४१ अध्यायः

अथ एकचत्वारिंशोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

उक्तमार्गेण चोद्दिष्टं मान्त्रं संस्थापनं तु वै ।
यथावदुक्तं तदहं ज्ञातुमिच्छामि साम्प्रतम् ॥ १ ॥

मूलम्

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

नृणामाराधकानां तु मन्त्रैकनिरतात्मनाम् ।
मन्त्राकृतेः प्रबुद्धस्य गुप्तं कृत्वार्चनं हितम् ॥ २ ॥

अथ दार्वादिकानां तु धातृत्थानां समाहितः ।
रचनासन्निवेशं च सस्तम्भानां निबोधतु ॥ ३ ॥

तथा स्तम्भविमुक्तानां भूभाङ्घ्रिनिवेशिनाम् ।
बाहुल्यं च स्वविस्तारात्तृतीयांशसमं स्मृतम् ॥ ४ ॥

प्। २४६)

विश्वास-प्रस्तुतिः

प्रणालं तत्समं दैर्घ्याद्विस्तृतेर्वार्धसम्मितम् ।
विभज्य सुसमैर्भागैरधमं बलवत्पुरा ॥ ५ ॥

स्वल्पा द्वादशसङ्ख्यैस्तु मध्यमास्तु द्विसप्तकैः ।
द्विरष्टसङ्ख्यैर्विततास्तत्राद्यानां तु मध्यतः ॥ ६ ॥

विधेयं षड्भिरंशैस्तु पीठं श्लक्ष्णं समं शुभम् ।
सुवृत्तं चतुरश्रं वा स्वपद्मं केवलं त्वथ ॥ ७ ॥

चक्राम्बुरुहयुक्तं वा तदुच्छ्रायं विधीयते ।
अर्धभागेन बाहुल्यात्तत्सार्धं सकजस्य च ॥ ८ ॥

समं सचक्रपद्मस्य तयोः पूर्वोक्तलक्षणम् ।
विहितं किन्तु विप्रेन्द्र चतुरश्रस्य कल्पयेत् ॥ ९ ॥

कोणेषु शङ्खनिर्माणं शङ्खाद्यं वा चतुष्टयम् ।
वर्तुलस्य न ते कार्यास्तथैव कमलोद्भव ॥ १० ॥

चक्रपद्मवियुक्तस्य चतुरश्राश्रयस्य च ।
यदुक्तं चक्रपद्माभ्यामर्धे तुङ्गत्वमब्जज ॥ ११ ॥

न केवलस्य विहितं मन्त्रं मन्त्रास्सदस्य च ? ।
तदब्जं निखनेन्मध्याद्व्यंशं द्व्यंशं समन्ततः ॥ १२ ॥

खातं भागं समं चैव सार्धं दैर्घ्याद्विधीयते ।
जलाश्रयं तु परितः खाताद्भङ्गसमं बहिः ॥ १३ ॥

सोपवीतं च विहितमन्तरेखाश्रयस्थिते ।
द्वादशांशकृतानां च इत्येषा (मम्) शकल्पना 1 ॥ १४ ॥

विहिता काष्ठवर्गाणां शैलजानामपि द्विज ।
भङ्गाद्विभक्तिभिर्भागैर्मात्रं ? यत्कल्पितं पुरा ॥ १५ ॥

तन्मध्ये मुनिभिर्भागैस्सर्वं पूर्वोक्तमाचरेत् ।
भागद्वयं द्वयं चैव परितो निखनेत् क्रमात् ॥ १६ ॥

जन्माश्रयं तु भागेन सार्धेन परितः स्मृतम् ।
ततोर्ध्वमुक्तमानं यत्तत्र तद्विहितं तु वै ॥ १७ ॥

विभज्य तत् षोडशधा मध्ये भागाष्टकेन वै ।
विधेयमखिलं प्राग्वद्भागात् पादेन वै सह ॥ १८ ॥

परितो निखनेद् द्रोणीं ब्रह्मन् भागद्वयेन तु ।
जलाश्रयं तु विहितं पादोनेन द्वयेन वा ॥ १९ ॥

आपाद्य चक्रं प्रगुक्तं कमलाद्यं यथोदितम् ।
नवपद्ममयीं कुर्यात् संस्थितं चार्चने विभोः ॥ २० ॥

यथायथा च विस्तारं समभ्यूह्य तथातथा ।
आदाय खातपूर्वेभ्यो मध्यदेशे तु योजयेत् ॥ २१ ॥

विभक्तं भवते येन क्षेत्रं चेदम्बुजस्य च ।
नवानामपि पद्मानामथ मन्त्रवराश्रितम् ॥ २२ ॥

पद्मं साधारणाज्जालं युज्यतेऽभ्यर्चितं यथा ।
इति विस्तीर्णभागानां विभागं हि यथोदितम् ॥ २३ ॥

कृत्वाथ रचयेद्यत्नाद्बाहुल्यं मेखलादिकैः ।
जलाश्रयसमेनादौ तदुद्देशात् क्रमेण तु ॥ २४ ॥

शोधयित्वानुपादेन बाहुल्यं दिक्चतुष्टयात् ।
त्रिचतुः पञ्च वा षड् वा ततः पुच्छाश्रितेर्भजेत् ॥ २५ ॥

त्रिधा 2 विभक्तं सोष्णीषं सपद्मं मेखलात्रयम् ।
चतुर्विभक्तेनोष्णीषं मेखलाषट्कमध्यगम् ॥ २६ ॥

कुर्याद्वै किङ्किणीजालद्वयेन नलिनीं शुभाम् ।
मुनिभक्ते तु बाहुल्ये षोढा कमलसम्भव ॥ २७ ॥

भागेनोष्णीषवर्गं तु श्लथगाश्रयवद्भवेत् ।
तदधश्शुक्तिकाकारं सूत्रं छिन्नं विधीयते ॥ २८ ॥

अधस्ताच्छुक्तिभागस्य वृत्तं कुर्यात् सकर्णिकम् ।
वृत्तासनं च विहितं चतुरश्रं समन्ततः ॥ २९ ॥

