३८ अध्यायः

अथ अष्टात्रिंशोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

आकाराणामनन्तानां क्षितौ क्षेत्रेषु वर्तिनाम् ।
कालेनान्तर्हितानां च तेषां भूयो निवेशनम् ॥ १ ॥

मूलम्

कुर्वन्ति विबुधास्सिद्धास्स्मृत्वा स्मृत्वा तदाकृतिम् ।
असत्यैर्मर्त्यधर्मस्थैः कथं कार्यं निवेशनम् ॥ २ ॥

स्वकुलोद्धरणार्थं च कीर्त्यर्थमपि चात्मनः ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

साङ्गेनाराध्य मन्त्रेण ज्ञानध्यानान्वितेन च ।
भवनार्चनयुक्तेन सजपेन तु पौष्कर ॥ ३ ॥

निवेशनं 1 च मन्त्राणां द्रव्यजास्वाकृतीषु यत् ।
विहिता सा प्रतिष्ठा वै मन्त्रिणामाप्तलक्षणा ॥ ४ ॥

मन्त्रसिद्धिप्रदं शश्वदन्ते मन्त्रं पदं द्विज ।
मन्त्रज्ञानामसामर्त्थ्यात् मृतानामथ पौष्कर ॥ ५ ॥

अनुग्रहधिया चार्यप्रेरितैस्तत्सुतादिभिः ।
यथोदितेन विधिना तन्मन्त्रेण महामते ॥ ६ ॥

सह ऋक्सामसञ्ज्ञैस्तु मन्त्रैस्स्वव्याप्तिसंयुतैः ।
चेतसा सावधानेन व्यवहारयुतेन च ॥ ७ ॥

क्रियते मध्यमा सा वै प्रतिष्ठा स्वल्पभोगदा ।
पदमात्रं च देहान्ते संयच्छत्यमलं शुभम् ॥ ८ ॥

केवलैश्श्रुतिमन्त्रैस्तु यथावसरलक्षणैः ।
धारणा भगवद्ध्यानमन्त्रन्यासेन वै सह ॥ ९ ॥

देशिकेन्द्रेण वै कार्या भक्तानां परमेश्वरे ।
सामान्या तु परिज्ञेया यज्ञवत् स्वर्गभोगदा ॥ १० ॥

ऐहिकामुष्मिकं मान्त्रं फलं यत्कमलोद्भव ।
विज्ञेयं देशिकाधीनं लोकेऽस्मिन् लोकपूजित ॥ ११ ॥

तस्माद्यस्तत्त्वविज्ञानी शास्त्रज्ञस्सत्क्रियापरः ।
षडध्वविदसङ्कीर्णस्सर्वभावेन पौष्कर ॥ १२ ॥

तेन प्रतिष्ठितो देवश्चलो वा सुस्थिरो बृहत् ।
तत्र संरोधितो मन्त्रस्सम्यगब्जदलेक्षण ॥ १३ ॥

चलस्थिरविभागेन भवेत् सन्निहितस्सदा ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

देव कालान्तरेणैव द्रव्यमेति क्षयात्मताम् ।
अप्रत्यक्षो हि मन्त्रात्मा लोकानां लोकपूजित(ः) ॥ १४ ॥

प्रतीक्ष्यते किं तत्त्वज्ञैरत्र मे संशयो महान् ॥

प्। २२६)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

कर्मबन्धात् पृथक्कृत्य देवो देशिकमूर्तिकः ।
नानाभक्तिप्रपन्नानां तथा नानाफलार्थिनाम् ॥ १५ ॥

कर्मिणां कीर्तिशक्तिर्या विश्वमन्दिरपूरकी ।
निरस्तदोषा महती तामाक्रम्य महामते ॥ १६ ॥

दिव्यमन्त्रस्वरूपेण वृत्तिद्रव्यमयेषु च ।
उपायेष्वनुविद्धासु धृत्या शक्तिमरीचिभिः ॥ १७ ॥

तिष्ठत्यनुग्रहार्थं च सा प्रतिष्ठेति कीर्तिता ।
एवं द्रव्यमयो यत्र सन्निवेशोऽब्जसम्भव ॥ १८ ॥

उभयानुग्रहं नित्यं करुणाभक्तिलक्षणम् ।
प्रतिष्ठाख्यं हि तत्कर्म भुक्तिमुक्तिफलप्रदम् ॥ १९ ॥

तच्च सद्ब्रह्मनिष्ठानां द्विजानामात्मसिद्धये ।
कर्तव्यत्वेन वै नित्यं निषिद्धममलेक्षण 2 ॥ २० ॥

तद्दोषाच्च यतस्तेषां निस्तारो हि न विद्यते ।
देहपातादृते नान्यस्तत्पातस्त्वतिदोषकृत् ॥ २१ ॥

आदावेव हि तत्तस्मान्नाचर्तव्यं कृतात्मभिः ।
तत्कर्मप्रतिपन्नानां चतुर्णामपि तैस्सदा ॥ २२ ॥

कार्यं सम्यक् प्रतिष्ठानामनुग्रहधिया सदा ।
नोपरोधस्वभावेन न लोभेन न मानतः ॥ २३ ॥

प्राप्ते त्वाकस्मिके दोषे ह्यङ्गभङ्गादिकेऽब्जज ।
भक्तानामनुकम्पार्थं दिव्यैर्मन्त्रैर्बलादिकैः ॥ २४ ॥

द्वादशाक्षरपूर्वैस्तु मोक्षैकफललक्षणैः ।
सम्पूजितैर्हुतैर्जप्तैः कुरुते निष्कृतिं सदा ॥ २५ ॥

तस्मात्सर्वप्रयत्नेन कर्तव्येऽस्मिन् द्विजोत्तम ।
त्रैविद्यैः क्षत्रियैर्वैश्यैश्शूद्रैर्वा भ्गवन्मयैः ॥ २६ ॥

सकामैरथ निष्कामैर्मन्त्राराधनतत्परैः ।
स्नातकैर्भगवद्बिम्बस्थापनार्थं सदैव हि ॥ २७ ॥

पुरा प्रसादनीयं च प्रार्थनापूर्वकं तु वै ।
अधिकारपदस्थं च द्विजेन्द्रः पाञ्चरात्रिकः ॥ २८ ॥

वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः ।
सोऽन्येषां भगवद्बिम्बस्थापनेऽधिकृतस्सदा ॥ २९ ॥

अनुग्रहप्रतिष्ठा चाप्यधिकारनिरूपणा ।
अनन्यैरुपपन्नानां भक्तानां कार्यमुच्यते ॥ ३० ॥

अनन्याः पञ्चकालज्ञाः व्यतिरिक्ता न ये पुरा ।
प्राक्सृष्टेस्तन्मुखोद्भूता द्विषट्काध्यात्मचिन्तकाः ॥ ३१ ॥

चतुर्व्यूहपरत्वेन येषां वै प्रभवाप्यये ।
कर्मणामपि सन्न्यासं कुर्वन्त्यध्यक्षतः क्रमात् ॥ ३२ ॥

अतोऽन्यो दुर्लभतरः पारम्यं यस्य तं प्रति ।
प्रमेयनिष्ठा शुद्धा च स्फुटा तत्कर्मणि स्थितिः ॥ ३३ ॥

परत्वमन्यमार्गस्था नेच्छन्ति च परस्परम् ।
य इच्छन्ति विभोस्तेषां स्थितिर्नास्ति तदाकृतेः ॥ ३४ ॥

मुक्ताधिकारिणं तं वै लब्धलक्षमकृत्रिमम् ।
पञ्चकालरतं शुद्धं तन्त्रसिद्धान्तपारगम् ॥ ३५ ॥

तेन वै श्रुतिमन्त्राणां त्रयाणामपि चोदना ।
प्रतिकर्मणि वै कार्या यथावसरलक्षणा ॥ ३६ ॥

यस्मादब्जसमुद्भूत मण्डलादिषु वृत्तिषु ।
स्वार्थतो वा परार्थेन सदाराधनकर्मणि ॥ ३७ ॥

नित्यसिद्धे तदाकारे तत्परत्वेऽपि पौष्कर ।
यस्यास्ति सत्ता(क्ता ?)हृदये तस्यासौ सन्निधिं भजेत् ॥ ३८ ॥

मन्त्ररूपी जगन्नाथः परमात्माऽच्युतः प्रभुः ।
अत्यौत्सुक्यं विना विप्र मनसः प्रीतये त्वपि ॥ ३९ ॥

प्। २२७)

विश्वास-प्रस्तुतिः

कामाप्तये वा कीर्त्यर्थं तस्य तद्विहितं द्विज ।
साधनेन प्रतिष्ठानां प्रासादे स्वगृहे तु वा ॥ ४० ॥

