोपानपदवी युक्ता जगती या सुलक्षणा ॥ ११५ ॥

प्रासादस्य च पीठं तत् परिज्ञेयं यदात्मकम् ।
एकीभूतत्वमापन्नं सुधालेपैस्तु सायसैः ॥ ११६ ॥

पक्वेष्टकासमेतैश्च स्थिरमृच्चोपलैस्तथा ।
प्रमाणलक्षणोपेतं विश्वविद्रचनान्वितम् ॥ ११७ ॥

रञ्जितं रागजालेन फलं यच्छति शाश्वतम् ।
जीर्णत्वाच्च कृतं भूयस्स्वयंव्यक्तादिभिद्विज ॥ ११८ ॥

आकारेष्वाच्युतीयेषु विविधेष्वर्चितेषु च ।
फलं सहस्रगुणितं कर्ताप्नोति महामते ॥ ११९ ॥

तोयाशयाशया 9 वृक्षा क्षेत्रं पुष्कर मादियत् ।
पौनः पुन्येन सद्भक्तैः कृतदुष्कृतशान्तये ॥ १२० ॥

अनाद्यज्ञानसंसर्गात् कालह्ना सवशादपि 10
नष्टं नरेन्द्रनाथा ये पालयन्त्यर्चनादिकैः ॥ १२१ ॥

देहान्ते यान्ति ते स्वर्गं राज्यदोषैरनावृताः ।
कालेनेत्य पुनस्स्वर्गात् ज्ञानमासाद्य निर्मलम् ॥ १२२ ॥

येन सांसारिकं दुःखं हुस्सहं नाशमेति च ।
फलमेतावदुक्तं हि देवालयसमापनात् ॥ १२३ ॥

मूलम्

येन सांसारिकं दुःखं हुस्सहं नाशमेति च ।
फलमेतावदुक्तं हि देवालयसमापनात् ॥ १२३ ॥

प्। २६९)

विश्वास-प्रस्तुतिः

सवित्तानां च भक्तानां नृपाणामपि पद्मज ।
सर्वाध्वभावनोपेतमास्तां तावत् सुरालयम् ॥ १२४ ॥

भुवनाध्वमयीं व्याप्तिमापादयति केवलात् ।
अगुग्रहेच्छयाचार्यो भक्तानां सम्प्रदर्शयेत् ॥ १२५ ॥

लक्ष्म्या लक्षणयुक्तस्य स्थपतेरशठस्य च ।
प्रागुक्तं लभते कर्ता सुसम्पूर्णफलं द्विज ॥ १२६ ॥

प्रासादानाममन्त्रं तु स्वयं शिल्पिकरात्तु वै ।
यत्फलं लभते कर्ता हेमक्ष्मान्नादिकं हि तत् ॥ १२७ ॥

फलं सर्वस्वदानाद्वा लभते विधिपूर्वकात् ।
मृदा दार्विष्टकाद्यैस्तु स्वल्पं वा मध्यमं महत् ॥ १२८ ॥

प्रमाणलक्षणोपेतं सुराकीर्णं सुरालयम् ।
यथोदितैर्गुणैर्युक्तं ग्राम्यं वा कुटिसञ्ज्ञितम् ॥ १२९ ॥

दिग्विदिक्सान्तराद्बाह्याद्युक्तं प्रस्थापितैः परैः ।
विभव व्यूहसञ्ज्ञैस्तु प्रादुर्भावान्तरास्तु वा ॥ १३० ॥

अवनीचलनाद्यैस्तु दोषैस्सञ्चालितं यदि ।
दीर्घकालवशेनापि स्नातानां धनकर्मणाम् ॥ १३१ ॥

कुर्याद्यथावदुद्धारं गुरूणां सम्मतेन तु ।
राजा वा तदमात्योऽन्यस्सद्भक्तश्च नृपाज्ञया ॥ १३२ ॥

व्रतार्चनादिकार्याणां लब्ध्वानुज्ञां परां विभोः ।
अनन्तशयने दार्भे उत्तानस्थं स्मरेद्विभुम् ॥ १३३ ॥

