३६ अध्यायः

अथ षट्त्रिंशोऽध्यायः

पौष्कर उवाच

विश्वास-प्रस्तुतिः

भगवन् ज्ञातुमिच्छामि त्वया यत्समुदीरितम् ।
महात्मनोऽनुविद्धं च लक्षणेनोपलक्षितम् ॥ १ ॥

मूलम्

यद्यद्वा?यतनं दिव्यं सिद्धायतनमेव च ।
नृणामुपायभूतं 1 यदज्ञानां ज्ञानिनामपि ॥ २ ॥

यत्राराधनपूर्वं हि मान्त्रमभ्येति मन्त्रिणाम् ।
शश्वत्प्रसन्नता देव तथा तत्त्वजयो महान् ॥ ३ ॥

निर्विघ्नेन भवत्याशु स्नातकब्रह्मचारिणाम् ।
यतीनां मुक्तसङ्गानां विरतानां गृहाश्रमात् ॥ ४ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

आक्षितेर्भेदभिन्नं वै मायामयमिदं जगत् ।
क्षेत्राख्यैर्भगवत्तत्त्वैः क्षेत्रनाथसमन्वितैः ॥ ५ ॥

नानाविभवरूपैस्तु व्याप्तव्यूहात्मपूर्वकैः ।
नित्यनिर्मलषाड्गुण्यविग्रहैस्तैस्स्वयं पुनः ॥ ६ ॥

अनुग्रहार्थं भविनामकृतज्ञाल्पमेधसाम् 2
भक्तानामप्यभक्तानां नास्तिकानां तथैव च ॥ ७ ॥

भूचक्राक्षं गते द्वीपे ह्यनादिप्रथितं हियत् ।
क्षेत्रं स्वकर्मफलदं पुण्यं 3 परिमितं तु वै ॥ ८ ॥

नृणामनुग्रार्थं तु स्थानभेदैरधिष्ठितम् ।
अमूर्तेस्तु स्वसञ्ज्ञाभिः कारुण्यात् क्षेत्रसत्तमैः ॥ ९ ॥

तथा क्षेत्राधिपैः किन्तु मूर्तैर्युक्ता नवाब्जज ? ।
बीजभावेन भूमौ वा स्थितिं कृत्वा स्थितां (राम्) ततः ॥ १० ॥

ज्ञानाद्यैर्वाणिमाद्यैस्तु अव्यक्तैः क्ष्मानलादिकैः ।
तत्त्वबीजकलारूपैर्ब्रह्मसत्तासमन्वितैः ॥ ११ ॥

सहावतीर्य चासृष्टेः प्राग्व्यक्तिं 4 यान्ति वै ततः ।
स्वयमेवात्मभावेन 5 सर्वानुग्रहकाम्यया ॥ १२ ॥

क्ष्मामण्डलोपसंहारकालं क्षेत्रवरैस्सह ।
वशित्वावरदेहांस्तु प्रधानमुनि * * * ? ॥ १३ ॥

स्वस्मिम् स्वस्मिन् हि युगपत् क्षेत्रे क्षेमगतिप्रदे ।
स्वकामनैकभूतां च ? चैवाभिममानिकीम् ॥ १४ ॥

कृत्वा वै व्यक्तिभावं च प्रमाणैरुत्तमादिकैः ।
यथाकालानुरूपैश्च वासुदेवोपलालात्मना ॥ १५ ॥

अतस्तद्रूपनाम्ना वै ख्याता क्षेत्रेश्वरा भुवि ।
प्रख्यातास्तुल्यनाम्नान्ये देवस्सायतनस्तु वै ॥ १६ ॥

एवं क्षेत्रेश्वरैः क्षेत्रैः कर्मभूमिरधिष्ठिता ।
क्षेत्रैरमूर्तैश्चिद्रूपैर्मूर्तैः क्षेत्राधिपैस्तथा ॥ १७ ॥

इति यक्त्यावतीर्णा ये क्षेत्राणां क्षेत्रनायकाः ।
तेऽपि कालान्तरेणैव स्वयं दोषं शिलामयम् ॥ १८ ॥

बुध्वान्तर्धानमायान्ति देशभङ्गादिकैर्द्विज ।
विचारैः प्रचुरैः र्भूयः प्राग्वद्व्यक्तिं व्रजन्ति च ॥ १९ ॥

प्। २०३)

विश्वास-प्रस्तुतिः

स्वयं चावानियात्तु स्वसामर्थ्येन चोदयेत् ।
कुर्वन्नम्बुनिधेर्यद्वदम्बुदौघनचोदितम् ॥ २० ॥

इति मत्प्रतिनाम्? स्वप्ने प्रत्यक्षतोऽपिवा ।
वदन्ति योगक्षेमाद्यं स्वयं वा तन्मयात्मनाम् 6 ॥ २१ ॥

तत्तत्वेतिभक्तानां सस्यार्थं सर्वदा भवेत् ।
असत्यार्थमतोऽन्येषां किन्तु पुष्करसम्भव ॥ २२ ॥

इत्युत्कर्षं भवेषामस्तित्वेन समन्वितम् ।
निरासार्थमभक्तानां नास्तिकत्वेन वासना ॥ २३ ॥

तुष्टये ह्यास्तिकानां तु तीर्थादीनां हि सिद्धये ।
क्षेत्रेशा वासुदेवाषुदेवास्ते स्थिताश्चोपलकुक्षिषु ॥ २४ ॥

क्वचित्साक्षात्तथा चक्रशङ्खपद्मगदात्मना ।
विशेषेण त्रिकूटे तु पिस्रैरैवतके तु वै ॥ २५ ॥

सालग्रामे तु सह्यद्रौ तथा विष्णुपदे द्विज ।
व्यावर्ते चैव कृष्णाश्वे कुक्षौ तु हिमाचले ॥ २६ ॥

महेन्द्रे मलये विन्ध्यरियात्रेऽथवार्वुदे 7
सत्यव्रतस्थे हस्त्यद्रौ विकटे 8 पर्वतोत्तमे ॥ २७ ॥

सिंहाचले मन क्षेत्रे पुण्ये वा सुमनोहरे ।
एवं कमलसम्भूत वासुदेवैरधिष्ठिते ॥ २८ ॥

अनेकाकृति भेदैत्यैरेनैकेन केनचित् ।?
अयत्नात् कल्पिते क्षेत्रे स्वबुध्या तु व्रजन्ति ये ॥ २९ ॥

अश्रित्य क्षेत्रनाथं तु विषयन्ते च तत्र ये ।
अवसाने तु वा चान्ये धरांशे मध्यमे तु वा ॥ ३० ॥

आद्ये वा देवदृष्टे ते प्रयान्ति क्रमेण तु ।
तस्य वै क्षेत्रनाथस्य सतत्त्वक्ष्मागतस्य च ॥ ३१ ॥

तत्सालोक्यं तु सामीप्यं सायुज्यमलेक्षणा ।
परिग्रहविहीनं च विवेकरहितं जनम् ॥ ३२ ॥

शरणागतभूतं तु अपि चेन्नास्तिकं पुरा ।
तथान्तिकं श्रद्धधानं निश्चेष्टं चापि पौष्कर ॥ ३३ ॥

विसञ्ज्ञं बन्धुभिर्नीतं कारुण्यात्कमलोद्भव ।
त्राहीत्युक्त्वा जगन्नाथं क्षिप्त्वा स्त्रीबालपूर्वकैः ॥ ३४ ।

ज्ञात्वा विमुक्तदेहं तं सह पुर्यष्टकेन तु ।
महता तूर्यघोषेण कृत्वा रथवरे तु वै ॥ ३५ ॥

जित्वान्तकभटात्रौद्रान् बलात् क्षेत्रेशङ्किङ्करैः ।
नृसिंहकपिलक्रोडवामनाश्वशिरोमुखैः ॥ ३६ ॥

ससौम्यवदनैः पद्मशचक्रगदाधरैः ।
सीरनन्दकधृग्वज्रपाशाङ्कुशधनुर्धरैः ॥ ३७ ॥

मुसलादितथादण्डहस्तैश्च गरुडाननैः ।
आनीय क्षेत्रनाथस्य अभिगच्छापयन्ति च ॥ ३८ ॥

देव क्षेत्रे त्वदीयेऽस्य विमुक्तं 9 पाञ्चभौतिकम् ।
शरीरमद्यानाथस्य कुरु श्वशद्यथोचितम् ॥ ३९ ॥

क्षेत्रनाथस्तु * * * समाकर्ण्य 10 गणेरितम् ।
करुणानुगतेनैव तं निरीक्ष्य तु चक्षुषा ॥ ४० ॥

कृतं विनपापं तु तस्मिन्नायतने पुरा ।
सम्प्राप्तस्य स्वके स्थाने दोषशेषं हि वै पुनः ॥ ४१ ॥

संसर्गोलयं नीत्वा क्रमात् कालान्तरेण वै ।
द्वाभ्यामेवं प्रकारेण यदन्यच्चात्मसात् कृतम् ॥ ४२ ॥

तपं लिङ्गवशात्कृष्य स्वशक्त्या च स्वविग्रहात् ।
संस्कारयोग्यतां ज्ञात्वा सम्यज्ज्ञानाप्तये तु वै ॥ ४३ ॥

ददाति कर्मभूमौ तु जन्म 11 सत्कर्मिणा कुले ।
स्वक्षेत्रे वा परक्षेत्रे तत्र सालोकनं हि यत् ॥ ४४ ॥

प्। २०४)

विश्वास-प्रस्तुतिः

कालात् प्राप्ताधिकारश्च कृत्वा व्याप्तां समासतः ।
यथोचितमनुष्ठानं त्रयोदशवि(धं)शुभम् ॥ ४५ ॥

तत्तेन कृतकृत्यं स्यात्तदर्धेन तु चापरम् ।
तृतीयमब्जसम्भूत सम्यज्ज्ञानेन युज्यते ॥ ४६ ॥

ज्ञा(न)तमात्रं हि वै कालादिन्द्रियव्यक्तिलक्ष(णं)णात् ।
स्वयं चीर्णव्रतं प्राग्वत्तत्क्षेत्रे बुद्धिपूर्वकम् ॥ ४७ ॥

तीव्रभावेन वै पश्चाद्देहत्यागं व्रतादिना ।
कुर्यात् क्षेत्राधिपस्याग्रे तद्वत्तं गतकल्मसम् ॥ ४८ ॥

पृथग्देहारणीं कृत्वा ज्ञानं यद(धर्म)मलं शुभम् ।
12 तस्योपदिशत्याज्यं ? तत्रै(वे)व कमलेक्षण ॥ ४९ ॥

यत्प्राप्य परमं धाम वासुदेवाख्यमेव च ।
योगिनां तीर्थपुण्यानि ब्रह्मन्नापतितानि च ॥ ५० ॥

सदाप्याधारभावेन ह्यङ्गभावं व्रजन्ति वै ।
योगोत्कृष्टप्रकृष्टं च प्राप्यन्ति ज्ञानिनोऽपि ये ॥ ५१ ॥

शश्वज्ज्ञानसमाकीर्णं निर्विघ्नेनाप्नुवन्ति च ।
एवमाया(य)तनात् ब्रह्मन्नुपायं भविनां परम् ॥ ५२ ॥

यतोऽस्ति च अतो हेतोस्सेवनीयं सदैव हि ।
अभिजातस्य बीजस्य यथामलमरीचयः ॥ ५३ ॥

मूलम्

यतोऽस्ति च अतो हेतोस्सेवनीयं सदैव हि ।
अभिजातस्य बीजस्य यथामलमरीचयः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

प्रारोहजननीं शक्तिं सन्तापात् 13 ध्वंसयन्ति च ।
विना स्वरूपहानेर्वै साम्प्रतं ह्येवमेव हि ॥ ५४ ॥

स्वप्रभावेन वै सम्यक् स्वशक्तिकिरणैश्शुभैः ।
प्रक्षीणकल्मषं कृत्वा क्षेत्रे वै क्षेत्रवासिनाम् ॥ ५५ ॥

कुर्वन्त्यनुग्रहं पश्चात् क्षीणपापस्य तस्य च ।
मृदम्बुहुतभुग्वात्पातैर्गगनलक्षणैः ॥ ५६ ॥

प्रसिद्धयन्त्रितं ह्यत्र असिद्धं तद्वयं शृणु ।
यदन्नाम्बुपरित्यागाद्वातं तद्वातसञ्ज्ञितम् 14 ॥ ५७ ॥

सर्वद्वारोपरोधेन यत्त(त्न)न्नाभासमुत्तमम् ।
कालं वा देहपातीयं सम्यज्ज्ञात्वात्र पौष्कर ॥ ५८ ॥

कार्यमासादने य(त्नं)त्नात्तत्र भक्त्या शुभैषिणा ।
यदि न प्राप्नुयाच्चैव जन्माभ्यासादवाप्यते ॥ ५९ ॥

विलयं यान्ति वै येन त्राहि जन्मनि जन्मनि ।
कृतबुद्धेर्मनुष्यस्य पापेनातिबलीयसा ॥ ६० ॥

न सञ्जाता च तत्प्राप्तिर्यद्यप्यब्जसमुद्भव ।
न शासनस्य घोरस्य आन्तकस्य स भाजनम् ॥ ६१ ॥

मान्यो यमभटानां च यज्ञयाजी यथा पुमान् ।
आस्तां हि तावन्मनुजा नियमाद्यैरलङ्कृताः ॥ ६२ ॥

