३५ अध्यायः

अथ पञ्चत्रिंशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

इत्युक्तं धूपघण्टाया लक्षणं लक्ष्मिवर्धनम् ।
यस्यां सञ्चाल्यमानायां 1 धूपदानावधौ द्विज ॥ १ ॥

मूलम्

सन्निधिं 2 भजते शश्वन्मन्त्र आराधकस्य च ।
अथाङ्गुलैस्स्वकैः कुर्यादध्वमानमयैस्तु वा ॥ २ ॥

चतुर्विंशतिभिर्ब्रह्मन् धूपं दाहकमुत्तमम् ।
आयामेनाथ शिल्पीयैरायशुद्धैस्तु पूर्ववत् ॥ ३ ॥

स्वचतुर्थांशमानेन तद्वक्त्रमनलाश्रयम् ।
चतुरश्रं समापाद्य वृत्तं वाष्टाश्रमब्जज ॥ ४ ॥

अस्याष्टाश्रस्य वै मध्ये कुर्याच्चक्रं तु साम्बुजम् ।
कमलं वा सहेतीशं स्वस्तिकं वा नलग्र (लङ्गृ) हम् ? ॥ ५ ॥

युक्तमुष्णीषपट्टेन निष्ठोद्देशात्तु कम्बुना ।
चतुरश्रस्य वृत्तस्य तच्चक्रस्याथ मे शृणु ॥ ६ ॥

लक्षणं हि यथावस्थं सविशेषं महामते ।
चतुरश्रं समापाद्य क्षेत्रं वा वर्तुलं समम् ॥ ७ ॥

तदन्तरेऽब्जमब्जोत्थ नलिनीनालराजितम् ।
केवलं तु सचक्रं वा विधिवद्भोगभाजितम् ॥ ८ ॥

आमध्यादष्टधा तं वै कृत्वा वै सुसमैः पुरा ।
भ्रमं दद्यात् षडंशेन कर्णिकाकोटरात्ततः ॥ ९ ॥

भ्रमन्तं कर्णिकाखातं निम्नतां च नयेद्द्विज ।
तन्मानं गोलकार्धेन जानीयान्मुद्रितं यथा ॥ १० ॥

तृतीयांशेन षड्भागात् परितः कर्णिकोच्छ्रितिः ।
किञ्जल्कैस्तु सुसंवीतं तन्मानेनोपलक्षितैः ॥ ११ ॥

सप्तमांशात्तु यच्छिष्टं बहिः केसरसन्ततेः ।
भागद्वयं तु वै येन दलजालं समाप्य च ॥ १२ ॥

यथाभिमतसङ्ख्यं च एवं भागेन तद्बहिः ।
मुक्ताजालसमोपेतं चक्रमापाद्य पूर्ववत् ॥ १३ ॥

अष्टमांशाच्चतुर्थांशं भागमादाय वै द्विज ।
क्षेत्रस्य चोक्तमानस्य वेद्यर्थमनुयोज्य च ॥ १४ ॥

वेद्याः कोणचतुष्के तु (च) कुर्याच्छङ्खचतुष्टयम् ।
चतुरश्रस्य या प्रोक्ता वेदिका शङ्खभूषिता ॥ १५ ॥

स्थितिर्नैषा च विहिता वृत्तक्षेत्रस्य पद्मज ।
पद्मपृष्ठाद्विनिष्क्रान्तं यथाभिमतवर्तुलम् ॥ १६ ॥

वेदिकावनिपर्यन्तं चक्रनेम्यवधिं तु वा ।
वक्त्राकारं सुवृत्तं वा तदुद्देशात्तु तं पुनः ॥ १७ ॥

वेदिसन्धारणार्थं तु प्रोच्छ्रितं पङ्कजद्वयम् ।
तन्मध्ये लक्षणोपेतं स्थितं पद्मासनादिना ॥ १८ ॥