तदधस्त्रितयं कुर्यान्मेखलानां सुलक्षणम् ।
सपादाश्चोक्तपादेभ्यः किञ्चित्किञ्चिद्यथाक्रमम् ॥ ३० ॥

प्। २४७)

विश्वास-प्रस्तुतिः

स्थितिरन्तरसूत्रीया विभागजननी हिता ।
सन्त्यज्योष्णीषपीठांशं गरुडं च कृताञ्जलिम् ॥ ३१ ॥

स्ववक्त्रेणापरेणैव युक्तं पाणिद्वयेन तु ।
कुर्यात् पूर्वापराभ्यां वा मन्ये भद्रासनस्य च ॥ ३२ ॥

गङ्गायमुनयोर्मध्ये वरुणं यादसां पतिम् ।
मध्यतस्तदुदग्भागे भद्रपीठस्य कल्पयेत् ॥ ३३ ॥

पार्श्वद्वये प्रमाणस्य समुद्रं रत्नपात्रवृत् ।
विधेयं सौम्यमूर्तिं च दिव्यैर्जलचरैस्सह ॥ ३४ ॥

दिक्चतुष्कमतश्शेषमापूर्यं किङ्किणीगणैः ।
द्रव्यजे चलबिम्बे वा अङ्गुलैः परिनिर्मिते ॥ ३५ ॥

अथोर्ध्वं तु नृपादीनां हितं नानानिवेशनम् ।
महाधनानां चान्येषां शुभेप्सूनां च कीर्तये ॥ ३६ ॥

नानाधर्मप्रतिष्ठानां तत्र तावत्समाचरेत् ।
राजा वा साधकश्चान्यो लोकदं स्वर्गदं हि यत् ॥ ३७ ॥

वृषोत्सर्गफलेनाशु निवृत्तिं तस्य कर्मणः ।
कृत्वा तदनु वै कुर्याद्धरेस्संस्थापनं पुनः ॥ ३८ ॥

विशेषकर्मनिचयं प्रत्यस्तमति 3 यत्र वै ।
सङ्कल्पादेव नाधर्म ? 4 माजीवमभिविन्दति ॥ ३९ ॥

सम्यक् समाप्तो येनैव तेनान्यस्मिन् हि जन्मनि ।
विवेकजं परं ज्ञानमाप्नुयान्मोक्षसिद्धिदम् ॥ ४० ॥

नान्येन कर्मणा यस्माद्विषकीर्णेन कर्मणा ।
जायते परया शान्तिर्धर्मवश्योऽक्षयप्रदः 5 ॥ ४१ ॥

नानाधर्मप्रतिष्ठानं लोकानां हितकाम्यया ।
ज्ञातुमिच्छामि भगवन् त्वत्तस्सन्देहशान्तये ॥ ४२ ॥

मूलम्

नानाधर्मप्रतिष्ठानं लोकानां हितकाम्यया ।
ज्ञातुमिच्छामि भगवन् त्वत्तस्सन्देहशान्तये ॥ ४२ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

पञ्चायतनपूर्वं प्राक् कृत्वा देवालयं शुभम् ।
कामनारहितेनैव चेतसा विमलेन तु ॥ ४३ ॥

धर्मार्थमाश्रितं तस्मिन् पुरं कुर्याद्द्विजास्पदम् ।
सर्वलोकेषु सामान्यं सर्वदोषक्षयङ्करम् ॥ ४४ ॥

सर्वधर्मोत्तमं चैव सर्वदा सर्वकामदम् ।
प्रवरं पञ्चकालज्ञसमूहं भगवन्मयम् ॥ ४५ ॥

मूलम्

सर्वधर्मोत्तमं चैव सर्वदा सर्वकामदम् ।
प्रवरं पञ्चकालज्ञसमूहं भगवन्मयम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः

षट्कर्मनिरतं चापि त्रयीधर्मपरायणम् ।
ज्ञातिशुद्धं परिज्ञाय निर्द्वन्द्वं च परस्परम् ॥ ४६ ॥

दाराग्निहोत्रसंयुक्तं वेदाध्ययनतत्परम् ।
नदीशैलवनोपेते दुष्टप्राणिविवर्जिते ॥ ४७ ॥

सस्यशालिफलाढ्ये तु स्निग्धशष्पसमाकुले ।
स्वादुतोयप्रदे देशे सुप्राकारविभूषिते ॥ ४८ ॥

तमासाद्य शुभं तत्र पूजयित्वा जगत्प्रभुम् ।
ततस्स्नात्वानुलिप्तं च वस्त्रालङ्कारभूषितम् ॥ ४९ ॥

ताम्रशासनपूर्वं तु ब्राह्मणं विनिवेश्य च ।
आसनेषु समूहन्तं पाद्यार्घ्यकुसुमैर्यजेत् ॥ ५० ॥

तं च धूपैस्सुगन्धैश्च ताम्बूलेन महामते ।
यथाक्रमोपदिष्टेषु दद्यात् पाणौ कुशोदकम् ॥ ५१ ॥

द्वादशाक्षरमन्त्रेण प्रमाद्यमिति पाठयेत् ।
प्रतिष्ठासीति वै साम कुर्याद्वै प्रार्थनां ततः ॥ ५२ ॥

प्। २४८)

विश्वास-प्रस्तुतिः

यथावदर्चनीयश्च मदनुग्रहकाम्यया ।
स्वगृहे पुण्डरीकाक्ष स्वकुलोत्थेन कर्मणा ॥ ५३ ॥

सहसद्धर्मचारिण्या व्यक्तवेद्यां यथागमम् ।
समिदादीनि चाग्नीनामग्नेर्वा शक्त्यपेक्षया ॥ ५४ ॥

त्रैकाल्यमा च कर्तव्यं स्वधर्मः परिपाल्यताम् ।
प्रवेशं न समापन्ना?दातव्यं पापकर्मणाम् ॥ ५५ ॥

संस्कार्या स्वसुताः कन्या भृत्यामात्यास्स्ववंशजाः ।
वैष्णवेन विधानेन कार्यास्ते भगवन्मयाः ॥ ५६ ॥