द्वादशाक्षरमन्त्रेणं स्वर्गेशं भगवान् हरिः ।
अयुतं त्वयुतार्धं च शतमर्धाधिकं तु वा ॥ १३४ ॥

अथानुकूले नक्षत्रे नृपस्य नगरस्य च ।
शान्त्यर्थं जीवभूतं यन्मन्त्रेशगुणमूर्तिभृत् ॥ १३५ ॥

त्रैगुण्यं यच्छते हस्तमर्चयित्वा यथाविधि ।
तर्पयित्वा च देहान्ते समिद्भिर्बहुभिः क्रमात् ॥ १३६ ॥

भुवनाध्वमयं शक्तिर्व्यक्तिसङ्घं यथोदितम् ।
तथा वर्णाध्वपदसङ्घं 11 सत्ताभूतं हि पञ्चकम् ॥ १३७ ॥

तर्पयित्वार्चयित्वा च साधिभूताधिकं तु वै ।
भूतशक्तिगणं तद्वत् सुसूक्ष्ममपरं हि यत् ॥ १३८ ॥

देवपीठालयं विप्र रुद्धं कुर्याद्यथाक्रमम् ।
उदयार्कसमं ज्ञात्वा सञ्ज्ञामन्त्रपदैस्स्वकैः ॥ १३९ ॥

प्रणवाद्यैर्नमोऽन्तैश्च व्यक्तिस्थं पुनरेव हि ।
प्रातिमं रक्ष भ्गवन् मन्त्रबृन्दं हि चाध्वजम् ॥ १४० ॥

उदुम्बरार्धमानस्थं दिग्विदिग्भूमिकं हि यत् ।
बुद्धिधर्मस्थितैर्दर्भैर्व्याप्तामां बैम्बलक्षणैः ॥ १४१ ॥

सम्यक् तदपरिज्ञानादनुसन्धानमाचरेत् ।
तदुत्थापनकाले तु कृतन्यासस्तु साम्प्रतम् ॥ १४२ ॥

उपोद्धरणलिङ्गैश्च साष्टाङ्गैर्वैदिकैस्तथा ।
एकैकमात्मसाकृत्वा पूरकेणात् र्कबिम्बवत् ॥ १४३ ॥

सुसम्मतेऽर्चिते कुम्भे हेमाद्यैर्मूर्तिके तु वा ।
निरोध्योदकसम्पूर्णे पूजयेत् प्रत्यहं ततः ? ॥ १४४ ॥

सम्पन्नोत्पत्तये सम्यगवतार्य यथोद्धृतात् ।
संस्कृतस्य प्रतिष्ठानमाचर्तव्यं हि वै पुनः ॥ १४५ ॥

नृपेन्द्रराष्ट्रस्थानानां गोद्विजानां च वृद्धये ।
यत्पदप्राप्तये शश्वत् सखिलस्याखिलस्य च ॥ १४६ ॥

प्रासादप्रतिमानां च एवमुत्थापनं द्विज ।
गोभूहेमादिकानां च राष्ट्रस्य सनृपस्य च ॥ १४७ ॥

जायते शुभशान्त्यर्थमिहलोके परत्र च ।
अतोऽन्यथा माहान् दोषो भवेद्वै पद्मसम्भव ॥ १४८ ॥

प्रासादग्राहिकानां च बहिश्चाभ्यन्तरे तु वा ।
बिम्बानां चाल्यमानानां मन्त्रैरष्टाक्षरादिकैः ॥ १४९ ॥

प्। २७०)

विश्वास-प्रस्तुतिः

प्राग्वन्न्यस्तस्वमन्त्राणां समाहरणमाचरेत् ।
मणिना सूर्यकान्तेन आदित्यादनलं यथा ॥ १५० ॥

समाहृतेषु मन्त्रेषु चाल्यमानेषु पौष्कर ।
भङ्गे कर्मवशाज्जाते प्रतिमासु प्रमादतः ॥ १५१ ॥

प्राक्तनेनैव पापेन प्रायश्चित्तं चरेत्तदा ।
चित्तप्रसादजनकं कीर्तिशर्मकरं तु वै ॥ १५२ ॥

