अथ द्विचत्वारिंशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
क्ष्मापरिग्रहपूर्वाणामारम्भे सर्वकर्मणाम् ।
द्वादशाक्षरपूर्वैस्तु मन्त्रैस्सर्वेश्वरः पुरा ॥ १ ॥
मूलम्

आराध्यो भगवान् भक्त्या वेद्यां वा कलशे स्थले ।
सन्तर्प्याज्यादिकैर्भक्त्या मन्त्रैश्श्रुतिमयैस्ततः ॥ २ ॥

भगवान् विश्वकर्मात्मा सगणेशं तु याजयेत् ।
विविधैरुपचारैस्तु पुष्पधूपानुलेपनैः ॥ ३ ॥

विसर्जने कृते विष्णौ सानले कमलोद्भव ।
शिल्पिनो यत्र ये दक्षा मान्यास्ते तदनन्तरम् ॥ ४ ॥

यथाप्रसन्नबुध्या तु शश्वन्निर्वर्तयन्ति च ।
तैरपि प्रयतैस्स्नातैस्तर्पणीयः स्वकः पतिः ॥ ५ ॥

ततः परिगृहीतव्यं क्षेत्रं त्वभिमतं द्विज ।
अभुक्तमथवा भुक्तं वसुधागुणलक्षितम् ॥ ६ ॥

निश्शल्यमनुकूलं च स्थपतीनां च सम्मतम् ।
समादाय प्रतिष्ठार्थं यथाभिमतविस्तृतम् ॥ ७ ॥

महेन्द्रोऽपाम्पतिर्वायुर्वित्तपेशानदिक्षु च ।
पदमासाद्य वै कुर्याद्दिव्याद्यायतनाश्रितम् ॥ ८ ॥

पञ्चायतनपूर्वं तु शुभं देवगृहं महत् ।
सिद्धायतस्वमार्गात्तु 1 विमार्गात्तदसिद्धये ॥ ९ ॥

एतावदर्थनान्मुक्तं अतोऽन्येषां तु दोषकृत् ।
स्वमार्गं परमार्गं वा येषां सर्वगतो हरिः ॥ १० ॥

स्फुरत्यविरतं बुद्धौ गुरुं तं शास्त्रतस्स्वयम् ।
शुभेऽनुकूले नक्षत्रे नमस्कृत्याच्युतं विभुम् ॥ ११ ॥

निर्वर्त्य नित्यं विघ्नेन पूर्वमर्चापयेद्द्विज ।
सह एकायनैश्चान्यै ऋग्यजुस्सामपाठकैः ॥ १२ ॥

सालङ्कारैश्व सोष्णीषैस्सिताम्बरधरैस्तथा ।
समालभनमाल्यैश्च भूषितैस्साङ्गुलीयकैः ॥ १३ ॥

शङ्खवादित्रनिर्घोषैर्गीतिभिर्माङ्गलीयकैः ।
फलपुष्पाक्षतकरो जालसिद्धार्थकादिकम् ॥ १४ ॥

समादाय शुचिः कर्ता देशिकेन सह द्विज ।
स्थानमासाद्य सर्वेषां वासुदेवं हृदि स्मरन् ॥ १५ ॥

पुण्याहं वाचयित्वा च गायत्रीत्रितयादिकम् ।
उद्घोष्य शाकुनं सूक्तं शिवसङ्कल्पमेव च ॥ १६ ॥

श्रीसूक्तेन समोपेतं भद्रश्रीसाममुत्तमम् ।
कर्मारम्भेण सह वै स्वस्ति भो इत्ययं पठेत् ॥ १७ ॥

चमषट्कांस्ततोदीर्य शान्त्याद्यास्तदनन्तरम् ।
जपन्नष्टाक्षरं तिष्ठन् कर्तास्ते देशिकस्ततः ॥ १८ ॥

बहिः क्षेत्रस्य चैशान्यां प्राच्यां वा कमलोद्भव ।
ततां पर्णकुठीं कृत्वा वातवृष्टिक्षमां शुभाम् ॥ १९ ॥

तत्र पुष्पार्घ्यधूपाद्यं कृत्वा वै भद्रप्रीठगम् ।
पञ्चगव्यं समापाद्य सार्धं मन्त्रैर्विलक्षणैः ॥ २० ॥

नारायणा * *? मूर्तिं हेमाद्ये कुतपे शुभे ।
सन्निधीकृत्य सम्पूज्य सरित्तीर्थाम्बुपूजिते ॥ २१ ॥

हेमसर्वौघ * * * ? दर्भवर्गस्रगन्विते ।
मन्त्रास्त्रकलशाभ्यां तु सम्पाद्य रचनां परः? ॥ २२ ॥

प्। २५६)
विश्वास-प्रस्तुतिः
साधारमासनं ताभ्यां ज्ञात्वा कुर्यात्तदर्चनम् ।
हृदि मन्त्रेश्वरं सास्त्रं पूजयित्वा यथाविधि ॥ २३ ॥

न्यस्तव्यमासने कौम्भे प्राणवन्मनसा सह ।
सौम्यनाडीपथा चैव ततो ह्मस्त्रं समन्त्रराट् ॥ २४ ॥

दक्षिणेन तु मार्गेण त्वपसव्यघटे विभोः ।
अवतार्य ज्वलद्रूपं दहन्तं विघ्नसञ्चयम् ॥ २५ ॥

मन्त्रत्रयं तु सामान्यं सर्वत्र विहितं द्विज ।
षडष्टाक्षरमन्त्रं यत्तथा वै द्वादशाक्षरम् ॥ २६ ॥