आ मुहूर्तात्तु वै ब्राह्माद्यावदादित्यदर्शनम् ।
स्नानपूजाजपस्तोत्रपाठैस्सन्ध्यां समाचरेत् ॥ ५७ ॥

यागसाधनभोगानामुपार्जनमनन्तरम् ।
ततस्स्नानं तु विधिवद्यथोक्तं विधिना हितम् ॥ ५८ ॥

सायमाभूतशुद्धिं च अन्तर्यागमनन्तरम् ।
यथोक्तविधिना चाथ कुर्यादाराधनं बहिः ॥ ५९ ॥

ततोऽग्निहवनं चैव क्रियां पैत्रीमनन्तरम् ।
बलिदानं च भूतानामतिथीनामथार्चनम् ॥ ६० ॥

बन्धुभृत्यसमोपेतमात्मयागमनन्तरम् ।
ऋक्सामपूर्वं स्वाध्यायमितिहासादिचिन्तनम् ॥ ६१ ॥

आचर्तव्यं समाधानं स्वहृत्पद्मान्तरे ततः ।
त्रयोदशाङ्गमित्युक्तमाह्निकं भगवन्मयम् ॥ ६२ ॥

कार्यं वै प्रत्यहं भक्त्या क्षीयमाणे क्षपागमे ।
सन्यासमाचरेद् भूयः कुर्याद्ग्रहणमस्य वै ॥ ६३ ॥

देशिकेन्द्रमुखेनैवमाज्ञातुं गृहमेधिनाम् ।
दत्त्वा निर्गत्य वै तत्र कर्ता कुर्यात् प्रदक्षिणम् ॥ ६४ ॥

इति ब्रह्मप्रतिष्ठानं विधानं कथितं च ते ।
वैष्णवीयैः पालनीयं नृपेन्द्रैश्च स्वसिद्धये ॥ ६५ ॥

स्वसिद्धान्तप्रतिष्ठानमथेदानीं निबोधतु ।
मठमायतने कृत्वा वृत्तिपुर्वमकृत्रिमम् ॥ ६६ ॥

वणिक्कुटुम्बभृतकैर्युक्तं दासगणेन तु ।
वाप्यो घरदृजा * * * * न्या 6 सह वातायनैः स्थिताः ॥ ६७ ॥

तत्रान्नं व्यञ्जनोपेतं भक्ष्यकान्नादिकं बहु ।
विविधं साधयित्वा प्राक् स्नात्वा तु गुरुणा सह ॥ ६८ ॥

द्वादशाक्षरपूर्वैस्तु मन्त्रैर्न्यस्ततनुस्सुधीः ।
अर्चयित्वा जगन्नाथं परमेश्वरमच्युतम् ॥ ६९ ॥

अभ्यागतान् समाहूय ब्राह्मणान् वेदपारगान् ।
इदं तदमृतं चान्नमिदमायुः प्रजापतिः ॥ ७० ॥

इदं विष्णुरिदं प्राणमिदं जीवमिदं परम् ।
सर्वसत्त्वहितार्थं च अनुयागं प्रतिष्ठितम् ॥ ७१ ॥

पञ्चभूतजगद्योनेरन्नमूर्ते जनार्दन ।
आ भूतसम्प्लवं कालं भव सन्निहितस्त्विह ॥ ७२ ॥

चोदयेदृङ्मयान् प्राग्वत् सामज्ञाद्वे परे श्रुती ।
गुरुरभ्यर्थनीयश्च सकुटुम्बेन वै पुरा ॥ ७३ ॥

अभ्यागतगणेनापि सह चान्यैः परेण तु ।
योक्तव्यं पालनीयं च मदनुग्राह्यया धिया ॥ ७४ ॥

तर्पयेत ततोऽन्नेन 7 अन्नादर्चार्चितेन तु ।
समूहमुपविष्टं तु उच्छिष्टं शोधयेत्ततः ॥ ७५ ॥

यायात् प्रदक्षिणीकृत्य अभ्यागतगणं ततम् ।
इदमन्नप्रतिष्ठानमुक्तमच्युतभाविनाम् ॥ ७६ ॥

परमुद्धरणोपायं तथाखिलसुखप्रदम् ॥

प्। २४९)

ज्ञानप्रतिष्ठानम्

विश्वास-प्रस्तुतिः

अथ ज्ञानप्रतिष्ठानमिदानीमवधारय ।
यत्कृत्वा जायते ज्ञानं विवेकसहितं हि यत् ॥ ७७ ॥

परिशुद्धान् समुच्चित्य पञ्चरात्रीयसञ्चयान् ।
सदागमादिकान् कृत्स्नान् वेदवेदाङ्गसंयुतान् ॥ ७८ ॥

स्मृतिस्मृत्यन्तरोपेतानितिहाससमन्वितान् ।
आन्वीक्षकीभिर्विद्याभिस्सशब्दाख्याभिसंवृतान् ॥ ७९ ॥

नदीनागरकैर्वर्णैर्विविधान् 8 वर्णसञ्चयान् ।
पूरयित्वा विनिक्षिप्य सम्पूटेष्वक्षयेषु च ॥ ८० ॥

ग्रथयित्वासिताद्येन सूत्रेण सुदृढेन तु ।
सुस्थिरे सुप्रसिद्धे च नृपनागरसेविते ॥ ८१ ॥

द्विजोषितेभ्यस्सङ्कीर्णे सत्समूहेन पालिते ।
समीपेऽश्ममयं वेश्म लोहयन्त्रसमन्वितम् ॥ ८२ ॥

सकवाटार्गलोपेतं सुधाधवलितं शुभम् ।
कञ्जस्थया वागीश्वर्या भूषितं चित्रभूषया ॥ ८३ ॥

शङ्गचक्रगदापद्मकरप्रोद्यतया तया ।
प्रोद्वहन्त्याक्षमालां तु शास्त्रसञ्चयहस्तया ॥ ८४ ॥