तत्रैकरात्रपूर्वं तु त्रिरात्रं षडहन्तु वै ।
व्रतं द्वादशरात्रं च स्वशक्त्या तु समाचरेत् ॥ १५३ ॥

स्नानादिहवनान्तेन कर्मणावहितेन (तु) च ।
तिलानि सहिरण्यानि दानं सरजतानि च ॥ १५४ ॥

शान्तिपूर्वं द्विजेन्द्राणां साज्यक्षीरोदनादिकम् ।
भोजनं तु यथाशक्ति बहूनां वै महामते ॥ १५५ ॥

सदानमेवं निर्वर्त्य व्रतं वै देशिकादिजम् ।
वसेदाश्रित्य वै क्षेत्रं प्रसिद्धं सिद्धसेवितम् ॥ १५६ ॥

सुप्रसिद्धं तु वा तीर्थमेकाहं वा दिनत्रयम् ।
आवर्तयन् महामन्त्रमसकृद्द्वादशाक्षरम् ॥ १५७ ॥

कालं मुहूर्तसञ्ज्ञं यत् प्रतिसन्ध्यात्रयं तु वै ।
पूर्णमायतने कुर्याद्दिव्ये वा सिद्धसञ्ज्ञके ॥ १५८ ॥

सति वै भक्तिसाम्ये तु प्रायश्चित्तमिदं स्मृतम् ।
सामान्यं सर्ववर्णानां मनच्छः प्रकटे तु वै ॥ १५९ ॥

उत्तरोत्तरमाधिक्यं जपकर्मणि वै स्मृतम् ।
शूद्रविट्क्षत्रविप्राणां भक्तानां नान्ययाजिनाम् ॥ १६० ॥

उक्तं ह्येतत् प्रकाशे तु अथ यावत्प्रसन्नताम् ।
तावत्कालं जपेन्मन्त्रं भक्षयेत् पावनं मतम् ॥ १६१ ॥

यावत्प्रसादमायाति स्वबुद्धिर्मनसा सह ।
अप्रकाशे द्विषट्कार्णं मन्त्रमष्टाक्षरं हि यत् ॥ १६२ ॥

षडक्षरं द्विजश्रेष्ठ क्रमात् सन्ध्यात्रयं तु वै ।
स्नानं यथोदितं कुर्याज्जपेदन्तर्जले स्थितवा? ॥ १६३ ॥

त्रिमन्त्रसहितां शक्त्या स्नानकाले त्वनन्यधीः ।
अष्टार्णमुक्तसङ्ख्यं तु प्रातर्मध्ये दिन ? ॥ १६४ ॥

देशकालं तु वै कुर्यात् प्रतिस्नानं तु वै सकृत् ।
पञ्चाङ्गमभिषेकं च शेषं सन्ध्याद्वन्वहतम्? ॥ १६५ ॥

जघनान्तमधः कायं सम्प्रक्षाल्यामृताम्भसा ।
अधोवासः परित्यज्य शुभमादाय चाम्बरम् ॥ १६६ ॥

दिनत्रयं च षडहमष्टाहो द्वादशाह्निकम् ।
शूद्रादीनां द्विजान्तानां हितं चोत्तरतोत्तरम् ॥ १६७ ॥

क्रममेतन्महाबुद्धे मनसश्शुद्धिकारणम् ।
फलेनानुगतं भूयो विध्यन्तरमथोच्यते ॥ १६८ ॥

सङ्क्षिप्तं सर्वसामान्यं यथाभिमतभूमिकम् ।
चतुर्हस्तद्विषट्कान्तं क्षेत्रं क्षेत्र * * * * कम् ॥ १६९ ॥

उत्तरोत्तरपूर्वाभ्यां न्यूनं न्यूनतरावधि ।
भोगैस्त्रिदशपर्यन्तैर्भक्तैः पञ्चशतादिकैः ॥ १७० ॥

भित्तय्ॐऽशद्वयेनैव पञ्चाङ्गादन्तरं तु हि ।
गर्भं सार्धत्रयेनातो भित्तयोऽर्धद्वयेन च ॥ १७१ ॥

विद्धि षट्करमानस्य भूभागस्य च कल्पना ।
अष्टमांशोज्झितैर्भागैर्गर्भं सप्तपदं तु वै ॥ १७२ ॥