भावभक्तिविशेषाढ्या 15 प्राणिनोऽन्येपि तत्र ये ।
प्राक्संस्कारवशाज्जातास्तेऽपि जात्यन्तरं पुनः ॥ ६३ ॥

नाप्नुवन्ति 16 विप्र सद्विवेकविवर्जिताः ।
मम भक्तायतानां ? च इत्येषां यस्तु विन्दति ॥ ६४ ॥

नृणां मध्ये स धन्यो वै दुष्कृतैर्नातिबाध्यते ।
कर्मणां वै ह्यभुक्तानां न नाशोस्ति च यद्यपि ॥ ६५ ॥

तानवं क्षेत्रमाहात्म्यप्रभावात्सम्प्रयान्ति ते ।
जन्माभ्यासवशेनैव नूनं कर्मक्षयो भवेत् ॥ ६६ ॥

सामर्थ्यात् क्षेत्रनाथानां सक्षेत्राणां महामते ।
क्षेत्रेष्वेवम्प्रकारेषु दानं यच्छन्ति येऽर्थिनाम् ॥ ६७ ॥

विभोराराधनार्थं तु भक्त्या कुर्वन्ति वा तपः ।
साधयन्ति च मन्त्रेशं तर्पयन्ति तिलादिभिः ॥ ६८ ॥

प्। २०५)

विश्वास-प्रस्तुतिः

ये यजन्ति मखैर्देवान् लभन्ते तेऽखिलं फलम् ।
द्वादशाक्षरपूर्वैस्तु प्रसिद्धैः कमलोद्भव ॥ ६९ ॥

मन्त्रैर्जितन्तामन्त्रान्तैः प्राप्तैर्वाथ गुरोर्मुखात् ।
स्वकेन मन्त्रमुख्येन विधिवत्परमेश्वरम् ॥ ७० ॥

आराध्यायतनस्थम् च यत्किञ्चिदधिकारिणाम् ।
द्विजेन्द्रद्विजमुख्यानां 17 दीयते पाञ्चकालिनाम् ॥ ७१ ॥

तदक्षयं परिज्ञेयं भवभोगाभिलाषिणाम् ।
दानान्निवृत्तरागाणां तत्पुनर्मोक्षसिद्धये ॥ ७२ ॥

ग्राममण्डलदेशान्तर्मदायतनवासिनाम् ।
दत्तमात्मसमैः ? भूत्यै 18 बहुभिर्नीरुजोऽश्नुते ॥ ७३ ॥

सम्पुर्णासु स्वशक्त्या च नित्यं जन्मनि जन्मनि ।
अनन्तभविकं विद्धि तद्दिव्यायतनात्पुनः ॥ ७४ ॥

विज्ञेयं लक्षभविकं तत्सिद्धायतनात्तु वै ।
सहस्रभविकं विप्र विप्रप्रवरकल्पितात् ॥ ७५ ॥

दशाङ्गभविकं तद्वै कृतं यत्क्षत्रियेन तु ।
तदर्धभविकं विद्धि सद्वैश्यपरिकल्पितात् ॥ ७६ ॥

सच्छूद्रकल्पिते विप्र दत्तमायतने तु वै ।
द्विषट्कभवनं तद्वै दानं ज्ञेयं द्विजोत्तम ॥ ७७ ॥

अनन्यशरणेभ्यो वै वर्णेभ्यः परिकल्पिते ।
द्विजेन्द्रायतने दत्तं फलं तत्पुनरेव हि ? ॥ ७८ ॥

व्यामिश्रयाजिभिर्वणैर्निर्मितायतनास्तु ये ।
पूर्वोक्तेभ्यः प्रयच्छन्ति तदर्धभविकं क्रमात् ॥ ७९ ॥

फलकामफलेप्सूनां निष्कामानां हि पौष्कर ।
सर्वायतनगो देवस्सर्वमूर्तिष्ववस्थितः ॥ ८० ॥

मूर्त्यन्तरगतश्चापि प्रादुर्भावगतस्त्वपि ।
प्रादुर्भावान्त(रा)या ? वृत्तिं ददाति परमं पदम् ॥ ८१ ॥

आचर्तव्यमतस्तस्माद्यत्नेन महता 19 द्विज ।
मन्त्राराधनपूर्वेण कर्मणा 20 चि * * * * लक्षयम् ॥ ८२ ॥

तस्माद्विमुक्तरागाणां नृणामच्युतयाजिनाम् ।
व्यज्यते स्वात्मवृत्तिस्थं वासुदेवमजं विभुम् ॥ ८३ ॥

तदधिष्ठितचित्तस्तु यत्र यत्र यजेद्बहिः ।
तत्र तत्र तदा तेषां व्यज्यते ब्रह्म शाश्वतम् ॥ ८४ ॥

देवायतनजातानां नृणामशुभकारिणम् ।
मृतानां तत्र बाह्य (न्य)त्र ज्ञातुमिच्छाम्यहं गतिम् ॥ ८५ ॥

मूलम्

देवायतनजातानां नृणामशुभकारिणम् ।
मृतानां तत्र बाह्य (न्य)त्र ज्ञातुमिच्छाम्यहं गतिम् ॥ ८५ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

केन चित् प्राक्तनेनैव कर्मणाऽविमलेन च ।
आचरन्त्यब्जसम्भूत मतेर्वै दुष्कृतं पुनः ॥ ८६ ॥

ज्ञात्वापि ज्ञेत्रमाहात्म्यं विवशात्तु बलात्तु वै ।
तं म्रियन्तं च तत्रास्थे ? जन्माभ्यासवशेन तु ॥ ८७ ॥

क्षेत्रे च पापतस्तेषां सङ्क्षिपत्यन्तकस्य च ।
शश्वद्दुष्कृतशान्त्यर्थं उपायैर्नातिशासनैः (श्वतैः) ॥ ८८ ॥

त्वमेव तेषां कुरु(षे)षु ? भुक्तशेषं हि कल्मषम् ।
शमयत्यचिरादेव आचरन्ति यथाशुभम् ॥ ८९ ॥

भूयः प्राप्तेन देहे(भोगे)न अस्मदीये परिग्रहे ।
स चाज्ञां शिरसा तां वै कृत्वा चैव महामते ॥ ९० ॥

करुणानुगतेनैव संशोधयति चेतसा ।
एवं विगतदोषास्ते यान्ति कालान्तरेण तु ॥ ९१ ॥

प्। २०६)

विश्वास-प्रस्तुतिः

सा * * * * 21 च साकल्यात् सत्सम्पर्काद्विशेषतः ।
प्रक्षीणकल्मषा नूनं पुनरायान्ति वैदिकीम् ॥ ९२ ॥

समाचरन्ति तद्वस्तु सायुज्यं यान्ति येन वै ।

पौष्कर उवाच

विश्वास-प्रस्तुतिः

तदुत्पन्ना विपद्यन्ति पापिष्ठा ह्यत्र वै यदि ।
कागतिर्भवते तेषां नराणामतिपापिनाम् ॥ ९३ ॥

मूलम्

तदुत्पन्ना विपद्यन्ति पापिष्ठा ह्यत्र वै यदि ।
कागतिर्भवते तेषां नराणामतिपापिनाम् ॥ ९३ ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

शोधयत्यन्तकस्तेषां दुष्कृतिं नातिशासनैः ।
गतदोषास्समायान्ति मानुष्यं हि तदा पुनः ॥ ९४ ॥

मतिर्देहविपत्यर्था तीव्रेण मनसाब्जज ।
प्रयाति पूर्ववच्छुद्धिं यथा दुष्कृतिनो नराः ॥ ९५ ॥

तत्र जाताश्च निर्दोषा येऽन्यत्र विलयं गताः ।
प्रयान्ति साम्प्रतं ते वै विमानैरन्तकास्पदम् ॥ ९६ ॥

सम्पूजत्यसौ तेषां ब्रूयाद्बद्धाञ्जलिस्ततः ।
स्थानमायतन * * * * भगवन्तं 22 व्रजन्तु वै ॥ ९७ ॥

सालोक्यसञ्ज्ञं विमलं भवबन्धक्षयङ्करम् ।
मदीयदशितेनैव मार्गेणानेन साधुना ॥ ९८ ॥

मूलम्

सालोक्यसञ्ज्ञं विमलं भवबन्धक्षयङ्करम् ।
मदीयदशितेनैव मार्गेणानेन साधुना ॥ ९८ ॥

विश्वास-प्रस्तुतिः

भवतां सम्प्रयातानां शुभं तत्र भविष्यति ।
तद्वासिनां यथान्येषां भगवत्तत्त्ववेदिनाम् ॥ ९९ ॥

एवमब्जसमुद्भूत फलमायतनाद्भवेत् ।
नराणां निर्विवेकानां तदन्येषां 23 तु किं पुनः ॥ १०० ॥

क्षितिः पादौ च स्वं नाभिर्द्यौश्शिरश्शशिभास्करौ ।
नेत्रे लोका महत्पूर्वा विभोर्यस्य शिरोरुहाः ॥ १०१ ॥

दिशश्श्रोत्रे भुजाश्चैव विदिशस्सर्व एव हि ।
आधारशक्तिपर्यन्तं यस्य पातालसन्नतिः ॥ १०२ ॥

स्थितिः पादतलोद्देशे नित्याकृतिधरस्य च ।
विभोर्वै राजमानस्य सर्वगस्य महात्मनः ॥ १०३ ॥

सर्वं पदात्मकं यस्माद्भक्तानामत एव हि ।
नह्यनायतनं देशमास्तिकानां द्विजास्ति वै ॥ १०४ ॥

चराचरमिदं सर्वं नास्तिकानां तमोमयम् ।
सुप्रसिद्धं तु वै स्थानमास्तां तावन्महामते ॥ १०५ ॥

भक्त्यावस्थापिता यत्र स्थाने विप्रवरादिकैः ।
आचला वा चला रम्या चित्रमृत्काष्ठशैलजा ॥ १०६ ॥

हेमादिधातुलोहोत्था या काचित्प्रतिमा हरेः ।
नृणां तत्र विपन्नानां तन्माहात्म्यवशात्तु वै ॥ १०७ ॥

स्थितिस्त्रिविष्ठपे तेषामनत्युत्कृष्टलक्षणा ।
अन्ते परिच्युते जन्म येषामायतनेषु च ॥ १०८ ॥

यथाक्रमं (कर्म) महाबुद्धे परिज्ञेयं हि मत्परैः ।
साक्षाद्वृत्तिर्द्विजेन्द्रीया क्षेत्रक्षेत्रेषु जायते ॥ १०९ ॥

क्षत्रियायतनाद्वि (द्वृ) द्धि जन्मामरविनिर्मिते ।
सद्वैश्यकल्पितोद्देशे जन्म पुष्करसम्भव ॥ ११० ॥

मुनिभिर्निर्मितस्थाने 24 अच्युतायतनेऽब्जज ।
मा जन्म मौद्गलीयाच्च प्राप्नोत्याराधनान्नरः 25 ॥ १११ ॥

कल्पितं मन्त्रसिद्धेन नरेणायतनं महत् ।
भोगोत्कर्षं हि वै नॄणां तथा कालान्तरेण च ॥ ११२ ॥

प्। २०७)

विश्वास-प्रस्तुतिः

मन्त्रज्ञैः कल्पितान्तं च यावदायतनं द्विज ।
शश्वत्पापक्षयं चान्यत् क्षत्रियं तदनन्तरम् ॥ ११३ ॥

क्रमेण सवितानं च नातिदीर्घेण पौष्कर ।
कालान्तरेण वै तेषां दोषाणां तु परिक्षयम् ॥ ११४ ॥

अवतीर्य क्षितिं पश्चाद् भुक्तशेषं हि पद्मज ।
क्षपयत्याशु तत्रैव नियमैः पूर्वदुष्कृतम् ॥ ११५ ॥

प्राग्वत् स्मृताः क्रमेणैव ते यान्ति परमं पदम् ।
पाता ये विहिताश्चात्र देहत्यागविधौ शुभे ॥ ११६ ॥

विवेकिनां न विहिताः प्रायश्चित्तस्थमेव हि ।
आजन्म सञ्चितानां च दुष्कृतानां क्षयाय वै ॥ ११७ ॥

लभन्ते तैस्तु निर्दग्धैर्देहान्ते पदमाच्युतम् ।
तस्मात् क्षेत्रं समासाद्य प्रायश्चित्तं समाचरेत् ॥ ११८ ॥

स्वयं पापफलं ज्ञात्वा सत्त्वमाश्रित्य शाश्वतम् ।
विरुद्धचित्तबुद्धिस्तु येन याति शुभां स्थितिम् ॥ ११९ ॥

बलवान्यदपि 26 क्षेत्रं नॄणां शुभगतिप्रदम् ।
तद्विवेकं द्वितीयं वै स्वसामर्थ्यं तु नोज्झति ॥ १२० ॥

मनोबुद्धीन्द्रियगणं करणग्रामसंयुतम् ।
आमूलाद्यस्य संशुद्धमन्ते वा तपसा महत् ॥ १२१ ॥

कुर्वन्त्यनुग्रहं तस्य शश्वदायतनादयः ।
जीवभावस्थितो जन्तुः परलोकं गतस्तु वा ॥ १२२ ॥

भूगुणा अपि चादेयास्सर्वत्र विधिगौरवात् ।
यथा महानुभावानां पुरुषाणां तु याचकाः ॥ १२३ ॥