वरदाभयदायिन्या सिद्धाद्यैर्वा तया परैः ।
ततः प्राग्वत् कृतन्यासश्शुक्लाम्बरधरश्शुचिः ॥ ८५ ॥

लोहयन्त्रायने तस्मिन् प्रणवाधिष्ठितेऽर्चिते ।
यथाक्रमं समारोप्य शास्त्रसङ्ग्रहपुस्तकान् ॥ ८६ ॥

पूजितांस्तु समालब्धान्नेत्रवस्त्रैस्तु वेष्टितान् ।
द्वादशाक्षरमन्त्रेण पूजयित्वा पठेदिदम् ॥ ८७ ॥

विशुद्धज्ञानदेहाय विष्णवे परमात्मने ।
सुप्रतिष्ठितमक्षय्यं तिष्ठ शास्त्रात्मनेह वै ॥ ८८ ॥

अज्ञानामुपकारार्थं प्रबोधजननाय च ।
मुक्त्वा त्वामेवमक्षय्यं क्षयवन्तोऽमरादयः ॥ ८९ ॥

उक्त्वैवमर्चयेद् भूयो वेदवेदान्तविग्रहम् ।
सदागमाद्यैर्भगवत्पुराणाद्यैरलङ्कृतम् ॥ ९० ॥

प्रत्यहं परया भक्त्या विद्यापीठस्य चाग्रतः ।
शब्दब्रह्ममयं पीठं भद्रपीठे पुरोदिते ॥ ९१ ॥

नियुक्तं चार्चने कुर्यादप्रमत्तं द्विजोत्तम ।
ततः प्रदक्षिणीकृत्य धूपं दत्त्वा क्षमापयेत् ॥ ९२ ॥

सञ्चारदानेऽर्थिनां च सञ्चयं 9 तत्र सञ्चयेत् ।
शासनावनिबन्धां च तस्य वृत्तिं सुपुष्कलाम् ॥ ९३ ॥

कृत्वा तच्छासनं दद्याद् ज्ञानकोशानुपालने ।
तस्मिन् देवगृहे पश्चाद्ब्रह्मचारींस्तु पाठयेत् ॥ ९४ ॥

मन्त्रद्वयं पुरोद्दिष्टं स्वयं बद्धाञ्जलिः पठेत् ।
अज्ञानतिमिरान्धानां जनानामविवेकिनाम् ॥ ९५ ॥

शास्त्रपीठप्रतिष्ठानात् ज्ञानमेति च निर्मलम् ।
एतस्मादुत्थितेनैव फलेन महता हरिः ॥ ९६ ॥

प्रीतिमायातु परमां फलं मे नोपयुज्यते ।
विद्यापीठप्रतिष्ठानमिदं सम्यक् प्रकाशितम् ॥ ९७ ॥

फलार्थिनां ज्ञाननिष्ठं फलं यच्छति चेप्सितम् ।
वापीकूपतटाकानामारामाणां च मोक्षणम् ॥ ९८ ॥

प्रतिष्ठापनपूर्वं च स्वर्गदं हि फलार्थिनाम् ।
कर्मसन्यासिनां विष्णोस्तत्पुनस्तत्पदप्रदम् ॥ ९९ ॥

कारणं जगतामीशो भूतस्सर्वेश्वरोऽच्युतः ।
शब्दात्मिकाममूर्तो च ज्ञानकर्मात्मलक्षणाम् ॥ १०० ॥

प्। २५०)

विश्वास-प्रस्तुतिः

समासाद्य स्वरूपेण जगत्यामवतिष्ठते ।
तन्मयं देहमाश्रित्य यत्सत्याह्लादमुत्तमम् ॥ १०१ ॥

सामराणामृषीणां च मनुष्याणां महामते ।
एवं नानारसमयीं शक्तिं विटपविग्रहाम् ॥ १०२ ॥

दावानलस्थकरीं ? नानाव्यक्तमयैस्स्वरैः ।
प्रवालपत्रकुसुममारुताम्बुविमिश्रितैः ॥ १०३ ॥

अजङ्गमां पादपाख्यां पत्रपुष्पफलप्रदाम् ।
मूर्तिं देवोपवरणीं भूमिं वै प्रथमांशकाम् ॥ १०४ ॥

अपरां जङ्गमां मूर्तिं सौरभीं संश्रितास्पदाम् ।
ततस्तदुत्थितैस्तावत्पञ्चोपनिषदात्मकैः ॥ १०५ ॥

मन्त्रितैः पञ्चभिर्मन्त्रैर्गोमयाद्यैर्यथाक्रमम् ।
सह ऋक्सामपूर्वैस्तु कुशोदकसमन्वितैः ॥ १०६ ॥

शुद्धयेऽपि च तत्खातं पर्युक्ष्य परितः पुरा ।
नयेत् पावनतां पश्चादम्बुना परिपूरिताम् ॥ १०७ ॥

क्ष्मागतेनाथवाद्येन कोपेनाल्पेन वा द्विज ।
अक्षारेण सुतोयेन साम्प्रतं शीतलेन च ॥ १०८ ॥

सम्भवे सति हेमेन देशकालवशादपि ।
क्रीतेन ताटकीयेन पल्लवेनोद्धृतेन वा ॥ १०९ ॥

गोब्राह्मणानां साम्मूल्यं गत्वा शतपदादिकम् ।
खातमध्ये विनिक्षिप्य स खातो विततो महान् ॥ ११० ॥

बहुकाले जलस्थायी यथाभिमतविस्तृतः ।
कार्यो वै सर्वदिक्सेव्योऽनवस्था जायते यथा ॥ १११ ॥

कुलस्त्रीजनवृद्धानां स्नेहमाहरतां भृशम् ।
धनुर्द्वयसमं कुर्यान्निम्नत्वेन तु सर्वदा ॥ ११२ ॥

सार्धकार्मुकतुल्यं वा एकज्यानिष्ठमेव वा ।
धनुर्द्वयात् समारभ्य यावद्धनुशतं तु वै ॥ ११३ ॥