इति सम्यक् समाख्यातं मुख्यकल्पमतः परम् ।
अनुकल्पं यदत्रान्यत्तत्समासान्निबोधतु ॥ ४१ ॥

प्राक्प्राप्तदीक्षैर्विधिवत्त्रयीधर्मस्थितैर्द्विजैः ।
नित्याराधनसक्तैस्तु भक्तैर्भागवतैर्विभोः ॥ ४२ ॥

धारणाध्यानपूर्वैस्तु लब्धलक्षैस्तु कर्मणाम् ।
मन्त्रमण्डलकुण्डास्त्रमुद्रादीनां कृतश्रमैः ॥ ४३ ॥

षडध्वव्याप्तिनिष्ठैस्तु त्यागशीलैरमत्सरैः ।
अनुज्झितक्रमैर्दक्षैस्स्वकर्मपरिपालकैः ॥ ४४ ॥

सत्कीर्तिप्रथितैर्लोके तथाऽकीर्तिबहिष्कृतैः ।
प्रतिष्ठां लभते कर्ता तैः प्रतिष्ठापने कृते ॥ ४५ ॥

निषिद्धमरविन्दाक्ष अतोऽन्येषां हि सर्वदा ।
महामहं प्रतिष्ठाख्यं तथान्यं मिश्रयाजिनाम् ॥ ४६ ॥

देव व्यामिश्रयाजित्यं प्रतिषिद्ध पुनः पुनः ।
प्रागुक्तानां च यागानां द्रष्टुमङ्गीकृतं च यत् ॥ ४७ ॥

तन्मात्रसंशयं जातं छेत्तुमर्हसि साम्प्रतम् ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

सत्यमेतन्महाबुद्धे यथा सञ्चोदितं त्वया ।
किन्तु क्रियान्तरे प्राप्ते न दोषस्त्वधिकारिणाम् ॥ ४८ ॥

यस्मात्सर्वपरत्वं हि तेषामस्त्यच्युतं प्रति ।
तदाश्रितत्वाद्देवानामन्येषां पूजनात्तु वै ॥ ४९ ॥

न दोषो हि यथा लोके भ्रातृभृत्यगणस्य च ।
माननाद्धर्मपत्नीनां समक्षाद्वा परोक्षतः ॥ ५० ॥

ये पुनर्लोकधर्मस्थास्समबुद्धिपदोज्झिताः ।
भगवत्यविशेषज्ञा नित्यं कार्यवशेन तु ॥ ५१ ॥

वा।ङ्मात्रेण परत्वं वै सर्वेषां प्रवदन्ति हि (वै) ।
अधिकारं विना येऽत्र प्रेरिता देवतार्चने ॥ ५२ ॥

एवं मार्गस्थितेर्लोभात्परिज्ञाय तदाशयम् ।
व्यामिश्रयाजिनस्ते वै पातित्यपदसंस्थिताः ॥ ५३ ॥

नयन्ति नरकं नूनमेवमेव प्रवर्तिनः 3
न तु सद्भक्तिपूतानां वासुदेवरतात्मनाम् ॥ ५४ ॥

कदाचित्तत्कृतं दोषं विदधाति च खण्डनाम् ।
आस्तां तावन्महाबुद्धे कर्तव्यं भक्तिपूर्वकम् ॥ ५५ ॥

भक्त्या वै मन्त्रनिष्ठानां तन्मन्त्रो 4 जपकर्मणि ।
वर्णव्यत्ययमापन्नो 5 लुप्तस्तेन स्वरेण वा ॥ ५६ ॥

स्वरादिनाधिकं चैव मन्त्रैकार्थप्रदस्सदा ।
अचिरात्तत्प्रयोक्तॄणां तथापि कमलोद्भव ॥ ५७ ॥

अतिभक्तिप्रभावाच्च वाञ्छितं सम्प्रयच्छति ।
यस्मात्सद्भक्तिपूतानां प्रपन्नानां क्रमं विना ॥ ५८ ॥

प्रसादमेति मन्त्रेशस्त्वचिराद्भावितात्मनाम् ।
किं पुनर्वै क्रियाज्ञानसम्पूर्णानां तु पौष्कर ॥ ५९ ॥

श्रधाभक्तिपराणां च बोधितानां च देशिकैः ।
तस्मात् सम्यक् प्रसन्नानां शासनेऽस्मिन् महामते ॥ ६० ॥

कार्यं दीक्षादिकं सर्वं भक्तानां भक्तवत्सलैः ।
मामसम्प्रतिपन्नो यो मत्प्राप्त्यर्थं करोति च ॥ ६१ ॥

प्। २२८)

विश्वास-प्रस्तुतिः

मन्दमध्यमभक्तानां कामभोगरतात्मनाम् ।
भविना मामकी दीक्षा 6 मोहाद्वा स्थापनादिकम् ॥ ६२ ॥

सनयत्यचिरात्तस्य भक्तिबीजेन वै सह ।
स्वकर्मकर्मतन्त्रं च सिद्धयश्च पराङ्मुखाः ॥ ६३ ॥

इहैव शीघ्रमब्जाक्ष देहान्ते गतसद्गतिः 7
घोरं प्रयाति नरकं भुक्त्वैवं दुष्कृतं महत् । ६४ ॥

भगवन्मन्त्रमाहात्म्यात्तद्व्यापारवशात्तु वै ।
संसर्गोत्थमघं याति प्राक्संस्कारवशात् पुनः ॥ ६५ ॥

चीर्णदुश्चरितो भूयः प्राप्नुयान्मानुषीं तनुम् ।
प्रयत्नमाचरेच्छुभ्रं येन शान्तिमवाप्नुयात् ॥ ६६ ॥

साहङ्कारं तमाचार्यमभक्तं नाधिकारिणम् ।
प्राप्नोति नूनं स लभेत् सकामं नारकीं स्थितिम् ॥ ६७ ॥

सर्वगस्त्वपि मन्त्रात्मा सर्वानुग्रहकृ(त्) द्विज ।
यद्यप्येवं हि तत्रापि न भजेत्तत्र सन्निधिम् ॥ ६८ ॥

प्रतिमामर्च्य देहान्तं नूनं 8 मां न विशत्युत ।
तत्क्षणाद् भूतवेतालाः कुर्वन्त्यर्थादिकक्षयम् ॥ ६९ ॥

अन्यदर्शनसंस्था ये नानुग्राह्या अतोऽब्जज ।
नापास्यो हि तथाऽचार्यस्संसारभयभोरुणा ॥ ७० ॥

सम्यग्भक्तिपरेणैव डम्भरागोज्झितेन च ।
अत एव महाबुद्धे प्रतिष्ठाख्यं मखोत्तमम् ॥ ७१ ॥

निर्वर्तनीयमामूलात् वैष्णवानां हि वैष्णवैः ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

चतुर्णां ब्राह्मणादीनां भगवद्भाविनां विभो ।
हितार्थं ज्ञातुमिच्छामि बिम्बापादनमेव च ॥ ७२ ॥

मूलम्

चतुर्णां ब्राह्मणादीनां भगवद्भाविनां विभो ।
हितार्थं ज्ञातुमिच्छामि बिम्बापादनमेव च ॥ ७२ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

देवार्थं वनयात्रार्थं कुर्याद्रक्षादिके शुभे ।
प्राप्ते वनभुवो देशे कृते तद्देवतार्चने ॥ ७३ ॥

शाश्वतं वनपर्यन्ते पाषाणं वा हरेद्द्रुमम् ।
चेतसा सुविशुद्धेन भगवद्यागपूर्वकम् ॥ ७४ ॥

सह तत्पञ्चरात्रज्ञैस्तथा ऋक्सामपूर्वकैः ।
भक्तैः क्रियापरैस्स्वच्छैर्विनीतैश्शिल्पिभिस्सह ॥ ७५ ॥

संयतैर्दीक्षितैश्चापि वृक्षाद्यं प्राक् समाहरेत् ।
पाषाणं धातवो मृद्वा मृदुगर्भांस्तु सेचयेत् ॥ ७६ ॥

वनभूमिवनोत्थानां धातूनां मृत्स्वरूपिणाम् ।
सङ्ग्रहं विहितं स्वल्पं मेलनीयं च तद्द्विजे ॥ ७७ ॥

प्रतिमापादनार्थं च महामृत्सञ्चये शुभे ।
धातुद्रव्यमयानां च मृद्गर्भाणां हृदा सह ॥ ७८ ॥

तारहाटकताम्रोत्थरेणूनां कमलोद्भव ।
विहिता योजना नित्यं मन्त्रमृद्दाहशान्तये ॥ ७९ ॥

