३४ अध्यायः

अथ चतुस्त्रिंशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

क्षेत्रे वायतने दिव्ये तीर्थोद्देशेन सङ्कुले ।
क्षुद्रप्राणिविमुक्ते च वने तूपवने शुभे ॥ १ ॥

मूलम्

भूगृहे वा गिरेः शृङ्गे गुप्ते देवगृहान्तरे ।
स्वास्थ्यं मत्वैकदेशे वा गोष्ठे द्विजपरिग्रहे ॥ २ ॥

अर्धरात्रादतिक्रान्ते काले कमलसम्भव ।
स्वमन्त्रस्याग्रतस्त्वेव तत्त्वाभ्यासं समाचरेत् ॥ ३ ॥

तत्र श्रमजये लब्धे दत्त्वार्घ्यं मन्त्रमूर्द्धनि ।
घण्टाशब्दसमोपेतं धूपं दत्त्वा महामते ॥ ४ ॥

स्तुत्वा प्रदक्षिणीकृत्य शुचिस्थाने तु सास्तरे ।
कृष्णाजिनप्रतिच्छन्ने कुतपे कम्बले तु वा ॥ ५ ॥

निद्रां सन्त्यज्य वै ब्रह्मन् पावने शयने स्थितः ।
ब्राह्मे मुहूर्ते चोत्थाय पञ्चाङ्गं स्नानमाचरेत् ॥ ६ ॥

प्लवने वाप्सु मध्यै वा सन्ध्यां कृत्वा यथाविधि ।
तस्याग्रतश्चोपविश्य निर्मलं दर्पणं द्विज ॥ ७ ॥

दर्शयित्वोपसंहृत्य मन्त्रं हृत्कमलोदरे ।
नित्यप्रतिष्ठितं मन्त्रं विना स्थलजलात्मकान् 1 ॥ ८ ॥

मन्त्रान् क्रियाङ्गसंरुद्धान् संहृत्य तदनन्तरम् ।
शेषमर्घ्यादिकं सर्वं भुक्तपूर्वेण वै सह ॥ ९ ॥

पाणिना तोयपूर्णेन विष्वक्सेनाय चार्प्य च ।
प्राग्वदम्भसि निक्षिप्य समाहृत्य तदाखिलम् ॥ १० ॥

स्वदेहादुपसंहारमन्त्राणामपि चाचरेत् ।
मनसात्मनि विप्रेन्द्र कुर्याद्भोगार्जनं ततः ॥ ११ ॥

भगवद्यागसिध्यर्थं शुद्धेन द्रविणेन च ।
याचयित्वा च पात्रेभ्यो वैष्णवेभ्यो हि नान्यथा ॥ १२ ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

अत्यर्थेन जगन्नाथ भूयोभूयः प्रशंससि 2
भोगेभ्यो धूपदानं च घण्टाध्वनिसमन्वितम् ॥ १३ ॥

महत्तां ज्ञातुमिच्छामि प्रमाणं लक्षणं तथा ।
यथावद्धूपघण्टाभ्यां धूपाग्नेर्धारकस्य च ॥ १४ ॥

स्वरूपं धूपधूमस्य लक्षणं प्रत्युदीर्यताम् 3

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

शब्दब्रह्मैकदेहायाः लक्षणं कमलोद्भव ।
प्रमाणमतिशुद्धं च सप्रमेयं निबोधतु ॥ १५ ॥

सममर्धसमं 4 ज्येष्ठमायाम (धम ?) मथ मध्यमम् ।
तत्त्रिभागसमं विद्धि चतुथांशं तु कन्यसम् ॥ १६ ॥

त्रिभागेन तदुच्छ्रायाद्द्वादशांशान्वितेन 5
प्रमाणेन तु विस्तारं त्रिविधं तु विधियते ॥ १७ ॥

प्। १९६)

विश्वास-प्रस्तुतिः

कृत्वा सूत्रपरिच्छिन्नं प्राक्प्रत्यग्दक्षिणोत्तरम् ।
चतुरश्रायतं क्षेत्रमेवमापाद्य वै पुरा ॥ १८ ॥

तिर्यगूर्ध्वगतैस्सूत्रैर्भङ्क्त्वा 6 सम्पूर्यते ? ततः ।
तत्र पञ्चोर्ध्वसूत्राणि दद्यादेकादशानि च ॥ १९ ॥