विहिते खातविस्तारे ह्यत ऊर्ध्वं यथा च ते ।
तत्पार्थिवं च वायव्यं सौम्यमाग्नेयमेव च ॥ ११४ ॥

चतुरश्रायतं चैव आपाद्य शुभलक्षणम् ।
सभूभागवशाच्चैव पदवीगणभूषितम् ॥ ११५ ॥

मूलम्

चतुरश्रायतं चैव आपाद्य शुभलक्षणम् ।
सभूभागवशाच्चैव पदवीगणभूषितम् ॥ ११५ ॥

विश्वास-प्रस्तुतिः

वृक्षवल्लीङ्गणोपेतं शाड्वलस्थलभूषितम् ।
पथिकावासकैर्युक्तं तथा विश्रामतोरणैः ॥ ११६ ॥

एवं कृत्वा यथोद्दिष्टं यत्र गोविग्रहक्षितौ ।
अवधार्य च सन्धार्य खातह्रासं च कुर्वती ॥ ११७ ॥

कालं प्रवृत्तिपर्यन्तं तर्पयन्ति च तज्जलम् ।
एवं संस्कृत्य च ततः प्राग्भागमपि वीक्षयन् ॥ ११८ ॥

प्रत्यग्भागस्थितः कर्ता गुरुणा ब्राह्मणैस्सह ।
तदुद्धृतेनाम्भसाथ अथवान्येन साम्प्रतम् ॥ ११९ ॥

मृदा गोमययुतया तत्कालं लेपयेत् स्थलम् ।
द्वादशार्णेन गायत्र्या साम्ना वै वासुधेन तु ॥ १२० ॥

पूर्वदक्षिणसौम्यानां दिग्भागानां यथाक्रमम् ।
होमार्थमृग्यजुस्सामपाठकान् विनिवेश्य च ॥ १२१ ॥

स्थलेषु वालकीयेषु कुण्डेषु सुशुभेषु वा ।
द्वादशाक्षरमन्त्रेण कृतन्यासस्वकेन वा ॥ १२२ ॥

मृत्पिण्डमेकमादाय खातमध्यात्तु पात्रकम् ।
कौशेयकुसुमोपेते आसने विनिवेश्य च ॥ १२३ ॥

तोयपूर्णं तदूर्ध्वे तु कलशं काञ्चनोदरम् ।
वस्त्रेण वेष्टितं सम्यक्कुङ्कुमाद्यैर्विलेपितम् ॥ १२४ ॥

पुष्पस्रङ्मञ्जरीदूर्वादर्भबीजफलोदकम् ।
सितोपवीतमाशुभ्रं नेत्रमुष्णीषभृन्न्यसेत् ॥ १२५ ॥

पार्थिवेन च शून्येन जीवयुक्तेन भावयेत् ।
सबिन्दुनामयेनाथ सामृतेनाच्युतं विभुम् ॥ १२६ ॥

नारायणं परां मूर्तिमुत्थितं मधुरध्वनेः ।
पद्ममन्ते नियोक्तव्यमस्य बीजत्रयस्य च ॥ १२७ ॥

प्। २५१)

विश्वास-प्रस्तुतिः

नारायणाय भगवंस्ततो भूतात्मने नमः ।
स्नानपूर्वं प्रतिष्ठानमाचर्तव्यं यथाविधि ॥ १२८ ॥

द्वादशाक्षरमन्त्रेण अथवाष्टाक्षरेण तु ।
षडक्षरेण सम्पाद्य पूर्णान्ताहवनक्रिया ॥ १२९ ॥

अर्चयित्वा यथाशक्ति गुरुपूर्वान् द्विजोत्तमान् ।
समादायाथ कलशं पूर्णं पल्वलजं हि यत् ॥ १३० ॥

कर्ता विनिक्षिपेत् पूर्वं मृत्पिण्डं पुष्करोदरे ।
कलशोदकमुत्कीर्य इमं मन्त्रमुदीरयेत् ॥ १३१ ॥

आमूर्ते भगवन्नाथ वासुदेवामृतात्मने ।
आचन्द्रतारकं कालं तिष्ठ त्वं सुप्रतिष्ठितम् ॥ १३२ ॥

मामकस्याञ्जसा त्राणं नाथ सानुगसंयुतान् ।
देवान् पितॄन् ससाध्यांश्च भूतान्याप्यायिता सदा ॥ १३३ ॥

फलेन तु इहोत्थेन यातु प्रीतिं परां भवान् ।
तृप्तिर्भवतु भूतानां त्रैलोक्योदरवर्तिनाम् ॥ १३४ ॥

इत्युक्त्वा पाठयेत् साम ध्रुवाद्यौ ऋङ्मयांस्ततः ।
प्रतिष्ठासीति वै साम सामज्ञान् ब्राह्मणोत्तमान् ॥ १३५ ॥

पूजनैर्विविधैः पश्चात्तदुत्थेन तु साम्भसम् ।
तर्पयेद्ब्राह्मणान् सर्वान् खातकर्तॄन् तथाखिलान् ॥ १३६ ॥

प्रसाद्य दानपूर्वेण देशिकान् विभवे सति ।
दीनानाथांस्तथा भृत्याननन्तफलसिद्धये ॥ १३७ ॥

सुवर्णवसुधादानं यथाशक्त्या समाचरेत् ।
कन्यादानं वृषोत्सर्गं पितृश्राद्धपुरस्सरम् ॥ १३८ ॥

वधबन्धोत्थितं दोषं धनदण्डोत्थितं च यत् ।
विचारणीयं लोकानामर्थयित्वा नरेश्वरम् ॥ १३९ ॥

किन्तु वी(वि)ध्यन्तरमिदं विहितं सति सम्भवे ।
प्रधानफलवृक्षं तु अश्वत्थविटपं तु वा ॥ १४० ॥

आरामसम्प्रतिष्ठायां संस्कृत्य स्नानकर्मणाम् ।
समालभ्य स्वलङ्कृत्य उपनेत्य यथाविधि ॥ १४१ ॥