अङ्गारकाष्ठपर्यन्तं वनान्तादुपयुज्यते ।
तत्सर्वं विधिपूर्वं तु सिद्धिकृत् स्यात् समाहृतम् ॥ ८० ॥

एवमादाय तु पुरा वृक्षपूर्वं वनावनेः ।
तत्र वा स्वगृहोद्देशे बिम्बापादनमाचरेत् ॥ ८१ ॥

विधिवत् कर्मशालायामाज्ञप्तं गुरुणा यजेत् ।
शिल्पिस्वामिस्वकं पश्चात् स्वोत्थितेन क्रमेण तु ॥ ८२ ॥

बुद्धिमान् यजमानो वा आरम्भादेव सन्त्यजेत् ।
सर्वोत्तमेऽस्मिन् व्यापारे भावं राजसतामसम् ॥ ८३ ॥

प्। २२९)

विश्वास-प्रस्तुतिः

नूनं कलुषबुद्धीनां न तत्संअद्यतेऽब्जज ।
यद्येव परिपूर्नं वा विघ्नदोषशताकुलम् ॥ ८४ ॥

कर्मणा प्राक्तनेनैव सात्त्विकस्यापि पद्मज ।
घटमानेऽङ्गवैकल्यं जायते दौर्मनस्यकृत् ॥ ८५ ॥

अथ तत्र विधानं यद्विहितं तन्निबोध मे ।
वर्णकैश्चित्रबिम्बस्य गलितेनाम्भसादिना ॥ ८६ ॥

विहितावयवानां च योजना गन्धभावितैः ।
सितरक्तादिकै रागैः पावनैरस्त्रमन्त्रितैः ॥ ८७ ॥

मृदा मृन्मयबिम्बानां मध्वाज्यक्षीरमिश्रया ।
कौशेयचूर्णयुतया सुवर्णोदकसिक्तया ॥ ८८ ॥

दारुजस्य तु सञ्जाते भेदे भङ्गे तु वाब्जज ।
योजनावस्त्रशस्त्राभ्यां विहिता शान्तिपूर्विका ॥ ८९ ॥

सर्वदा विहितं त्यागमश्मजानां बृहत्क्षते ।
क्षते हीषत्क्षते जाते सति रत्नशलाकया ॥ ९० ॥

सहेमया च विहितं घृष्टशाणस्य घर्षणम् ।
क्षतसाम्ये कृते चैव प्रतिमा स्याद् गुणावहा ॥ ९१ ॥

स्थापनं सक्षतानां च करोति मरणं ध्रुवम् ।
गुरोश्च (स्स) यजमानस्य शिल्पिश्रेष्ठस्य देशिनाम् ॥ ९२ ॥

क्षतमिन्द्रियचक्रस्थं कर्तुर्भवति दोषदम् ।
आकर्णान्नाभिपर्यन्तमग्रस्थ 9 पुत्रमृत्युकृत् ॥ ९३ ॥

पश्चाद्द्वये तु जायायाः प्रष्ठाङ्गं भ्रातृहानिदम् ।
आकटेः पायुपर्यन्तं भगिनीनां क्षयो भवेत् ॥ ९४ ॥

ऊरुमूलाच्च जान्वन्तं यत्र यत्र भवेत् क्षतम् ।
धनधान्यपशूनां च क्षयकृच्चाचिरेण तु ॥ ९५ ॥

जानोः पादतलान्तं च भृत्यवर्गस्य दोषदम् ।
सर्वेषामनुकम्पार्थमात्मनश्चापि कीर्तयेत् ॥ ९६ ॥

कर्ता कमलसम्भूत क्षतमक्षतताः नयेत् ।
क्रियमाणस्य बिम्बस्य मधूच्छिष्टोज्झितस्य च ॥ ९७ ॥

जातेऽवयववैकल्ये ह्यनुकल्पमिदं शृणु ॥

विग्रहारम्भे क्षतदोषः

विश्वास-प्रस्तुतिः

भगवत्प्रतिपत्तौ तु जातायां सति तत्र च ।
तत्त्यागं च विनाशं च विरुद्धं ह्युत्तरोत्तरम् ॥ ९८ ॥

बृहद्बिम्बाद्यपेक्षायां द्रव्यत्यागं हि नोचितम् ।
हेमादीनां तु धातूनामुत्क्र्ष्टानां विशेषतः ॥ ९९ ॥

जातेऽवयववैकल्ये शान्त्यर्थं यागमाचरेत् ।
भूयस्सम्पूर्य तस्याङ्गं विशेषविधिनाब्जज ॥ १०० ॥

केवलं हेमहैमस्य यथालाभं क्षते क्षिपेत् ।
सर्वं रत्नमयं चूर्णं द्वादशाक्षरमन्त्रितम् ॥ १०१ ॥

एतत्पूर्वं तथा चान्यधातूत्थनानां महामते ।
ईषत्सुवर्णमिश्रेण पूरयेत्स्वेन धातुना ॥ १०२ ॥

यदि वै विधिनानेन क्रियमाणेन पौष्कर ।
न भवेच्चित्तनैर्मल्यमाचर्तव्यं क्रियान्तरम् ॥ १०३ ॥

सम्मतेन गुरूणां च प्राग्वदर्चनपूर्वकम् ।
आवीक्षयन्ति वै साक्षात् नयेच्चामूर्ततां पुनः ॥ १०४ ॥

आपाद्यमपरं तेन बिम्बद्वव्येण चाक्षतम् ।
सर्वावयवसम्पूर्नं मनोहारि विलक्षणम् ॥ १०५ ॥

सम्भवे सति तच्छश्वद्विना कालान्तरेण तु ।
यस्मात् कमलसम्भूत सङ्कल्पादेव शाश्वतम् ॥ १०६ ॥

प्। २३०)

विश्वास-प्रस्तुतिः

स्थानमासादयन्त्याहुस्तस्य पूर्वपीतामहाः ।
प्रपितामहपूर्वास्तु विवदन्ति परस्परम् ॥ १०७ ॥

प्रायशो मुक्तदोषास्तु सन्तानेन कृता वयम् ।
यास्यामो वासुदेवत्वं यदि चेच्छति तत्पुनः ॥ १०८ ॥

ततश्शीघ्रतरं कार्यं प्रतिष्ठाख्यं मखं महत् ।
प्रीतये चातुरात्म्यानामनूनां तत्त्ववेदिनाम् ॥ १०९ ॥

ऋषीणां विबुधानां च पितृणां पद्मसम्भव ।
मानवानां च भूतानां त्रैलोक्योदरवर्तिनाम् ॥ ११० ॥

भिन्नागमोत्थिताद्भग्नबिम्बाद्द्धातुमयाद्द्विज ।
कृतबिम्बान्तरं कुर्यादेवमामुष्मिकादिकम् ॥ १११ ॥

अतस्तदेव विहितं तद्भेदं वा तदन्वयात् ।
लोकद्वयोद्भवं येन कर्ताप्नोति शुभं महत् ॥ ११२ ॥

संस्थितानां स्वदेशे च विहितानां धनादिना ।
द्रव्यप्रमाणं कर्तव्यं पूर्वैर्भेदैर्विभाजितम् ॥ ११३ ॥

योऽर्थे वै बान्धवादीनां कुर्याद्वै प्रतिमां विभोः ।
सर्वदोषविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ११४ ॥

स्वयंव्यक्तं तथा सैद्धं विबुधैश्च प्रतिष्ठितम् ।
ऋते विप्रादिकैर्विप्र देवबिम्बं निवेशितम् ॥ ११५ ॥

विन्यस्तं तत्र यन्मन्त्रमङ्गमन्त्रैस्सलाञ्छनैः ।
सह प्रयाति स्वं स्थानं बिम्बं त्यक्त्वा क्रिया विना ॥ ११६ ॥

शप्त्वाचार्यं तथा कर्त्रा यदर्थं च प्रतिष्ठितम् ।
पिशाचभूतवेतालास्सयक्षाश्चैव राक्षसाः ॥ ११७ ॥

स्थानं च पीठं बिम्बं च ध्वजान्तं संश्रयन्ति च ।
एवं ज्ञात्वा महाबुद्धे तथा कार्यं शुभेप्सुना ॥ ११८ ॥

प्रतिष्ठितस्य बिम्बस्य यथा सम्पद्यते शुभम् ।
पूजाहोमप्रदानैश्च वादित्रैस्सह गीतकैः ॥ ११९ ॥

स्वगृहे चलबिम्बस्य पुष्पधूपादिकीं स्थितिम् ।
सर्वकालं यथाशक्त्या भक्तैः कार्या शुभाप्तये ॥ १२० ॥

