४० अध्यायः

अथ चत्वारिंशोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

परिज्ञातं मया देव दोषोपशमनं महत् ।
शान्तिकं परमं यद्वै व्यत्ययात् सौमनस्यकृत् ॥ १ ॥

मूलम्

शास्त्रसम्बन्धपर्यन्तं प्रसङ्गात्त्वदनुग्रहात् ।
नानाधर्मप्रतिष्ठा च भविनां स्वर्गदा च या ॥ २ ॥

इदानीं ज्ञातुमिच्छामि त्वत्तस्सङ्क्षेपतस्ततः ।
सरहस्यं जगद्योनेः प्रतिमालक्षणादिकम् ॥ ३ ॥

संविधानं प्रतिष्ठाख्यमशेषं पूर्वचोदितम् ।
क्षतदोषास्तु येऽर्चानां मधूच्छिष्टोदिताः क्रियाः ॥ ४ ॥

प्। २४१)

विश्वास-प्रस्तुतिः

तास्त्वयोक्ताः पुरा देव मानोन्मानादिकैर्विना ।
आमूर्धदेशकेशीयं चरणान्तं हि लक्षणम् ॥ ५ ॥

मया यथावन्न ज्ञातं नैपुण्येन जगत्पते ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

नानाधर्मप्रतिष्ठानां पुरा कृत्वा तु पौष्कर ।
मोक्षार्थमाचरेच्छुद्धं प्रतिष्ठामाच्युतीं पराम् ॥ ६ ॥

सुलक्षणे तु भूभागे गव्यैर्भक्तेन वै पुरा ।
प्राग्दिक्सिद्धिसमेतं तु वसुधालक्षणं च ते ॥ ७ ॥

स्फुटमुक्तं प्रतिष्ठार्थं विज्ञातव्यं तदेव हि ।
जलाश्रयादिका या भूर्विविधैश्च विभूषिता ॥ ८ ॥

वनौघवनसंयुक्तैर्ग्रामैस्सह पुरादिकैः ।
प्रतिग्रहं प्रतिष्ठार्थं पूर्ववद्विधिपूर्वकम् ॥ ९ ॥

सम्पाद्य कुसुमारामपर्यन्तं च सुविस्तरम् ।
उत्तमं वनयात्रान्तं ततः कुर्यात् सदेशिकः ॥ १० ॥

होराद्येन च लग्नेन मुहूर्तेनार्चितेन च ।
शकुने गागने भौमे चीत्तसौख्यप्रदे शुभे ॥ ११ ॥

किञ्चिदध्वावशिष्टे तु वस्तव्यं च वनाद्बहिः ।
शुभे ग्रहेऽनुकूले च नक्षत्रे वासरेऽपि च ॥ १२ ॥

कुर्याद्वनप्रवेशं च तत्रेष्ट्वा वनदेवताः ।
आदाय लक्षणोपेतमुपलं वै सितादिकम् ॥ १३ ॥

सुस्निग्धं सुखनं शुद्धं दोषैर्हीनं स्फुटादिकैः ।
वृक्षं वा लक्षणोपेतमक्षतं सरलं दृढम् ॥ १४ ॥

फलं (ल) पुष्पप्रदं स्थूलं सक्षीरं वा तदुज्झितम् ।
नानाजातिं च कर्मण्यं यज्ञाङ्गानां गुणावहम् ॥ १५ ॥

सत्त्वाद्यं तदधिष्ठातृबलिदानपुरस्सरम् ।
कृत्वा विसर्जनं 1 चैव मध्वाज्याक्तेन देशिकः ॥ १६ ॥

शस्त्रेण प्रहरं दद्याच्छेतव्यं शिल्पिना ततः ।
चन्दनं स्यन्दनं तत्र तथा सुरभिचन्दनम् ॥ १७ ॥

अगरुं कर्णिकारं च काश्मर्यं रक्तचन्दनम् ।
बिल्वामलकचूताश्च तालवर्णकसिंहकाः ॥ १८ ॥