सन्दृष्टमन्नपानार्थं गुणज्ञमगुणं तु वै ।
त्यजन्त्यगुणवांश्चैव सगुनं वापि चान्यथा ॥ १२४ ॥

ज्ञात्वैवं क्षेत्रमाहात्म्यं तपोध्यानजपादिकैः ।
कर्मवाच्कित्तसन्तोषादुपशोभां नयेत्पराम् ॥ १२५ ॥

श्रीभगवानुवाच 27

विश्वास-प्रस्तुतिः

चतुर्भिर्वासुदेवाद्यैर्मूर्तिभिः प्रागुदीरितैः ।
केशवाद्यैर्द्वादशभिर्मत्स्याद्यैर्दशभिस्ततः ॥ १२६ ॥

क्ष्मान्तं षड्विंशसख्यं यत्तत्त्वबृन्दं पुरोदितम् ।
व्याप्तमीश्वरपूर्वं वै द्वादशानां सह स्थितम् ॥ १२७ ॥

सुस्थूलेनानुरूपेण 28 दशकं तेन चावृतम् ।
तत्त्वं तत्त्वं समासाद्य वासुदेवादिना सह ॥ १२८ ॥

प्। २०८)

विश्वास-प्रस्तुतिः

स्थितिरेवं हि सर्वेषां देवानां भवशान्तये ।
गुणषट्कसमोपेतं वैश्वरूप्यं महामते ॥ १२९ ॥

स्वव्यापारवशेनैव व्यस्वयन्ति सदैव हि ।
अनुग्रहवशेनैव विभोरिच्छावशेन तु ॥ १३० ॥

मूलम्

स्वव्यापारवशेनैव व्यस्वयन्ति सदैव हि ।
अनुग्रहवशेनैव विभोरिच्छावशेन तु ॥ १३० ॥

विश्वास-प्रस्तुतिः

सर्वैः क्षितितलं व्याप्तं 29 नानाकारधरैस्सदा ।
एकैका वैभवे मूर्तिरनन्तेनात्मतां यथा ॥ १३१ ॥

यान्ति नानात्मनामेवं वाहनायुधलाञ्छनैः ।
अतश्चेल्लोकनाथीय इच्छातः प्राभवेन तु ॥ १३२ ॥

स्थितिर्नानाप्रकारा वै सर्वेषां च स्वभूतिषु ।
नियतस्सायुधानां च लाञ्छनानां च यद्यपि ॥ १३३ ॥

तथापि सर्वमूर्तीनां सर्वे साधारणास्स्मृताः ।
यद्यप्येवं हि वै विप्र तत्रापि विनिबोध मे ॥ १३४ ॥

न चान्यभ्रान्तिशान्त्यर्थं विशेषं लाञ्छनैर्ध्वजैः ।
प्रादुर्भावास्तु विज्ञेयास्स्वव्यापारवशात्तु वै ॥ १३५ ॥

प्रादुर्भावान्तरास्तद्वदंशस्य 30 तु वशादपि ।
आद्यका 31 रक्षकाधाराः ? केचित्तु ध्वजलाञ्छनैः ॥ १३६ ॥

तुल्यमेवं त्रयाणां तु प्रादुर्भावगणं परम् ।
अपरे केशवादीनां तुल्यमुद्वहति न्ति)द्विज ॥ १३७ ॥

आकारैर्लाञ्छनैस्सार्धं तद्विशेषेण वै सह ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

श्रोतुमिच्छामि भगवन् सर्वेषां लाञ्छनादिकम् ।
विशेषो यस्त्वयोद्दिष्टो भविनां भवशान्तये ॥ १३८ ।

मूलम्

श्रोतुमिच्छामि भगवन् सर्वेषां लाञ्छनादिकम् ।
विशेषो यस्त्वयोद्दिष्टो भविनां भवशान्तये ॥ १३८ ।

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

शृणु लाञ्छनविन्यासमादिदेवादितः क्रमात् ।
मत्तो निगदतस्सम्यग्यथावदमलेक्षण ॥ १३९ ॥

आद्यः पाणिश्चतुर्णां वै दक्षिणे त्वभयप्रदः ।
वरप्रदो वा भक्तानां ध्यातव्यममलेक्षण ॥ १४० ॥

वामं शङ्खोद्वहं विद्धि नानास्थित्या चतुर्ष्वपि ।
आद्यस्य पश्चिमाभ्यां तु वामदक्षिणयोः पुनः ॥ १४१ ॥

कालचक्रं गदां गुर्वीमच्युतस्यावधारय ।
लाङ्गलं मुसलोपेतं वामहस्ते सदक्षिणे ॥ १४२ ॥

पश्चिमे भुजयुग्मेऽस्य संहत च धनुश्शरे ।
खेटकं नन्दकोपेतमनिरुद्धस्य पौष्कर ॥ १४३ ॥

द्वाभ्यां पश्चिमपाणिभ्यां मध्यहस्तादितस्तु वै ।
इत्येवं हि चतुर्मूर्ते रेतन्मूर्त्यन्तरेषु च ॥ १४४ ॥

शङ्खचक्रगदापद्मलाञ्छनानां स्थितिं शृणु ।
आदिदेवीयदेवानां त्रयाणां तावदुच्यते ॥ १४५ ॥

वामे पश्चिमगे चक्रं विद्धि शङ्खं तु दक्षिणे ।
दक्षिणे मुख्यहस्तेऽब्जं गदा तदपरे तु वै ॥ १४६ ॥

एवं हि भगवान् धत्ते केशवः कमलादिकम् 32
सव्यापसव्यहस्ताभ्यां मुख्याभ्यां तु गदाम्बुजे ॥ १४७ ॥

वामादौ शङ्खचक्रौ तु स धत्ते पश्चिमद्वये ।
नारायणाख्यो भगवान् माधवाख्यो निबोधतु ॥ १४८ ॥

मुख्ये सव्यापसव्ये तु शङ्खं धत्ते गदां प्रभुः ।
पश्चिमे पद्मचक्रे तु सर्वपूर्वे भुजद्वये ॥ १४९ ॥

प्। २०९)

विश्वास-प्रस्तुतिः

मूर्तित्रयमिदं दिव्यं कुन्देन्दुस्फटिकप्रभम् ।
भगवद्वासुदेवेन सहास्य चतुरात्मना ॥ १५० ॥

त्रितयस्य परिज्ञेया मोक्षदा भवभोगदा ।
कामपालीयदेवानां त्रयाणां कमलोद्भव ॥ १५१ ॥

पद्मं मुख्यकरे वामे गदान्यस्मिन् हि दक्षिणे ।
विभोर्गोविन्दसञ्ज्ञस्य इत्येवं समुदाहृतम् ॥ १५२ ॥

विन्यासं लाञ्छनानां च विष्णोरथ निबोधतु ।
वामदक्षिणपाणिभ्यामग्रतश्शङ्खपङ्कजे ॥ १५३ ॥

एवं पश्चिमहस्ताभ्यां चक्रं कौमोदकीद्वयम् ।
मधुसूदनसञ्ज्ञस्य सन्निवेसमतश्शृणु ॥ १५४ ॥

पद्मं मुख्य करे 33 वामे पाञ्चजन्यं तु दक्षिणे ।
गदा 34 पश्चिमतस्सव्ये चक्रं दक्षिणतः परे ॥ १५५ ॥

त्रयमेवं हि देवानां सह वै ज्ञानमूर्तिनाम् ।
चातुरात्म्याद् द्वितीयां तु पद्मरागोज्ज्वलद्युतिम् ॥ १५६ ॥

अथ प्रद्युम्नदेवानां त्रयाणां क्रम उच्यते ।
वर्णभेदेन सह वै लाञ्छनग्रहनं शृणु ॥ १५७ ॥

अग्रतो वामपाणौ च चक्रमन्यकरे गदा ।
वामे तु पश्चिमे शङ्खं पद्मं तदपरे स्मृतम् ॥ १५८ ॥

विभोस्त्रिविक्रमाख्यस्य वामनस्यावधारय ।
गदाऽग्रवामहस्ते तु चक्रं मुख्ये तु दक्षिणे ॥ १५९ ॥

वामे तु पश्चिमे पद्मं शङ्खं तद्दक्षिणे करे ।
श्रीधरस्य गदा वामे मुख्यहस्ते प्रकीर्तिता ॥ १६० ॥

चक्रमग्रेऽपसव्याख्ये शङ्खं वामे तु पश्चिमे ।
तदन्यस्मिन् परे पद्मं चक्रं कोटिसमप्रभम् ॥ १६१ ॥

मूर्तित्रितयमेते वै सह च स्वामिना द्विज ।
हेमधामप्रभं ज्ञेयं चातुरात्म्यतया स्थितम् ॥ १६२ ॥

अतोऽनिरुद्धमूर्तीनां त्रितयं चावधारय ।
लाञ्छनोद्वहनं चैव वर्णभेदेन वै सह ॥ १६३ ॥

पद्ममग्रकरे वामे तद्द्वितीये तु हेतिराट् ।
सव्यापसव्यहस्ताभ्यां पश्चिमाभ्यां क्रमेण तु ॥ १६४ ॥

पद्मकोशं 35 गदां गुर्वीं पद्मनाभे निबोधतु ।
अग्रगे चक्रराड्वामे पद्मं मुख्यकरे परे ॥ १६५ ॥

वामे गदां पश्चिमगे तदन्यस्मिंश्च शङ्खराट् ।
धत्ते 36 दामोदरो वामे गदां चाग्रस्थिते शुभाम् ॥ १६६ ॥

अपसव्येऽग्रगे शङ्खं वामे चक्रं तु पश्चिमे ।
पश्चिमे त्वपसव्ये तु कमलं सूर्यवर्चसम् ॥ १६७ ॥

अतसीपुष्पसङ्काशमिदं मूर्तिगणं स्मृतम् ।
सहानिरुद्धदेवेन अस्यापि चतुरात्मता ॥ १६८ ॥

विश्वेश्वरस्य वै विष्णोः स्थितयेऽस्मिञ्जगत्त्रये ।
अमूर्तानां च मूर्तानामायुधानां स्थितिं शृणु ॥ १६९ ॥

पाणिद्वयेन चाक्रान्तौ पार्श्वद्वये पृथक् स्थितौ ।
तन्मु(खं)ख्यं च निरीक्षन्तौ गदाचक्रौ महामते ॥ १७० ॥

शङ्खपाणिं च शङ्खेशं युग्ममन्येन हेतिना ।
द्व्यादिकं करजालं 37 यत् तन्नानाभि समन्वितम् ॥ १७१ ॥

पाशाङ्कुशाधिपद्माद्यैर्युक्तं चान्यैर्वरायुधैः ।
मूर्त्यन्तराणां मूर्तीनां षोडशानामतश्शृणु ॥ १७२ ॥

मुख्यहस्ते चतुर्णां तु पाञ्चजन्यं निराकृतिम् ।
सर्वदेहं 38 हि सञ्चिन्त्य गदाचक्रे द्विजोत्तम ॥ १७३ ॥

हस्तद्वयेन चाक्रान्तौ साकारं च विभोर्मुखम् ।
पिबन्तमिव 39 मृत्पात्रे ? स्मर्तव्यं तत्परायणैः ॥ १७४ ॥

प्। २१०)

विश्वास-प्रस्तुतिः

अमुर्तमन्त्रसंस्थानमिदानीमवधारय ।
तमिच्छया च स्मर्तव्यं शोभालीलावशादपि ॥ १७५ ॥

नानादेशजनस्थित्या आसृष्टेस्संस्थितं यथा ।
आमूर्तेस्सहमूर्तानां सन्धारणमथोच्यते ॥ १७६ ॥

पश्चिमाभ्यां भुजाभ्यां तु यस्यं सद्विहितं द्वयम् ।
मूर्धदेशान् समाक्रान्तं निरीक्षन्तं विभोर्मुखम् ॥ १७७ ॥

आज्ञाप्रतीक्षकं चैव हस्तं तं व्यञ्जनादिकम् ? ।
कक्षान्तर्गतहस्तं वा अथ विस्मयमुद्रया ॥ १७८ ॥

युक्तं सम्पुटसञ्ज्ञाख्यं मुद्रया वाब्जसम्भव ।
चतुर्वदनपादा वै धानारूपं ? 40 तु संस्थितिः ॥ १७९ ॥

सर्वेषां विहिता विप्र प्रयोजनवशेन तु ।
साधकेच्छावशाच्चैव तथाकालवशात्तु वै ॥ १८० ॥

प्रार्थिताश्चोपविष्टास्तु भोगशय्यागतास्त्वथ ।
चक्राम्बुरुहपीठस्था हृहि धामत्रयान्वितम् ॥ १८१ ॥

द्वादशाक्षरपूर्वैस्तु वाचकैः प्रागुदीरितैः ।
सामान्यैर्द्विजमन्त्रैर्वा षड्भिष्षाड्गुण्यलक्षणैः ॥ १८२ ॥

योऽर्चयेद्भक्तिपूर्वं तु स्वशक्त्या विभवेन वा ।
स मुक्तदोष अभ्येति तत्तत्पदमनामयम् ॥ १८३ ॥

व्यक्तं क्षेत्रवशे यस्मिन् स्वयं बाह्येऽवतारितम् ।
सिद्धेर्विशेषनाम्ना च तत्र सिध्यन्ति साधकाः ॥ १८४ ॥

