अथ सप्तत्रिंशोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
पादमुद्राङ्कितानां च उपलानां जगत्प्रभो ।
चक्रपद्माङ्कितानां च न्यासं संस्कारपूर्वकम् ॥ १ ॥
मूलम्

आधाराणां तथान्येषां ज्ञातुमिच्छामि साम्प्रतम् ।
एवं चानादिसिद्धानां पाषाणानां जगत्पते ॥ २ ॥

शङ्खाद्यैरङ्कितानां च लाञ्छनैः पारमेश्वरैः ।
प्राप्तैस्सम्पूजनार्थं तु गृहस्थैर्वा वनस्थितैः ॥ ३ ॥

अन्येषां चैवमादीनां यागनिष्पत्तये तु वै ।
चलानामचलानां च संविधानं ममादिशं ॥ ४ ॥

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
आपादितं पुरा द्रव्यं शिल्पिना च यतात्मना ।
कृत्वा संस्कारसंशुद्धं द्रव्यैः प्राङ्मन्त्रभावितैः ॥ ५ ॥

यत्र यत्रानुरूपं च तत्र तन्न्यासमाचरेत् ।
तदानुग्रहशक्त्यन्तमाक्षितेः कमलोद्भव ॥ ६ ॥

मन्त्राणां सन्निधिः कार्यश्चलपीठे तु केवले ।
तात्कालिकं तु विहितं निरोधं तत्र चार्चनम् ॥ ७ ॥

आधारशक्तेरारभ्य मन्त्रग्रामस्य पौष्कर ।
सुस्थिरे सन्निरोधं च सर्वेषां विहितं सदा ॥ ८ ॥

तत्रावाह्य यजेन्मन्त्रमिष्ट्वा चोत्थापयेत् पुनः ।
न हितं पूज्यमन्त्रस्य पूजाकालं विनाब्जज ॥ ९ ॥

साधनात् सन्निमित्तत्वात् ज्ञानेनात्र निरोधनम् ।
पुष्पाद्याहरणे काले प्रत्यहं परमेश्वरः ॥ १० ॥

अनुग्रहपरस्त्वास्ते स तत्रैव खशब्दवत् ।
चलबिम्बेन सह वै एकीभावगतस्य वा (वै) ॥ ११ ॥

पीठस्य मन्त्रविन्यासं विहितं चलपीठवत् ।
सुस्थिरस्यैकयोनेर्वा वियोगे सुस्थिरस्य च ॥ १२ ॥

मन्त्राणां विहितं न्यासं स्थिरपीठोदितं तु वै ।
आपादाद्ब्रह्मरन्ध्रान्तं चलबिम्बस्य पौष्कर ॥ १३ ॥

प्राकृतानां तु तत्त्वानां कुर्याद्वै सन्निवेशनम् ।
क्षित्यादिकानां पादान्तमव्यक्ताद्वाधरान्तिमम् 1 ॥ १४ ॥

सर्वतत्त्वमयं मन्त्रं तस्य वा केवलं हृदि ।
प्राधानिकं योजनीयमभिन्नं तत्त्वकारणम् ॥ १५ ॥

अथेज्यावसरे प्राप्ते मन्त्रतन्त्रे नियोजयेत् ।
जडत्वविनिवृत्त्यर्थं तत्त्वमन्त्रगणस्य च ॥ १६ ॥

जीवभूतं तु तं विप्र नित्यं शुद्धं सदोदितम् ।
साङ्गमावाह्य मन्त्रं च लाञ्छनाद्यैः परिष्कृतम् ॥ १७ ॥

उपसंहृत्य तत्रस्थं निष्पन्ने वार्चने सति ।
विन्यासमुपसंहारं मान्त्रं यत्समुदीरितम् ॥ १८ ॥

तीर्थक्षेत्रधराणां च विहितं तत्प्रवासनम् 2 ।
नित्यप्रतिष्ठिते बिम्बे प्रासादे स्वगृहेऽपि वा ॥ १९ ॥

अन्यत्र वाङ्कणादौ तु तस्य कुर्यान्निरोधनम् 3 ।
आधारपीठमन्त्रैस्तु लाञ्छनीयैस्स्वकैस्सह ॥ २० ॥

प्। २२३)
विश्वास-प्रस्तुतिः
अस्थिराणां प्रतिष्ठानां विशेषमिदमाचरेत् ।
यथोदिते तु सम्पन्ने स्थापिते परमेश्वरे ॥ २१ ॥

कुर्यात्ततोऽनुवेधं च आधाराच्च 4 शिखा(व)विधि ।
सामर्थ्यशक्तसूत्रेण ईश्वरेणाक्षयेन च ॥ २२ ॥