भुजाख्यानि च वै यानि विभागमथ मे शृणु ।
सार्धैस्तु पञ्चभिर्भागैश्शब्दक्षेत्रं विधीयते ॥ २० ॥

तत्र चक्रं च कमलं सर्वदृश्यं प्रकल्प्य च ।
शङ्खं 7 कमलसम्भूत मुक्ताहारादिकं क्रमात् ॥ २१ ॥

वलयत्रितयान्तस्थं मुक्ताहारं सुवर्तुलम्
भागार्धेनाग्रतः कुर्यात्त्यक्त्वार्धार्धं तदूर्ध्वतः ॥ २२ ॥

शिष्टेनांशेन महता भागार्धेन तदूर्ध्वतः ।
नाभिक्षेत्रान्वितं चक्रं द्वादशारं विधीयते ॥ २३ ॥

केवलं कर्तरीभिर्वा मिश्रं क्ष्मामिश्रितैर्वशात् ।
षोडशारं तु वा विप्र शतशृङ्गं 8 मनोहरम् ॥ २४ ॥

सांशेनाथोर्ध्वभागेन कर्णिकाकेसरान्वितम् ।
चतुर्विंशद्दलं पद्ममापाद्य कमलोद्भव ॥ २५ ॥

चक्रनाभेर्दलाग्राणां 9 वर्जयित्वान्तरं 10 धिया ।
यथाभिमतमानं च सुश्लक्ष्णरचनोज्झितम् ॥ २६ ॥

दलमध्यनिविष्टं च किञ्जल्कनिचयं शुभम् ।
कुर्याद्वा कर्णिकालग्नमुछ्रितं च सुसंहतम् ॥ २७ ॥

ऊर्ध्वे मार्गद्वयेनाथ भागेन शुभलक्षणम् ।
कर्णिकावनिविश्रान्तमर्धदृश्यं च शङ्खराट् ॥ २८ ॥

भुवनावलियोगेन बलीभूतेन भूषितम् ।
ओङ्कारावर्तरूपेण कुम्भं तस्यांशसम्मितम् ॥ २९ ॥

कुम्भोपर्यथ चार्धेन भागेन तु शनैश्शनैः ।
कलशं कु (कृ) शतां ? नीत्वा च्छिद्रदेशावधेः क्रमात् ॥ ३० ॥

शङ्खकुम्भावधेर्विप्र शातनीयं 11 च दिग्द्वयात् ।
मत्स्यवल्लाञ्छनं चैव अर्धमर्धं पदद्वयात् ॥ ३१ ॥

चतुरंशार्धविस्तीर्णा प्रथमा भुवनावली ।
द्वितीया विरता चान्या तृतीया भागसम्मिता ॥ ३२ ॥

12 अग्रात् स्वधिया त्वीषदूर्ध्वान्तं कमलोद्भव ।
अनुपातवशान्मध्यं 13 क्षामं क्षेत्रं विधीयते ॥ ३३ ॥

शङ्खोपरि यथा कार्यं तथा तदवधारय ।
सार्धभागचतुष्केण तदुच्छ्रायं महामते ॥ ३४ ॥

विस्तारं सार्धभागेन गदायां विहितं तु वै ।
मुष्टिसञ्ज्ञं तु यत्पीठं कुर्याद्भागोन्नतं 14 द्विज ॥ ३५ ॥

चतुरश्रं तु वा श्लक्ष्णं चित्रकर्मविभुषितम् ।
वृत्तायां चतुरश्रं तु तुर्याश्रं वर्तुले स्मृतम् ॥ ३६ ॥

तुल्यरूपं हि वा ब्रह्मन् करग्राहं च तत्र यत् ।
तत्त्वष्टाग्रं (श्रम्) तु वा वृत्तं सामान्यं सर्वतः स्मृतम् ॥ ३७ ॥

मुष्टेरूर्ध्वगतं कुर्याद्गदास्तम्भं च पूर्ववत् ।
विद्धि तं सप्तपर्वं 15 तु ग्रन्थिका शुक्तिभिर्युतम् 16 ॥ ३८ ॥

