३९ अध्यायः

अथ एकोनचत्वारिंशोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

प्रमाणमागमानां च ससञ्ज्ञं परमेशवर ।
ज्ञातुमिच्छाम्यहं शश्वत्सम्बन्धं विबुधादिकम् ॥ १ ॥

मूलम्

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

सङ्क्षिप्तं त्रिप्रकारं च कनीयोमध्यमोत्तमम् ।
अनुष्ष्टुप्च्छन्दोबन्धेन 1 बद्धं श्लोकशतात्तु यत् ॥ २ ॥

पादसञ्ज्ञं हि तच्छास्त्रं मूलाख्यं द्विगुणं च तत् ।
यत्सार्धं शतसङ्ख्यं तु तदुद्धारमिति स्मृतम् ॥ ३ ॥

प्। २३९)

विश्वास-प्रस्तुतिः

न्यूनभेदास्त्रयस्त्वेते ऊनाधिक्येन वै सह ।
बहुधा चापि सर्वेषां न सञ्ज्ञा चलते पुनः ॥ ४ ॥

सार्धं शतद्वयं यद्वै परिज्ञेयं तदुत्तरम् ।
बृहदुत्तरसञ्ज्ञं च यदेतद्द्विगुणं भवेत् ॥ ५ ॥

सार्धं सहस्रसङ्ख्यं तु कल्पं तत्समुदाहृतम् ।
त्रयस्यास्य परिज्ञेयमूनाधिक्यं पुनश्शनैः ॥ ६ ॥

एवं सञ्ज्ञान्तरास्त्वन्ये आगमास्सन्त्यनेकशः ।
कल्पैकदेशास्ते सर्वे परिज्ञेयास्तथाब्जज ॥ ७ ॥

आ सहस्रत्रयात् सार्धात् षट्सहस्रं हि सोत्तरम् ।
द्विषट्सहस्रपर्यन्तं संहिताख्यं तदागमम् ॥ ८ ॥

य चान्ये चान्तरालं वै शास्त्रार्थेनाधिकैश्शतैः ।
सर्वेषां संहितासञ्ज्ञा बोद्धव्या कमलोद्भव ॥ ९ ॥

सपादलक्षपर्यन्ता ये च शास्त्राण्यतोर्ध्वतः ।
सहस्राशतमानेन आधिक्येन प्रकाशिताः ॥ १० ॥

कल्पस्कन्धात्तु ते सर्वे परिज्ञेयाः क्रमेण तु ।
लक्षाधिकैस्तु बहुभिस्सहस्रैस्तु शतान्वितैः ॥ ११ ॥

सार्धकोटित्रयान्तं च तच्च तन्त्राख्यमागमम् ।
नवप्रकारमित्येतद्भेदमुक्तं त्रयस्य च ॥ १२ ॥

यत्रान्तरालसङ्ख्यानामसङ्ख्येयं प्रवर्तते ।
युगानुसारबोधेन त्रैगुण्यबलितेन च ॥ १३ ॥

दिव्याद्यवान्तरान्तेन सम्बन्धेन च भुरिणा ।
अप्रमेयाभिधानं च अत ऊर्ध्वं समागमः ॥ १४ ॥

कालेन सह निर्यान्तमसङ्ख्यं परमेश्वरात् ।
तद्वै विदितवेद्यानां सिद्धानां संस्थितं हृदि ॥ १५ ॥

यैस्स्वबोधप्रमाणेन कोटिसङ्ख्यं प्रकाशितम् ।
पादान्ता यस्य वै भेदाः क्रमशस्समुदाहृताः ॥ १६ ॥

यत्र यत्रेच्छया जातं मतभेदेन वै सह ।
क्रियान्तराश्च बहवश्शुद्धा राजसतामसाः ॥ १७ ॥

आद्यं सर्वागमानां च पारमेश्वरमागमम् ।
प्रमाणपरिशुद्धं च हितमब्जज सात्त्वतम् ॥ १८ ॥

सिद्धान्ते भगवत्तत्त्ववेदिनः परमार्थतः ।
क्रमागतश्च तैः प्राप्तं मुक्तये भविनां तु वै ॥ १९ ॥

विभोस्सर्वेश्वराद्येन स्वीकृतं पारमेश्वरम् ।
अप्रमेयं महच्छास्त्रमनन्तं गगनोपमम् ॥ २० ॥

मूलम्

विभोस्सर्वेश्वराद्येन स्वीकृतं पारमेश्वरम् ।
अप्रमेयं महच्छास्त्रमनन्तं गगनोपमम् ॥ २० ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