वाससा वेष्टितं कृत्वा पुष्पस्रक्परिभूषितम् ।
होमान्तमखिलं प्राग्वत् समन्त्रं तत्समाचरेत् ॥ १४२ ॥

तेन याति परं कर्ता पारं संसारवारिधेः ॥

फलमूलान्नादिप्रतिष्ठा

विश्वास-प्रस्तुतिः

फलमूलान्नप्रतिष्ठां शृणु वक्ष्ये फलार्थिनाम् ।
नान्नदानात् परं दानं त्रिषु लोकेषु विद्यते ॥ १४३ ॥

सद्यः प्रीतिकरं हृद्यं प्राणदं प्राणिनामपि ।
उत्पत्तावपि संस्कारे रसमन्नस्य कीर्तितम् ॥ १४४ ॥

अन्नाद्भवन्ति भूतानि तस्मात् सर्वं प्रतिष्ठितम् ।
तच्च प्रतिष्ठितं येन तेन सर्वं प्रतिष्ठितम् ॥ १४५ ॥

आत्मना सह लोकेऽस्मिन् स्वर्लोके ब्रह्मसञ्ज्ञिते ।
यावज्जीवं च नीरोगो वसेद्दुःखविवर्जितः ॥ १४६ ॥

पुत्रदारधनैरन्नैर्वृद्धिं याति क्षणात् क्षणम् ।
प्राप्नोति परमां पूजामुत्कृष्टेभ्यो महत्तराम् ॥ १४७ ॥

देवता ऋषयस्सिद्धास्तस्य सञ्चिन्तयन्ति च ।
नित्यमेव परां वृद्धिमायुषस्सह चोन्नताम् ॥ १४८ ॥

हृष्टः पुष्टस्ततो भूत्वा तृप्तो भवति सर्वदा ।
भुक्त्वा भोगान् सुविपुलानन्ते नारायणालयम् ॥ १४९ ॥

याति चन्द्रप्रतीकाशैर्विमानैर्देवनिर्मितैः ।
स्वर्गादौ सर्वलोके तु स्थित्वा कल्पशतान् बहून् ॥ १५० ॥

कालात् पुनरिहायाति देशे सर्वोत्तमे शुभे ।
सतां कुले समासाद्य जन्म जात्युत्तमं महत् ॥ १५१ ॥

प्। २५२)

विश्वास-प्रस्तुतिः

जायते रूपवान् वाग्मी विद्याज्ञानपरायणः ।
द्विषतामपि सर्वेषां पूज्यः प्रियतरस्सदा ॥ १५२ ॥

शीलवाञ् शौर्यसम्पन्नो धृत्युत्साहसमन्वितः ।
द्विजदेवपरो नित्यं दाता भूतहिते रतः ॥ १५३ ॥

एकान्ती धर्मवेत्ता वै नारायणपरायणः ।
त्रिवर्गमखिलं भुक्त्वा यथाभिमतलक्षणः ॥ १५४ ॥

जन्माभ्यस्तं शुभं कर्म कृत्वानन्तगुणं पुनः ।
ज्ञानमासाद्यते येन प्रयाति परमं पदम् ॥ १५५ ॥

न हि वै कूपवापीनां सुरभीणां च पूजनम् ।
दद्याच्छुद्धं हि तादात्म्यं विधानं सर्वमाचरेत् ॥ १५६ ॥

नीत्वाङ्गभावमस्मिंश्च गोगणं भगवद्गृहे ।
स्नानोपभोगपूर्वाणां विभोरनलतर्पणात् ॥ १५७ ॥

प्रीत्यर्थं सुरभीणां तु प्रतिपाद्यं तु शासनम् ।
तमग्निं गोव्रजोपेतं घृतदीपसमन्वितम् ॥ १५८ ॥

देववत् पालनीयं च यावदाचन्द्रतारकम् ।
अनिशं ज्वलमानं च वसेत् कर्मकरैस्सह ॥ १५९ ॥

षडशीतिमुखाद्यं वै कालमासाद्य पुण्यदम् ।
कुण्डं सुलक्षणं कृत्वा दिव्याद्यैर्वैष्णवैर्गृहे ॥ १६० ॥

स्वयं प्रतिष्ठिते वापि धर्मस्कन्धेषु वै पुरा ।
द्वादशाक्षरमन्त्राद्यैश्शुभैस्सूक्तैस्तु वैष्णवैः ॥ १६१ ॥

ऋग्यजुस्सहसामैस्तु देवदेवप्रशंसकैः ।
एवं होता शनैश्चापि सम्पठेच्छान्तिके कृते ॥ १६२ ॥

घृताद्यैरक्षतैः पीतैस्सितकृष्णान्वितैस्तिलैः ।
संस्कृत्य चानलं कुण्डं प्राजापत्येन कर्मणा ॥ १६३ ॥

आहुतीनां तु जुहुयात् सहस्रादयुतावधि ।
शताद्यं च सहस्रान्तं ताम्रजेन स्रुवेण तु ॥ १६४ ॥

पालीयेनाष्टमांशेन घृतं तु जुहुयात्ततः ।
अकामो वा सकामो वा दद्यात् पूर्णाहुतिं ततः ॥ १६५ ॥

नारायणस्तु वेदात्मा सहवेदमुखेन तु ।
ददात्यभिमतान् कामानुपायं नैष्ठिकं तु वै ॥ १६६ ॥

एवं कृते तु सम्पाद्याद्बध्नीयाद्विषणोपरि ।
सप्ताहं वसुधारां च त्रिरात्रमथवा शुभम् ॥ १६७ ॥

एकाहं वा स्वशक्त्या तु तद्विधानमथोच्यते ।
निर्धूमे वितते कुण्डे दृढैः काष्ठैस्तु याज्ञिकैः ॥ १६८ ॥

कृत्वाग्निं मेखलाभूमेरधिकं शिबिकोपमम् ।
धनुर्द्वयोच्छ्रिते वाथ तदूर्ध्वे ताम्रजं ततम् ॥ १६९ ॥