कुर्यादाग्नेयमाकारं तत्पादयुगलं तु वै ।
प्रसारितं स्ववक्त्रं च प्रोच्छ्रितं श्रोत्रदेशगम् 3 ॥ १९ ॥

प्। २००)

विश्वास-प्रस्तुतिः

नालावसाने सम्पाद्य कर्णिकाकमले द्विज ।
अर्धप्रफुल्लै रचितैः पद्मपत्रैस्तथागतैः ॥ २० ॥

तन्मूले साधिकां कुर्यात्तद्विस्तारां महामते ।
क्ष्माक्षेत्रं स्वस्तिकोपेतं सुषिरं सुदृढं तु वा ॥ २१ ॥

पृष्ठदेशेऽथ पद्मस्य मरुत्क्षेत्रं सबिन्दुकम् ।
कुर्यादाधारभूतं च क्ष्माक्षेत्रस्योन्नतेस्समम् ॥ २२ ॥

सार्धं क्ष्माव्यासविस्तारं तत्समं द्विगुणं तु वा ।
चक्रनेम्याश्रितं चैव प्रलीनं तच्च सुखनम् ॥ २३ ॥

आद्यं वा किङ्किणीजालं विघ्नविद्रावणं परम् ।
इत्येवं सविशेषं हि लक्षणं समुदाहृतम् ॥ २४ ॥

मान्त्रस्य धूपपात्रस्य सामान्यमथ मे शृणु ।
वृत्तस्याभ्यन्तरे पद्मं कर्णिकाकेसरान्वितम् ॥ २५ ॥

अष्टपत्रं समापाद्य व्योमवृत्तविभूषितम् ।
मुक्तासूत्रान्वितं वाथ एवमेव सवेदिकम् ॥ २६ ॥

अन्तरा द्वादशारेण साम्बुजेनाथ वा * * * * ।
विचित्रपत्रविततं कुर्यात् पृष्ठावधेस्ततः ॥ २७ ॥

प्रफुल्लपत्रस्थाने तु उष्णीपांशुकभूषितम् ।
वक्त्रविश्रामभूतं च आधारवलयान्वितम् ॥ २८ ॥

शुद्धं सुश्लक्ष्णनालं च नलिनीरचनोज्झितम् ।
एवमभ्यूह्यमाकारं मानेनाभिमतेन तु ॥ २९ ॥

सर्वलोहैस्स्वशक्त्या तु कृतं यच्छति वै सुखम् ।
मन्त्रिणां सुगृहस्थानां भक्तानां कमलोद्भव ॥ ३० ॥

वक्ष्ये समुद्गराख्यस्य लक्षणं तन्निबोधतु ।
विस्तारोद्दिष्टमानेन सुषिरं वृत्तसम्पुटम् ॥ ३१ ॥

सुसमं प्राक्समापाद्य समुद्गकमिवाब्जज ।
सनालं 4 च तयोरेकमुपरिष्टाच्च मध्यतः ॥ ३२ ॥

प्रफुल्लकमलेनैव अधोवक्त्रेण पद्मज ।
द्वितीयमूर्ध्ववक्त्रेण स्थगितं पङ्कजेन तु ॥ ३३ ॥

सच्छिद्रं बीजसङ्घेन युक्तमूर्ध्वस्थितं हि यत् ।
नालमापाद्य मूलाद्वै विनतेन गजाङ्घ्रिणा ॥ ३४ ॥

नालदेशगलाद्वाभ्यां स्थित्यर्थं विनियोज्य च ।
एवं प्रफुल्लरूपाणां लक्षणं समुदाहृतम् ॥ ३५ ॥

प्रार्थितानामिदानीं 5 वै लक्ष्म शृणु यथागतम् ।
प्रागायामाच्चतुर्थांशं वैतत्येन महामते ॥ ३६ ॥

चतुरश्रायतं क्षेत्रं निक्षिप्य वसुधातले ।
अष्टधाथ तमायामं सुसमं संविभज्य च ॥ ३७ ॥