सर्वेश्वरस्य च विभोरव्ययस्याच्युतस्य च ।
वाच्यस्य वासुदेवस्य अप्रमेयाख्यमागमम् ॥ २१ ॥

अपृथग्लक्षणं विद्धि स्वस्य शब्दं यथा द्विज ।
ज्ञानात्मसञ्ज्ञमात्मानं नीतं वै स्वेच्छया 2 द्विज ॥ २२ ॥

स्वभावमाप्तकामस्य तस्यैतत् स्ववशस्य च ।
ज्ञानांशेनाभिमानाख्यं गुणशक्तिमयं महत् ॥ २३ ॥

गृहीतस्वयमात्मानमतीन्द्रियमनश्वरम् ।
शब्दमूर्तिस्स भगवान् स्वेच्छया स्वयमेत्य च ॥ २४ ॥

विश्रान्तं ज्ञानमूर्तौ तु स च सङ्कर्षणो विभुः ।
स्वयं वीर्यमनन्तं च मूर्छितं ज्ञानमूर्तिना ॥ २५ ॥

गुणं 3 शक्तिमयं यस्य प्रकाशाख्यं तु विग्रहम् ।
आभिमानिकमक्षोभ्यं प्रद्युम्नाख्यं तु शाश्वतम् ॥ २६ ॥

प्। २४०)

विश्वास-प्रस्तुतिः

महता तेन भूतेन शास्त्रं विद्युत्प्रभोज्वलम् ।
श्वसितं वीर्यमूर्तिस्तु प्रविष्ठस्स्वयमेव हि ॥ २७ ॥

अथ वीर्यात्मना विप्र प्रसरं तैजसं महत् ।
जनितं चानिरुद्वेत्ति धत्ते योऽनश्वरं वपुः ॥ २८ ॥

गुणशक्तिगुणोपेतमपराजितमक्षयम् ।
त्यक्तमुद्गारवच्छास्त्रं प्रद्युम्नेन महात्मना ॥ २९ ॥

आदाय विधृतं तद्वै अनिरुद्धात्मना हृदि ।
गुणव्यक्तिमयं देवं वागीशमसृजत् प्रभुः ॥ ३० ॥

अनिरुद्धोऽव्ययात्मा च अर्थयुग्मं तदागमम् ।
अनुद्धृत्तमसन्दिग्धं गतं चाव्ययतां ततः ॥ ३१ ॥

यदंशाद्विदितं तद्वै ज्ञानमूर्ते स्वविग्रहे ।
अव्ययीकृममाद्ये तु स्वरूपं ज्ञानमूर्तिना ॥ ३२ ॥

नीतं समरसत्वं च प्रतिशास्त्रे प्रकाशिते ।
वागीश्वराच्च सिद्धानां तैरुद्धृत्य यथोदितम् ॥ ३३ ॥

सम्यक् समुच्चयीकृत्य नवनीतं यथोदधेः ।
विभोर्विद्याधिदेवस्य ब्रह्मणोऽस्य प्रकाशितम् ॥ ३४ ॥

रुद्रादित्येन्द्रपूर्वाणां देवानां चोदितैर्द्विज ।
स्वांशोत्थानां च रुद्राद्यैस्स्वांशोत्थैरर्थिनामपि ॥ ३५ ॥

ब्रह्मणा नारदादीनां स्वसुतानां प्रकाशितम् ।
तेभ्यो लोकत्रयान्तस्थ-ऋषीणां भावितात्मनाम् ॥ ३६ ॥

स्वाभिप्रायवशेनैव नानाकालवशादपि ।
नानादेशवशाच्चैव नानाजातिवशादपि ॥ ३७ ॥

मूलम्

स्वाभिप्रायवशेनैव नानाकालवशादपि ।
नानादेशवशाच्चैव नानाजातिवशादपि ॥ ३७ ॥

विश्वास-प्रस्तुतिः

इत्येतच्छास्त्रसम्बन्धं कथितं ते यथास्थितम् ।
सरहस्यं महाबुद्धे बोद्धव्यं हि यथार्थतः ॥ ३८ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां आगमनिर्णयो नाम

एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥

(समुदित श्लोकसङ्ख्या ३८)

  1. क्, ख्: बन्धेन अर्ध श्लोक ↩︎ ↩︎

  2. क्, ख्: स्वस्वेच्छया ↩︎ ↩︎

  3. क्, ख्: गुरुशक्ति ↩︎ ↩︎