हेतीशं यत्सहस्रारं परिज्ञेयं तदायुधम् ।
कृतदीक्षेण यल्लब्धं सुप्रसन्नाच्च वै गुरोः ॥ २७ ॥

अस्त्रं तदङ्गमापाद्यं सविशेषमिदं शुभम् ।
साङ्गं समर्चयित्वा तु भोगैर्मात्रावसानिकैः ॥ २८ ॥

सत्सूक्तैर्यजुभिस्सामैर्यथावसरलक्षणैः ।
व्यञ्जकैरथ सर्वेशमथ होमं समाचरेत् ॥ २९ ॥

सहस्रशतसङ्ख्यं यत् पूर्णान्तैस्साक्षतैस्तिलैः ।
कुण्डमन्त्रास्त्रदृक्पूतैरेवं कुर्यात्तु देशिकः ॥ ३० ॥

स्थणेषु बालुकाद्येषु प्रागादौ विनिवेश्य च ।
चत्वारश्चातुरात्मीया मन्त्रज्ञाः कृतमण्डनाः ॥ ३१ ॥

ऋग्वेदाद्याश्चतस्रो ये ईशाद्वायुपथावधि ।
भक्त्या कियापरा याज्या होमार्थं क्षेत्रसङ्ग्रहे ॥ ३२ ॥

होतव्यं अमिलिङ्गैस्तैर्मन्त्रैराज्यादिकं बहु ।
चतुर्भिश्चातुरात्मीयैर्द्विषट्कार्णपुरस्सरैः ॥ ३३ ॥

होतव्यमपरैर्विप्रैस्स्मरन् सर्वेश्वरं हरिम् ।
उपद्रष्टा चतुष्कोणे एकैकं विनियोज्य च ॥ ३४ ॥

होमार्थं सर्वकुण्डेषु मन्त्रविन्यस्तविग्रहम् ।
शुचयस्संयता दक्षा वास्तुशास्त्रकृतश्रमान् ॥ ३५ ॥

विश्वकर्मकुलोद्भूतानाहूयाग्रे निवेश्य च ।
पञ्चगव्यादिनाभ्युक्ष्य सिताम्बरधरांस्तु वै ॥ ३६ ॥

माल्यचन्दनसोष्णीषैर्भूषिताङ्गुलिकादिकान् ।
संवीक्ष्य पावनीकृत्य ह्यादाय घटिकान्वितम् ॥ ३७ ॥

कार्पासं सुदृढं सूत्रं सहस्राराभिमन्त्रितम् ।
स्थपतीनां करे दद्यात् सह चैकशलाकया ॥ ३८ ॥

प्रोक्षितान् पञ्चगव्येन सहस्राराभिमन्त्रितान् ।
विकीर्य लाजसम्मिश्रान् बीजान् सिद्धार्थकान्वितान् ॥ ३९ ॥

जपन्नस्त्रं सचक्रं च त्रिधा कुर्यात् प्रदक्षिणम् ।
प्राक्पदात्तत्पदं यावत् सह घण्टारवैश्शुभैः ॥ ४० ॥

क्षेत्रमानमथादाय करैरभिमतैस्ततः ।
शिष्यदेशिककर्तृस्थैर्विश्वकर्मांशकैस्तु 2 वा ॥ ४१ ॥

ईशकोणादि तत्सूत्रं चतुर्दिक्षु प्रसार्य च ।
शङ्कुभिर्यज्ञदारूत्थैर्मुद्रयेच्च दिशाष्टकम् ॥ ४२ ॥

ततो भूतबलिं दद्यात् प्रादक्षिण्येन बुद्धिमान् ।
तिलपिष्टं निशाचूर्णं सलाजदधिसक्तुकम् ॥ ४३ ॥

भूतक्रूरमिति प्रोक्तं तेन भूतबलिं हरेत् ।
भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति केचन ॥ ४४ ॥

ते सर्वेऽद्यापगच्छन्तु स्थानं कुर्यामिमं हरेः ।
शरवेत्रलताचर्मपुञ्जाद्यैर्ग्रथितान् द्रुभान् ॥ ४५ ॥

मृदङ्गोर्ध्वसमाकारान् 3 पाण्डुमृद्ग्रहणक्षमान् ।
नचाङ्गहोमास्युस्तीक्ष्णान् कुद्दालाख्यस्वनित्रकान् ॥ ४६ ॥

सुदृदान् यज्ञकाष्ठोत्थान् हस्तिपादांश्च पूजयेत् ।
क्षेत्रब्रह्मपदे स्थित्वा यथाभिमतदिङ्मुखः ॥ ४७ ॥

संस्मृत्य द्वादशार्णेन भगवान् भूतभावनः ।
अधिभूताधिदेवाख्यं स्मरेदध्यात्मलक्षणम् ॥ ४८ ॥

प्। २५७)
विश्वास-प्रस्तुतिः
सप्तद्वीपवर्ती तत्र समुद्रादिसमन्विताम् ।
सप्तपातालसहितां भूतैर्युक्तं 4 चरादिकैः ॥ ४९ ॥

शक्तिभिश्शब्दनिष्ठाभिस्सर्वभाभिस्समावृताम् ।
ब्रह्मबीजसमेतेन लकारेण सबिन्दुना ॥ ५० ॥

स्वसञ्ज्ञानतियुक्तेन मानयित्वा पुरा ततः ।
भावयित्वाधिभूतत्वमाधिदैवमतस्स्मरेत् ॥ ५१ ॥