यावज्जीवावधिः कालं तत्त्वमन्त्रैरधिष्ठिते ।
त्रैकाल्यं चलबिम्बे तु मन्त्रं मन्त्री स्वकं यजेत् ॥ १२१ ॥

द्वादशाक्षरपूर्वं वा सामान्यं गुरुणा पुरा ।
न्यस्तं सम्प्रतिपन्नानां भक्तानां हितकाम्यया ॥ १२२ ॥

संहृत्यैवं यथाशास्त्रं भक्त्या भोगफलाप्तये ।
निवेद्य मात्रासहितं स्वगुरोर्भवशान्तये ॥ १२३ ॥

तदङ्घ्रिगौ करौ कृत्वा विज्ञाप्य नतमस्तकः ।
त्वया देहपरित्यागकाले योग्यस्य वा मम ॥ १२४ ॥

न्यस्तव्यं वैष्णवैः पूर्णं मदनुग्रहकाम्यया ।
देहसन्यासकाले तु स्वशिष्यस्यानुकम्पया ॥ १२५ ॥

एवं हि गुरुणा कार्या योग्यस्यान्यस्य चोदना ।
तेनाप्यन्यस्य देहान्ते संयतस्य महामते ॥ १२६ ॥

सत्क्रियस्य च भक्तस्य तदभावान्महामते ।
स्थितिर्वायतने विप्र विधेया गृहमेधिना ॥ १२७ ॥

असम्पत्तेस्तु भोगानामन्नाद्यं सम्परित्यजेत् ।
विभोराराधनार्थाय शुचिस्स्नातः प्रसन्नधीः ॥ १२८ ॥

मूर्ध्नि दत्त्वाम्बुनार्घ्यं प्राक् सपुष्पं केवलं तु वा ।
अम्बुपूजेयमाद्या वै भोगानां मूलमेव हि ॥ १२९ ॥

यतो रसमयास्सर्वे तद्रसः परमेश्वरः ।
नारायणाख्यो भगवांस्तदर्घ्यं चोत्तमं स्मृतम् ॥ १३० ॥

पादयोस्तत्पुनर्दद्याद्भोगजालं यतोऽखिलम् ।
खकारणपुटान्तस्थमानस्त्यमुपयाति च ॥ १३१ ॥

अचिरादेव भक्तानां मन्त्रिणां मन्त्रयाजिनाम् ।
क्ष्मानलाम्बर वयव्य? विभवेनापि यद्यपि ॥ १३२ ॥

प्। २३१)

विश्वास-प्रस्तुतिः

पुष्पधूपादयो भोगा मन्त्रान्ताः परिकीर्तिताः ।
तत्रापि रसमूला वै व्यक्तिस्तेमां ? 10 तदात्मिका ॥ १३३ ॥

स्थितमानन्दभावेन स्वादीनां चैव तद्रसम् ।
सर्वस्सर्वत्र वै येन रसिको दृश्यतेऽब्जज ॥ १३४ ॥

इत्येवं मानवीयानामर्चनां कमलोद्भव ।
चलानामचलानां च संस्थानं समुदाहृतम् ॥ १३५ ॥

मुक्त्वा द्विजेन्द्रकर्मार्चामन्यां वै वैष्णवीं चलाम् ।
नार्करुद्रेन्द्रसंस्थानां संस्थानं भगवद्गृहे ॥ १३६ ॥

विहितं प्रतिमानां च प्रमादजनकं च तत् ।
न मूर्त्यन्तरदेवानां मूर्तयो व्यूहलक्षणाः ॥ १३७ ॥

भुवनान्तर्गताः 11 कार्या विधिना सुस्थिरेण तु ।
प्रादुर्भावान्तराणां च प्रादुर्भावास्तथैव च ॥ १३८ ॥

निषिद्धं भित्तिगेहेषु उच्चस्थेषु निवेशनम् ।
देवानां भवनाद्वामे उच्छ्रायामसमं विना ॥ १३९ ॥

यथोक्तं मुख्यकल्पाद्वै हेत्वपेक्षावशाद्भुवः ।
व्यत्ययं कर्तुमिच्छेद्यश्श्रद्धाभक्तिपुरस्सरम् ॥ १४० ॥

पूजाहवनं पूर्वं च * * * * *? दैशिकीम् ? ।
तथैव च * * * * * * * * * * * *? ॥ १४१ ॥

सुराणामर्चितानां च कदाचिन्न विरोधकृत् ।
अन्यथा क्ष्माभरणां च भक्तिभागानुवर्तिनाम् ॥ १४२ ॥

आदृष्टविग्रहाणां च पीठानामशुभं भवेत् ।
एवमायतनस्थानां गृहीतान्तरवर्तिनाम् ॥ १४३ ॥

विभवव्यूहमूर्तीनां मन्त्रमूर्तेऽर्चने सति ।
विहितं वैष्णवानां च विप्रादीनामुपार्जनम् ॥ १४४ ॥

आराधनार्थमादौ तु मन्त्रान्तमखिलं तु वै ।
मुख्यत्वेनानुकल्पे हि यदन्यस्थण्डिलादिकैः ॥ १४५ ॥

ऊनमष्टाष्टकाच्चापि भोगजालादसम्भवे ।
सर्वेषामेव भोनानां कर्मणां कमलोऽद्भव ॥ १४६ ॥

ऊनाधिकविशालार्था भगवद्यागलक्षणा ।
विधेया परमा शान्तिस्सततं च शुभार्थिना ॥ १४७ ॥

सर्वदोषप्रशमनी यथा कार्याथ देशिकैः ।
शान्तिर्मान्त्री परा देवी तामादिश जगत्पते ॥ १४८ ॥

मूलम्

सर्वदोषप्रशमनी यथा कार्याथ देशिकैः ।
शान्तिर्मान्त्री परा देवी तामादिश जगत्पते ॥ १४८ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

सर्वदोषप्रशमनं भक्तानां भावितात्मनाम् ।
हितं पूर्वोदितं चक्रं पङ्कजं वेश्मवर्जितम् ॥ १४९ ॥

यस्माद्वा स्थाप्य पीठं च विष्वक्सेनान्तमर्चनम् ।
नोपयुज्यति वै तत्र ऋते सर्वेश्वरार्चनात् ॥ १५० ॥

व्यतिरिक्ता निराशानामम्बरस्थाम्बरेषु च ।
विधिज्ञेन स्थितिः कार्या ऋग्विदर्चापयेत्ततः ॥ १५१ ॥

पीठमश्रान्वितं कृत्वा पुरं त्वाचरणान्वितम् ।
तत्र पूर्वोदितन्यासं कुर्यदाधारपूर्वकम् ॥ १५२ ॥

स्वदेहवत्तमालक्ष्य स्मृत्वाध्यक्षप्रकाशितम् ।
तद्वाचकेन मूर्तेस्तु चित्सामान्येन साम्प्रतम् ॥ १५३ ॥

यथेह च सवेद्यादि स्मृत्वा युक्तस्वविग्रहे ।
न हि साङ्कर्यदोषोऽस्ति अध्यक्षाधिष्ठिते सति ॥ १५४ ॥

प्। २३२)

विश्वास-प्रस्तुतिः

तथैवाधारशक्त्यादि विष्वक्सेनान्तमर्चनम् ।
निर्दोषं मण्डले किन्तु भगवच्छब्दपूर्वकम् ॥ १५५ ॥

सर्वस्य नाम चोच्चार्य तदन्ते त्वात्मने नमः ।
एवमासनदेवानां धर्मादीनां समर्चनम् ॥ १५६ ॥

स्थानभेदस्थितानां च कृत्वा तदनु पौष्कर ।
मण्डले मन्त्रमूर्तीनामाहूतानां समर्चनम् ॥ १५७ ॥

सम्पूर्णं शान्तये तत्स्यादसम्पूर्णमशान्तये ।
अतस्स्वशक्त्या शान्त्यर्थे सदानं वह्नितर्पणम् ॥ १५८ ॥

भगवद्यागपूर्वं तु सर्वत्र विहितं सदा ।
तच्च ज्ञानानुविद्धेन कर्मणार्घ्यादिकैस्सह ॥ १५९ ॥

सम्यक्ततो दयीं ? ज्ञत्वा सद्रव्यं संस्थितं शुभम् ।
यथा बीजाङ्कुराभ्यां तु अनन्यत्वमनादिमत् ॥ १६० ॥

फलाप्तये फलेप्सूनां जगत्यस्मिंस्तथाब्जज ।
अन्योन्यानुगतत्वं हि संस्थितं ज्ञानकर्मणोः ॥ १६१ ॥

ज्ञातव्यमाविवेकाच्च बुध्या तु सुविशुद्धया ।
भगवद्वासुदेवाख्यपरस्य परमात्मनः ॥ १६२ ॥