कटाहकं योजनीयं काष्ठजे वलये दृढे ।
स्थिरवंशचतुष्पादे पदवीसहनक्षमे ॥ १७० ॥

मूलम्

कटाहकं योजनीयं काष्ठजे वलये दृढे ।
स्थिरवंशचतुष्पादे पदवीसहनक्षमे ॥ १७० ॥

विश्वास-प्रस्तुतिः

अङ्गुलैरथ मानीयैश्चतुस्सङ्ख्यैस्तु चोन्नतम् ।
हैमीं सुवर्णमानोत्थां शलाकां सर्वतस्समाम् ॥ १७१ ॥

तत्प्रमाणसमोपेतं मध्यमे तु कटाहके ।
वेधं कुर्याच्च लोहेन वस्त्रापृतमथाहरेत् ॥ १७२ ॥

व्याजहीनं घृटं हव्यं सुगन्धि शुभलक्षणम् ।
कटाहके समुत्कीर्य यत्न * * * * परिक्षयम् 10 ॥ १७३ ॥

प्रवहं दिनरात्रीयं कालं यत्त्रिविधं स्मृतम् ? ।
एतावदुक्तमारभ्य देवमात्मानमक्षमम् ॥ १७४ ॥

आप्रभाताथवाद्यं वा हरयेत् प्रहरं धृतम् ।
प्रहरद्वितयं वाथ प्रहरत्रयमेव वा ॥ १७५ ॥

प्रहराणां चतुष्कं वा स्वसामर्थ्याद्यपेक्षया ।
आदौ षट्प्रस्थमानात्तु चतुःप्रस्थान्तमेव हि ॥ १७६ ॥

प्रवाहमाहरेच्छक्त्या पालिकं तु घृतस्य वा ।
अधिभूताधिदेवाढ्यं स्तृत्वाध्यात्मतया घृतम् ॥ १७७ ॥

प्। २५३)

विश्वास-प्रस्तुतिः

पवित्रममृतं ब्रह्म आज्यमध्यात्ममेव हि ।
अधिदेवं परं वह्निरधिभूतं च गोगणम् ॥ १७८ ॥

स्मृतमुक्तं ममैवं हि वसु मत्वा स्वरूपधृक् ।
तद्वारपरिमाणेन विधित्वेन च वर्तते ॥ १७९ ॥

स्वदरिद्रमिमं लोकं कृत्स्नं वै यत्प्रभावतः ।
विततेन तु पात्रेण स्थापयित्वा कटाहकम् ॥ १८० ॥

दैवत्वेनार्चनीयं च भगवान् पुरुषोत्तमः ।
साम्प्रतं चार्घ्यपुष्पाद्यैर्वसुगर्भकटाहके ॥ १८१ ॥

अनुग्रहकरस्त्वास्ते स्वयं श्रद्धावतां नृणाम् ।
आरम्भादेव निष्पत्तिपर्यन्तं शुभकर्मणाम् ॥ १८२ ॥

अर्चयित्वा नमस्कृत्य द्वादशार्णेन चाच्युतम् ।
ततोऽनुलेपनं दद्यात् पुष्पस्रग्धूपमेव हि ॥ १८३ ॥

नैवेद्यं मधुपर्काद्यं सभक्ष्यं सफलं महत् ।
अथ सर्वेश्वरं भक्त्या विभुमायतनस्थितम् ॥ १८४ ॥

महता विभवेनैव स्नानपूर्वेण कर्मणा ।
पूजयित्वा यथान्यायं सत्सूक्तैस्सम्यगुत्तमैः ॥ १८५ ॥

रहस्यमन्त्रपूर्वैस्तु साष्टार्णद्वादशाक्षरैः ।
जानुभ्यामवनिं कृत्वा नतमूर्धाग्रतो भवेत् ॥ १८६ ॥

तदेकक्षेमपूर्वं तु विनिवेश्य इदं पठेत् ।
परं वसु घृता ऋक्त्वं सर्वं सम्पूरितं त्वया ॥ १८७ ॥

तारेयं परमा शक्तिस्वमियादेव पूजितः ।
वासाद्याननमाग्नेयतुल्यं यज्ञस्य वै फलम् ॥ १८८ ॥

सुमहद्गोकुलोपेतं ग्रामं यद्विषयोदितम् ।
तत्पालकानां विप्राणां शासनेन समाप्य च ॥ १८९ ॥

यथा नोच्छिद्यते चैव कीर्तिधर्मपरं महत् ।
नृपेणैतत्तथा कार्यं यशोधर्मविवृद्धये ॥ १९० ॥

षट्काद्यदधिकं चैव सशुभं कीर्तितं त्रयम् ।
गोष्ठमग्निं च दीपं च अङ्गमायतनेषु तत् ॥ १९१ ॥

धर्मज्ञैः पालनीयं च विच्छेदो न भवेद्यथा ।
यस्माद्वह्निमुखेनैव त्रयस्त्रिंशत्तु कोटयः ॥ १९२ ॥

प्रत्यहं तृप्तिमतुलां विबुधानां प्रयान्ति च ।
दधिक्षीराज्यपूर्वैस्तु विविधैर्गोसमुत्थितैः ॥ १९३ ॥

प्रीतिमभ्येति भगवानुपहारैस्तु सात्त्विकैः ।
परमादित्यवत् सर्वमाभासयति तेजसा ॥ १९४ ॥

प्रभावाच्चैव दीपस्य नित्यं सन्निहितस्य च ।
योऽधिकृत्य जगनाथं षडसीतिमुखासु च ॥ १९५ ॥

तिथिष्वर्च्यस्तु भगवान् कलशे मण्डनेऽनले ।
सोपवासश्शुचिस्स्नातः कृतकौतुकमङ्गलः ॥ १९६ ॥

प्रणवादिनमोन्तेन मन्त्रेणानेन भक्तितः ।
प्रीयतां मम देवेशो धर्माध्यक्षो वृषाकपिः ॥ १९७ ॥

गोहितो गोपतिर्गोप्ता सर्वमावृत्य च स्थितः ।
ततोऽनुलिप्ते भूभागे कुतपः केवलं तु यत्?॥ १९८ ॥