सामर्थ्यं यद्भगवतो विष्णोस्सर्वेश्वरस्य च ।
परमध्यात्मरूपं च वाराहं वैष्णवं महत् ॥ ५२ ॥

एतावदुक्तं सामान्यं ध्यानं क्षितिपरिग्रहे ।
देवालयवशादन्यद्विशेषं चात्र संस्मरेत् ॥ ५३ ॥

चतुरश्रे चतुर्मूर्तिव्यक्तिव्यूहं विचिन्त्य च ।
चतुरश्रायते ध्यायेद्दिव्यं विद्यागमाभिदम् ॥ ५४ ॥

वृत्तशान्तोदितं चक्रं संवृतावयवं स्मरेत् ।
अनन्तशयनं देवं ध्यायेद्वृत्तायते गृहे ॥ ५५ ॥

पुर्यष्टकं यदमलं कालपुष्करदेहभृत् ।
नाभिरन्ध्रोद्भवं विष्णोस्स्थितमष्टदिगात्मनाम् ॥ ५६ ॥

देवालये द्विजाष्टाश्रे स्मर्तव्यं वसुधागृहम् ।
ध्यात्वैवं द्वादशार्णेन मन्त्रेण च पुनः पुनः ॥ ५७ ॥

षडक्षरेण संरोध्य मुद्रां बद्ध्वा द्विजाच्युतम् ।
अधिध्यानसमाधानाद्यावत् कलशसन्निधिम् ॥ ५८ ॥

प्राग्वद्विलक्षणैर्भोगैरथाष्टार्णेन पूजयेत् ।
सह विप्रैस्स्वयं दद्यादग्नौ पूर्णाहुतिं पुनः ॥ ५९ ॥

सर्वकर्मसमाप्त्यर्थं क्षेत्रे क्षेत्रीकृते सति ।
कुर्यात् पादप्रतिष्ठां वै सुशुभे दिवसे परे ॥ ६० ॥

अथ कर्मकरा दक्षा नियोक्तव्याः क्रमेण तु ।
सन्तोष्य चान्नपानाद्यैस्तोषमायान्ति वै (यथा) ॥ ६१ ॥
मूलम्
अथ कर्मकरा दक्षा नियोक्तव्याः क्रमेण तु ।
सन्तोष्य चान्नपानाद्यैस्तोषमायान्ति वै (यथा) ॥ ६१ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
एवं परिगृहीते तु क्ष्मांशे शल्योज्झिते सति ।
आधृष्टे सोपला बाला वसुद्धा वसुभूमिदा ॥ ६२ ॥

शुद्धिं सोपेक्षते किञ्चित् कृत्रिमामुदपासर ? ।
यावन्नोपवनस्तान्तु ? चिररूढैर्महा द्रुमैः ॥ ६३ ॥

सङ्कीर्णा तत्प्रसूतैश्च मूलैर्व्याप्ता निरन्तरैः ।
ज्ञातं तस्यापि बालत्वं शुद्धिर्वै भाविनी स्मृता ॥ ६४ ॥

त्यक्ता सरित्प्रवाहैर्न नगरग्रामदेशिकाः ।
महान्तं प्रेक्षते शुद्धिं भङ्क्त्वाशा बहुशो यतः ॥ ६५ ॥

स्वात्वा वै भावमुद्धृत्य दायादभ्येति मुच्छुभाम् ।
सितामशर्करां स्निग्धां (जलान्तनिखनत वा) 5 ॥ ६६ ॥

दृष्ट्वा जलं समभ्यर्च्य तर्पयेद्यादसाम्पतिम् ।
नागनाथसमोपेतं सुरसङ्घमतस्थितम् ॥ ६७ ॥

स्थित्यर्थमुपलैस्सर्वैस्सह सम्पूर्यते मृदा ।
मृदोपलैश्च सम्पूर्य जातिषु स्निग्धया तया ॥ ६८ ॥

आकोट्य पौनःपुन्येन बालाद्वै वारिसेचना (त्) ।
समीकृत्योपलिप्याथ गोगणांस्तत्र वासयेत् ॥ ६९ ॥

बालवत्ससमेतं च वृषेन्द्रगणसंयुतम् ।
सतोयाश्शालयश्चैव प्रभूततृणसञ्चयम् ॥ ७० ॥

प्। २५८)
विश्वास-प्रस्तुतिः
विकीर्य सतिलं तत्र सन्त्यक्ते गोमयादिकैः ।
अपास्य गोगणं पश्चादुपलिप्य पुनर्महीम् ॥ ७१ ॥

समर्चयित्वा सूर्यात्मा प्राग्वद्दिक्सिद्धिमाचरेत् ।
प्रासादं भगवद्रूपसमेतं कमलोद्भव ॥ ७२ ॥

यथाभिमतदिग्वक्त्रं निश्चयीकृत्य वै पुरा ।
भूभागे सति वै कुर्यात्तदग्रे यागमण्डपम् ॥ ७३ ॥

दिक्त्रये तदलाभे तु सौम्ययाम्यदिगायतम् ।
आनुगुण्याय शुद्धिं च सुखं निर्बाधमिश्रितम् ॥ ७४ ।

शरैः काशैश्शरैः कूर्चैरच्छिन्नं वा परैस्तु वा ।
सान्तरं विहितं तत्र पार्थिवं पीठपञ्चकम् ॥ ७५ ॥

सप्तषट्पञ्चहस्तं च विभवानुगुणं ततः ।
चतुर्हस्तं तु वै सार्धं चतुर्हस्तमथापि वा ॥ ७६ ॥