श्रीपर्णी नालिकेरं च नागमातृकपीनकम् 2
गव्यं कपित्थं च तथा हिमतालतमालकम् 3 ॥ १९ ॥

बदरं खदिरं फल्गु मधूकं किंशुकद्रुमम् ।
फालवेतं च खर्जूरं नीपनारङ्गशिंशुपम् 4 ॥ २० ॥

पिप्पलं वृक्षमश्वत्थं पिप्पलीविटपं महत् ।
सुरदारु हरीतक्यं वकुलं चाप्युदुम्बरम् ॥ २१ ॥

कालाख्यं पुष्पकूलं च वैरं चान्यत्फलद्रुमम् ।
फालस्यं भूर्जवृक्षं च पलाशं कृतमर्दकम् ॥ २२ ॥

तिन्दुकं बीजसारं च मातुलुङ्गद्रुमं महत् ।
राजवृक्षं 5 कोहितकं सुनाभिकुटकार्जुनम् ॥ २३ ॥

सरलं कुठजश्शाकः शमीश्रीवेष्टकेतकाः ।
असनस्पन्दनाख्यं च स्तबछस्तबकेति च ॥ २४ ॥

सारवन्तो 6 मखीया ये सुसिद्धा लोकपूजिताः ।
ग्राह्यास्तरूत्तमास्सर्वे कर्मणि स्थापनादिके ॥ २५ ॥

एकैकतालवृद्ध्या तु द्वादशान्तकरावधि ।
द्विरष्टकं तु बिम्बानामेवं स्यादपरं तु वै ॥ २६ ॥

प्। २४२)

विश्वास-प्रस्तुतिः

प्रयोजनवशेनैव तरवो बिम्बकर्मणि ।
विहिताः क्रमशस्त्वेते स्वल्पानामादिनां महत् ॥ २७ ॥

केचित् फलवशेनैव विहिताश्च फलार्थिनाम् ।
निष्कामानां च विहितास्सर्वे सर्वफलप्रदाः ॥ २८ ॥

एतैः पूर्वोदिताः कार्यास्सप्ताङ्गैस्तोरणाश्शुभाः ।
अग्निकार्योपयोग्यानि स्रुवादीन्युदितानि वै ॥ २९ ॥

अग्नाविन्धनकाष्ठानि समित्परिधयस्तथा ।
आराधनार्थं मन्त्राणां भद्रपीठानि पुष्कर ॥ ३० ॥

मन्त्रबिम्बान्यशेषाणि तत्पीठानि तथैव च ।
प्रासादादीनि चित्राणि प्राकारसहितानि 7 च ॥ ३१ ॥

शयनान्यासनादीनि देवोपकरणानि च ।
रथादिरथयात्रार्थं वैष्णवेषूत्सवेषु च ॥ ३२ ॥

केतुदण्डानि दीर्घाणि शिखराणां शिरोपरि ।
आहरेत यथाशास्त्रं छायाशुष्ककृतानि च ॥ ३३ ॥

भङ्गभेदक्रिमिच्छिद्रसिंह-ऋक्षनखक्षतैः ।
दोषैरशनिपाताद्यैर्नाहरेद्दूषितानि वै ॥ ३४ ॥

भगवन् भद्रपीठानां प्रतिमानां च लक्षणम् ।
देवीयपिण्डिकानां च प्रासादानां तथैव च ॥ ३५ ॥

याथावद्ज्ञातुमिच्छामि रथादीनां च संस्थितिम् ।
प्रमाणं ध्वजदण्डानां मण्डपान् मण्डयन्ति ये ॥ ३६ ॥

स्वानुकूलदिने शुद्धे गुरूणां सम्मतेन च ।
मानभादौ तु सर्वत्र चिन्तयेत् सह शिल्पिना … ३७ ॥

सुनिवेशेन सह वै सर्वमापादयेत्ततः ।
यान्युक्तानि पुरा ब्रह्मन् व्यक्तिस्थानानि वै विभोः ॥ ३८ ॥

द्वयं तेभ्यश्शुभतरं भद्रपीठमकृत्रिमम् ।
मानोन्मानप्रमाणाढ्यं दिव्यमाकारमब्जज ॥ ३९ ॥