स्वमन्त्रजापिनो भक्ता नित्यशुद्धाः क्रियापराः ।
अथ मूर्त्यन्तराणां च देवानां कमलोद्भ्वव ॥ १८५ ॥

ध्वजाद्यं 41 यच्च सङ्केतं तन्मे निगदतश्शृणु ।
त्रयं वदामि देवीयं केशवाद्यं प्रकीर्तितम् ॥ १८६ ॥

भूषितं प्रपताकेन महद्गरुडकेतुना ।
महता तालवृक्षेण लाङ्गलीयेन पौष्कर ॥ १८७ ॥

गोविन्दाद्यं त्रयं यद्वै विज्ञेयमुपशोभितम् ।
ध्वजेन मकराख्येन प्रद्युम्नं येन च द्विज ॥ १८८ ॥

त्रिविक्रमाद्यं त्रितयं नित्यमेव विभूषितम् ।
कुरङ्गलाञ्छनेनैव अनिरुद्धेन लाञ्छितम् ॥ १८९ ॥

त्रयं दामोदरान्तं च हृषीकेशादिकं हि यत् ।
विश्वेश्वरस्य च विभोरिच्छारूपधरस्य च ॥ १९० ॥

विहितास्सर्व एवैते रूपैश्वर्येण वै सह ।
वराहनरसिंहाद्यैर्देवैस्त्रिभुवनेश्वरैः ॥ १९१ ॥

प्रादुर्भावान्तरोपेतैः * * * * सर्वगुणोज्वलैः ।
यथोचितैश्चातुरात्म्यैः केशवाद्यै(र)सतोऽब्जज ॥ १९२ ॥

हंसमत्स्यहयैः कूर्मसिंहसूकरसञ्ज्ञकैः ।
यथोक्तलक्षणैर्ब्रह्मन् शक्तितः प्रतिपत्तिजैः ॥ १९३ ॥

वृत्तित्वेन जगत्यस्मिन् अर्चनाध्यानकर्मणि ।
यतीनां मुक्तसङ्गानां सिद्धानां क्षेत्रवासिनाम् ॥ १९४ ॥

एवं यथोक्तवदनैर्नृशरीरैर्महाभुजैः ।
नृवराहनृसिंहाख्यैर्नृवाजिवदनाभिधैः ॥ १९५ ॥

अनुग्रहधिया व्याप्तं भूभागममलेक्षण ।
तथावामननाथेन खर्वमूर्तिधरेण च ॥ १९६ ॥

मूलम्

अनुग्रहधिया व्याप्तं भूभागममलेक्षण ।
तथावामननाथेन खर्वमूर्तिधरेण च ॥ १९६ ॥

विश्वास-प्रस्तुतिः

स्नातकब्रह्मचारी च लाञ्छनैर्भूसितेन च ।
तस्य रूपान्तरेणैव सुखानां सुखदेन च ॥ १९७ ॥

त्रिविक्रमाख्यसञ्ज्ञेन त्रैलोक्याक्रान्तमूर्तिना ।
रामसञ्ज्ञेन विभुना ज्वलत्परशुपाणिना ॥ १९८ ॥

भारावतरणं येन पृथिव्यां बहुशः कृतम् ।
एतैरन्यैर्द्विजश्रेष्ठ वक्ष्यमाणसमन्वितैः ॥ १९९ ॥

सबाह्याभ्यन्तरं द्व्याप्तं ब्रह्माण्डनिचयं हि यत् ।
प्रादुर्भावान्तरैस्सार्धं प्रादुर्भावैर्द्विजाखिलैः ॥ २०० ॥

प्। २११)

विश्वास-प्रस्तुतिः

अप्ययैः प्रभवाख्यैस्तु गौणमुख्यैस्सुरेश्वरैः ।
स्वभावमजहच्छश्वदाकारान्तरमाकृतेः ॥ २०१ ॥

यत्तत्त्वमंशसम्भूतं प्रादुर्भावान्तरं तु तत् ।
प्रदुर्भावान्तरोपेतं प्रादुर्भावगणं परम् ॥ २०२ ॥

शृणु मे गदतः सम्यक् यैर्व्याप्तमखिलं जगत् ।
रामोऽपरः क्षत्रजन्मा भ्रात्रा भेदैस्त्रिभिस्सह ॥ २०३ ॥

निहन्ता राक्षसानां यो मनुष्योऽहमिति स्मरन् ।
कृतकृत्यस्तु यो वेत्ता स्वभावं दिव्यमुत्तमम् ॥ २०४ ॥

अपरस्सीरपाणिर्वै रामः कृष्णात्मना सह ।
शिशुभावं समाश्रित्य यो महद्दिव्यकर्मकृत् ॥ २०५ ॥

कल्किश्च विष्णुर्भगवान् नष्टधर्मावतारकृत् ।
उर्व्यां म्लेच्छगणं हत्वा विद्धि तं यत्कलौ युगे ॥ २०६ ॥

धर्मात्मा भगवान्विष्णुः प्रादुर्भावं च शाश्वतम् ।
प्रादुर्भूतं हि वै यस्मान्नराद्यं कृष्णपश्चिमम् ॥ २०७ ॥

सपञ्चकालषट्कर्मम ? स्वधर्मैस्समन्वितम् ।
जपध्यानसमोपेतमेवं यः पाति सर्वदा ॥ २०८ ॥

चतुर्मूर्तिमयं विप्र नरो नारायणो हरिः ।
कृष्णसञ्ज्ञश्च भगवान् प्रादुर्भावोत्तरं विभोः ॥ २०९ ॥

प्रकाशितं चतुर्धा ते अतोऽन्यमवधारय ।
विश्वरूपस्स भगवान् बहुविग्रहलक्षणम् ॥ २१० ॥

तत्रैकमन्तराख्यं हि कृष्णनाथस्य पौष्कर ।
मानुष्यत्वेऽवतीर्णस्य त्रयमाद्यमनश्वरम् ॥ २११ ॥

सहस्रवदनश्श्रिमान् सहस्राङ्घ्रिकरस्तथा ।
मूर्तामूर्तं च यो धत्ते गोत्रेष्वमरसङ्ग्रहम् ॥ २१२ ॥

जलारविन्दनाभश्च प्रादुर्भावेश्वरो महान् ।
प्रभवाप्ययकृद्योगैर्बहुभेदैरूपासितैः ॥ २१३ ॥

मधुकैटभमाथी च प्रदुर्भावेश्वरस्य च ।
प्रदुर्भावान्तरं विद्धि पद्मनाभस्य तद्विभोः ॥ २१४ ॥

मन्दरोत्पा (त) दकृद्देवस्त्वमृताहरणस्तथा ।
सुधाकलशधृक् चैव वनिताकृतिविग्रहः ॥ २१५ ॥

भूयो रूपान्तरं तस्य राहोश्चिच्छेद मस्तकम् ।
एवं चतुर्धा भगवानेष एव महामते ॥ २१६ ॥

प्रादुर्भावान्तरोपेतं प्रादुर्भावोत्तमोत्तमम् ।
समस्तसौभाग्यनिधिर्लक्ष्मीनाथः परः प्रभुः ॥ २१७ ॥

42 द्वितीयः प्रसन्नात्मा नृणां भोगापवर्गदः ।
लक्ष्मीरूपान्तरैर्युक्तश्चतुर्भिर्गरुडासनः ॥ २१८ ॥

पुनस्तदासनं चान्यदष्टभेदैः 43 श्रियान्वितः ।
देवादीनां 44 मनोवृत्तिपूरको भोगपूर्वकम् ॥ २१९ ॥

भोगवान् कालनेमिघ्नः पक्षीन्द्रवरवाहनः ।
सहस्रारकरश्श्रीमान् श्रीवत्साङ्कितलक्षणः ॥ २२० ॥

कालवैश्वानरश्शालिनाथ(ः)पाथोनिवासिनः ? ।
आधारशक्तिज्ञंस्य आ (अ) मूर्तस्य च वै विभोः ॥ २२१ ॥

अभिमानतनुर्यो वै नानाभेदैश्च वर्तते ।
गजेन्द्रग्राहमोक्षी 45 च संसाराद्रसलक्षणात् ॥ २२२ ॥

ज्ञानोपदेष्टा भगवान् कपिलाक्षस्त्वधोक्षजः ।
विद्यामूर्तिश्चतुर्वक्त्रो ब्रह्मा वै लोकपूजितः ॥ २२३ ॥

तमंशभूतं वै सम्यक् विश्वव्यञ्जनलक्षणम् ।
युगावसाने संहारं यः करोति च सर्वदा ॥ २२४ ॥

शङ्कराख्यो महारुद्रः प्रादुर्भावान्तरं हि तत् ।
देवस्यानलशालेर्वै सर्वाधस्संस्थितस्य च ॥ २२५ ॥

प्। २१२)

विश्वास-प्रस्तुतिः

लोकेश्वरश्शान्ततनुर्बौद्धं यस्यापरं विदुः ।
निर्य(य)न्ता बुद्धिधर्माणां हिंसादोषस्य दूषकः ॥ २२६ ॥

अग्नीषोमात्मसञ्ज्ञस्य देवस्य परमात्मनः ।
सूर्याचन्द्रमसौ विद्धि साकारौ लोचनेश्वरौ ॥ २२७ ॥

तद्वक्त्रं दैवतं चान्यद्धुतभुक् परमेश्वरः ।
मन्त्रपूतं सदादाय हुतमाज्यपुरस्सरम् ॥ २२८ ॥

ब्रह्माण्डभुवनं सर्वं सन्तर्पयति सर्वदा ।
विश्वेशप्राणशक्तेर्वै वाय्वाख्यमधिदैवतम् ॥ २२९ ॥

जगत्सन्धारकं चैव नानास्कन्धात्मना तु वै ।
एते भगवदाकारास्तिष्ठन्त्यस्मिञ्जगत्त्रये ॥ २३० ॥

नानावेशस्वरूपैश्च नानासंस्थानलक्षणैः ।
नानाकार्यवशेनैव नानाकारवशेन तु ॥ २३१ ॥

मूलम्

नानावेशस्वरूपैश्च नानासंस्थानलक्षणैः ।
नानाकार्यवशेनैव नानाकारवशेन तु ॥ २३१ ॥

विश्वास-प्रस्तुतिः

एवं कृतकशब्दाद्यैर्भगवांस्तत्क्षणेन च ।
आराध्याकृतितुल्येन तज्जपध्यानसेविनाम् ॥ २३२ ॥

यथाभिमतरूपेण गुणषट्कान्वितेन च ।
ज्ञस्वभावेन नित्येन स्वरूपेणामलात्मना ॥ २३३ ॥

निश्वमापूरितं सर्वं सर्वानुग्रहकाम्यया ।
सर्वत्र यास्ति सर्वेषां यथोक्तानां महामते 46 ॥ २३४ ॥

वासुदेवादिमूर्तीनां वैश्वरूप्यमनश्वरम् ।
योगैश्वर्यप्रभावेन अच्युतेच्छावशादपि ॥ २३५ ॥

ज्ञात्वैवमब्जसम्भूत न कार्यो हृदि विस्मयः ।
स्फूटे * * * * रूपेण 47 नानानामान्वितेन वै ॥ २३६ ॥

दृष्टो भगवदाकारे स्वयं व्यक्तादिकेन च ।
क्षितिमध्येऽवतीर्णे च पूर्वोदिष्टेन वर्त्मना ॥ २३७ ॥

तीर्थोद्देशेषु सर्वेषु क्षेत्रेषु विविधेषु च ।
गिरिशृङ्गेषु रम्येषु तन्मध्येषु गुहासु च ॥ २३८ ॥

वनेषूपवनाढ्येषु पातालतलभूमिषु ।
लोकान्तरेषूर्ध्वगेषु देवैर्गन्धर्वसत्तमैः ॥ २३९ ॥

नास्तिका भिन्नमर्यादा मोहमायामलान्विताः ।
विकल्पदोषैराविष्टाः 48 भ्रान्तबुद्धिज(डी) कृताः ॥ २४० ॥

चरणाम्बुजनालं तु परामृश्यन्ति येऽधमाः ।
मज्जन्ति नरके घोरे पितृभिस्सहिताश्चिरात् ॥ २४१ ॥

सदायतनदेवानां मूलं ये चान्विषन्ति वै ।
मूर्ध्नश्छेदो भवेत्तेषां भावोपहतचेतसाम् ॥ २४२ ॥

धृतिशक्तिमयं मूलं देवानामपि दुर्दृशम् ।
तत्कथं लक्ष्यते मूढैर्यन्मूर्तद्रव्यतां गतम् ॥ २४३ ॥

मानमेयैस्सतन्त्रं च यथा तत्परम् * * * * तम ।
यैरेतन्मध्यषट्कं 49 तु क्षेत्रेशाङ्घ्रिकजैस्स्थितैः ॥ २४४ ॥

गुणैर्दिव्यगुणोपेतैरूर्जितैः प्राकृतैर्गुणैः ।
स्वयमेवं जगन्नाथै रवतीर्य च या स्थितिः ॥ २४५ ॥

गृहीता सुस्थिरा चैव सुसिद्धैश्चापि कल्पिता ।
दोषैस्सदिग्विभागाद्यैरन्यदात्वेन यान्ति च ॥ २४६ ॥

नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि ।
उत्तरोत्तरता चैव जगत्यस्मिन् हि वर्तते ॥ २४७ ॥

दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ।
पौरुषायतनानां च सिद्धाख्यानां महामते ॥ २४८ ॥

स्वयमेवावतीर्णानां तत्त्वेशानामपि क्षितौ ।
अतस्संसारभीतैश्च भक्तैस्सर्वेश्वरस्य च ॥ २४९ ॥

गम्यैश्च तेऽर्चनीयाश्च कालं वै जीवितावधि ।
नित्यं तूपासितव्याश्च तत्रस्थैराश्रमान्वितैः ॥ २५० ॥

प्। २१३)

विश्वास-प्रस्तुतिः

प्राप्ताधिकारैर्दीक्षान्तस्स ? मयज्ञादिकैर्नरैः ।
यदैव कृतदीक्षाणामधिकारसमन्वितम् ॥ २५१ ॥

अच्युताराधनार्थं तु निश्रेयसपदाप्तये ।
तदेव प्रतिषिद्धं च देवतान्तरपूजनम् ॥ २५२ ॥

परमेतद्धि समयमप्रमेयरतात्मनाम् ।
सा प्रसिद्धा तु वै व्यक्तादाकारात् परमेश्वरात् ॥ २५३ ॥

व्यूहाद्वा विभवाख्याच्च ऋते नान्यं पुरोदितात् ।
समर्चनीयमाकारं न बुधैर्वसुधागतम् ॥ २५४ ॥

क्वचिद्भगवदंशैस्तु प्रदुर्भावैरधिष्ठिताः ।
दृश्यन्ते पार्थिवा लिङ्गाश्श्रूयन्ते च द्विजोत्तम ॥ २५५ ॥

यद्यप्येवं महाबुद्धे वैष्णवानां तथापि हि ।
विरुद्धत्वादनर्च्यास्ते नोपाधिर्वैष्णवी हि सा ॥ २५६ ॥

स्वयम्भुवापि 50 ये केचित् सुरसिद्धावतारिताः ।
स्कन्दरुद्रमहेन्द्राद्याः प्रतिषिद्धास्तु तेऽर्चने ॥ २५७ ॥

अन्तर्यामी च सर्वेषां देवानां पुरुषोत्तमः ।
यद्यप्यव्यक्तरूपं च व्यक्तौ सिद्धिस्वकास्वकाः ? ॥ २५८ ॥

भावभक्तिवशाद्विप्र स्वक्रि(की)याधिगमादपि ।
ज्ञात्वैवं भक्तिसाङ्कर्यं न कुर्यादेवमेव हि ॥ २५९ ॥

वर्जनीयं प्रयत्नेन य इच्छेदुत्तमां गतिम् ।
विप्रा एकायनाख्या ये ते भक्तास्तत्त्वतोऽच्युते ॥ २६० ॥

एकान्तिनस्सुतत्त्वस्था देहान्तान्नान्ययाजिनः ।
कर्तव्यत्वेन ये विष्णुं संयजन्ति फलं विना ॥ २६१ ॥

प्राप्नुवन्ति च देहान्ते वासुदेवत्वमब्जज ।
व्यामिश्रयाजिनश्चान्ये भक्ताभासास्तु ते स्मृताः ॥ २६२ ॥

परिज्ञेयास्तु ते विप्रा नानामार्गगणार्चनात् ।
तस्मात्संसिद्धदेहस्तु दीक्षाख्येन तु कर्मणा ॥ २६३ ॥

यावज्जपाधिकारं तु नारायणपरो भवेत् ।
जपहोमक्रियासक्तस्समास्ते स्तुतितत्परः ॥ २६४ ॥

देहान्ते वैष्णवं लोकं प्राप्नुयात् पुनरेव हि ।
जन्म चासाद्य चोत्कृष्टमाबाल्याद् द्विजसत्तम ॥ २६५ ॥

भगवत्कर्मनिष्णातस्तत्परस्तन्मयो भवेत् ।
नाभिसन्धाय च फलमापत्कालगतोऽपि वै ॥ २६६ ॥

त्यक्त्वा देहं पुनर्जन्म नाप्नुयादिह पौष्कर ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

भगवन् भूतभव्येश क्षेत्रैः क्षेत्रवरैस्सह ।
पारम्येन च यैर्व्याप्तं 51 क्षित्यन्तं तत्त्वसङ्ग्रहम् ॥ २६७ ॥

वासुदेवाख्यसद्ब्रह्मतत्त्वादारभ्य वै क्रमात् ।
वक्तुमर्हसि मे शश्वत् सर्वानुग्रहकाम्यया ॥ २६८ ॥

षाड्गुण्यदेहसञ्ज्ञेन स्वस्थेन चतुरात्मना ।
स्वर्गान्तं स्वपदा व्याप्तमधिदेवात्मना द्विज ॥ २६९ ॥

या वै सर्वेश्वरी शक्तिरीश्वराख्या निशामनी ।
ज्ञानादिभेदभिन्नेन आद्येन चतुरात्मना ॥ २७० ॥

व्याप्ता चाव्यक्तलिङ्गेन भारूपेण महात्मना ।
या परा प्रकृतिर्दैवी सत्त्वैकगुणलक्षणा ॥ २७१ ॥

पूर्णा शक्तिसमूहेन वैभवीयेन पद्मज ।
सह मूर्त्यन्तरेणैव प्रादुर्भावान्तरस्तथा ॥ २७२ ॥

प्। २१४)

विश्वास-प्रस्तुतिः

प्रादुर्भावमयैर्बीजैस्समूहे चतुरात्मना ।
जीवक्षेत्रज्ञर्कात्मनामधेयमनश्वरम् ॥ २७३ ॥

वर्तते वै समासाद्य नित्यं सैवेश्वरेच्छया ।
त्रैगुण्यसाम्यमाधारमव्यक्ताख्यं च शाश्वतम् ॥ २७४ ॥

तत्रस्थमभिमानाख्यरूपेण परमेश्वर(ः)म् ।
स्फुटमव्यक्तभेदं च चातुरात्म्यं जगत्प्रभुम् ॥ २७५ ॥

द्विभुजं पुरुषाकारयुक्तमादित्यसन्निभैः (भम्) ।
ध्वजैराभरणैश्चिह्नैश्शङ्खचक्रादिसञ्ज्ञितैः ॥ २७६ ॥

अव्यक्ते बुद्धितत्त्वे च स्थितं व्यक्ततरं विभुम् ।
चतुर्मूर्तिं चतुर्वक्त्रं चतुर्बाहुं चतुर्गतिम् ॥ २७७ ॥

लाञ्छनैर्ध्वजपर्यन्तैर्व्यक्तैर्युक्तमनश्वरैः ।
अहङ्कारं समाश्रित्य अव्यक्तं कमलोद्भव ॥ २७८ ॥

स्थिता मूर्त्यन्तरास्सर्वे केशवाद्यास्तु वै स्मृताः ।
हंसाद्याष्षण्मयोक्ता ये यथासंसिद्धिलक्षणाः ॥ २७९ ॥

मनस्तत्त्वं समासाद्य सम्यक् ज्ञानगुणान्विताः ।
बुद्धिन्द्रियगुणं विप्र षडेते पुनरन्यथा ॥ २८० ॥

पौरुषं देहमासाद्य संस्थिताः परमेश्वराः ।
कल्किनिष्ठाः षड्भुजाश्च वामनाद्या द्विजेश्वराः ॥ २८१ ॥

कर्मेन्द्रियसमूहं तु तिष्ठन्त्याश्रित्य सर्वदा ।
धर्माद्या विश्वरूपान्ता ये च सर्वगुणैर्युताः ॥ २८२ ॥

तन्मात्रापञ्चकं खाद्यं समाश्रित्य च संस्थिताः ।
आकाशाद्यं समूहं यद्भूतानामब्जसम्भव ॥ २८३ ॥

संस्थिता वै समाश्रित्य प्रागुक्ता विबुधोत्तमाः ।
उक्तशेषैर्महाबुद्धे प्रादुर्भावान्तरैस्सह ॥ २८४ ॥

उपरागं यथासाद्य लोकत्रयसमन्वितम् ।
एकदेशं समायाति तीर्थसङ्गं कुरुक्षितौ ॥ २८५ ॥

अनुग्रहधिया चैव परया (कृ) रूपया द्विज ।
अन्तकाले तु बुद्धानां 52 देवैर्व्याप्तमनुस्मरन् ॥ २८६ ॥

अध्यक्षो दैवतं क्ष्मान्तं विग्रहं तत्त्वसङ्ग्रहम् ।
वाच्यवाचकयुक्तास्तु तेऽपि यान्ति परां गतिम् ॥ २८७ ॥

यस्माद्वै भगवच्छक्त्या त्वनुकम्पाख्यया द्विज ।
आविश्य बान्धवैस्स्निग्धं जन्तोस्सङ्गतिसिद्धये ॥ २८८ ॥

तत्तस्यानेन विधिना आपादयति वै शुभम् ।
तीर्थे वायतने क्षेत्रे विसञ्ज्ञस्य महामते ॥ २८९ ॥

क्षेत्रैः क्षेत्रेश्वरोपेतैर्भूतानामिह यत्प्रभो ।
अनुग्रहार्थमाक्रान्तं तमादिशतु साम्प्रतम् ॥ २९० ॥

कर्मभूमौ मनुष्याणां भ?व्याः क्षेत्रास्तथा हि ये ।
अगम्यास्त्वपि तेषां ये सुरसिद्धगणं विना ॥ २९१ ॥

साम्प्रतं मे च ते शश्वदेकाग्रमवधारय ।
आर्यावर्ते तु भूभागे पृथिव्यां पुण्यसञ्ज्ञके ॥ २९२ ॥

मध्यदेशसमोपेते चतुर्दिक्परिनिष्ठिते ।
सामुद्रजललेखायां तत्पर्यन्ते महान्तरे ॥ २९३ ॥

आसृष्टेरवतीर्णा यैस्स्वाधिष्ठानैस्सहाखिलाः ।
आदिदेवादयो देवा व्यक्तिविग्रहलक्षणाः ॥ २९४ ॥

यत्र यत्र च भूभागे यो यस्सार्वेश्वरं वपुः ।
यस्माद्यस्मात्तु वै तस्मादासृष्टेरेत्य संस्थिताः ॥ २९५ ॥

प्। २१५)

विश्वास-प्रस्तुतिः

क्षेत्रेशेनान्विताश्चैव तीर्थेशेन तथैव हि ।
यस्माद्देवालयोद्देशात् ध्मातस्य जलजस्य च ॥ २९६ ॥

भवेच्छब्दात्तवेधश्च तावत् क्षेत्रं तदुच्यते ।
दिव्याद्यायतनादीनामन्तरं यदनश्वरम् 53 ॥ २९७ ॥

क्रोशाधिकसमं न्यूनं मानेनानेन येन तु ।
अन्तर्वेदी च सा ज्ञेया नारायणरतात्मनाम् ॥ २९८ ॥

यजने श्राद्धकरणे दाने वोत्क्रमणेऽर्चने ।
जपध्याने तपोयज्ञे अग्निसन्तर्पणेन च ॥ २९९ ॥

स्थितं यदेकदेशे तु दीपालोके(कम्) द्विजोत्तम ।
आभासयति भूभागं परतस्तद्वदेव हि ॥ ३०० ॥

स्वज्ञेत्रं क्षेत्रनाथं च समासाद्य च वर्तते ।
ऐहिकामुष्मिकी चैव सिद्धिर्भवति देहिनाम् ॥ ३०१ ॥

तत्र तावच्चतुर्मूर्तेर्मूर्त्यन्तरगणस्य च ।
सन्निवेशं पृथिव्यां वै साम्प्रतं त्ववधारय ॥ ३०२ ॥

पुष्करं क्षेत्रमाश्रित्य पुण्डरीकाक्षसञ्ज्ञया ।
वासुदेवस्तु भगवान्नित्यसन्निहितस्स्थितः ॥ ३०३ ॥

एवं क्षेत्रवरैस्सर्वमेत्य विश्वेश्वरस्स्वयम् ।
चतुर्मूर्तिर्द्विजाद्यं वै आसृष्टेस्संस्थितिं क्रतौ ॥ ३०४ ॥

चतुर्णां मूर्तिभेदं यद्द्विषट्कपरिसङ्ख्यया ।
क्षेत्रैस्तीर्थान्वितैस्तेषां संस्थानमवधारय ॥ ३०५ ॥

केशवः क्लेशहा लोके वै(द्वै)रूप्येण क्षितौ स्थितः ।
अभिव्यक्तेन रूपेण गोविन्दः पुरुषोत्तमः ॥ ३०६ ॥

भूभागपदमाश्रित्य संस्थितो नगसाह्वये ॥ ३०७ ॥

विश्वास-प्रस्तुतिः

स्थाने बृन्दावनाख्येऽपि द्विधैव कमलोद्भव ।
विष्णुर्लो * * * * हे 54 विप्र स्थितो विष्णुपदेन च ॥ ३०८ ॥

मन्दराख्यगिरिं चैव आसाद्य मधुसूदनः ।
भूतानामनुकम्पार्थमवतीर्य च संस्थितः ॥ ३०९ ॥

यामुनं जलमाश्रित्य देवदेवस्त्रिविक्रमः ।
स्थितः कमलसम्भूत 55 नृणां च सुगतिप्रदः ॥ ३१० ॥