मुक्ताबलिगणोपेतं तीक्ष्णाश्रं (ग्रम्) चतुरश्रकम् ।
बलयाकृतिरूपेण युक्तं तारागणेन च ॥ ३९ ॥

शुक्तिबृन्दसमेतेन वर्तुलं वा समाप्य च ।
रचनारहितं श्लक्ष्णं केवलं चतुरश्रकम् ॥ ४० ॥

अष्टाश्रं च सुवृत्तं वा स्वप्रमाणेन लक्षितम् ।
कुर्यादेवं गदास्तम्भमथ तन्मस्तकोपरि ॥ ४१ ॥

प्। १९७)

विश्वास-प्रस्तुतिः

भागद्वयोन्नतं कुर्याद्द्विभुजं वा चतुर्भुजम् ।
प्रागुक्तं प्रविभक्ताङ्गं पक्षमण्डलमण्डितम् ॥ ४२ ॥

तत्पक्षविस्तृतं कुर्याच्चतुर्भागसमं द्विज ।
त्रिभागविततं चाथ पुच्छपक्षद्वयं हि यत् ॥ ४३ ॥

तत्समं विततं चैव मुख्यपाणियुगं तु वै ।
विधेयं कपलोद्भूत तस्य सम्पुटवद्यथा ॥ ४४ ॥

पक्षवत्प्रसृतं खस्थं वेदाध्ययनचिह्नितम् ।
मन्त्रजातरतं चैव विधेयं वा सविस्तरम् ॥ ४५ ॥

प्रस्तार्य विधिनानेन स्वयं क्षितितले ततः ।
शिल्पिनश्चैव द्रष्टव्यं प्रमाणेनाकृतैस्सह ॥ ४६ ॥

न्यूनत्वमतिरिक्तं वा अतो हेतोस्तदग्रतः 17
पूरयेद्धृदयेनैव स्वधिया कर्मणा स्वयम् ॥ ४७ ॥

चलन्तं गर्भमानेन तीक्ष्णलोहेन निर्मितम् ।
भागार्धेनाधिकं क्षेत्रात् शब्दव्यञ्जकमब्जज ॥ ४८ ॥

एतावदाद्यं विहितं निर्माणं तैजसं महत् ।
व्यक्तं यत्राश्रितं कालं नाभिस्थं कमलोद्भव ॥ ४९ ॥

तत्र चाक्रमराबृन्दं स्वकं 18 द्वादशकं स्मृतम् ।
तमेव षोडशारं च वर्णैस्सह नपुंसकैः ॥ ५० ॥

वर्णानां त्रिविधं रूपं सर्वेषां कमलोद्भव ।
संस्थितं वैखरीनिष्ठं पश्यन्ती पूर्वमब्जज ॥ ५१ ॥

अराश्रितद्विषट्कारे वाक्स्वरूपं परं हि यत् ।
तत्रैव षोडशारे च तत्रैवाकर्तरीषु च ॥ ५२ ॥

मध्यमाख्यस्वरूपेण नित्यमेव हि वर्तते ।
अत ऊर्ध्वं चतुर्विंशत्सङ्ख्यं वर्णगुणं हि यत् ॥ ५३ ॥

दलजालं हि यत्पद्मं परिज्ञेयं महामते ।
प्रकारसञ्ज्ञं यद्वर्णं विद्धि सा पद्मकर्णिका ॥ ५४ ॥

शङ्खं यकारवर्णं तु समुष्टीके गदाग्रहे ।
रादयस्सप्त ये वर्णा हान्ताः पर्वगदात्मकाः ॥ ५५ ॥

क्षान्तं पतत्रिराड्विद्धि एवं कमलसम्भव ।
शब्दब्रह्मस्वरूपं च घण्टाविग्रहलक्षणा ॥ ५६ ॥

विज्ञेया भगवच्छक्तिः षाड्गुण्यान्तर्गता हि सा ।
तेजोगणसमोपेता तेजस्तद्द्रव्यरूपधृक् ॥ ५७ ॥

घण्टाख्यमेतद्वै विद्धि अध्यक्षीयं गुणद्वयम् ।
शब्दब्रह्मत्वहेयं यद्धृदयाकाशमध्यगम् ॥ ५८ ॥

नित्योदितमनौपम्यं मनसा (स्या ?)दगोचरम् ।
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते ॥ ५९ ॥