सति येन विलुप्तस्य बिम्बाद्यैरन्वितस्य च ।
न जहाति च मन्त्रौघस्तस्य कालान्तरेण च ॥ २३ ॥

अप्रबुद्धः प्रबुद्धो वा तस्मिन्नायतने पुमान् ।
निवेशयति यो बिम्बमपरं द्रव्यजं तु वा ॥ २४ ॥

तद्विज्ञानानुविद्धं च जायते समनन्तरम् ।
एवंविधस्य ज्ञानस्य त्रैलोक्येऽस्मिन् हि पद्मज ॥ २५ ॥

प्रतीत्यायतनत्वेन भवत्याचन्द्रतारकी ।
सन्निवेशं जगद्धातुर्यत्र यत्सिद्धसेवितम् ॥ २६ ॥

तदसिद्धैर्न नेतव्यमन्यथात्वं * * * * * * * * 5 ।
यस्तज्ज्ञस्तत्वविद्भक्तः श्रद्दधानस्सदास्तिकः ॥ २७ ॥

बुध्वावनिविपर्यासमेकं कालान्तरोद्भवम् ।
प्रयत्नैस्सुचिकित्स्यं यत्तदन्तर्धानशङ्कया ॥ २८ ॥

प्रसन्नाद्यैस्समादाय तदाज्ञां व्रतपर्विकाम् ।
प्रणवेन महायोगं 6 पूर्वं पूर्णान्तमर्चनम् ॥ २९ ॥

समापाद्य सदानं च सन्निवेश्यासने परे 7 ।
अन्यथा जायते तस्मिन् सन्देहं परमेश्वरम् ॥ ३० ॥

व्याधितस्करदुर्भिक्षराष्ट्रभङ्गपुरस्सरम् ।
आगामि वर्तमानं च देशभङ्गाद्युपप्लवैः ॥ ३१ ॥

चलनं विधिपूर्वं तु कृतं नानिष्टदं भवेत् ।
पुनरन्यत्र वा तस्मिन् स्थाने कुर्याच्च योजनम् ॥ ३२ ॥

यथाशास्त्रोक्तविधिना सम्यगुत्सवपूर्वकम् ।
किन्तु प्रबोधयेन्मन्त्रं तन्त्रं यत्सत्क्रियां विना ॥ ३३ ॥

स्थितं शान्तसमानौ तु आश्रयेचाक्षये सति ।
चालनाद्विधिनिर्मुक्ताद्दोषस्सञ्चालकस्य यत् ॥ ३४ ॥

तद्धोमार्चनदाने तु स्थापनात् प्राक्समं नयेत् ।
सुस्थिरं वाचलं बिम्बं तत्र कृत्वा निवेश्य च ॥ ३५ ॥

गोभूसुवर्णदानं 8 च यथाशक्त्या समाचरेत् ।
धातुमृछैलदारूत्थं 9 वस्त्रादिष्ववतारितम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
अकस्माद्भगवद्बिम्बं धत्ते वै म्लानतां यदि ।
व्यत्ययात्तत्क्रियालोपादकालपरिपूजनात् ॥ ३७ ॥

महद्भयं सराष्ट्रस्य पूजकस्य जनस्य च ।
तस्मान्मन्त्रवरं साङ्गं तन्त्रसंशोधितं च यत् ॥ ३८ ॥

कलशे मण्डलेऽग्नौ तु सप्ताहं तर्पयेत् क्रमात् ।
हेमन्तशैशिरे काले दैवीमर्चां तु शैलजाम् ॥ ३९ ॥

स्नापयित्वार्चयित्वा च विधिदृष्टेन कर्मणा ।
सुवस्त्रवेष्टितां कृत्वा गव्येन हविषा ततः ॥ ४० ॥

आपीठात् पिण्डतां नीत्वा रञ्जयेच्चन्दनादिना ।
पत्रच्छेदमयैः पुष्पैस्सिताद्यैरपि(ःपिचु) निर्मितैः ॥ ४१ ॥

नानादेशोद्भवैश्चान्यैस्सितैः पीतादिकैः 10 शुभैः ।
छायामारुतसंशुष्कैः 11 हरितैर्भेदसंयुतैः ॥ ४२ ॥

पूजां यथोदितां कृत्वा भूषणैर्विविधैस्सह ।
वाससा स्थूलशुक्लेन कार्पासेनावकुण्ट्य च ॥ ४३ ॥