तत्र तावत्सुवर्णाद्यैर्लोहैश्शुभतरैस्स्मृतः ।
शुभा भगवदाकाराश्शैलजास्समनन्तरम् ॥ ४० ॥

काष्ठं लेपं तथालेख्यमिष्टं भूतिव्यपेक्षया ।
तत्राप्तानां द्विजार्चासु स्थितिर्मोक्षाप्तये स्मृता ॥ ४१ ॥

सेवापराणामाप्तानां 8 भूतये मरयाजिनाम् ।
मखहोमपराणां 9 तु दिवि देवासनाप्तये ॥ ४२ ॥

यतीनां मुक्तसङ्गानां हृदि सर्वेश्वरे हरौ ।
एहि ?श्रेष्ठतरं विप्र अर्चादेशं सुलक्षणम् ॥ ४३ ॥

चित्तप्रसादमतुलं यत्राभ्येति समर्चनात् ।
यत्नेन च समापाद्य मन्त्रैस्संस्कृत्य वैदिकैः ॥ ४४ ॥

मृद्भूतितीर्थतोयाद्यैर्मूलद्रव्यैस्सुपावनैः ।
संस्मरेच्च मणिस्वर्णतारताम्रमयैर्विना ॥ ४५ ॥

स्वदेहवदुपादेयैर्नाडीव्यूहैस्सवायवैः ।
धातुभिस्सोमसूर्याग्निसहज्ञानादिकैर्गुणैः ॥ ४६ ॥

गुणकारणतः क्ष्मान्तं यदन्यत्तत्त्वसङ्ग्रहम् ।
द्रव्यमाश्रित्य वै बैम्बं वर्तते यदिदं महत् ॥ ४७ ॥

तत्र हृत्कमलाकाशे मन्त्ररत्नप्रभोज्ज्वलम् ।
ब्रह्मभावनया न्यस्तं यच्छति प्रातिमं फलम् ॥ ४८ ॥

प्। २४३)

विश्वास-प्रस्तुतिः

श्रद्धापराणां कर्तॄणां फलताभ्येति च स्थिरम् ।
प्रतिपत्तिं परां ब्राह्मीमाकारं प्रति सर्वदा ॥ ४९ ॥

प्राप्नोति सद्वशादन्ते ज्ञानमात्मप्रकाशकम् ।
प्रतिमानामतो मानं साम्प्रतं चावधारय ॥ ५० ॥

तालप्रमाणादेकैकं ह्रासयेदङ्गुलं क्रमात् ।
चतुरङ्गुलपर्यन्तं यावन्मानं पुनस्ततः ॥ ५१ ॥

एकैकं वर्धद्विप्र शमपर्यन्तमङ्गुलम् ।
तालद्वयोन्नतिं यावच्चलार्चानामतोर्ध्वतः ॥ ५२ ॥

अचलानां द्विजार्चानां द्व्यङ्गुलद्व्यङ्गुलं क्रमात् ।
चतुश्शमावधिं यावदतोर्ध्वं तु समाचरेत् ॥ ५३ ॥

एकैकं तालवृद्ध्या तु द्वादशान्तकरावधि ।
वर्धयेदत ऊर्ध्वं तु सपादं तालमेव च ॥ ५४ ॥

आधिक्येन द्विजार्चानां जायतेऽन्यच्चतुष्टयम् ।
दद्यात्तदुन्नते भूयो बृद्ध्यर्थं द्वादशाङ्गुलात् ॥ ५५ ॥

तृतीयांशं तृतीयांशात् प्रतिमात्रितयस्य च ।
भूयस्तदुन्नतेर्दद्यात्तालार्धं तालमेव वा ॥ ५६ ॥

द्वितीयप्रतिमानां तु उच्छ्रायेण वरं भवेत् ।
शममेकं ततोर्ध्वं तु उन्मानार्थं तु वर्धयेत् ॥ ५७ ॥

एकैवार्चा भवेदन्या वर्धयेदत ऊर्ध्वतः ।
क्रमाच्छतावधिं यावत् सांशात्तालाद्विजोत्तम ॥ ५८ ॥