अनुग्रहार्थमुल्लासं ज्ञानकर्मसमन्वितम् ।
मन्त्रमुद्रासमेतं च कर्मिणामनुकम्पया ॥ १६३ ॥

तत्त्वशक्तिसमोपेतं ज्ञानाद्यैरन्वितं गुणैः ।
अणिमाद्यष्टकेनापि सिद्धिबीजेन वै सह ॥ १६४ ॥

शान्तये सर्वदोषाणां शश्वत्परपदाप्तये ॥

पारमेश्वरोल्लासः 12

विश्वास-प्रस्तुतिः

पारमेश्वरमुल्लासमित्यभिन्नं द्विजोत्तम ।
परिज्ञेयं यथा वह्नेर्निर्धूमस्यार्चिषश्शुभाः ॥ १६५ ॥

समुद्रस्योर्मयो यद्वद्रश्मयो भास्करस्य च ।
सङ्कल्पाद्भक्तिपूर्वात्तु सूर्यवद्धृदयाम्बुजे ॥ १६६ ॥

करोति नित्यमुदयं भव्यबुद्धेर्महामहे ।
सङ्कल्पलक्षणैर्भोगैर्मखैरिष्ट्वा तु पूर्ववम् ॥ १६७ ॥

बहिश्शुभतरैः पश्चात् भोगैराज्यादिकैस्ततः ।
तर्पितश्चानलाधारे यथोक्तविधिनाब्जज ॥ १६८ ॥

देशिकद्विजमूर्तिश्च सान्नपानधनादिना ।
परितोषं परं नीतं शान्तिं यच्छति वै परम् ॥ १६९ ॥

कर्मणां शान्तिकादीनामधारे मण्डलादिके ।
ध्यानमस्य जगद्धातुर्ज्ञातुमिच्छाम्यहं प्रभो ॥ १७० ॥

मूलम्

कर्मणां शान्तिकादीनामधारे मण्डलादिके ।
ध्यानमस्य जगद्धातुर्ज्ञातुमिच्छाम्यहं प्रभो ॥ १७० ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

व्यक्तिस्सम्पूज्यते या या ज्ञानाद्यैस्सा गुणैर्युता ।
ज्ञातव्या कमलोद्भूत नित्या सर्वात्मना विभोः ॥ १७१ ॥

संसारदुःखशान्त्यर्थं तज्जा वा सा सुशान्तये ।
संयजेद्गोचरीकृत्य भक्त्या सुश्रद्धया तु वै ॥ १७२ ॥

वाचकैर्द्वादशार्णाद्यैश्शश्वच्चाभिमताप्तये ।
विचित्राकृतिरस्त्राङ्गवस्त्रस्रग्भूषणादिकैः ॥ १७३ ॥

शक्तिपूतैस्सुसम्पूर्णा तथान्यैस्साधनैस्स्वकैः ।
शुद्धसंविन्मयं त्वेवं व्यक्तविग्रहमाच्युतम् ॥ १७४ ॥

प्। २३३)

विश्वास-प्रस्तुतिः

पौरुषेण तु रूपेण स्मर्तव्यं सत्पदाप्तये ।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ॥ १७५ ॥

मुञ्चन्तमनिशं देहादालोकं ज्ञानलणम् ।
प्रयत्नेन विना ज्ञानं न्यासकृद्ध्यायिनां महत् ॥ १७६ ॥

स्रग्वस्त्राभरणैर्युक्तं स्वानुरूपैरनूपमैः ।
चिन्मयैस्स्वप्रकाशैस्तु अन्योन्यरुचिरञ्जितैः ॥ १७७ ॥

पूर्वकर्मानलार्तानध्यायिनां खेदशान्तये ।
स्वदत्तेन्दुचयोत्थेन ह्लादयेद्गोगणेन तु ॥ १७८ ॥

विद्याकलाभिधे शक्ती सन्धत्ते शङ्खचक्रवत् ।
ज्ञानक्रियात्मके विद्धि इच्छासंवलितेऽब्जज ॥ १७९ ॥

अनन्तशक्तिर्भगवांस्तमनन्तगुणं स्मृतम् ।
दृश्यदृष्टान्तसूर्येन्दुवह्नितत्त्वैर्विलक्षणम् ॥ १८० ॥

स्वबोधप्रत्ययेनैव इयत्तास्य विधीयते ।
सर्वमेवैष भगवान् किमु सर्वमतः परम् ॥ १८१ ॥

ध्येयमस्य यदा भाति सा विद्या स्वात्मनि स्थिता ।
भक्त्या यथोचितध्यानादेतस्मादेव शान्तये ॥ १८२ ॥

एवमस्य परं रूपं परमं विनिबोध तु ।
ध्यायिनां मन्य?बुद्धीनां परमानन्ददं हि यत् ॥ १८३ ॥

घनकुञ्चितनीलालिग(द)लिताञ्जनसन्निभैः ।
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ॥ १८४ ॥

किरीटमकुटाक्रान्तैश्शोभितं सुशिरोरुहैः ।
स्थलाब्जकाशसङ्काशपद्मरागरुचिप्रभैः ॥ १८५ ॥

पाणिपादतलै रक्तैर्वदनैरधरादिकैः ।
नासाश्रवणरन्ध्रान्तैर्मुक्ताभासादिकैर्द्विजैः ॥ १८६ ॥

ईषदारक्तगोक्षीरशुद्धनीलाब्जलोचनैः ।
एवं हृत्पुण्डरीके प्राक् पुण्डरीकाक्षमच्युतम् ॥ १८७ ॥

नानामन्त्रप्रभाकान्तिध्यानमिच्छाप्रदं भवेत् ।
बहिर्वै मण्डले ध्यानं भवदुःखं नयेत् क्षयम् ॥ १८८ ॥

परस्माद्भगवत्तत्त्वादनन्यत्वेन वर्तते ।
अत्र स्थितं बहिर्ज्ञेयं मन्त्रव्यूहं सदोदितम् ॥ १८९ ॥

नानाव्यक्तिस्वरूपेण भविनां मोक्षदं हि यत् ।
तत्र तावत्परिज्ञेया क्रमशो वै पुरोदिता ॥ १९० ॥

निर्दिष्टलक्षणा ब्रह्मन् वराहानास्तु? 13 शक्तयः ।
तासां व्यक्तं क्रमाद्ध्यानं यथावत् प्राक् प्रकाशितम् ॥ १९१ ॥

परस्य ब्रह्मणस्त्वेवं नित्या वा व्यापकामला ।
मूर्तिर्वै वासुदेवाख्या त्वभेदेन स्थिताब्जज ॥ १९२ ॥

ज्वाला ज्योऽत्स्ना प्रभा यद्वत् वह्नेरिन्दोर्विवस्वतः ।
स्वेच्छया योऽभिमानाख्यरूपं धत्ते यथोदितम् ॥ १९३ ॥

अनुग्रहार्थमेवं वै भगवन्मन्त्रशक्तयः ।
व्ययञ्जयन्ति स्वकं रूपमाभिमानिकमुत्तमम् ॥ १९४ ॥

यमालम्ब्याचिरेणैव जपाद्ध्यानात् समर्चनात् ।
सर्वमाप्नोति मन्त्रज्ञस्स्तवभक्तिप्रदस्स्थितः 14 ॥ १९५ ॥

साहजं प्राकृतं कर्मबन्धं कर्मात्मजं हि यत् ।
संस्थितं हि यथा ताम्रं धातोरब्जज कालिकाम् ॥ १९६ ॥

भूत्वा सर्वज्ञशक्तिस्सा स्वयं मन्त्रतरात्मना ।
क्रमात्कर्मात्मतत्त्वानामनुवेधं करोति च ॥ १९७ ॥

भक्तियुक्तमसम्बाधं 15 शश्वद्ये चाप्नुवन्ति ते ।
पिबन्ति परमं ब्रह्म ईशं मन्त्रात्मनाप्तये ॥ १९८ ॥

लब्धाधिकाराः क्रमशस्सम्प्राप्य स्वेश्वरे पदे ।
प्रयान्ति मन्त्रसामर्थ्याद्यस्मान्नायान्ति 16
ते पुनः ॥ १९९ ॥

प्। २३४)

विश्वास-प्रस्तुतिः

ज्ञात्वैवं कमलोद्भूत ध्येयाः पूज्यास्तथैव हि ।
ये प्रधानतरा मन्त्रा मूर्तयोऽपि जगत्प्रभोः ॥ २०० ॥

आराधनाज्जपाद्ध्यानात् परिज्ञानाच्च ते शुभम् ।
यच्छन्ति पदमात्मीयं तत्तदक्षयमाच्युतम् ॥ २०१ ॥