अभुक्तमहतं शुद्धं प्रस्तीर्य सतिलाक्षतम् ।
समस्तबीजं सकुशं सिद्धार्थकसमन्वितम् ॥ १९९ ॥

तद्बहिस्तेजसं दद्यात् पूर्णं प्रागादितः क्रमात् ।
पात्राष्टकं पयश्शालिदध्यक्षतरसैस्तिलैः ॥ २०० ॥

घृतेन सर्वबीजैस्यु वस्त्रैर्यवनिका वहिः ।
इषुभिस्सह सूत्रैस्तु बर्हिपक्षैस्सुविष्टरैः ॥ २०१ ॥

जातबीजशरावाश्च पूर्णकुम्भमुखस्थिताः ।
पूर्णशाखासमेताश्च तरुशाखाभ्यलङ्कृताः ॥ २०२ ॥

दिक्षु प्रज्वलितैर्दीपैस्सह न्यस्य ऋगादिकैः ।
ततोऽवतार्य तन्मध्ये सुरभिः कृतमण्डलाम् ॥ २०३ ॥

सालङ्कृता सवस्त्रां च घण्टाचामरभूषिताम् ।
सरत्नहेमकुमुदां तच्छृङ्गपरिभूषितां ॥ २०४ ॥

प्। २५४)

विश्वास-प्रस्तुतिः

मुक्ताप्रवाललाङ्गूलां रजताङ्घ्रिमभिप्रियाम् ।
ललाटदर्पणां श्रीमत्स्रगुष्णीषबलां महत् ॥ २०५ ॥

एवमेवाथ वीर्यध्वं सुरभिं कृतमण्डनाम् ।
यौवनस्थामधृष्टां च वामभागे वृषस्य च ॥ २०६ ॥

कांस्योपदोहसंयुक्तां पूर्वेद्युरधिवासिताम् ।
नन्दासुनन्दासुरभिशीतलाख्यपदान्विताम् ॥ २०७ ॥

चत्वारो धेनवः स्थाप्याः प्रागादौ तत्र सम्मुखम् ।
सुशक्तिविभवोपेता दुग्धदोहप्रदक्षमाः ॥ २०८ ॥

सगर्भाश्च सवत्साश्च प्रसूताश्च सकृत् सकृत् ।
इष्टदेवमथोद्दिश्य दिग्भागान् साम्प्रतं तु वै ॥ २०९ ॥

हेतिना च तदीयेन चन्दनेनात्वचोत्सृजेत् ।
वृष्णिक्षेत्रसमेतं च तस्य चासम्भवात्तु वै ॥ २१० ॥

आनुगुण्यं यथाशक्त्या तन्मूल्यं तु न कल्प्य च ।
चतुर्णामग्निहोत्राणां बहिस्स्थाः प्रतिपाद्य च ॥ २११ ॥

वस्त्रालङ्करणोपेतं मूल्यं च सुरभीयकम् ।
वसुधां वसुधार्थं वा वृषोपकरणं हि यत् ॥ २१२ ॥

प्रणिपाद्य गुरोर्भक्त्या वृषभं सुरभिं त्यजेत् ।
दक्षिणे स्कन्धदेशे च हेतिनाभिमतेन च ॥ २१३ ॥

लोहेनानलतप्तेन मुद्रणीयं क्षणेन च ।
एवं कृत्वा वृषत्यागं तदुद्देशेन वै पुनः ॥ २१४ ॥

प्रभूतमन्नदानां च दद्याच्चैव सदक्षिणम् ।
समन्त्रनाथमुद्दिश्य ह्यात्मनोऽर्थे परस्य वा ॥ २१५ ॥

वृषोत्सर्गं हि यः कुर्याद्ब्रह्मलोकं व्रजत्यसौ ।
वृषो हि भगवान् धर्मो लोके कामार्थबन्धतः ॥ २१६ ॥

तेन त्यक्तेन सन्त्यक्तं जन्मदुःखं हि शाश्वतम् ।
प्रकृत्या सह वै शश्वत् सुरभी सविनश्वरा ॥ २१७ ॥

तद्विशेषाच्च तिस्रो याश्शक्तयो मदनात्मिकाः ।
बुद्धिरस्मीति पूर्वा च पञ्चेन्द्रियमथापरा ॥ २१८ ॥

विनिवर्तन्ति सर्वास्ता गोत्वमाश्रित्य ये स्थिताः ।
नानाधर्मप्रतिष्ठानं वृषोत्सर्गेण वै सह ॥ २१९ ॥

उक्तमब्जसमुद्भूत इदानीमवधारय ।
अपवर्गप्रदं दिव्यं सूचितं यत् पुनः पुनः ॥ २२० ॥

प्रतिष्ठापनमब्जाक्ष आच्युतं भुक्तिमुक्तिदम् ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां नानाधर्मप्रतिष्ठापनं नाम

एकचत्वारिंशोऽध्यायाः ॥ ४१ ॥

(समुदितश्लोकसङ्ख्या २२१॥)

  1. सर्वत्र इत्येषांशककल्पना इत्येवास्ति ↩︎ ↩︎

  2. क्, ख्: त्रिधाविभक्तं * * * सपद्भम् ↩︎ ↩︎

  3. ग्, घ्: प्रत्यस्त्रमति ↩︎ ↩︎

  4. क्, ख्: सङ्कल्पादेव ना * * * मजीव ↩︎ ↩︎

  5. ग्, घ्: धर्मवत्योऽक्षयप्रजाः ↩︎ ↩︎

  6. ग्, घ्: घरट्टजाकितिन्या ? ↩︎ ↩︎

  7. ग्, घ्: तर्पयेत ततोऽन्येन ↩︎ ↩︎

  8. सर्वत्र नदीनागरकैः इत्येवास्ति अस्य पदस्य वर्णविशेषणत्वात् नन्दिनागरकैः इति स्यात् ↩︎ ↩︎

  9. ग्, घ्: संयतम् ↩︎ ↩︎

  10. ख्: यत्नती च पुरि ↩︎ ↩︎