परिज्ञेयं चतुर्भिर्वै तच्छिष्टैर्भित्तय्ॐऽशकैः ।
चतुर्भिरष्टभागैस्तु सार्धैरष्टकराग्रहम् ॥ १७३ ॥

भागत्रयेन सार्धेन भित्तिव्यूहं समापयेत् ।
साङ्गं पञ्चकरं गर्भक्षेत्रं नवपदात्तु वै ॥ १७४ ॥

शेषेण करसङ्घेन भित्तयः परिकीर्तिताः ।
षट्करं दशहस्तस्य गर्भक्षेत्रस्य विस्तृतम् ॥ १७५ ॥

करद्विद्वितयेनैव भित्तिसङ्घं विधीयते ।
एकादशकरक्षेत्रात् गर्भं सार्धं च षट्करम् ॥ १७६ ॥

प्। २७१)

विश्वास-प्रस्तुतिः

सार्धं चतुःकरं चैव भित्तिमानमुदाहृतम् ।
क्षेत्रद्वादशभागात्तु पादोनं समसप्तकम् ॥ १७७ ॥

देवालयं परिज्ञेयं पादोनैकं चतुष्करैः ।
विधेया भित्तयश्चैव विभज्यैवं तमेव हि ॥ १७८ ॥

कृत्वा त्रयोदशांशैस्तु फलदीभित्तय्ॐऽशकैः ।
नवांशे नभभिः पूर्णे विधेयं भगवद्गृहम् ॥ १७९ ॥

शुभाय सिद्धिमापाद्य द्व्यङ्गुलेनाङ्गुलेन वा ।
एषां प्रसादगर्भांशभित्तिभ्यां पातयेन्मनः ॥ १८० ॥

मानाधिकं विनिक्षिप्य क्षेत्राणां च निपातयेत् ।
परमाणुसमं मानं किं पुनश्चाङ्गुलादिकम् ॥ १८१ ॥

यतो वृद्धिकरी नॄणां वृद्धिपातमशोभनम् ।
समनीयं हि यत्नेन महता तच्च पौष्कर ॥ १८२ ॥

रचनाभिरुपेतं च विहितं च चतुर्मुखम् ।
चातुरात्म्यव्यपेक्षायामेकद्वार * * * * था ॥ १८३ ॥

यथाभिमतदिग्वक्त्रं नानासिद्धिफलाप्तये ।
चिरायुषार्थी प्राग्वक्त्रं यशोऽर्थी दक्षिणामुखम् ॥ १८४ ॥

कुर्यात् प्रत्यङ्मुखं चैव वृत्त्यर्थं च स्वतन्त्रके ।
उदङ्मुखं च प्रासादं धनधान्यं प्रयच्छति ॥ १८५ ॥

एतावदुक्तं हि फलमैहलौकिकमुत्तमम् ।
नानाभोगसमोपेतं सर्वासां विद्धि पौष्कर ॥ १८६ ॥

स्वक्षेत्रे वितते रम्ये स्वतन्त्रं स्वाङ्कनक्षितौ ।
सह पूर्वप्रतिष्ठायामथवायतने हरेः ॥ १८७ ॥

स्वायम्भुवे वा सिद्धाख्ये मुख्यकल्पमिदं स्मृतम् ।
अनुकल्पमतोऽन्यत्र बोद्धव्यं विबुधाङ्कणे ॥ १८८ ॥

प्राक्प्रासादध्वजच्छायाविनियुक्ते तते पदे ।
इष्टकां च सुधाचूर्णं दोषैश्च परिशोधिते ॥ १८९ ॥

तदन्तरे प्रतिष्ठाप्य होमाद्युक्तं हि सोन्नतम् ।
प्रासादद्वारमानैस्तु सपीठं विश्वमाच्युतम् ॥ १९० ॥

सम्पूर्णं लक्षणैस्सर्वैरार्णवान्तरकीर्तये ।
एष्यातीतस्य वंशस्य स्वकस्योद्धरणाय च ॥ १९१ ॥