यथाभिमत उच्छ्रायसिद्धयेऽभिमताप्तये ।
भूयो भूयोन्नतिं कुर्यात्प्रादुर्भावाकृतेर्वशात् ॥ ५९ ॥

प्रयोजनवशाच्चापि महत्त्वं बिम्बकर्मणि ।
विहितं क्रमशश्चैव स्वस्वमानादिना सह ॥ ६० ॥

तथा फलवशाच्चैव विज्ञेयं हि फलार्थिना ।
निष्कामानां च कथितं सर्वं सर्वफलाप्तये ॥ ६१ ॥

मानतो बहुधा प्रोक्तमित्येवं प्रतिमागणम् ।
धातुमृच्छैलदारूत्थं यथासम्पत्तितो द्विज ॥ ६२ ॥

अधिरुध्य स्ववृक्षोत्थभिन्नैरवयवस्थितिः ।
वर्णकैस्समवेताश्च बद्धैश्शस्त्राम्बरादिकैः ॥ ६३ ॥

भिन्नैस्स्नाय्वस्थिमांसाद्यैर्जीवानां विग्रहं यथा ।
मन्त्राणामेवमब्जोत्थ व्यक्तिर्धात्वादिकी स्मृता ॥ ६४ ॥

अप्रबुद्धैः प्रबुद्धैर्या चतुर्वर्गफलाप्तये ।
पूज्यते विविधैर्भोगैरन्तस्सम्पूजनाद्बहिः ॥ ६५ ॥

चित्रशैलमयीं मुक्त्वा प्रतिमां महतीं च याम् ।
मृद्धातुदारुजं विप्र घटते 10 कथमन्यथा ॥ ६६ ॥

प्रमाणपरिशुद्धैस्तु भिन्नैरवयवैर्विना ।
एतावत्प्रतिमां विप्र मानमात्रमुदाहृतम् ॥ ६७ ॥

भक्तिश्रद्धापराणां च पूजार्थं हि चलाचलम् ।
तत्रायतनतीर्थानां यात्रायां गमने चला ॥ ६८ ॥

प्रतिमाप्रयतानां च दद्याद्दोषादिकं विना ।
पूजितामुष्मिकीं सिद्धिमैहिकीं च प्रयच्छति ॥ ६९ ॥

अतो भिन्नासनारूढा स्वाश्रमे स्वाश्रमान्तरे ।
तस्माच्चलानामर्चानां भिन्नं पीठं शुभप्रदम् ॥ ७० ॥

चलस्थिरविभागेन विहितं सर्व एव हि ।
मृण्मया लेशतः प्रोक्ताः प्रान्तपीठास्तु केवलाः ॥ ७१ ॥

इदानीं सविशेषेण वक्ष्ये भङ्गासनात्तु वै ।
साम्प्रतं भद्रपीठानां दारुजानां च लक्षणम् ॥ ७२ ॥

व्यापकं हि यदन्येषां शैलहेमादिकात्मनाम् ।
द्विषट्काङ्गुलमानाच्च द्विहस्तान्तं महामते ॥ ७३ ॥

कुर्यादङ्गुलवृद्ध्या तु भद्रपीठगणं शुभम् ।
त्रिविधैरङ्गुलैः प्राग्वद्यथाभिमतलक्षणैः ॥ ७४ ॥

प्। २४४)

विश्वास-प्रस्तुतिः

द्विदशाङ्गुलपर्यन्तास्सर्वे सङ्क्षिप्तलक्षणाः ।
सर्वैकहस्तनिष्ठास्तु मध्यमानाः प्रकीर्तिताः ॥ ७५ ॥

अत ऊर्ध्वं द्विहस्तान्ता मानतो 11 वितताअस्स्मृताः ।
आद्यार्चा क्रमशो विद्धि प्राधान्यं चोत्तरोत्तरम् ॥ ७६ ॥