परस्वरूपमन्त्राणामेतल्लक्षणमब्जज ।
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके ॥ ६० ॥

ननामन्त्रस्वरूपे च वर्तते वर्णविग्रहे ।
भोगमोक्षप्रदे मन्त्रे य आप्तस्सद्गुरोर्मुखात् ॥ ६१ ॥

पञ्चस्थानगतं ज्ञेयं भक्तैर्दिव्यक्रियापरैः ।
बहिस्थं प्रतिमादौ तु जिह्वाग्रे 19 हृत्कुशेशये ॥ ६२ ॥

धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ।
स्वरूपं ज्योतिरेषां तत् भासयत्संस्थितं हृदि ॥ ६३ ॥

मध्यमेन स्वरूपेण अभ्युच्छिन्नं महामते ।
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः ॥ ६४ ॥

घण्टायां चाल्यमानायामच्छिन्नमनुभूतये (यते) ।
अस्यामाश्रित्य ये संस्था ज्ञातव्यास्तु सदैव हि ॥ ६५ ॥

नित्यमर्चनकाले तु साधकैस्सिद्धिलालसैः ।
कालवैश्वानरोपेतमनन्तं शब्दचोदके ॥ ६६ ॥

मूलम्

नित्यमर्चनकाले तु साधकैस्सिद्धिलालसैः ।
कालवैश्वानरोपेतमनन्तं शब्दचोदके ॥ ६६ ॥

विश्वास-प्रस्तुतिः

मुक्ताहाराश्रितं शङ्खं घण्टायां वदने स्थितम् ।
संस्थितं च महाबुद्धे तदूर्ध्वे गगनाश्रितम् ॥ ६७ ॥

प्। १९८)

विश्वास-प्रस्तुतिः

चक्रं यस्मिन्नरोद्देशे द्वादशात्मा स्थितो रविः ।
मासात्मना पुनस्सैव कर्तरीष्ववतिष्ठति ॥ ६८ ॥

षोडशात्मकलात्मा वै कलादेहस्तु चन्द्रमाः ।
सर्वेषु वृत्तक्षेत्रेषु वरुणस्स्वयमेव हि ॥ ६९ ॥

तत्त्वसम्बलिताव्यक्तपद्मपत्राश्रितस्तु वै ।
जीवः कमलकिञ्जल्के कर्णिकाश्रित ईश्वरः ॥ ७० ॥

शङ्खाहितश्च प्रणवो विद्यां विद्धि गदाश्रिताम् ।
प्राणाधिदैवं गरुडमित्येवं देवतागणम् ॥ ७१ ॥

ध्यात्वाभ्यर्च्य पुरार्घ्याद्यैर्धूपयित्वा यथाविधि ।
पीठप्रतिष्ठितां कृत्वा कालेषु कमलोद्भव ॥ ७२ ॥

सञ्चालनीया वैधेषु तानि मे गदतः शृणु ।
गणेशपीठमध्यस्थदेवानामर्चने ततः ॥ ७३ ॥

मूलम्

सञ्चालनीया वैधेषु तानि मे गदतः शृणु ।
गणेशपीठमध्यस्थदेवानामर्चने ततः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

आहुतीकालमन्त्राणां धूपदाने विशेषतः ।
जपस्तुत्यवसानाभ्यां प्रवृत्ते चाग्नितर्पणे ॥ ७४ ॥

पूर्णाहुतिप्रदाने च मन्त्राणां च विसर्जने ।
विष्वक्सेनार्चनाकाले तत्पूजाप्रतिपादने ॥ ७५ ॥

नातोऽन्यथा स्यात् विहितं चालनं सिद्धिमिच्छता ।
प्रमाणं लक्षणोपेतं सप्रमेयं सदैवतम् ॥ ७६ ॥

मुख्याभासानि चान्यानि रूपाण्यस्य निबोध मे ॥ ७७ ॥

चक्रादिगरुडान्तेन पञ्चसङ्ख्योदितेन तु ॥ ७८ ॥

पादनीरचनां 20 विप्र सर्वासां च विधीयते ॥ ७९ ॥

विततं दीर्घपत्रं तु किञ्जल्कनिचयान्वितम् ॥ ८० ॥

विश्वास-प्रस्तुतिः

तत्कर्णिकाश्रितं कुर्यात् शङ्खाद्यं त्रितयं हि यत् ।
वक्त्रसूत्रसमीपे तु चक्रं वा केवलं द्विज ॥ ८१ ॥