यदैवैतत्कृता बुद्धिः प्रतिष्ठां पादयाम्यहम् ।
तत्क्षणादेव तत्कीर्तिः प्रतिष्ठां लभतेऽच्युताम् ॥ १९२ ॥

भूलोकाद्यखिलानां च स्थानानामपि किं पुनः ।
विभवेन जगद्योनेः प्रतिष्ठां यस्समाचरेत् ॥ १९३ ॥

पित्रासू(दी)नां गतासूनामन्येषां वा करोति यः ।
वैष्णवं च प्रतिष्ठानं स्वशक्त्या विभवेन वा ॥ १९४ ॥

अचिरादेव ते यान्ति शश्वदेवान्तकास्पदम् ।
वैष्णवं च परं स्थानं ततः कालान्तरेण तु ॥ १९५ ॥

क्षित्यंशं शुभमासाद्य कुलशीलादिकैस्सह ।
आचरन्ति शुभं येन प्राप्नुवन्ति पुनर्भवम् ॥ १९६ ॥

कृपया * * * * नन्तु प्रतिष्ठां यस्समाचरेत् ।
ज्ञातीनामथवान्येषां तदुत्थं 12 च फलं * * * ॥ १९७ ॥

प्रविशन्ति च मन्त्रेशाः प्रणवध्वनिसाधिताः ।
कर्षयन्ति विभूतिं स्वां किञ्चित्कालान्तरेण तु ॥ १९८ ॥

कृता वै ध्वस्तदोषाश्च निर्विघ्नममलां पुनः ।
निवेशितास्सुसिद्धाद्यैस्तीर्थैः क्षेत्रावनेषु च ॥ १९९ ॥

निवारयन्ति ये मोहाद्विभवव्यूहमूर्तिषु ।
संस्थानमानमाकारं दोषं कालान्तरोत्थितम् ॥ २०० ॥

स्मर्तव्या वासुदेवाद्या द्विभेदाः पारमेश्वराः ।
चत्वारश्चानिरुद्धान्ताश्चतुर्व्यूहव्यवस्थया ॥ २०१ ॥

एवमन्ये प(व)राहाद्याश्चतुर्व्यूहेन वै सह ।
तथैव केशवाद्या ये अन्येनान्यतरेण वा ॥ २०२ ॥

प्। २७२)

विश्वास-प्रस्तुतिः

मन्दमन्दतराद्भाववशादमरपूजित ।
एवं यदधिकारेण कुर्यादाराधनं हि यः ॥ २०३ ॥

भोगैर्यथोदितैश्शुद्धैः क्रियाभिर्विविधैस्ततः ।
निष्पत्तौ तु क्रियाङ्गानां हृदास्त्रार्घ्यं समन्त्रराट् ॥ २०४ ॥

नानार्चितं विभोर्भोगं कल्पितं विनिवेद्य च ।
प्रणवाद्यन्तगेनैव * * * * 13 ॥ २०५ ॥

  1. ग्, घ्: प्राङ्कणं सर्वतो दिक्षु; ख्: प्राङ्कणं सर्वदिक् त्यक्त्वा ↩︎ ↩︎

  2. परिणामेन इति पाठान्तरम् ↩︎ ↩︎

  3. क्, ख्: ज्ञानाख्यम् ↩︎ ↩︎

  4. क्, ख्: दिव्यां भोगफलावाप्तिमहिदिक्तल्प ↩︎ ↩︎

  5. ख्: पतित्वमासीना ↩︎ ↩︎

  6. सदाख्यानपरं * * * ↩︎ ↩︎

  7. क्, ख्: कह्लारपुटैरन्यैः ↩︎ ↩︎

  8. ग्, घ्: परार्थैरक्तिलैस्सह ↩︎ ↩︎

  9. ग्, घ्: शयावक्षाक्षत्रं पुष्कर ↩︎ ↩︎

  10. क्, ख्: कालन्यास ↩︎ ↩︎

  11. क्, ख्: ध्वपद * * * सत्ता ↩︎ ↩︎

  12. क्, ख्: तद् * * * फलम् * * * ↩︎ ↩︎

  13. एतावदवधिरेव ग्रन्थो लब्धः ↩︎ ↩︎