सुविस्तृतै(ते)ष्षडंशेन सर्वेषां परिवर्ज्य च ।
अन्तरालानि विप्रेन्द्र तदुच्छ्रायमथाचरेत् ॥ ७७ ॥

चतुर्विंशतिमांशेन स्वेन स्वेन महामते ।
तद्विस्तारोच्छ्रिते सर्वे कोणस्तम्भेषु भूषयेत् ॥ ७८ ॥

तन्मानेन समारोप्य स्तम्भानां शिरसोपरि ।
रचनारचिताश्चान्ये दण्डास्तिर्यक्प्रसारिताः ॥ ७९ ॥

सर्वे स्थूलाब्जसम्भूताश्चतुर्दिक्तोरणान्विताः ।
तृतीयांशेन वै पीठात्तोरणाविस्तृतिर्भवेत् ॥ ८० ॥

सुविस्तृतैस्त्रिभागेन सर्वेषामुन्नतिस्स्मृता ।
सचक्रगरुडास्सर्वे त्रिचतुःपञ्चसङ्ख्यया ॥ ८१ ॥

सान्तरालप्रमाणेन सस्तम्भास्तोरणाखिलाः ।
विनिवेश्याः क्षितौ कृत्वा सर्वे चैव सुलक्षणा ॥ ८२ ॥

चतुरश्रास्त्वथो देशा ह्यष्टाश्रा मध्यतो द्विज ।
वर्तुलाश्चार्ध्वभागाश्च समांशेन विभाजिता? ॥ ८३ ॥

वीथी प्राक्पश्चिमा भागा उभयोः पीठसम्मिताः ।
सोत्तरं दक्षिणं भागमेकैकं पीठवर्तनी ॥ ८४ ॥

कृत्वैवं भगवद्यागमण्डपं सर्वकर्मणा ।
उदग्दिक्पीठतश्चोर्ध्वे धिष्ण्यं कुर्यात् कजाङ्कितम् ॥ ८५ ॥

वर्तुलं चतुरश्रं वा प्रकाशाख्यं सुलक्षणम् ।
शङ्खचक्रगदापद्मैश्चिह्निते मेखलावनौ ॥ ८६ ॥

द्रव्याणामधिवासार्थं तत्समीपस्थितां महीम् ।
मध्यमे मण्डलं पीठे मन्त्रास्त्रकलशार्चनम् ॥ ८७ ॥

चतुष्कं स्नानकुम्भानां सोषधीनां निवेशने ।
अन्यत्र शयनं तस्मिन् स्नानपीठे तु विन्यसेत् ॥ ८८ ॥

स्नानकुम्भसमीपं तु स्नानद्रव्यसमन्वितम् ।
पीठं तत्पञ्चमं विद्धि बालुकाभिस्सुपूजितम् ॥ ८९ ॥

सद्वारं सगवाक्षं च सकवाटं हि सार्गलम् ।
कृत्वैवमधिवासार्थं 6 प्राकारवलयं महत् ॥ ९० ॥

प्रासादक्षेत्रमानं च सन्त्यज्य परितः स्थितम् ।
समेखलं सपीठं तत् दिक्षु कुण्डाष्टकं लिखेत् ॥ ९१ ॥

अनुकल्पे तु वै कुर्यात् प्राच्यां दिङ्मब्डलाद्बहिः ।
तत्पाश्चात्ये तु वा भागे एकपीठास्सतोरणाः ॥ ९२ ॥

सस्तम्भा वा पृथक्पीठा विविक्ताश्च परस्परम् ।
प्राग्भागे चक्रपद्माख्यं दक्षिणे केवलेश्वरी ॥ ९३ ॥

प्। २५९)
विश्वास-प्रस्तुतिः
चतुरश्रं तु वा कल्प्यं गदामेखलमब्जज ।
पद्ममुत्तरदिग्भागे शङ्खं कोणचतुष्टये ॥ ९४ ॥

एष पादप्रतिष्ठायां कुण्डानां संस्थितिस्स्मृता ।
चातुरात्म्यादिदेवानां ब्रह्मन् स्थापनकर्मणि ॥ ९५ ॥

संस्थितिं शृणु कुण्डानां विविधा दिग्विदिक्षु च ।
महाविभवसौभाग्य-आयुरारोग्यवृद्धये ॥ ९६ ॥

सिद्धये सर्वकर्माणां विघ्नानां विनिवृत्तये ।
व्यत्ययाच्च फलं विद्धि मुक्तये समतानसौ ॥ ९७ ॥

गदाद्वन्द्वद्वयोपेतं पाग्दिक्तुर्याश्रमेव च ।
चक्रदक्षिणदिग्विप्र शङ्खं प्रत्यग्गते ततः ॥ ९८ ॥

पद्ममुत्तरदिग्भागे यथाभिमतपल्लवम् ।
आग्नेयं तु समापाद्य कुण्डमश्वत्थपत्रवत् ॥ ९९ ॥

विमुक्तकमलं कुर्यात्त्रिकोणं पूर्ववर्तुलम् ।
होमार्थं यातुदिक्कुण्डमष्टाश्रं वायवे पदे ॥ १०० ॥

धिष्ण्यं श्रीवत्ससञ्ज्ञं यत् प्राग्वदर्धेन्दुलक्षणम् ।
ऐशान्यां तु समालिख्य लक्षणेनोपलक्षितम् ॥ १०१ ॥

अतोऽपरं सन्निवेशमेकाग्रमवधारय ।
धिष्ण्यं पूर्वपदे वृत्तमाग्नेय्यां कौस्तुभाकृतिम् ॥ १०२ ॥