दहन्ति वह्निवत्कर्मजालं कर्मात्मनां महत् ।
एवं ज्ञात्वाब्जसम्भूत सुप्रसिद्धैस्तु वाचकैः ॥ २०२ ॥

द्वादशाक्षरपूर्वैस्तु षडष्टाक्षरपश्चिमैः ।
स्वसञ्ज्ञाख्यैस्स्वबीजैर्वा सम्प्राप्तैर्देशिकाननात् ॥ २०३ ॥

स्मर्तव्या वासुदेवाख्या द्विभेदाः परमेश्वराः ।
चत्वारश्चानिरुद्धान्ताश्चतुर्व्यूहव्यवस्थया ॥ २०४ ॥

एवमन्ये वराहाद्यास्चतुर्व्यूहेन वै सह ।
तथैव केशवाद्या ये द्वादशास्सम्प्रकीर्तिताः ॥ २०५ ॥

अनुज्झितस्वरूपस्य नानामूर्तियुतस्य च ।
नानाव्यत्ययसंस्थस्य यजनं चतुरात्मनः ॥ २०६ ॥

यत्तु नानार्थसिद्ध्यर्थं तथा रुचिगुणाप्तये ।
सम्यग्ज्ञात्वा तु षाड्गुण्यं महिमाशान्तता परा ॥ २०७ ॥

प्राप्तुमिच्छति यच्छीघ्रं धीमता तेन पौष्कर ।
पूजनीयं यथावस्थमध्यक्षान्न्तं हि केवलम् ॥ २०८ ॥

प्राग्वद्विभवमूर्तीनां पञ्चव्यूहाद्यपेक्षया ।
ऐश्वर्यपूर्वषाड्गुण्यं चातुरात्म्याद्यमिच्छति ॥ २०९ ॥

सप्रद्युम्नाच्युताध्यक्षवासुदेवाद्यमर्चयेत् ।
यः पुनर्मूर्तिपूर्वं तु इच्छेद्गुणगणं महत् ॥ २१० ॥

सङ्कल्पसिद्धयस्सर्वा विविधाश्चाणिमादयः ।
सर्वेश्वरोऽनुगन्तव्य अध्यक्षान्तं तु साच्युतम् ॥ २११ ॥

प्रद्युम्नान्तं तु सततं समाधावर्चने हितम् ।
मुख्यत्वेन तु वै यस्य चलाद्यं गुणसङ्ग्रहम् ॥२१२ ॥

प्रतिभाति गुरोर्वक्त्रं धीरं तस्यार्चने पुनः ।
वासुदेवाच्युताध्यक्षक्रमं प्रद्युम्नपश्चिमम् ॥ २१३ ॥

षट्कं तु वीर्यपूर्वं वै इच्छत्याराधनात्तु यः ।
अप्रद्युम्नं तमध्यक्षमच्युतं संयजेत्तदा ॥ २१४ ॥

तेजःपूर्वं तु षाड्गुण्यं योऽर्चनादभिवाञ्छति ।
तस्यार्चने तु विहितं भूयोऽध्यक्षादिकं त्रयम् ॥ २१५ ॥

प्रागर्चनात्तु मूर्तीनां केवलादर्चनात्तु वा ।
कैवल्यं भगवत्तत्त्वं मन्त्रज्ञस्समवाप्नुयात् ॥ २१६ ॥

मूर्तित्रयं तदन्ते यत् सर्वगं यद्यपि स्थितम् ।
तथापि विश्वविभवं यत्सत्यं त्वात्मना प्रभुः ॥ २१७ ॥

ज्ञात्वैवमर्चनीयं तु तमेव समनन्तरम् ।
जाग्रदीश्वरमध्यक्षं त्वया नाथात्मना सह ॥ २१८ ॥

त्रयाणामच्युतादीनां प्राथम्येन तु पूजनात् ।
तत्पदेष्वादिदेवस्य क्रमादाराधयेत्त्रयम् ॥ २१९ ॥

चातुरात्मीययोगेन गुणानामेवमर्चनम् ।
कुर्याद्वै विधिवन्मन्त्री यथा तदवधारय ॥ २२० ॥

ज्ञानं बलमथैश्वर्यं वीर्यं च तदनन्तरम् ।
चतुष्टयमिदं भिन्नं यजनात्सिद्धिकृत्सकृत् ॥ २२१ ॥

बलमैश्वर्यवीर्ये च तेजोनिष्ठं चतुष्टयम् ।
यं य इच्छत्यभिमतं परिज्ञानादवाप्नुयात् ॥ २२२ ॥

तेजश्शक्तिस्तथा ज्ञानं बलं वीर्यान्तमेव हि ।
इष्टं चतुष्टयं दद्यात् मन्त्रिणामिदमब्जज ॥ २२३ ॥

ज्ञानात्मने समुच्चार्य प्रणवाद्यं पदं शुभम् ।
यथा ज्ञानगुणस्योक्तं सर्वेषामेवमेव हि ॥ २२४ ॥

अनुज्झितक्रमेणैव व्यत्ययेनोदितेन च ।
मोक्षभोगाप्तये त्वेवमर्चनं विविधं स्मृतम् ॥ २२५ ॥

भेदभिन्नं जगद्योनेरभेदेन यजेत् पुनः ।
द्वादशारे महाचक्रे तथासङ्ख्यच्छदोदरे ॥ २२६ ॥

प्। २३५)

विश्वास-प्रस्तुतिः

गुणातीतस्तु भगवान् पूर्ववत्कर्णिकान्तरे ।
द्वादशाक्षरमन्त्रेण पत्रगं हि तदक्षरैः ॥ २२७ ॥

नमः प्रणवसंरुद्धैः प्रादक्षिण्येन प्राक् पदात् ।
प्राप्तये गुणभूतानां षट्कयुक्तं हि यच्च ते ॥ २२८ ॥

दिव्यानां चातुरात्म्यानां त्रयं सञ्चरितं हि यत् ।
त्रयं गुणमयं चान्यत् चाकाराणां क्रमाद्यजेत् ॥ २२९ ॥

उपायैस्तैः फलप्राप्त्यै तस्माद्यष्टव्यमिच्छया ।
भक्तिश्रद्धासमेतेन ज्ञानपूर्वेण कर्मणा ॥ २३० ॥

स्व (सु) वर्णाश्रमधर्मेण सह सम्यक् समाधिना ।
आ अनुग्रहकालाचा यावज्जीवावधि द्विज ॥ २३१ ॥

तीव्रप्रभावशान्ताच्च ज्ञानमाराधनेन च ।
देहेनानेन तेनैव ह्यनेनान्यतरेण वा ॥ २३२ ॥

मन्दमन्दवशाद्भाववशादमरपूजितः ।
एवं यदधिकारेण कुर्यादाराधनं हि यः ॥ २३३ ॥

भोगैर्यथोदित्तैश्शुद्धैः क्रियाभिर्विविधैस्ततः ।
निष्पत्तौ तु क्रियाङ्गानां हृदास्त्रार्घ्यं स्वात्मनाम् ? ॥ २३४ ॥

नानाचत विभोभोगं कल्पितं विनिवेद्यं च ।
प्रणवाद्यन्तकेनैव सनमस्कपदेन तु ॥ २३५ ॥

मूलम्

नानाचत विभोभोगं कल्पितं विनिवेद्यं च ।
प्रणवाद्यन्तकेनैव सनमस्कपदेन तु ॥ २३५ ॥

विश्वास-प्रस्तुतिः

कल्पयामीति नाम्ना तद्भोगानां विध्युपार्जनम् ।
धिया निवेदनं तेषां शिरसावनतेन यत् ॥ २३६ ॥

समर्पणे यद्विज्ञेयं वाचकेन हृदेश्वरात् ।
पूरकेण हृतानां प्राक् बहिस्स्थानां क्रमेण तु ॥ २३७ ॥

हृदयङ्गमसञ्ज्ञं यत् पङ्चकं त्वर्हणादिकम् ।
कृतमञ्जलिमुद्रायां श्रद्धापूतेन चेतसा ॥ २३८ ॥

निवेदनीयं बहुधा यथासम्भवमेव वा ।
परमाश्रित्य वै यत्तु इन्द्रियैस्संयतैस्सह ॥ २३९ ॥

वदनं नासिकारन्ध्रे स्थगयित्वाम्बरेण तु ।
स्वश्वासोपहतं चैव न भवेत्तद्यथाऽब्जज ॥ २४० ॥

सुभर्जितानां बीजानां प्रसवं न पुनर्यथा ।
क्रियाफलानां च तथा प्रथमं चाच्युतार्चनात् ॥ २४१ ॥