मूर्त्यन्तरं वामनाख्यं सह्याद्रौ कमलोद्भव ।
स्वतत्वादेत्य विश्रान्तं ? भविनां शोकशान्तये ॥ ३११ ॥

नर्मदाख्यं हि चाक्रम्य जलं पापक्षयङ्करम् ।
श्रीधरस्संस्थितो देवः कौण्डले च श्रिया सह ॥ ३१२ ॥

हृषीकेशस्तु भगवान् संस्थितोऽप्यात्मना भुवि ।
धराधरे ध्वजाख्ये तु क्षेत्रे 56 कुब्जाम्रकेऽब्जज ॥ ३१३ ॥

पद्मनाभस्तु माध्येशस्त्ववतीर्य च संस्थितः ।
दक्षिणां दिशमाश्रित्य समीपे जलधिक्षितौ ॥ ३१४ ॥

गिरौ रैवतके विप्र स्वतत्त्वादेत्य वर्तते ।
दामोदरस्तु भगवान् हितार्थं भावितात्मनाम् ॥ ३१५ ॥

एभिर्मूर्त्यन्तरैस्सार्धं मूर्तिभिर्विश्वमन्दिरम् ।
समासाद्य द्विजश्रेष्ठ अतोऽन्येषां च संस्थितिम् ॥ ३१६ ॥

निबोधतु महाबुद्धे सावधानेन चेतसा ।
सिद्धामरार्चितं विद्धि श्वेतद्वीपे तु हंसराट् ॥ ३१७ ॥

मत्स्यात्मा भगवानप्पु अश्वात्मा वडवामुखे ।
रसातले तु कूर्मात्मा विन्ध्यारण्ये तु पौष्कर ॥ ३१८ ॥

विज्ञातव्यो मृगेन्द्रात्मा पापहा सर्वदेहिनाम् ।
सौकरीयेन रूपेण क्षेत्रे तत्सञ्ज्ञके तु वै ॥ ३१९ ॥

प्। २१६)

विश्वास-प्रस्तुतिः

गाङ्गे शुभजले कूले सुरसिद्धनिषेविते ।
हेमोत्तमाङ्गदृग्देवो हेमशैलमहान्तरे ॥ ३२० ॥

नौबन्धनगिरावेव मीनवक्त्रः स्थितः प्रभुः ।
कृष्णाश्वेऽश्वशिरोदेवो क्षितिक्षेत्रे क्षमार्चिते ॥ ३२१ ॥

लवणोदधिपर्यन्ते भूभागे सिद्धसेविते ।
कूर्मवक्त्रश्च भगवान् संस्थितश्शङ्खचक्रधृक् ॥ ३२२ ॥

नृहरिः कृतशौचे तु उज्जयिन्यामपि द्विज ।
विशाखमूलसञ्ज्ञे तु स्थाने त्वेवं स्थितस्त्रिधा ॥ ३२३ ॥

कोकामुखे वराहस्तु वाराहे तु नगोत्तमे ।
कन्दमाले विवैतस्ते 57 कुलकुक्षौ हिमाचले ॥ ३२४ ॥

वामनं खर्वमूर्तिं च वैश्वरूप्येण संस्थितम् ? ।
मध्यदेशे तु गङ्गायाः कुरुक्षेत्रे तु पौष्कर ॥ ३२५ ॥

यामुनं कूलमासाद्य प्रादुर्भावान्तरं महत् ।
स्थितिं त्रिविक्रमाख्यं यस्त्रैलोक्याक्रान्तविग्रहः ॥ ३२६ ॥

नगोत्तमे महेन्द्राख्ये परश्वथकरो द्विज ।
रामसञ्ज्ञश्च भगवान् संस्थितः क्षत्रियान्तकः ॥ ३२७ ॥

धराधरे चित्रकूटे रक्षःक्षयकरो महान् ।
संस्थितश्चापरो रामः पद्मपत्रायतेक्षणः ॥ ३२८ ॥

रामोऽन्यस्सीरपाणिर्वै यामुनं भ्रामयञ्जलम् ।
संस्थितो मानुषीयेषु भूभागेषु शुभेषु च ॥ ३२९ ॥

सामुद्रेऽपि ततो द्वीपे द्वारकाख्येऽमरार्चिते ।
वर्तते भगवान् कृष्णस्सर्वात्मा परमेश्वरः ॥ ३३० ॥

कल्की विष्णुश्च भगवान् स्तूयमानो द्विजैः स्थितः ।
समासाद्य विपाशां च नदीं नियतमानसः ॥ ३३१ ॥

धर्ममूर्तिर्महात्मा वै धर्मारण्ये सुरार्चिते ।
अनुग्रहपरस्त्वास्ते लोकानां लोकपूजितः ॥ ३३२ ॥

नरसञ्ज्ञं जगन्नाथं सिद्धैस्सम्पूजितेषु च ।
भूभागेषु च रम्येषु नित्यसन्निहितः स्थितः ॥ ३३३ ॥

गिरौ गोवर्धनाख्ये तु देवस्सर्वेश्वरो हरिः ।
संस्थितः पूजिते स्थाने गवां निष्क्रमणेषु च ॥ ३३४ ॥

सालिग्रामे च भगवान् राजेन्द्राख्ये वने द्विज ।
तथैव वसुधांशेन स्थितो देवव्रताभिधे ॥ ३३५ ॥

कृष्णोऽपरश्चतुर्मूर्तिरवतीर्य धरातले ।
स्थितः पिण्डारके विप्र मोचयन्दुष्कृता(ज्ज)नान् ॥ ३३६ ॥

श्वेतद्वीपे कुरुक्षेत्रे हिमवन्ताचलेऽब्जज ।
वेदिकायामपि 58 तटे विश्वरूपस्स्थितः प्रभुः ॥ ३३७ ॥

क्षीरोदधौ पद्मनाभश्शेषाहिशयनोपरे 59
स्थितो नाभ्यब्जसम्भूतो यस्माच्चैव पितामहः ॥ ३३८ ॥

चतुर्धा रूपमाश्रित्य विश्वेऽस्मिन् सैव वर्तते ? ।
हिताय सर्वलोकानां यथावदवधारय ॥ ३३९ ॥

आसाद्य शयनं ब्रह्मन् पातालतलसंस्थितः ।
वर 60 मादाय चाग्नेयं योऽन्ते संहरते जगत् ॥ ३४० ॥

वटमूलं समाश्रित्य प्रयागे सुरपूजिते ।
जगदेकार्णवं कृत्वा दिव्यमासाद्य पादपम् ॥ ३४१ ॥

सन्तिष्ठते स भगवांस्तस्मिंस्तीरे क्षितौ द्विज ।
न्यग्रोधशायिनं चैव ध्यायेद्दिव्यगतिप्रदम् ॥ ३४२ ॥

हिमाचलैकदेशे तु तुङ्गे वै भृगुसञ्ज्ञके ।
मधुकैटभमाथी च संस्थितः सोऽवनीतले ॥ ३४३ ॥

क्षीरोदकक्षितिक्षेत्रे सुरासुरनिषेविते ।
मन्दराद्रिकरो देवो वर्तते देवपूजितः ॥ ३४४ ॥

प्। २१७)

विश्वास-प्रस्तुतिः

तत्रैवामृतजिद्देवः संस्थितस्सिद्धसेवितः ।
कान्तारूपधरश्चैव सुधाकलशधृक्तथा ॥ ३४५ ॥

सिद्धानां च मुनीनां च देवानां मृत्युजित् स्थितः ।
द्विधा कर्तागणोपेतं ? देवं गरुडवाहनम् ॥ ३४६ ॥

सालवृक्षभुजोद्देशे सालिग्रामे स्थितो विभुः ।
त्रिकूटगिरिपृष्ठे तु गम्ये गगनचारिणाम् ॥ ३४७ ॥

गजोद्धृतिच्छलेनैव अप्रमेयाख्यया स्थितः ।
श्वेतद्वीपपतिर्देव अवतीर्य च संस्थितः ॥ ३४८ ॥

गङ्गासमुद्रसंयोगे क्षित्युद्देशे मनोरमे ।
यज्ञभुग्भगवान् देवो नैमिशे सिद्धपूजिते ॥ ३४९ ॥

सैन्धवारण्यमाश्रित्य अनन्तो भगवांस्स्थितः ।
शार्ङ्गपाणिस्तु देवेशो दण्डकारण्यसञ्ज्ञके ॥ ३५० ॥

रक्षोगणकुलं चैव संस्थितस्तज्जयैषिणाम् ।
उत्पलावर्तके देशे शौरिसञ्ज्ञोऽच्युतस्स च ॥ ३५१ ॥

क्षितौ समुद्रसिन्ध्वोब्धेः ? सङ्गमे सिद्धसेविते ।
ज्ञानोपदेष्टा भगवान् संस्थितो दुःखशान्तये ॥ ३५२ ॥

आसाद्य सूकरक्षेत्रं देवो गरुडवाहनः ।
संस्थितो गरुडारूढः पारिजातकराङ्कितः ॥ ३५३ ॥

सिद्धैस्सुरगणैस्सार्धं गगने चापि पौष्कर ।
देवदेवेशनाम्नाथ हस्तिपर्वतमस्तके ॥ ३५४ ॥

एकदेशं समासाद्य सर्वस्य वरदः स्थितः ।
माल्योदपाणिर्वैकुण्ठो 61 मगधायां महामते ॥ ३५५ ॥

ओड्डीन्ये 62 पुण्यभूभागे संस्थितः पुरुषोत्तमः ।
अचिन्त्यात्माथ भगवान् पर्वते गन्धमादने ॥ ३५६ ॥

शिपिविष्टाख्यया देवश्शिपिविष्टव्रते स्थितः ।
प्राक्समुद्रापयाने तु भूभागे शुभलक्षणे ॥ ३५७ ॥

कापिलीं मूर्तिमासाद्य वासुदेवः स्थितः प्रभुः ।
अवतीर्य स्वतत्त्वाच्च ब्रह्मसञ्ज्ञः प्रजापतिः ॥ ३५८ ॥

मणिबन्धं समासाद्य नित्यं सन्निहितः स्थितः ।
मगधामण्डले विप्र महाबोधधराश्रितः ॥ ३५९ ॥

संस्थितो लोकनाथात्मा देवदेवो जनार्दनः ।
देवदक्षिणगाक्ष्णोर्वै योऽभिमानतनुर्द्विज ॥ ३६० ॥

सूर्यसञ्ज्ञस्तु भगवान् हेमशैलोपरि स्थितः ।
अच्युतो वामनेत्रे तु योऽभिमानतनुर्विभुः ॥ ३६१ ॥

भगवान् सोमसञ्ज्ञस्तु सोमतीर्थाश्रमेऽपि च ।
अग्निस्वरूपमजितं संस्थितं बडबानले ॥ ३६२ ॥

वस्वात्मा गगने विप्र भासते त्वसुरान्तकृत् ।
विष्णुनाम्ना पुनर्देवस्त्वनेकायुधमण्डितः ॥ ३६३ ॥

जयाख्ययोज्जयिन्यां वै स्थितः पापजये नृणाम् ।
काश्मीरमण्डले पुण्ये क्षेत्रे चक्रधराभिधे ॥ ३६४ ॥

चक्रपाणिस्तु भगवान् भक्तानां मोक्षदः स्थितः ।
सुरोत्तमाभिधानश्च गदापाणिस्तु पौष्कर ॥ ३६५ ॥

सदा सन्निहितं विद्धि गङ्गाद्वारे सुरैस्सह ।
चतुर्भुजश्चतुर्मूर्तिश्चतुर्वक्त्रश्चतुर्गतिः ॥ ३६६ ॥

स्थितः पिण्डारके देवो विष्वक्सेनस्सनातनः ।
शुभमासाद्य भूभागं प्राग्ज्योतिषपुरे तथा ॥ ३६७ ॥

देवं विश्वेश्वराख्यं च स्थितमेत्य स्वगोचरात् ।
सा तत्र नाभिधक्षेत्रे सिद्धविद्याधरान्विते ॥ ३६८ ॥

स्वामिसञ्ज्ञो जगन्नाथः स्थितो मन्दाकिनीतटे ।
भल्लातके महायोगे ध्यायिनामपवर्गदः ॥ ३६९ ॥

रसातले नृसिंहाख्ये देविकायास्तटाश्रिते ।
रिपुक्षयाख्यया विप्र देवस्सर्वेश्वरस्स्थितः ॥ ३७० ॥

प्। २१८)

विश्वास-प्रस्तुतिः

शङ्कराख्ये तु भूभागे सर्वदेवनिषेविते ।
ज्ञानमूर्तिर्जगन्नाथस्संस्थितश्शुभकृन्नृणाम् ॥ ३७१ ॥

पृथिव्यां तु पितृक्षेत्रे मोचयन्तमृणत्रयात् ।
जनार्दनाख्यया ब्रह्मन् विश्वात्मा भगवान् स्थितः ॥ ३७२ ॥

एतेऽवताराः कथिताः लेशतः कमलोद्भव ।
एभिः क्षितितलं व्याप्तं पौनः पुन्येन च स्वयम् ॥ ३७३ ॥

संसारिणां जनानां तु अनुग्रहधियाब्जज ।
सङ्कीर्तनमगम्यानां त्रिसन्ध्यं नित्यमाचरेत् ॥ ३७४ ॥

मतिं चक्रे च गम्यानां सेवने दर्शनेऽपि च ।
म्लेच्छानां तेषु देशेषु क्षितौ क्षेत्रादयो हि ये ॥ ३७५ ॥