चक्रं दक्षिणदिग्भागे शार्ङ्गाकारं तु यातुदिक् ।
आप्यं गदाकृतिं प्राग्वन्मालाख्या वायवे पदे ॥ १०३ ॥

उदग्दिक्कमलाकारं श्रीवत्साकारमीशगम् ।
विस्तारसममानं तु सर्वेषां विहितं तु वै ॥ १०४ ॥

प्राग्वद्द्वादशमांशं तु ओष्ठार्धं परिमृज्य च ।
सुसमं मेखलाबन्धं कुर्यात्तद्विस्तृतेस्समम् ॥ १०५ ॥

समेखला वै विषमास्सर्वेषां पूर्ववद्द्विज ।
यथोक्तलक्षणा कार्या योनिः पिप्पलपत्रवत् ॥ १०६ ॥

मध्यदेशे सुवृत्तं च तुर्यं श्रीवत्सलक्षणम् ।
प्रासादक्षेत्र भूमेर्वा 7 तमेवैशपदे बहिः ॥ १०७ ॥

सम्पाद्य मानयुक्तं वा तर्पणे सर्वकर्मणाम् ।
वास्त्वङ्गविबुधानां च लोकेशानां महामते ॥ १०८ ॥

विघ्नेशद्वारपालानां क्षेत्रेशस्य तथा क्षितेः ।
सम्पाद्यमेवमब्जोत्थ सकुण्डं यागमन्दिरम् ॥ १०९ ॥

ततोऽन्तरात् सबाह्यं च ऊर्जनं परिभूषयेत् ।
सुविचित्रैर्ध्वजै रम्यैर्वैजयन्तीगणैश्च तैः ॥ ११० ॥

प्रोच्छ्रितैः कदलीरूपैर्द्रुमाङ्गैः पावनैर्दृढैः ।
सवस्त्रैः पूर्णसुघटैः पुष्पैर्वै मञ्जरीगणैः ॥ १११ ॥

वितानैविविधाकारैर्विनानलगृहं तु वै ।
सशरैर्बर्हिपक्षैस्तु सूत्रैर्भूताधिदैवतैः ॥ ११२ ॥

प्राक् प्राप्तैर्लोकनाथाद्यैर्द्वास्स्थैः क्षेत्रतलागृहैः 8 ।
दर्पणैश्चामरैश्चित्रैर्घण्टाबृन्दैस्स्वरान्वितैः ॥ ११३ ॥

मध्वाज्यदधिसक्षीरसुपूर्णैः कांस्यभाजानैः ।
उपकुम्भाननस्थैश्च हरितैः पालिकागणैः ॥ ११४ ॥

शालितण्डुलपात्रैस्तु सहिरण्यैः फलोद्वहैः ।
लाजसिधार्थकैर्बीजभाजनैः षड्रसान्वितैः ॥ ११५ ॥

सत्सुगन्धैस्त्वगेलाद्यैः पात्रैः पूगफलैस्ततः ।
मधूकबदरीलाक्षा-इक्षुभिस्त्रिफलैः फलैः ॥ ११६ ॥

प्। २६०)
विश्वास-प्रस्तुतिः
यथा तत्प्रभवैः पुष्पैः बहुभिः प्रकरीयकैः ।
इत्येवमाद्यैर्विविधैर्भोगपूगैस्तु पावनैः ॥ ११७ ॥

भूमयः पीठबाह्यास्तु सर्वदिक्परिवार्य च ।
सम्प्रवेश्याखिलं तत्र सम्भारं भूरिसम्भृतम् ॥ ११८ ॥

शुभे ग्रहेऽनुकूले च नक्षत्रे सुस्थिरे ततः ।
लग्ने स्थिरे स्थिरांशे च परिशुद्धे गुणान्विते ॥ ११९ ॥

प्रासादाङ्घ्रिप्रतिष्ठार्थं कर्ता वै भगवन्मयः ।
कृताह्विको द्विजेन्द्राद्यैर्देशिकेन समन्वितः ॥ १२० ॥

भेरीपटहवादित्रशङ्खशब्दादिकैस्सह ।
ऋग्यजुस्सामपूर्वांश्च प्रशस्तास्सम्पठन् श्रुतीः ॥ १२१ ॥

द्वारपालार्चनं कृत्वा यागागारं प्रविश्य च ।
संस्मृत्य स्वासने व्याप्तिमर्चयित्वोपविश्य च ॥ १२२ ॥

मध्यपीठसमीपे तु प्राङ्मुखं पश्चिमे पदे ।
प्राग्दिक्प्रत्यङ्मुखं योज्य मृन्मयाश्चासनेषु च ॥ १२३ ॥

उदग्दक्षिणदिग्यन्त्रं यजुर्वेदांस्तु योजयेत् ।
प्राङ्मुखं पश्चिमे भागे सामज्ञान्विनियोज्य च ॥ १२४ ॥

सह चैकायनैर्विप्रैर्मूर्तिसञ्ज्ञोपलक्षितैः ।
दिगुत्तरस्यां च ततो नित्यकर्मपरायणान् ॥ १२५ ॥

निवेश्याथर्ववेदांश्च सर्वे द्विद्विकसङ्ख्यया ।
पृष्ठतस्सुसहायाद्यैस्सम्यग्ज्ञानप्रतीक्षकः ॥ १२६ ॥

उपदेष्टा च मन्त्राणां द्विजादीनां समर्चने ।
दक्षिणे स्वात्मनः कुर्यादेकचितं समाहितम् ॥ १२७ ॥