कृत्वा 21 पद्मान्वितं पश्चात् शङ्खं पूर्वं हि तत्त्रयम् ।
यथोदितं च सम्पाद्य सर्वं गरुडपश्चिमम् ॥ ८२ ॥

विमुक्तचक्रपद्मस्य क्षेत्रस्योपरि पद्मज ।
शङ्खं गदां खगेन्द्रं च सम्पाद्य चतुरानन ॥ ८३ ॥

कवाटोपरि पद्मं तु दीर्घच्छदमधोमुखम् ।
शङ्खचिह्नविनिर्मुक्तं 22 गदानालखगान्वितम् ॥ ८४ ॥

समानेन सभूमेर्वै शङ्खं कृत्वा यथोदितम् ।
गदा कार्या तदूर्ध्वे तु पन्नगारिसमन्विता ॥ ८५ ॥

कुर्याद्वा गरुडोद्देशे ऊर्ध्ववक्त्रं च हेतिकम् ।
कमलं वा स्ववक्त्रं तु तदुदेशे विधीयते ॥ ८६ ॥

शङ्खं च दक्षिणावर्तं बलित्रितयभूषितम् ।
एकैकमेवमापाद्य शङ्खचक्राम्बुजोज्झिते ॥ ८७ ॥

सुश्लक्ष्णवर्तुले क्षेत्रे मुक्तातारगणानने ।
निर्मुक्तलाञ्छना घण्टा विघ्नानामाश्रया भवेत् ॥ ८८ ॥

लाञ्छितेनान्विता विप्र विघ्नविद्राविणी हि सा ।
अतः सलाञ्छना कार्या नूनं भर्तृफलाप्तये ॥ ८९ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां धूपघण्टालक्षणं नाम

चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

(समुदितश्लोकसङ्ख्या ८९ ॥)

  1. क्, ख्: जलात्मिकान् ↩︎ ↩︎

  2. क्, ख्: भूयः प्रशस्यते ↩︎ ↩︎

  3. क्, ख्: प्रत्युदीर्यते ↩︎

  4. क्: स्व * * * मध्यमम्; ख्: स्व * * * शमाशक्तुमज्येष्ठमायाममथमध्यमम्; ग्, घ्: स्वशमार्धशमज्येष्ठमायाममथमध्यमम् ↩︎ ↩︎

  5. दशांशोज्झितेन (पाठात्तरम्) ↩︎ ↩︎

  6. क्, ख्, ग्, घ्: भुक्त्वा सम्पूर्य ↩︎ ↩︎

  7. ग्, घ्: शाखाकमल ↩︎ ↩︎

  8. ग्, घ्: श्रितशृङ्गम् ↩︎ ↩︎

  9. क्, ख्: चक्रारभेर्दला ↩︎ ↩︎

  10. क्, ख्: वर्जयित्वा * * * ↩︎ ↩︎

  11. क्, ख्: शातनिर्य ↩︎ ↩︎

  12. क्, ख्: * * * अग्रात् स्वधिया ↩︎ ↩︎

  13. सर्वत्र अनुतापवशात् इति ↩︎ ↩︎

  14. क्, ख्: भोगोन्नतम् ↩︎ ↩︎

  15. क्, ख्: सप्त पूर्वम् ↩︎ ↩︎

  16. क्, ख्: शक्तिभिः ↩︎ ↩︎

  17. क्, ख्: हेतोस्तटेऽग्रतः ↩︎ ↩︎

  18. ख्: स्वरं चादशकम् ↩︎ ↩︎

  19. क्, ख्: * * * सोऽग्रे इत्कुशेशये ↩︎ ↩︎

  20. ग्, घ्: वादनीरचनाम् ↩︎

  21. ग्, घ्: कृत्वा पद्मोज्झितम् ↩︎ ↩︎

  22. ग्, घ्: विनिर्युक्तम् गदानाल इत्यारभ्य कृत्वा यथोचितम् इत्यन्तं लुप्तम् ↩︎ ↩︎