साङ्कर्यपरिहारेण द्रष्टव्याप्ते सदैव हि ।
ऋषिभिस्सामरैस्सिद्धैस्स्वाश्रमेषु महत्सु च ॥ ३७६ ॥

जलाशयेषु पुण्येषु पृथिव्यां विविधेषु च ।
सर्वे भगवदाकारा विभवव्यूहलक्षणाः ॥ ३७७ ॥

उ(मु)क्ता गताश्च ये चान्ये समुत्प्रेक्ष्य धिया स्वयम् ।
प्रतिष्ठिताश्च विधिवत्समन्त्रास्सत्यविक्रमाः ॥ ३७८ ॥

स्थित्या नानाप्रकारा ये भूतभव्यादिकाख्यया ।
सौम्याग्नेयोभयाख्येन सन्निवेशवशेन वै ॥ ३७९ ॥

लीलारुचिमयेनैव चित्तसौख्यप्रदेन च ।
भुजाद्यायुधसन्धानकेतुभेदेन वै सह । ३८० ॥

अलङ्कृतश्च ? भूभागं मनुजैस्त्वेवमेव हि ।
भक्तैरनुगृहीतैश्च सिद्धाद्यैश्च यथोदितम् ॥ ३८१ ॥

आदिदेवादयश्चैते तत्वेशास्समुदीरिताः ।
परस्मिन् भगवत्तत्त्वे त्वभेदेन व्यवस्थिताः ॥ ३८२ ॥

सूर्यस्य रश्मयो यद्वद्वहनेरचिंर्गणं यथा ।
जलधेरूर्मयो यद्वत्तद्वदेवाब्जसम्भव ॥ ३८३ ॥

चित्सामान्यानि(न्नि)त्यशुद्धा व्यापकाः परमेश्वराः ।
तत्त्वसत्तां समाश्रित्य ज्ञानाद्यैस्समलङ्कृताः ॥ ३८४ ॥

अणिमाद्यष्टकोपेतास्संस्थितास्स्वात्मना तु वै ।
अध्वावनिषु सर्वासु नित्यम् कुर्वन्ति सन्निधिम् ॥ ३८५ ॥

मुक्तये सर्वभूतानां विशेषेण तु वै भुवि ।
आविश्वप्रभवात् कालादारभ्य प्रलयावधि ॥ ३८६ ॥

क्षेत्रेषु तीर्थतीरेषु शब्दब्रह्ममयात्मना ।
सामान्येनापि मन्त्रेण तद्विवर्तेन भात्मना ॥ ३८७ ॥

ततो व्यक्तेतरं रूपमाश्रयन्ति च पार्थिवम् ।
हितार्थं सर्वलोकानामवतीर्णमनश्वरम् ॥ ३८८ ॥

जगत्यायतनाख्यायामत्र सिध्यन्ति योगिनः ।
कालान्तरेण व्यक्तीनां मज्जनं जायते यदि ॥ ३८९ ॥

सन्निधिं शक्तिभावेन नित्यं कुर्वन्ति तत्र च ।
योगेश्वरामरास्सिद्धास्स्मृत्वाकारं तदात्मकम् ॥ ३९० ॥

शैलमृद्दारुधात्तूत्थां व्यक्तिं संस्थापयन्ति च ।
यत्रानुवेधं कुरुते मन्त्रशक्तिधरास्तु ये ॥ ३९१ ॥

येनाच्युतीयनाम्ना वै यद्यत्स्थानान्तरं स्मृतम् ।
सन्निधिस्थस्य वै रूपं शब्दमूर्तिधरस्य च ॥ ३९२ ॥

भिन्नात्मनां स्वयंव्यक्तिरूपेष्वव्यक्तकेषु च ।
सन्निरुद्धेषु मन्त्रेषु इच्छावृत्तिगतेषु च ॥ ३९३ ॥

आकारास्सन्न्निवेशाच्च पारमेश्वरमन्यथा ।
अन्यथा वै जगत्यस्मिन् ख्याताख्यातं च शाश्वतम् ॥ ३९४ ॥

एवमायतनानां च नित्यत्वं सम्प्रकाशितम् ।
अनादित्वमसङ्ख्यं च महत्त्वमपि पौष्कर ॥ ३९५ ॥

जाता ये मां प्रसिद्धिर्वै सति व्यक्तिवशाद्द्विज ।
विना व्यक्तिस्वरूपेण शब्देनाप्यक्षयात्मना ॥ ३९६ ॥

द्व्यात्मनापि हि चान्यत्र शब्दव्यक्तिमयात्मना ।
अन्ये मुनिवरा विप्र दृष्ट्वा स्थानं मनोरमम् ॥ ३९७ ॥

प्। २१९)

विश्वास-प्रस्तुतिः

निर्दोषं 63 सलिलं शुद्धं पादपौषधिसङ्कुलम् ।
स्थितिं कृत्वा स्थिरां तत्र कर्मणा मनसा ततः ॥ ३९८ ॥

सुलक्षणं तु पाषाणं दृष्ट्वा चान्यत्र बाहृतम् ।
विश्वकर्मकुलोद्भूतं समाज्ञाप्य तु शिल्पिनम् ॥ ३९९ ॥

उपलेऽस्मिञ्जगद्योनेर्विष्णोस्सर्वेश्वरस्य च ।
पादारविन्दमुद्रां च सम्पाद्य च मनोहराम् ॥ ४०० ॥

एवमन्ये तु मुनयस्स्वस्थानेषु महामते ।
शङ्खचक्रगदापद्मपूर्वा ये हरिलाञ्छनाः ॥ ४०१ ॥

निवेशं तत्र कृत्वा वै भक्तिपूतेन कर्मणा ।
अपरे तु द्विजश्रेष्ठा भक्तिबृंहितमानसाः ॥ ४०२ ॥

कुर्वन्ति सन्निवेशं च भक्तानां हितकाम्यया ।
पूर्वोक्तेषु च देशेषु सिद्धाद्यैरचितेषु च ॥ ४०३ ॥

मुद्रितेषु सहस्रारपूर्वमुद्रागणेषु च ।
पाषाणैर्वा महाबुद्धेरासृष्टेः पूजनेषु च ॥ ४०४ ॥

कृत्वा संस्काररूपं तु न्यासं यत्रोचितं हि यत् ।
कुर्वन्ति 64 विधिपूर्वं तु नित्यं त्रैकाल्यमर्चनम् ॥ ४०५ ॥

ऋक्सामपूर्वैस्सन्मन्त्रैर्द्विषट्कार्णसमन्वितैः ।
भगवत्पदसिध्यर्थं शिष्यादीनां शुभाप्तये ॥ ४०६ ॥

एवं पुष्करसम्भूत ग्रामाश्च विषयाखिलाः ।
नगरास्सपुरा राज्ञां प्रख्याता ये क्षितौ शुभाः ॥ ४०७ ॥

ऋषिभिर्मनुजैश्शुद्धैस्स्वयं सर्वेश्वरेण तु ।
भक्तानामनुकम्पार्थं नीतां ? पुण्यपदात्मनाम् ? ॥ ४०८ ॥

विभवव्यूहभेदेन स्थिता 65 चानुग्रहेच्छया ।
तस्कराद्युपघाते तु अन्तर्भागवते द्विज ? ॥ ४०९ ॥

पूर्वमन्त्रादयो मन्त्रास्तत्र ये प्राङ्निरोधिताः ।
बिम्बमुज्झित्य तिष्ठन्ति तद्ब्रह्मविवराम्बरे ॥ ४१० ॥

संस्कारं न कृतं यावत् पूवं तत् 66 स्थावरोदितम् ।
वर्धते च महादोषो दिनार्धं दिनमन्यथा ॥ ४११ ॥

तद्देशजानां सर्वेषां साधकानां नृपस्य च ।
द्विजेन्द्राद्यैरतस्तस्माद्वणिग्भिर्वा कुटुम्बिभिः ॥ ४१२ ॥

देशिकैर्नरनाथेन कार्यं च भयनाशनम् ।
सर्वेषां पापशमने कृतमन्त्रगणं हि यत् ॥ ४१३ ॥

प्रातिमं विग्रहं शश्वत्सर्वेषां श्रेयसे तु वै ।
निर्जनायतनानां तु धर्मार्थं यस्समाचरेत् ॥ ४१४ ॥

दोषोपशमनं तस्य सर्वदुःखक्षयो भवेत् ।
भविनामाप्तपूर्णानां महामोहक्षयाय च ॥ ४१५ ॥

ब्रह्मण्यधिपतित्वेन आकारं चाच्युतं हि यत् ।
सविशेषैस्समोपेतं विभूत्यंशैस्समन्वितम् ॥ ४१६ ॥

प्रजापतिस्तमासाद्य सङ्क्रान्तं बुद्धिदर्पणे ।
तेन कर्णपथं नीतं शिल्पिनस्स्वात्मजस्य च ॥ ४१७ ॥

सम्पन्नस्य च होमाद्यैर्देशिकैस्संस्कृतस्य च ।
सङ्क्रामन् 67 यचिरात्तत्र ? गौणमाकारमैश्वरम् । ४१८ ॥

सह विन्यासकाले तु वाचकेन महात्मना ।
एवमेवमनादित्वं द्रव्यजास्वाकृतीषु च ॥ ४१९ ॥

संसिद्धभूतिदृष्टिर्वै 68 तुल्यकालं तु भूतले ।
विश्ववद्विस्मृतिं नैति शिल्पिबुद्धिसमाश्रितम् ॥ ४२० ॥

स हि यच्छति भक्तानां कृत्वाकारं सुलक्षणम् ।
यस्य चाभिमतस्तादृक् भावभक्तिवशात्तु वै ॥ ४२१ ॥

प्। २२०)

विश्वास-प्रस्तुतिः

दृष्टा स्वयं व्यक्तिमतो भुवि बिम्बं तु वै बुधः ।
ब्रह्मरुद्रैकसूर्याख्यमाच्युतं विद्धि तन्महत् ॥ ४२२ ॥

यदुक्तं व्यूहभेदस्थं मूर्तिभेदैस्समन्वितम् ।
तथैव हि समाराध्यं बुध्या कमललोचन ॥ ४२३ ॥

आराधने समाधौ वा उपविष्टास्तु चोत्थिताः ।
संस्थितास्थानकैश्चान्ये तमोमूर्तिष्वनुष्ठितैः ॥ ४२४ ॥

धारयत्यद्भूतं 69 चैव लाञ्छनद्वयमिच्छया ।
द्वयं करद्वयेनैव लम्बमानचतुष्टयात् ॥ ४२५ ॥

शङ्खचक्रगदापद्मपूर्वाद्यायुधसङ्ग्रहात् ।
यथोद्दिष्टक्रमेणैव लोकेशादिषु वै पुरा ॥ ४२६ ॥

ज्यादयश्चेच्छया(वा)चान्ये करैस्तिर्यक् प्रसारितैः ।
सूचयन्त्यतिभक्तानामुद्भुजत्वेन सम्पदम् 70 ॥ ४२७ ॥

मन्दभक्तिपराणां तु तिर्यक् संस्थानसंस्थितैः ।
महदात्मपदं दिव्यं यद * * * * * * * * 71 ॥ ४२८ ॥

येषामन्त(रि ?)रता ? भक्तिर्नॄणां व्यामिश्रयाजिनाम् ।
प्राप्तिस्त्रिविष्टपे तेषां भुजबृन्दादयो मुखात् ॥ ४२९ ॥

समस्सर्वेषु भूतेषु ब्रह्मन् यद्यप्यहं सदा ।
उपदेक्ष्यामि यक्त्या वै मद्भक्ता यान्ति सम्पदम् ॥ ४३० ॥

अपरैरष्टभेदस्थैर्वर्णैर्वा ब्राह्मणादिकैः ।
प्रस्थापिताश्च विधिवत्प्रतिमा वा नृपोत्तमैः ॥ ४३१ ॥

प्रतिबिम्बमयीं व्यक्तिं स्वयमेवाच्युतेन वा ।
जीर्णदोषं विना चैव चालनं यदशान्तिकम् ॥ ४३२ ॥

क्षतमुत्पातपूर्वैस्तु दोषैस्तु 72 नृपनाशकृत् ।
तदस्तमितमन्त्राणां भूयस्संस्थापने कृते ॥ ४३३ ॥

उदयं जायते शश्वच्छान्तये किन्तु पौष्कर ।
देशिकेन्द्रैर्यथाध्याताः 73 (तम्) सूर्येन्द्वनलसन्निभाः ॥ ४३४ ॥

प्रविशन्ति च मन्त्रेशाः प्रणवध्वनिसाधिताः ।
कर्षयन्ति विभूतिं स्वां किञ्चित्कालान्तरेण तु ॥ ४३५ ॥

कृता वै ध्वस्तदोषाश्च निर्विघ्नं निर्मलाः पुनः ।
निवेशितास्सुसिद्धाद्यैस्तीर्थैः क्षेत्रवनेषु च ॥ ४३६ ॥

निवारयन्ति ये मोहाद्विभवव्यूहमूर्तिषु ।
संस्थानमानमाकारं दोषं कालान्तरे स्थितम् ॥ ४३७ ॥

त चान्तकाले मज्जन्ति घोरे तमसि दुस्सहे ।
स्वल्पवित्तैरतस्तस्मादल्पबोधसमन्वितैः ॥ ४३८ ॥