ततः समाचरेत् न्यासं द्वादशाक्षरमूर्तिना ।
मन्त्राभिमानशक्तिं वै समालम्ब्य धिया ततः ॥ १२८ ॥

अथाष्टाक्षरपूर्वैस्तु मन्त्रैश्श्रुतिमयैस्ततः ।
प्राक्प्रोक्तविधिना पाद्यं भृङ्गारकमलं पुरा ॥ १२९ ॥

पाद्यार्घ्यैः पञ्चगव्यं च कृत्वाभ्यर्च्य द्विजातये ।
समालम्भनपुष्पाद्यैस्सवस्त्रैरङ्गुलीम् ? ॥ १३० ॥

पवित्रकैस्तु हेमाढ्यैर्धूपयित्वा यथाक्रमम् ।
प्रयतस्ससहायश्च स्थपतिश्चोपवेशयेत् ॥ १३१ ॥

दत्त्वाज्ञामथ मानस्य कर्मभूमौ स्थितानि च ।
सुवर्णराजतोत्थानि नवताम्रमयानि वा ॥ १३२ ॥

शैलजान्यनुकल्पे तु मृत्कुम्भान्यथवाब्जज ।
तत्र मध्यमकुम्भं यत् चतुर्विंशाङ्गुलेन च ॥ १३३ ॥

विस्तृते मध्यतस्तच्च द्व्यङ्गुलद्व्यङ्गुलोन्नतम् ।
वक्त्रमङ्गुलषट्केन तत्रास्यं त्र्यङ्गुलं स्मृतम् ॥ १३४ ॥

मेखलोपरितो ज्ञेया त्र्यङ्गुला कमलोद्भव ।
ये तु दिक्कमलान्येवैतदर्धेनोन्नतैस्समाः ॥ १३५ ॥

फलैश्च विविधैश्चैव सह सम्पूर्य वै मृदा ।
आकोट्य खादिरैः काष्ठैः प्रबलैरम्बुसञ्चिताः ॥ १३६ ॥

पूरणार्थमशेषात्तु कृत्वा खातं तु साधकम् ।
समीकृत्योपलिप्याथ प्राग्वद्दिक्सिद्धिमाचरेत् ॥ १३७ ॥

भूषयेच्च ध्वजैरन्यैर्वेजयन्तीस्समुत्क्षिपेत् ।
शोभयेत् कदलीपूर्वैर्द्रुमाङ्गैः पावनैर्दृढैः ॥ १३८ ॥

वस्त्रैः पूर्णघटैः पुष्पैः कौशेयैर्मञ्जरीगणैः ।
शुभे ग्रहेऽनुकूले तु नक्षत्रे शुभदर्शने ॥ १३९ ॥

लग्ने स्थिरे स्थिरांशे च परिशुद्धे गुणान्विते ।
प्रासादाङ्घ्रिग्रसार्थं ? कर्ता वै भगवन्मयः ॥ १४० ॥

कृताह्निको द्विजेन्द्राद्यैर्देशिकेन समन्वितः ।
भेरीपटहवादित्र? शब्दादिकैश्शुभैः ॥ १४१ ॥

प्। २६१)
विश्वास-प्रस्तुतिः
वन्दिवृन्दसमोपेतैर्गीयमानैश्च मङ्गलैः ।
साम-ऋग्यजुपूर्वास्तु प्रशस्ताः पाठयेच्छ्रुतीः ॥ १४२ ॥

सहसम्भृतसम्भारक्ष्माकृतं क्ष्मातलं विशेत् ।
समाचम्य कृतन्यासो द्वादशाक्षरमूर्तिना ॥ १४३ ॥

अथाष्टाक्षरपूर्वैस्तु मन्त्रैश्श्रुतिमयैस्सह ।
पाद्यार्घ्यपञ्चगव्यं तु कृत्वाभ्यर्च्य द्विजोत्तमम् ॥ १४४ ॥

स्थपतिश्चार्घ्यपुष्पाद्यैः प्रवर्तेत सुकर्मणि ।
ओङ्कारपूर्वां गायत्रीमेकैकं पाठयेद् द्विज ॥ १४५ ॥

गायत्रीसामपूर्वं च कनिक्रन्दमुदीर्य च ।
एवमोङ्कारपूर्वं च कर्मारम्ममनन्तरम् ॥ १४६ ॥

पठेदेकायनं पश्चात् शिवसङ्कल्पमेव च ।
ऋग्वेदज्ञो यजुर्ज्ञोऽथ भद्रोनं समुदीर्यं च ॥ १४७ ॥

भद्रश्रीसामसामज्ञश्शताद्यौ कृत्यधर्मवित् ।
विभज्य पूर्ववत् क्षेत्रं पवित्रीकृत्य साम्प्रतम् ॥ १४८ ॥

पवित्रमन्त्रैरखिलैर्वैदिकैः पाञ्चरात्रिकैः ।
कन्यां च सौम्यदिग्भागे ऐशान्यां वालयावने ॥ १४९ ॥

मण्डलं पार्थिवे पीठे विनिवर्त्य चतुस्समे ।
अशुभं सर्वतोभद्रं वश्यागारद्वयान्वितम् ॥ १५० ॥

भद्रपीठासनस्थं च सोदकं च घटद्वयम् ।
स्रगाद्यैर्भूषितं कृत्वा एकस्मिन् साधनं यजेत् ॥ १५१ ॥

द्वादशाक्षरमन्त्रेण भगवान् पुरुषोत्तमः ।
श्रुत्युक्तैर्मन्त्रमुख्यैस्तु तदस्त्रपरके घटे ॥ १५२ ॥