चतुर्धा विस्तृतेश्चैव कुर्यात्तदनु पद्मज ।
अष्टभागोन्नतं पीठं प्रागुक्तरचनान्वितम् ॥ ३८ ॥

पादाद्युष्णीषपर्यन्तं यथाविस्तारविस्तृतम् ।
पीठार्धेनोच्छ्रितं चैव विस्तारात् त्र्यंशसम्मितम् ॥ ३९ ॥

कमलं पीठमध्ये तु कुर्याद्द्वितयकर्णिकम् ।
अष्टपत्रं सकिञ्जल्कं व्योमवृत्तविभूषितम् ॥ ४० ॥

विस्ताराच्चार्धभागेन पृथुलं चोन्नत्तेः पुनः ।
सार्धभागचतुष्केन अष्टाश्रं वा सुवर्तुलम् ॥ ४१ ॥

चतुरश्रं तु वा रम्यं तदेव रचनान्वितम् ।
स्तम्भमापाद्यमेवं हि यथाभिमतमब्जज ॥ ४२ ॥

येभ्यो यद्वर्तुलं तद्वै विचित्ररचनान्वितम् ।
स्तम्भमस्तकविश्रान्तं बाहुल्येनांशसम्मितम् ॥ ४३ ॥

पीठतुल्यं तु विस्ताराद्द्वादशारविभूषितम् ।
नाभिनेमिप्रथीयुक्तं मुक्ताहाराद्यलङ्कृतम् ॥ ४४ ॥

प्राग्वत्सकिङ्किणीकं च चक्रमापाद्य पद्मज ।
तदक्षमध्यसंरूढं सार्धांशेनोन्नतं तु वै ॥ ४५ ॥

प्। २०१)

विश्वास-प्रस्तुतिः

अग्रात्पीठसमं चैव बाहुल्याच्चक्रसम्मितम् ।
विस्तारादर्धभागेन अष्टोद्देशाच्च सङ्कटम् ॥ ४६ ॥

क्रमशश्चानुपातेन तद्विस्तारं विधीयते ।
मुखमेवं समापाद्य सधूमस्यानलस्य च ॥ ४७ ॥

मूलम्

क्रमशश्चानुपातेन तद्विस्तारं विधीयते ।
मुखमेवं समापाद्य सधूमस्यानलस्य च ॥ ४७ ॥

विश्वास-प्रस्तुतिः

सदाश्रवं सदाकालं विभोरर्चनकर्मणि ।
जलजैस्स्थलजैश्चैव प्राणिभिर्नाकजैस्ततैः 6 ॥ ४८ ॥

पत्रवल्लीवितानैश्च सशङ्खैः स्वस्तिकैः कजैः ।
कुसुमस्तवकैः स्वच्छैः सिद्धविद्याधरादिकैः ॥ ४९ ॥

देवाङ्गनासमेतैश्च दिक्षु वेशो भवेद्बहिः ।
एतत्प्रासादयुक्तस्य वृत्तपीठाननस्य च ॥ ५० ॥

यथावदुपदेक्ष्यामि सन्निवेशमतोब्जज ।
बलित्रितयसंयुक्तं शङ्खाननमिवासनम् ॥ ५१ ॥

पद्ममानोन्नतं कुर्यादासनोपरि पद्मज ।
स्तम्भाधारं विचित्रं च दिव्यमामलसारकम् ॥ ५२ ॥

रचनारचितं स्तम्भं रक्तपूर्वमथोच्छ्रितम् ।
बलयावलितुल्यं वा स्तम्भनालस्य तृपरि ॥ ५३ ॥

चक्रवत्कमलं कुर्यात् सकिञ्जल्कं द्विषट्पदम् ।
विस्तीर्णकर्णिकं विप्र प्राग्वद्वक्त्रं तदूर्ध्वगम् ॥ ५४ ॥