आस्तां तावन्महाबुद्धे कर्मसञ्ज्ञं हि (ता) ज्ञाच्युतम् ? ।
फलहीनं हि चामूलाद्भवक्षयकरं परम् ॥ २४२ ॥

अश्वमेधादयो यज्ञा नूनं कर्मफलप्रदाः ।
तेऽपि सन्मन्त्रभक्तानां न यच्छन्ति फलं स्वकम् ॥ २४३ ॥

ज्ञस्वभावास्तु वै यज्ञास्सम्यग्बुध्वा पराशयम् ।
यच्छन्ति परमां शान्तिं भगवत्तत्त्ववेदिनाम् ॥ २४४ ॥

स्वर्गाद्यं फलमन्येषां मर्त्यभोगं तु वेप्सितम्
फलमामुष्मिकं चैव ऐहिकं वाब्जसम्भव ॥ २४५ ॥

कृत्वा बुद्धिनिविष्टं तु जपादीन् श्रद्धया चरेत् ।
भक्तिपूतेन विप्रेन्द्र तात्पर्येण तु वै सह ॥ २४६ ॥

साङ्गं सपरिवारं च इष्ट्वैवमजमव्ययम् ।
शक्तिव्यक्तिविभेदेन आदिमूर्तिक्रमात्तु वै ॥ २४७ ॥

ऋङ्मयेनाथ यजुषा पूजनीयं तमेव हि ।
अचिराख्ये पदे मन्त्रे तन्त्रैरभिमताप्तये ॥ २४८ ॥

परं ब्रह्म परं धाम पवित्रं परमैश्वरम् ।
सामर्थ्यादच्युतं नेत्रा नाम्ना यत्समुदाहृतम् ॥ २४९ ॥

व्यक्तमस्य परब्रह्म क्वचिन्नयनलक्षणम् ।
अन्तर्निगूडमन्त्राणां वर्ततेऽन्यत्र वै बहिः ॥ २५० ॥

अत एव षडङ्गानि पञ्चाङ्गानि महामते ।
वाचकानि तु वाच्यानि युक्तान्याराधनात्तु वै ॥ २५१ ॥

नेत्राख्यं भगवत्तत्त्वं यदङ्गेभ्योऽतिरिच्यते ।
शिरोऽम्बरे तु मन्त्राणां प्रधानेतरवर्तिनाम् ॥ २५२ ॥

स्वबीजं विनियोक्तव्यं स्थित्यर्थं प्राक् प्रभात्मकम् ।
परावरस्वरूपेण स्मरेत्तत्स्थं दिगीश्वरम् ॥ २५३ ॥

प्। २३६)

विश्वास-प्रस्तुतिः

औदयेन तु योगेन मन्त्राणि च परात् पदात् ।
यथाक्रमस्थान्याहूय अर्चनावसरं प्रति ॥ २५४ ॥

निवेश्य च यथाशास्त्रमस्त्रावरणपश्चिमम् ।
सम्पन्ने विधिवद्यागे पुनस्सर्वेश्वरे हरौ ॥ २५५ ॥

क्रमात् प्रविलयं कुर्यात् साधकस्सिद्धिमिच्छताम् ।
एवं नियन्तृशक्तिर्वै नेत्राख्या पारमेश्वरी ॥ २५६ ॥

प्रभा(भ)वत्वेन मन्त्राणामप्ययत्वेन वर्तते ।
बहिर्वा कमले हार्दे स्मर्तव्या सामलान्तरे ॥ २५७ ॥

निषेधाख्येन बीजेन सानुस्वारेण खेन च ।
सहस्रानलसूर्येन्दुवराहायुतभास्वरा ॥ २५८ ॥

वाच्यवाचकयोगेन माननीयं सदैव हि ।
सहसृष्टिस्वरेणैव सृष्टौ सर्वं यदीप्सितम् ॥ २५९ ॥

भोगबीजमखण्डं च प्रतीपं मन्त्रिणां पुनः ।
शश्वदज्ञानानुसिद्धं (च) सम्प्रयच्छति पूजनात् ॥ २६० ॥

नित्यमन्त्रोपसंहारवेलायामुदयेऽपि च ।
यथावदादौ बोद्धव्यं क्रमान्मन्त्रं यथास्थितम् ॥ २६१ ॥

बीजं पिण्डं पदाख्यं च तथा मन्त्रं सलक्षणम् ।
भेदमेतद्धि मन्त्राणां फलं भेदेन चान्वितम् ॥ २६२ ॥

नानावाच्यस्वरूपेण यतस्सर्वेश्वरस्स्थितः ।
चतुष्प्रकारैरमलैर्वाचकैरुपचर्यते ॥ २६३ ॥

वाचकानां हि वाच्यानामेवमस्ति परस्परम् ।
आपेक्षिकं वैश्वरूप्यं संसिद्धे नियमे सति ॥ २६४ ॥

विना पिण्डाक्षरैर्ब्रह्मन् सञ्ज्ञाख्यैः पदलक्षणैः ।
स्वकैर्बीजाक्षरैः कुर्याद्वाच्यस्य परिकल्पनम् ॥ २६५ ॥

सोपाङ्गानां तु चाङ्गानां द्वादशानां स्वसञ्ज्ञया ।
केवलानां तु षण्णां वै पञ्चानामपि चेच्छया ॥ २६६ ॥

तेऽनुस्वारयुतास्सर्वे कार्याः प्रणवमध्यगाः ।
न्यासात्मवान्मनोमूर्तेस्सामान्याराधने परम् ॥ २६७ ॥

कर्मानुरूपमन्ते तु नमस्कारादिकं न्यसेत् ।
तथा फलाभिसन्धाने नमस्कारः प्रकीर्तितः ॥ २६८ ॥

सम्प्राप्तौ त्वणिमादीनां स्वाहाकारमुदीरयेत् ।
आप्यायने तु वै वौषट् सर्वत्र कमलोद्भव ॥ २६९ ॥

वश्यार्थे चापि विद्वेषे दुष्टोच्चाटनकर्मणि ।
हुम्फट्कारं च विहितमन्योन्यप्रीतये वषट् ॥ २७० ॥

तृप्त्यर्थे बलिदाने च तेजसो ह्यभिवृद्धये ।
ऋते सप्रणवाद्विप्र नमस्कारपदात्तु वै ॥ २७१ ॥

मन्त्राणां कर्मसन्यासकर्तॄणां जातयोऽपराः ।
निषिद्धास्तत्फलोपेतास्तथा सिद्धान्तिनां नृणाम् ॥ २७२ ॥

मन्त्रसिधान्तवेत्तॄणां मन्त्रज्ञानां विशेषतः ।
तथा तन्त्रान्तरज्ञानां मन्त्रिणां कमलोद्भव ॥ २७३ ॥

फलार्थिनामनुज्ञाताः कामभोगरतात्मनाम् ॥ २७४ ॥

विश्वास-प्रस्तुतिः

महातपस्य? याधीना मालामन्त्रादिकास्तु ये ।
श्रुतिमन्त्रैस्समोपेतास्तुतिमन्त्राश्च ये स्मृताः ॥ २७५ ॥

आवर्जयन्ति तद्ज्ञानां सततं चित्तमब्जज ।
नतिनः प्रणवाद्या ये त्यागपिण्डं तथाब्जज ॥ २७६ ॥

मन्त्राणां विविधार्थानां तेषां वै पारमेश्वरी ।
शक्तिर्नित्योदिता सूक्ष्मा सत्ताख्या ज्ञानलक्षणा ॥ २७७ ॥

आविश्वसाधनं कार्या तेषामिच्छा क्रियाब्जज ।
विकासयति सद्विप्र प्रदाने मुक्तयेऽपि च ॥ २७८ ॥

भक्तिक्रियापराणां च हितार्थं नित्यसेविनाम् ।
विद्वान् यथोक्तनीत्या तु ओषध्यो मूलमूर्ध्वगाः ॥ २७९ ॥

दग्धाग्निनापि कुर्वन्ति सम्यग्ज्ञातक्रिये भुवि ।
किं पुनस्त्वागमज्ञैस्तु भक्त्या तु विधिपूर्वकम् ॥ २८० ॥

प्। २३७)

विश्वास-प्रस्तुतिः

उपदेष्टा प्रबुद्धानां कुर्वन्ति च मनोहितम् ।
तेषां गन्ता रहस्सर्वं बद्धाद्यं शब्दडम्बरम् ॥ २८१ ॥

हितं यत्पदमन्त्राणां समाश्रित्यानुपूर्वकम् ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