वर्जनीयं विनानेन देवं श्रेयोऽभिवाञ्छितैः ।
स्वयमेव जगन्नाथस्त्ववतीर्य न यथा स्थितः ॥ ४३९ ॥

गृहीतासु स्थिरात्वेवमसिधैश्चापि कल्पितः ।
दोषैस्सदिग्विभङ्गाद्यैरन्यथात्वं न याति च ॥ ४४० ॥

मूलम्

गृहीतासु स्थिरात्वेवमसिधैश्चापि कल्पितः ।
दोषैस्सदिग्विभङ्गाद्यैरन्यथात्वं न याति च ॥ ४४० ॥

विश्वास-प्रस्तुतिः

नित्यसन्निधिमाहात्म्यात् कालं कल्पक्षयावधि ।
उत्तरोत्तरतां चैव जगत्यस्मिन् हि वर्तते ॥ ४४१ ॥

भूत्या कान्त्या च कीर्त्या च क्रियया चाप्रमेयया ।
दुष्टोपशान्तिदा शक्त्या सिद्धिदा या च वै सह ॥ ४४२ ॥

पौरुषायतनानां च सिद्धाख्यानां महामते ।
स्वयमेवावतीर्णानां तत्त्वेशानामिह क्षितौ ॥ ४४३ ॥

एवं क्षेत्रेश्वराणां तु सक्षेत्राणां मयाऽब्जज ॥
प्रकाशितं रहस्यं च भुक्तये भविनां 74 मया ॥ ४४४ ॥

फलार्थिनां 75 च भविनां क्षेत्रे क्षेत्रेशसेविनाम् ।
यथाभिमतसम्प्राप्तिमिहैवायान्त्यनश्वरीम् ॥ ४४५ ॥

प्। २२१)

विश्वास-प्रस्तुतिः

अथ भूमितले जाता प्रलयाख्ये महान्ति ते ।
क्षेत्रे क्षेत्रेश्वराणां तु रहस्यमवधारय ॥ ४४६ ॥

ज्ञानाद्यैस्साणिमाद्यैस्तु अव्यक्तैः क्ष्मावसानिकैः ।
तत्त्वबीजैरुपादेयैर्ब्रह्मसत्तासमन्वितैः ॥ ४४७ ॥

सहावतीर्य वा सृष्टेः प्राग्व्यक्तिं यान्ति वै ततः ।
स्वयमेवार्थभावेन सर्वानुग्रहकाम्यया ॥ ४४८ ॥

क्ष्मामण्डलोपसंहारकालं क्षेत्रधरैस्सह ।
स्थितिमीश्वरतत्त्वे तु कुर्वन्ति च तदिच्छया ॥ ४४९ ॥

सविश्वव्यक्तिसमये प्राग्व्यक्तिं प्रवदन्ति च ।
जातिजन्मतथादेशदुःखैर्देहोत्थितैस्सह ॥ ४५० ॥

आधिव्याधिप्रपूर्वैस्तु मानसैर्दुस्सहैस्तथा ।
इत्येवमादिभिर्दोषैर्मुच्यते 76 * * * * कथम् ॥ ४५१ ॥

सम्यग्ज्ञानं विजानन्तो क्षेत्रीयानुग्रहेण वा ।
वाविष्कृता भवेद्भक्तिस्तीव्रभक्त्याद्यनुग्रहात् ॥ ४५२ ॥

जायते च मतिर्नॄणामन्ते क्षेत्रे द्विजाच्युते ।
नेच्छन्ति सविकल्पासु अभक्ता नास्तिकोत्तमाः ॥ ४५३ ॥

विवेकः पुरुषादीनामायातं 77 च फलाद्विभोः ।
पुरुषार्थपरित्यागं न कार्यं बोधितेन वै ॥ ४५४ ॥

जीवनं च जगत्यस्मिन् विप्रकर्म समन्वितम् ।
ईश्वरस्तन्निरासे तु शक्तो बहुविधैर्मखैः ॥ ४५५ ॥

तदास्तित्वं गुरुमुखात् तत्संवेदनसंयुतम् ।
श्रद्दधानाश्च भक्ताश्च लभन्ते च नरोत्तमाः ॥ ४५६ ॥

ज्ञातव्यमात्मनात्मानं ततस्सर्वज्ञमीश्वरम् ।
अभिमानमनाद्यं यत् प्राकृतं सत्वजं त्वथ ॥ ४५७ ॥

अस्मितालक्षणं 78 घोरं सर्वदा वाञ्छितप्रदम् 79
विज्ञेयमात्मनात्मानं तावद्यावन्निबोधितम् ॥ ४५८ ॥

बीजानां हि यथाकालं व्याप्तानां फलमल्पदा ।
एवं ? व्यापारनानाच्च क्षेत्रेष्वायतनेषु च ॥ ४५९ ॥

जन्माभ्यासवशाच्चापि नूनं कर्मक्षयो भवेत् ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां आयतनविचारो नाम

षट्त्रिंशोऽध्यायः ॥ ३६ ॥

(समुदित श्लोकसङ्ख्या ४६१)

  1. क्, ख्: * * * दितं यज्ञज्ञानां ज्ञानि ↩︎ ↩︎

  2. क्, ख्, ग्, घ्: भविनां कृतज्ञाद्यल्पमेधसाम् ↩︎ ↩︎

  3. ख्: पुंसः ↩︎ ↩︎

  4. क्, ख्, ग्: प्राग्व्यक्ति ययानुवै ↩︎ ↩︎

  5. क्, ग्: स्वयमध्यात्मभावेन ↩︎ ↩︎

  6. क्, ख्: तन्मयात्मना ↩︎ ↩︎

  7. ग्, घ्: थवानदे (म्बुदे) ↩︎ ↩︎

  8. ग्, घ्: सङ्कटे ↩︎ ↩︎

  9. ग्, घ्: वियुक्तं पाञ्च ↩︎ ↩︎

  10. क्, ख्: कर्म सत्कर्मिणाम् ↩︎ ↩︎

  11. (पाठान्तरम्) तदादिकर्म ↩︎ ↩︎

  12. क्, ख्: सनस्योपद्विजत्वाज्यम्; ग्, घ्: सनस्योपदिशन्याज्यम् ↩︎ ↩︎

  13. क्, ख्: सन्तापं ध्वंस ↩︎ ↩︎

  14. ग्, घ्: तद्वाद ↩︎ ↩︎

  15. क्, ग्: विशेषाभ्याम् ↩︎ ↩︎

  16. ग्, घ्: प्राप्नुवन्ति ↩︎ ↩︎

  17. क्, ख्: मुख्यानां * * * * यतेपाञ्चिरकालिनाम् ↩︎ ↩︎

  18. (पाठान्तरम्) मृत्यैः पशुभिः ↩︎ ↩︎

  19. ग्, घ्: महताब्जज ↩︎ ↩︎

  20. ग्, घ्: चन्मलक्षणम् ↩︎ ↩︎

  21. ग्, घ्: सामीथीनां च सालोक्यात् (पा) सन्ती ? धीताम् ↩︎ ↩︎

  22. ग्, घ्: यतनसा (ख) मे भगवन्ता संव्रजन्तु वै ↩︎ ↩︎

  23. क्, ख्: कानां न ह्येषाम् ↩︎ ↩︎

  24. ग्, घ्: मुनीन्द्रनिर्मिते ↩︎ ↩︎

  25. (पाठा) प्राप्तो नारायणान्नरः ↩︎ ↩︎

  26. बलवद्यदपि इति स्यात् ↩︎ ↩︎

  27. अत्र ग्रन्थपातः प्रतीयते इतः प्राक् तदुत्पन्ना विपद्यन्ते पापिष्ठा ह्यत्र वै यदि । का गतिर्भवते तेषां (श्लो ९३) इत्यस्य पौष्कर प्रश्नस्य उत्तरत्वेन शोधयत्यन्तकस्तेषां (श्लो ९४) (यत्र) या काचित्प्रतिमा हरेः । नृणां तत्र विपन्नानां तन्माहात्म्यवशात्तु वै । स्थितिस्त्रिविष्टपे तेषां (श्लो १०६-१०९) इत्यादिना अन्तकेन शोधितपापानां सद्गतिमभिधाय तदनुबन्धतया प्रस्तुतं क्षेत्रमाहात्म्यं भगवता उपशोभां नयेत् पराम् इत्यन्तेन ग्रन्थेन समाहितं ततः अकाण्डताण्डवेन श्रीभगवानुवाच इति प्रतीकमुल्लिख्य चतुर्भिर्वासुदेवाद्यैः इत्युपक्रम्य विषयान्तरसुपक्रान्तं अस्य चोदकं पौष्कर प्रश्नवाक्यं न दृश्यते चोदकवाक्यं विना प्रक्रंस्यमानार्थस्य सङ्गतिर्न सङ्घटिता भवति तस्मात् चोदकं पौष्कर प्रश्नवाक्यं गलितमिति निश्चप्रचम् ↩︎

  28. क्, ख्: स * * * नानु ↩︎ ↩︎

  29. क्, ख्: प्राप्तम् ↩︎ ↩︎

  30. क्, ख्: स्तद्वदगस्य ↩︎ ↩︎

  31. क्, ख्: आद्याकाराः क्ष * * * केचित् ↩︎ ↩︎

  32. क्, ख्: कमलादयः ↩︎ ↩︎

  33. क्, ख्: करे * * * क्षिणे ↩︎ ↩︎

  34. क्, ख्: * * * सव्ये ↩︎ ↩︎

  35. क्, ख्: शब्दकोशम् ↩︎ ↩︎

  36. क्, ख्: यत्ने दामोदरे ↩︎ ↩︎

  37. क्, ख्: करजालं य * * * समन्वितम् ↩︎ ↩︎

  38. ग्, घ्: सर्वदेवम् ↩︎ ↩︎

  39. अत्र सम्प्रति पन्नकोशान्तरसंवादः आवश्यकः ↩︎ ↩︎

  40. ध्यानारूढमिति साधु ↩︎ ↩︎

  41. क्, ख्: * * * तन्मे ↩︎ ↩︎

  42. पाठान्तरम् न द्वित्रयम् ↩︎ ↩︎

  43. क्, ख्: दष्टभेदस्त्रिधाचितः ↩︎ ↩︎

  44. क्, ख्: भोगादीनाम् ↩︎ ↩︎

  45. क्, ख्: मोक्षीयसस्यारादि ↩︎ ↩︎

  46. क्, ख्: महामुने ↩︎ ↩︎

  47. स्फुटे त्वभ्रनिरूपेण ↩︎ ↩︎

  48. क्, ख्: * * * राविष्टाः ↩︎ ↩︎

  49. क्, ख्: यैरोधमध्व ↩︎ ↩︎

  50. ग्, घ्: स्वयं भूतापि * * * केचित् ↩︎ ↩︎

  51. क्, ख्: पारम्येन च यो व्याप्ति ↩︎ ↩︎

  52. ग्, घ्: बद्धानाम् ↩︎ ↩︎

  53. क्, ख्: यदनन्तरम् ↩︎ ↩︎

  54. क्, ख्: विष्णुर्लोभा? हा? ↩︎ ↩︎

  55. क्, ख्, ग्, घ्: सम्भूतरणं सुगतिप्रदम् ↩︎ ↩︎

  56. क्, ख्: कुब्जोमृगेऽब्जज ↩︎ ↩︎

  57. क्, ख्: विचेतस्ते ↩︎ ↩︎

  58. देविकायां इति स्यात् ↩︎ ↩︎

  59. शेषाहिशयनो हरिः इति पाठान्तरम् ↩︎ ↩︎

  60. क्, ख्: योऽन्ते ↩︎ ↩︎

  61. क्, ख्: वैकुण्ठो * * * गयायाम् ↩︎ ↩︎

  62. क्, ख्: * * * पुण्य ↩︎ ↩︎

  63. ग्, घ्: निर्दोषं सकलं शुद्धम् ↩︎ ↩︎

  64. ग्, घ्: कुर्वन्तु ↩︎ ↩︎

  65. क्, ख्: स्थिता च न्यासहेच्छया ↩︎ ↩︎

  66. क्, ख्: यावत्पूर्वं त * * * तम् ↩︎ ↩︎

  67. सङ्क्रामन्त्यचिरात् इति स्यात् ↩︎ ↩︎

  68. ग्, घ्: संसृष्टभूतिसृष्टिर्वै ↩︎ ↩︎

  69. सर्वत्र वारयति लारयति इत्यस्ति ↩︎ ↩︎

  70. क्, ख्: सम्भवम् ↩︎ ↩︎

  71. ख्: हृदयस्थं हि सम्पदा; ग्, घ्: यदन्तरथं हि सम्पदात् । (पाठो) अधधस्थं हि ↩︎ ↩︎

  72. ग्, घ्: दोषैस्तत् ↩︎ ↩︎

  73. क्, ख्: यथाध्यानम् ↩︎ ↩︎

  74. क्, ख्: ह विनात्मना ↩︎ ↩︎

  75. ग्, घ्: विद्यार्थिनाम् ↩︎ ↩︎

  76. ग्, घ्: मुच्यते त्वापृतेः रावृतेः ↩︎ ↩︎

  77. ग्, घ्: पुरुषाधीनमायान्तम् ↩︎ ↩︎

  78. सर्वत्र अस्मीति लक्षणम् ↩︎ ↩︎

  79. क्, ख्: व्रतम् ↩︎ ↩︎