मन्त्रैर्हेतीशलिङ्गैस्तु चतुर्वेदसमुत्थितैः ।
मण्डपाग्रमथासाद्य हार्दमापाद्यमर्चनम् ॥ १५३ ॥

अवतार्य बहिः कुर्यात् पूजनं प्राग्यथोदितम् ।
पूर्णाहुतिं विनाग्नौ तु तर्पयित्वा यथाविधि ॥ १५४ ॥

यजेद्वास्तु नराद्यं वै सुरसङ्घं तदङ्गकम् ।
शतं शतार्धं पादं वा आहुतीनां समापयेत् ॥ १५५ ॥

तिलानामाज्यसिक्तानामाज्यस्य तदनन्तरम् ।
सामरैर्वास्तुलिङ्गैस्तु मन्त्रैर्देवव्रतादिकैः ॥ १५६ ॥

सुसमं कलशानां तु नवकं त्वथ धातुजम् ।
यथाशक्तिप्रमाणं तु नाल्पं वै द्वादशाङ्गुलम् ॥ १५७ ॥

शैलजं मृन्मयोत्थं वा सुपक्वं सुदृढं शुभम् ।
भृङ्गारतुल्यमष्टाश्रं शङ्खाकारं तु वोच्छ्रितम् ॥ १५८ ॥

वलिहीनं विरक्तास्यं द्रव्याणां ग्रहलक्षणम् ।
शुद्ध्यर्थमथ सर्वेषां स्नानकर्म समाचरेत् ॥ १५९ ॥

अधिवास्याम्बरच्छन्नान् सद्यो वाऽन्येऽहनि द्विज ।
क्रमशः पूरयेद् द्रव्यैस्तल्लिङ्गैश्श्रुतिसम्पठैः ॥ १६० ॥

गायत्र्याष्टाक्षरेणैव द्वादशाक्षरविद्यया ।
सुवर्णसिकताभिस्तु रत्नैर्मुक्ताफलादिकैः ॥ १६१ ॥

धातुभिश्चाखिलैर्धान्यैरथान्यैः पारतादिकैः ।
सिद्धार्थकान्वितैर्बीजैर्धान्यैर्नीवारपूर्वकैः ॥ १६२ ॥

कर्पूरमलयक्षोदकुङ्कुमागरुमिश्रितैः ।
पट्टस्रक्चन्दनाद्यैस्तु बाह्यतश्चोपशोभयेत् ॥ १६३ ॥

एवं सम्पूज्य संस्कृत्य चतुर्णां मध्यतो न्यसेत् ।
पद्मासनगतां लक्ष्मीं निधिभिः 9 परिवारिताम् ॥ १६४ ॥

प्। २६२)
विश्वास-प्रस्तुतिः
चतुर्णामथ चान्येषां रत्नराट् कौस्तुभाभिधः ।
समन्त्रेण स्वनाम्ना च निधिनाथैस्समन्विताम् ॥ १६५ ॥

भगवान् सर्वशक्त्यात्मा एकस्मिन् परिचिन्तयेत् ।
षडक्षरेण मन्त्रेण निष्कलं शब्दविग्रहम् ॥ १६६ ॥

ब्राह्मं चतुष्पदं क्षेत्रं नयेदष्टच्छदात्मना ।
न्यस्य सार्वेश्वरं कुम्भं मध्यतः कर्णिकोदरे ॥ १६७ ॥

रत्नकुम्भचतुष्कं तु दिक्चक्रेष्वष्टदिक्षु च ।
प्रादक्षिण्येन प्राग्भागान् मन्त्रान् वा लौकिकान् द्विज ॥ १६८ ॥

लक्ष्यं कुम्भचतुष्कं येदीशाद् वायुपदावधि ।
एवं न्यस्त्वा ततः कुर्यादर्चनं मध्यमस्य च ॥ १६९ ॥

चतुष्कं हृदयाद्यं वै रत्नकुम्भगतं यजेत् ।
चतुर्णां मन्त्रमेकं तु श्रीकुम्भानां तु पूजयेत् ॥ १७० ॥

पुरतो नेत्रमन्त्रैस्तु मध्यकुम्भे च तस्य च ।
कृत्वैवं निष्कलं न्यासं सर्वेषां साम्प्रतं ततः ॥ १७१ ॥

विधाननवकं दद्यात्ताम्रं वा शैलजं समम् ।
सुवृत्तं चतुरश्रं वा सुघनं द्वादशाङ्गुलम् ॥ १७२ ॥

चतुश्शक्तिनिरुद्धं च तत्र मध्यगते घटे ।
शक्तिर्वा या परा देवी विश्वसन्धारणक्षमा ॥ १७३ ॥

प्रभासावैश्वरी दिक्षु ज्ञानशक्त्यामृता च सा ।
विदिग्घटसमूहे तु स्मरेदानन्दलक्षणा ॥ १७४ ॥

क्रियाख्या याच्युती शक्तिश्शुद्धा शक्तस्य जन्मदा ।
न्यस्त्वैवमर्चनं कुर्यात् श्रियादीनां स्वसञ्ज्ञया ॥ १७५ ॥

निधीनां निधिनाथानां मन्त्रं साङ्गं यजेत्ततः ।
मुद्रां प्रदर्शयेत् मान्त्रीं सर्वसामर्थ्यलक्षणाम् ॥ १७६ ॥

द्वादशाक्षरमन्त्रेण जप्तव्यं च समाचरेत् ।
सन्निरोधं द्विषट्कार्णे * * * * * * * * न सन्नि ॥ १७७ ॥