यथोक्तरचनोपेतं परितः किन्तु वर्तुलम् ।
मुक्तासूत्रान्वितं चैव किङ्किणीजाललम्बितम् ॥ ५५ ॥

एभ्यश्चोक्तमथैकं वै सविधानं तदब्जज ।
जलजस्थलजा 7 यात्म्यरचना ? रचिता मया ॥ ५६ ॥

समभ्यूह्य च सा कार्या सर्वेषां सर्वदाब्जज ।
स्फुटावस्य * * * * ? यस्मिन् वै कृताङ्गे ? त्यन्तरजते ॥ ५७ ॥

इदमुक्तं समासेन लक्षणं च सविस्तृतम् ।
धूपदाहक्रियाङ्गस्य नानाकृतिधरस्य च ॥ ५८ ॥

सम्पाद्यैवं च संस्कृत्य नीत्वा सत्यन्तता ? पुनः ।
स्वमन्त्राधिष्ठितं कृत्वा पूज्यमाधारसंस्थितम् ॥ ५९ ॥

मूलतस्स्वस्तिकास्थाने क्ष्मातत्त्वं पञ्चलक्षणम् ।
सलिलं कमलं विद्धि चक्रमग्निं महत्प्रभम् ॥ ६० ॥

किङ्किणीजालमनिलमाकाशं कर्णिकोदरे ।
इत्येवं साधिभूताधिदैवतानुगतं हि वै ॥ ६१ ॥

प्राक् प्रोक्तं भावनीयं च सिद्धयेऽखिलकर्मणाम् ।
चक्रस्य सकलं रूपं नाभ्यरानेमिसप्रथि ? ॥ ६२ ॥

निष्कलं हि सुवृत्तं यत् व्योमवृत्तेति गीयते ।
एवं लक्षणसंयुक्तं धूपपात्रं समर्चयेत् ॥ ६३ ॥

संस्कृत्य च यथान्यायं स्ववंशस्य च कीर्तयेत् ।
स्वनामचिह्नितं कृत्वा प्रतिपाद्य महामते ॥ ६४ ॥

हरेरायतने दिव्ये सुरसिद्धनिषेविते ।
त्रैकाल्यं बलिदानेन धूपधूमेन वै सह ॥ ६५ ॥

वादयेत् सुखनां घण्टां भेरीशब्दादिकैर्युताम् ।
स्तोत्रैः प्रदक्षिणीकुर्याद्बहुधा दिव्यमालयम् ॥ ६६ ॥

सिद्धसङ्घं च तत्रस्थं शब्दब्रह्मैकमासनम् ।
श्रुत्वा घण्टारवं बाह्यात् परितोषं महामते ॥ ६७ ॥

कस्येदमचिराद्याति अमिव्यक्तिमनाहतम् ।
भव्यानामुपदेशार्थं येनेदं व्यञ्जितं बहिः ॥ ६८ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां धूपाधारलक्षणो नाम

पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

  1. क्, ख्: सञ्चाल्य * * * ↩︎ ↩︎

  2. अत्र; क्, ख्: कोशयोः ग्रन्थानुक्रमविपर्यासोऽस्ति यथा धूपदानावधौ द्विज इत्यनन्तरं अष्टपत्रं समापाद्य इत्यारभ्य एतत्प्रासादयुक्तस्य वृत्तपीठाननस्य च इत्यन्तान् पञ्चविंशति श्लोकान् विलिख्य सन्निधिं भजते इत्यादिग्रन्थः प्रमादाल्लिखितो दृश्यते ↩︎ ↩︎

  3. क्, ख्: श्रोत्रदेशिकम् ↩︎ ↩︎

  4. क्, ख्: वरालम् ↩︎ ↩︎

  5. ग्, घ्: प्रोत्थितानाम् ↩︎ ↩︎

  6. ग्, घ्: कजैश्शुभैः ↩︎ ↩︎

  7. क्, ख्: जलजस्थलजा इत्यर्धमधिकमस्ति ↩︎ ↩︎