फलाधिक्येन सह वै अर्घ्यपुष्पादिनार्चनात् ।
सप्रणालाश्चतुष्पादास्सर्वे सद्रचनान्विताः ॥ ७७ ॥

एकपादाम्बरस्था (न) ये बोद्धव्याः पार्थिवैर्विना ।
प्रनालरहितास्तेवै पादगात्रविभुषिताः ॥ ७८ ॥

दर्पणोदरवत्कार्याः परिशिष्टा महामते ।
मुक्तामालासमोपेतैरर्धचन्द्रैस्सदर्पणैः ॥ ७९ ॥

कणिकाविततोपेतैः कर्णिकाक्रमलच्छदैः ।
हंसैर्विद्याधरैश्चापि संयुक्तैरन्तरान्तरा ॥ ८० ॥

यथाशोभानुरूपेण एवं सम्पाद्य साम्प्रतम् ।
बाहुल्यं भद्रपीठीयं प्रणालेनोपशोभितम् ॥ ८१ ॥

तदाराध्यस्य वै कुर्यादुत्तरेण तु सर्वदा ।
स्वात्मनो दक्षिणे भागे तल्लक्षणमथोच्यते ॥ ८२ ॥

विस्तृते भद्रपीठस्य तृतीयांशेन मध्यतः ।
पूर्वोद्दिष्टेन दैर्घ्येण श्लक्ष्णं वा रचनान्वितम् ॥ ८३ ॥

प्रोल्लसन्तं यथा भाति स्नानाभं निखनेत्ततः ।
समांशेनाग्रतो भागैविभज्य सुसमैस्त्रिभिः ॥ ८४ ॥

मूलतः कण्ठदेशाद्द्वौ भागौ बाह्याद्विशोध्य च ।
त्रिधाग्रं मूलतः कृत्वा मध्यमं व्रजनिर्गतम् ॥ ८५ ॥

जलोपभोगकान्तोऽपि 12 विद्धि भागद्वयोपरि ।
रचनोपर्युदुद्दिष्टा 13 कार्या कर्माणिनी ? च सा ॥ ८६ ॥

मकराननरूपा सा त्याज्या कापिललक्षणा ।
तृतीयांशेन विस्ताराद् भूगतस्साङ्घ्रिसन्ततिः ॥ ८७ ॥

समुद्गता न वै कुर्याद्बाहुल्यरचनान्विता ।
सर्वतो भद्रबिम्बैव मध्यतो गात्रकान्विता ॥ ८८ ॥

भूषयेद्गात्रदेशेभ्यः पुष्पैः पत्रैस्तु साङ्कुरैः ।
भवेच्छशिकलाकारलाञ्छनैस्स्वधियाऽथवा ॥ ८९ ॥

कुर्यात्तदुत्तरे पद्मं सचक्रं केवलं तु वा ।
आनतं तं बहिः कुर्यादाभोगंवाननं 14 महत् ॥ ९० ॥

तदाननं तथेशान्ये भागान्तेन सुसंयुतम् ।
विधेयं च तथाभोगं दक्षिणावर्तलक्षणम् ॥ ९१ ॥

सन्निवेशमतस्वाङ्गं गात्र * * * * गैस्सह 15
न च प्रासादभद्रं च एकाग्रमवधारय ॥ ९२ ॥

अर्धेनार्घ्याच्च पीठात्तु विस्तीर्णं पृष्ठदेशतः ।
विधेयं चतुरश्रं तु सुवृत्तं वामभागतः ॥ ९३ ॥

बाहुल्यवन्तं बाहुल्यात्तस्मिं * * * * शिरो न्यसेत् ।
स्तम्भं सुवृत्तं विहितं श्लक्ष्णं वा चतुरश्रकम् ॥ ९४ ॥

अष्टाश्रमथवा रम्यरचनारचितं तु वा ।
बाहुल्यात्त्रिगुणाद्दीर्घं विहितं स्तम्भवेष्टनम् ॥ ९५ ॥

लतावितानपत्राढ्यैर्वनैरुपवनैस्सह ।
ध्यानासक्तैर्मुनीन्द्रैस्तु वेदाध्ययनतत्परैः ॥ ९६ ॥