ज्ञातुमिच्छामि भगवन् कालभेदेन वै सह ।
स्वरूपं मन्त्रसिद्धानामागमानां अय्थास्थितम् ॥ २८२ ॥

मूलम्

ज्ञातुमिच्छामि भगवन् कालभेदेन वै सह ।
स्वरूपं मन्त्रसिद्धानामागमानां अय्थास्थितम् ॥ २८२ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

कालमेकं द्विजश्रेष्ठं तद्व्यापारवशात् पुनः ।
भिन्नमाभाति कर्तॄणां भगवद्भाविनां तु वै ॥ २८३ ॥

नाडिकाकलितं यद्वै अहोरात्रं तु षडृतुम् ।
पञ्चधा विषमांशैस्तदाप्रभाताद्विभज्य च ॥ २८४ ॥

ब्राह्मं मुहूर्तमासाद्य मन्त्रज्ञः प्रयतश्शुचिः ।
शोधयित्वा स्वकं देहमायामाद्यैर्यथोदितैः ॥ २८५ ॥

मन्त्रविन्यस्तदेहोत्थं कुर्यान्मन्त्रार्चनं ततः ।
जपस्तोत्रावसानं च यावदादित्यदर्शनम् ॥ २८६ ॥

कुर्याद्भोगार्चनं पश्चात् पुष्पमूलफलादिकम् 17
गते दिनाष्टमे भागे स्नानपूर्वं समाचरेत् ॥ २८७ ॥

प्राग्वदाराधनं मन्त्रं तृतीयप्रहरावधि ।
ततश्चतुर्थप्रहरे शास्त्राध्ययनमाचरेत् ॥ २८८ ॥

चिन्तनं श्रवणोपेतं व्याख्यानं स्वधियेच्छया ।
अस्तङ्गते दिनकरे आसाद्याराधनालयम् ॥ २८९ ॥

कुर्यान्मन्त्रार्चनं सम्यग्जपध्यानसमन्वितम् ।
आसाद्य शयनं पश्चात् स्मरेन्मन्त्रेश्वरं हृदि ॥ २९० ॥

क्षपयित्वा निशांशं तु उत्थाय शयनात्ततः ।
योगं युञ्जीत वै मान्त्रं प्राग्वद्धृत्कमलोदरे ॥ २९१ ॥

तल्पमासाद्य वै भूयः प्रबुद्धः कमलोद्भव ।
उत्थाय शयनं त्यक्त्वा ततः पूर्वोक्तमाचरेत् ॥ २९२ ॥

कालभेदमिमं विद्धि शास्त्रभेदमथोच्यते ।
कर्तव्यत्वेन वै यत्र चातुरात्म्यमुपास्यते ॥ २९३ ॥

क्रमागतैस्स्वसञ्ज्ञाभिर्ब्राह्मणैरागमं तु तत् ।
विद्धि सिद्धान्तसञ्ज्ञं च तत्पूर्वमथ पौष्कर ॥ २९४ ॥

सिद्धान्तलक्षणम् 18

विश्वास-प्रस्तुतिः

नानाव्यूहसमेतं च मूर्तिशदशकं हि यत् ।
तथा मूर्त्यन्तरयुतं प्रादुर्भावगणं तु वै ॥ २९५ ॥

प्रादुर्भावान्तरयुतङ्घृ (वृ)तं हृत्पद्मपूर्वकम् ।
लक्ष्म्यादिशङ्खचक्राख्यगारुत्म्यसदिगीश्वरैः ॥ २९६ ॥

सगणैरस्त्रनिष्ठैस्तु तं विद्धि कमलोद्भव ।
मन्त्रसिद्धान्तसञ्ज्ञं च शास्त्रं सर्वफलप्रदम् ॥ २९७ ॥

विना मूर्तिचतुष्केण यत्रान्यदुपचर्यते ।
मन्त्रेण भगवद्रूपं केवलं यागसंयुतम् 19 ॥ २९८ ॥

युक्तं श्रियादिकेनैव कान्ताव्यूहेन पौष्कर ।
भिन्नैराभरणैरस्त्रैरावृतं च सविग्रहैः ॥ २९९ ॥

प्। २३८)

विश्वास-प्रस्तुतिः

तन्त्रसिद्धान्तसञ्ज्ञं 20 तच्छास्त्रं भोगापवर्गदम् ।
मुख्यानुवृत्तिभेदेन यत्र सिंहादयस्तु वै ॥ ३०० ॥

चतुस्त्रिद्व्यादिकेनैव योगेनाभ्यर्चिते तु वै (नतु) ।
संवृताः परिवारेण स्वेन स्वेनान्वि (स्थि) तास्तु वा ॥ ३०१ ॥

यच्छक्त्याराधितं सर्वं विद्धि तन्त्रान्तरं तु तत् ।
एवं नानागमानां च सामान्यं विद्धि सर्वदा ॥ ३०२ ॥

नामद्वयं च सिद्धान्तं पञ्चरात्रेति पौष्कर ।
एकैकं बहुभिर्भेदैरामूलादेव संस्थितम् ॥ ३०३ ॥

नानाशयवशेनैव सिद्धाद्यैः प्रकटीकृतम् ।
सङ्क्षिप्तं सप्रपञ्चं च तृतीयमुभयात्मकम् ॥ ३०४ ॥

ऐतिहासपुराणैस्तु वेदैर्वेदान्तसंयुतैः ।
ये जन्मकोटिभिस्सिद्धास्तेषां मन्तोऽत्र 21 वै स्मृतः ॥ ३०५ ॥

(य) तस्मात् सम्यक् परं ब्रह्म वासुदेवाख्यमव्ययम् ।
एतस्मात् प्राप्यते शास्त्राद् ज्ञानपूर्वेण कर्मणा ॥ ३०६ ॥

सिद्धान्तसञ्ज्ञा विप्रास्य सार्थका अत एव हि ।
पुराणं वेदवेदान्तं तथान्यत्साङ्ख्ययोगजम् ॥ ३०७ ॥

पञ्चप्रकारं विज्ञेयं यत्र रात्र्यायतेऽब्जज ।
फलोत्कर्षवशेनैव पञ्चरात्रमिति स्मृतम् ॥ ३०८ ॥

सदागमाख्यं मूलं तु परब्रह्मप्रकाशकम् ।
दिव्यसिद्धिप्रदं चैव शान्तिकृद्विघ्नकर्मणाम् ॥ ३०९ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां अधिकारनिरूपणं नाम

अष्टात्रिंशोऽध्यायः ॥ ३८ ॥

(समुदितश्लोकसङ्ख्या ३१३)

  1. ग्, घ्: निवेशनं यन्मन्त्राणाम् ↩︎ ↩︎

  2. सर्वत्र निषिद्धममलेक्षण इत्येवास्ति ↩︎ ↩︎

  3. क्, ख्: प्रवर्तिनाम् ↩︎ ↩︎

  4. क्, ख्: तन्मन्त्र ↩︎ ↩︎

  5. क्, ख्: वर्णव्यक्त * * * पन्नो ↩︎ ↩︎

  6. ग्, घ्: मामकीं दीक्षाम् ↩︎ ↩︎

  7. ग्, घ्: गतसन्तति ↩︎ ↩︎

  8. क्, ख्: नूनमानें विशत्युत ↩︎ ↩︎

  9. क्, ख्, ग्, घ्: आकर्णात् इत्यस्ति आकण्ठात् इति स्यात् ↩︎ ↩︎

  10. क्, ख्: व्यक्तिस्ते * * * तदा ↩︎ ↩︎

  11. क्, ख्: वनान्तर्गता ↩︎ ↩︎

  12. क्: कोशे अत्र पारमेश्वरोल्लासः इत्येतान्यक्षराणि सन्ति ↩︎

  13. क्, ख्: वराहानास्तु ? संशयः ↩︎ ↩︎

  14. ग्, घ्: मन्त्रज्ञस्तीव्रभ्क्तिव्रतः; घ्: मन्त्रज्ञस्तीव्र भक्तिप्रदः ↩︎ ↩︎

  15. ग्, घ्: भक्तियुक्तमसम्बोधम् ↩︎ ↩︎

  16. क्, ख्: सामर्थ्यादस्मान्नायान्ति ↩︎

  17. ग्, घ्: मूलजलादिकम् ↩︎ ↩︎

  18. क्: अत्र इमान्यक्षराणि सन्ति ↩︎

  19. वाङ्गसंवृत्तम् इति पाठान्तरम् ↩︎ ↩︎

  20. तन्त्रसञ्ज्ञं हि तच्छास्त्रं परिज्ञेयं हि चाब्जज । इति पाठान्तरम् ↩︎ ↩︎

  21. मन्तेऽत्र संस्थितिः इति पाठान्तरम् ↩︎ ↩︎