कुङ्कुमेनामलेनैव कम्बलेनाविकेन वा ।
सितेन सुघनेनैव अभुक्तेनाहतेन च ॥ ४४ ॥
मूलम्
कुङ्कुमेनामलेनैव कम्बलेनाविकेन वा ।
सितेन सुघनेनैव अभुक्तेनाहतेन च ॥ ४४ ॥
प्। २२४)
विश्वास-प्रस्तुतिः
शीतकाले ह्यतीते तु अपनीय 12 ज्य ? कम्बलम् ।
पावनार्थं द्विजेन्द्राणां नृपाणां भावितात्मनाम् ॥ ४५ ॥

भक्तानां नागरादीनां यच्छेत् सम्प्रार्थितं क्रमात् ।
भूतयेऽशुभशान्त्यर्थं रक्षार्थं प्रार्थनं 13 क्रमात् ॥ ४६ ॥

विजयेनापमृत्यूनां व्याधीनामुपशान्तये ।
प्राप्ते निदाघकाले तु प्रत्यहं शीतवारिणा ॥ ४७ ॥

यथोक्तेन विधानेन कुर्यात् स्नानमधिक्रमात् 14 ।
मसूरमाषणूर्णेन रजनीशालिजेन च ॥ ४८ ॥

समुद्वर्त्य च सङ्क्षाल्य हविषाभ्यञ्जनादिना 15 ।
वाससा निर्मलं कृत्वा चन्दनेन सितेन च ॥ ४९ ॥

शीतकेनोदकेनाथ क्षलनीयं तदालयम् ।
सम्मार्ज्य गोमयेनैव कृत्वा बाह्योपलेपनम् ॥ ५० ॥

विकीर्य पत्रपुष्पाणि कुमुदोत्पलपङ्कजान् ।
जलार्द्रैस्तालवृन्तैस्तु बीजयेद्बिम्बमाच्युतम् ॥ ५१ ॥

स्तुत्वा च विविधैस्स्तोत्रैस्स्वरेणोच्चतरेण तु ।
ततः प्रदक्षिणीकृत्य द्विचतुस्सङ्ख्ययाब्जज ॥ ५२ ॥

नैकं त्रिपञ्चसङ्ख्यं च गणनाविषमं च यत् ।
यतस्समो हि भगवान् देवस्सर्वस्य वै हरिः ॥ ५३ ॥

सन्यासी दण्डवत्कुर्यात् प्रणिपातं च सर्वदिक् ।
प्रदक्षिणसमोपेतं बहुधोत्थाय चाअग्रतः ॥ ५४ ॥

विहितं स्नातकादीनामन्येषामेवमेव हि ।
सहान्तःकरणेनैव भक्तियुक्तेन चेतसा ॥ ५५ ॥

नतपृष्ठशिरोजानुललाटतटहृत्करः ।
गृहस्थ आचरेन्नित्यं प्रणामं सप्रदक्षिणम् ॥ ५६ ॥

स्मरन्नष्टाक्षरं बुद्ध्या असकृत् वितते क्षितौ ।
सङ्कटे सति भूभागे भगवत्यग्रतः स्थितः ॥ ५७ ॥

यथा तु भक्तितः कुर्याद्बध्वा तु करसम्पूटम् ।
हृद्देशे मूर्ध्नि 16 कम्पैस्तु सह सर्वेश्वरं स्मरेत् ॥ ५८ ॥

कृतेनानेन विधिना स्वशक्त्या बलितेन वा ।
यथेष्टं फलमाप्नोति पुमान् भक्तिक्रियापरः ॥ ५९ ॥

निष्कामश्शाश्वतं स्थानं प्राप्नुयात् सुरपूजितम् ।
भक्तैस्सम्पूजितं भक्त्या ये पश्यन्ति जगत्प्रभुम् ॥ ६० ॥

श्रद्धया चानुमोदन्ते तेऽपि तत्फलभागिनः ।
संसारक्षयमक्षय्यं ? कर्मिणां क्षयमेति च ॥ ६१ ॥

द्विविधेन ह्युपायेन नान्यथा तु कथञ्चन ।
समन्त्राच्च 17 क्रियाकाण्डात् सम्पूर्णात् पञ्चलक्षणात् ॥ ६२ ॥

सम्यग्बोधपरिज्ञानात् भगवद्भक्तिरञ्जनात् ।
कर्मणा मनसा वाचा यो नित्यं भगवन्मयः ॥ ६३ ॥

शासने त्वधिकारीणामवतिष्ठेत्तु तत्त्वतः ।
पारम्यं वेत्ति शास्त्रस्य मोक्षदस्याच्युतस्य च ॥ ६४ ॥

सोऽचिराच्छुद्धिमाप्नोति दुष्कृतात् पूर्वसञ्चितात् ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां आयतनविचारो नाम
सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
(समुदितश्लोकसङ्ख्या ६४ ॥)