यजुर्ज्ञं त्वथ सञ्चोद्य युज्यतेति च यद्यजुः ।
ऋचं च पौरुषं सूक्तं सामज्ञो विष्णुसञ्ज्ञितः ? ॥ १७८ ॥

अथर्वायेति षट्पाद्य द्विजमेकायनं ततः ।
आत्मव्यूहादिकं कुर्यात् सञ्ज्ञामन्त्रचतुष्टयम् ॥ १७९ ॥

नमस्कारसमोपेतं ततस्साम रथन्तरम् ।
आहुत्वा (हा) हर्षपूर्वं वै ऋन्वेदं समुदीरयेत् ॥ १८० ॥

प्रतिष्ठासिति वै साम सामज्ञोऽथ उदीरयेत् ।
अतोऽन्तरं तु कुम्भानां * * * * * * * * * * * * * * * ॥ १८१ ॥

आपाद्यमथ सर्वेषां सुधालेपेन चैव हि ।
दिगष्टकं मुद्रणीयं क्षेत्रं शक्त्यष्टकेन तु ॥ १८२ ॥

शिलान्तस्सन्निरोधेन शिलानामसमास्तु वा ।
कार्या ऊर्ध्वसमास्सर्वास्सर्वतोभद्रलक्षणाः ॥ १८३ ॥

स्नानाद्यैस्संस्कृतं पूर्वं वासस्रग्वर्णभूषिता ।
रत्नाष्टकासनस्था च अष्टानां च सुविन्यसेत् ॥ १८४ ॥

मन्त्रमक्षरभेदेन प्रणवाद्यन्तगं 10 तु वै ।
प्रागादावीशदिङ्निष्ठमष्टकं व्यक्तिगं न्यसेत् ॥ १८५ ॥

प्रणवेन स्वनाम्ना च नमोऽन्तेन महामते ।
बलवीर्यवती नित्या अनन्ताख्या स्थिरा ध्रुवा ॥ १८६ ॥

सन्ध्याख्या धृतिसञ्ज्ञा च स्थितिर्नाम्ना द्विजाष्टमी ।
वेदाद्यन्तं 11 समुद्घोष्य यजुर्वेदव्रतैस्सह ॥ १८७ ॥

प्। २६३)
विश्वास-प्रस्तुतिः
हये च विद्या ऋक्सूक्ता ब्रूयादेकायनं ततः ।
यदिवायो सवेत्यादि हुत्वैवं कमलोद्भव ॥ १८८ ॥

दत्त्वा पूर्णाहुतिं ब्रूयात् मन्त्रमाश्राविकं हि यत् ।
कर्ता च देशिकेन्द्रोऽथ संस्मरन् मन्त्रसंहिताम् ॥ १८९ ॥

न्यस्तश्रियादिकैर्नाममन्त्रैस्सर्वैस्समन्वितम् ।
एषां बुद्धिस्सप्तधेति मन्त्रमेकायत्रं पठन् ॥ १९० ॥

दद्यादाहुतिकं सर्वं कर्मणां पूरणाय च ।
एतावदुक्तमब्जाक्ष मुख्यकल्पं मया च ते ॥ १९१ ॥

अनुकल्पमतो वक्ष्ये सर्वेषां च हितावहम् ।
एतस्मिन् कलशे सर्वमन्यक्षेत्रगणार्चितम् ॥ १९२ ॥

मन्त्रव्यूहं यथोक्तं च स्थलगोपलगं न्यसेत् ।
सर्वशक्तिमयीमेकां शक्तिं वै पारमेश्वरीम् ॥ १९३ ॥

निवेश्य मध्यतस्तस्मिन् दद्यात् कोशं सुधादिकम् ।
वर्णकैः कुङ्कुमाद्यैस्तु तत्रोर्ध्वेऽब्जं लिखेत्ततः ॥ १९४ ॥

भूभागं खातशेषं यत् समन्तात् समतां नयेत् ।
प्राग्वदाकोट्टनाद्येन सर्वाङ्गैरिषुभिस्ततः ॥ १९५ ॥

पञ्चरङ्गेण सूत्रेण शङ्कुभिर्याज्ञिकैर्दृढैः ।
अस्त्रमन्त्रेण मन्त्रज्ञो जीमूतमथ सम्पठेत् ॥ १९६ ॥

चतुस्स्रक्चन्दनोपेतां बलिं वै साच्च कामिकीम् ।
दद्यात् पूर्वोदितां दिक्षु समाचम्य प्रणम्य च ॥ १९७ ॥

द्वादशाक्षरमन्त्रेण त्रिस्थानस्थं च मन्त्रराट् ।
क्षान्त्वा तदोपसंहृत्य प्राग्वदर्चनपूर्वकम् ॥ १९८ ॥

सांसारीनां बहिर्यावदाचरेत् स्थपतिं पुनः ।
विश्वकर्मा पुरस्कृत्य अन्येषां पिशिताशिनाम् ॥ १९९ ॥

दद्याद् द्विजेन्द्रपूर्वाणामशनं दक्षिणादिकम् ।
अन्येषामर्थिनामन्नं धनदानं स्वशक्तितः ॥ २०० ॥

नानादेशवशाच्चैव कुर्यादेवं गृहासनम् ।
विभागेन समायुक्तमालयं विविधं तथा ॥ २०१ ॥

ध्वजासनावसानं च विभज्य स्वधिया ततः ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां प्रासादस्य पादप्रतिष्ठा नाम
द्विचत्वारिंशोऽध्यायः ॥
(समुदितश्लोकसङ्ख्या २०१ ॥)