शङ्खचक्रगदापद्ममूर्तामूर्तैर्महामते ।
साक्षसूत्रकरैर्वापि सिद्धैस्तु भगवन्मयैः ॥ ९७ ॥

इत्येषां रचनां कुर्यदपरां वाऽब्जसम्भव ।
प्रफुल्लपद्मैरापूरात् कर्णिकाकेसरान्वितैः ॥ ९८ ॥

उपर्युपरि सम्मूढैः कर्मभिस्त्वेवमेव वा ।
स्रग्दण्डवद्विधेयं वा नालं भद्रासनीयकम् ॥ ९९ ॥

प्। २४५)

विश्वास-प्रस्तुतिः

पृष्ठदेशे तु यद्भक्तं वृत्ताद्यं परिकल्पितम् ।
चक्राधारस्वभावेन ऊर्ध्ववक्त्राम्बुजात्मना ॥ १०० ॥

नीत्वा तद्बाह्यतः कुर्याच्चक्रं सर्वाङ्गचिह्नितम् ।
चतुभिः कूर्मवत् कुर्यात् स्तम्भमाधारमुत्तमम् ॥ १०१ ॥

समत्वेनासनीयस्य विस्तारस्य महांहामते ।
विस्तारं तस्य तेनैव सार्धेन विहितस्तु वै ॥ १०२ ॥

माहेन्द्रमण्डलाकारं वृत्तं वा वसुधावने ।
समं वा मस्तकोद्देशादनुपातेन सङ्कटम् ॥ १०३ ॥

त्रिभागं समतुल्यं वा बुध्नदेशाच्च विस्तृते ।
समापाद्यैव संस्कृत्य प्राग्वद्वै भवनान्वितम् ॥ १०४ ॥

सन्निधीकृत्य मन्त्रेशं मन्त्रं मोक्षाप्तये* *? ।
यष्टव्यं परया भक्त्या स्वशक्त्या वा फलाप्तये ॥ १०५ ॥

महता विभवेनैव साधकैस्स्वगृहस्थितैः ।
एते भेदास्य विहिता अष्टाश्राः कमलोद्भव ॥ १०६ ॥

षडश्रा वर्तुलाश्चापि चतुरश्रा अथापि वा ।
स्वदलेन समोपेतं चतुरश्रस्य कल्पयेत् ॥ १०७ ॥

तदास्य सत्त्वसिद्धयर्थं सर्वदैवं महामते ।
विभवानुगुणेनैव प्रोक्तमानात्तु साधितम् ॥ १०८ ॥

रचनासन्निवेशेन समभूह्य समाप्य वै ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां भद्रपीठलक्षणं नाम

चत्वारिंशोऽध्यायः ॥ ४० ॥

(समुदितश्लोकसङ्ख्या १०९)

  1. क्, ख्: कृत्वानीं विसर्ज ↩︎ ↩︎

  2. क्, ख्: नागमात्मकपीनकम् ↩︎ ↩︎

  3. ग्, घ्: मीमताल ↩︎ ↩︎

  4. ख्: नारदशिंशुपम् ↩︎ ↩︎

  5. क्, ख्: रागवृक्षम् ↩︎ ↩︎

  6. क्, ख्: * * * सिद्धा ↩︎ ↩︎

  7. ग्, घ्: प्रकारसहितानि ↩︎ ↩︎

  8. ग्, घ्: सेवावहनमाप्तानाम् ↩︎ ↩︎

  9. क्: महन्म * * * * पराणां तु; ग्, घ्: महन्मघपराणाम् ↩︎ ↩︎

  10. क्, ख्: घटने ↩︎ ↩︎

  11. क्, ख्: मानतो विनताः ↩︎ ↩︎

  12. ख्: जलोपभोगरात्रोऽपि ↩︎ ↩︎

  13. क्, ख्: रचनोपर्युद्दिष्टा ↩︎ ↩︎

  14. क्, ख्: वामनम् ↩︎ ↩︎

  15. ग्, घ्: गात्रनदरगैस्सह ↩︎ ↩︎