अथ त्रयस्त्रिंशोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
नवमूर्तेः परिज्ञातं पूर्वमाराधनं मया ।
नानात्वेनापवर्गार्थं 1 न ज्ञातं चतुरात्मनः ॥ १ ॥
मूलम्

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
अनुज्झितस्वरूपस्य देवस्य चतुरात्मनः ।
केवलस्यार्चनान्मोक्षं भवते तद्द्विधार्चनात् ॥ २ ॥

नानाफलाप्तये ब्रह्मन्नानारूपधरस्य च ।
नानात्वेनार्चनं भूयः शृणु सम्यग्यथास्थितम् ॥ ३ ॥

व्यापकं परमात्मानमादिदेवमधोक्षजम् ।
प्रागर्चनीयं सर्वत्र पूजान्ते चापि मध्यतः ॥ ४ ॥

ततः प्रभवयोगेन प्राक्पत्रादि समर्चयेत् ।
चतुष्कं सङ्कर्षणाद्यं क्रमान्नारायणान्तिम(क)म् ॥ ५ ॥

पुनरप्यययोगेन बन्ध्याधीशपदावधि ? ।
नारायणाद्यं यष्टव्यं सङ्कर्षणान्तमेव हि ॥ ६ ॥

एवमाग्नेयपद्मे 2 तु प्रद्युम्नाद्यं चतुष्टयम् ।
शब्दब्रह्मादिदेवान्तमर्चनीयं सदैव हि ॥ ७ ॥

दक्षिणे त्वनिरुद्धाद्यं गरुडासनपश्चिमम् ।
विहितं चैव विन्यासं प्रभवाप्ययलक्षणम् ॥ ८ ॥

नारायणनृसिंहान्तं रक्षःपद्मेऽर्चयेत्ततः ।
प्रत्यग्दिक्संस्थिते 3 पद्मे ब्रह्माद्यं क्ष्माधरान्तिमम् ॥ ९ ॥

सङ्कर्षणावसानान्तं 4 विष्ण्वाद्यं मारुतेऽम्बुजे ।
नृकेसरिं वराहं च ज्ञानाद्योदकृद्युदक् ? ॥ १० ॥

त्रयं सङ्कर्षणाद्यं यत् ईशाने क्ष्माधरादिकम् ।
प्रभवेनाप्ययेनैव माननीयमतः क्रमात् ॥ ११ ॥

नवसङ्ख्यमिदं 5 विप्र प्रथमं यत्प्रकीर्तितम् ।
तदीयं जायते तस्य प्रभावं तत्क्रमार्चनात् ॥ १२ ॥

चातुरात्म्यचतुर्वर्गफलदं भावितात्मनाम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
नानाफलाप्तिरचिराज्जायते च फलार्थिनाम् ।
स्वातन्त्र्येणार्चनान्नित्यमेतेषां चतुरात्मनाम् ॥ १४ ॥

यस्य यस्य चतुर्मूर्तेः प्रथमं यत्प्रकीर्तितम् ।
तदीयं जायते तस्य प्रभावं तत्क्रमार्चनात् ॥ १५ ॥

एतावदुक्तं हि फलं सन्निवेशवशात्तु वै ।
यतः प्रतिहतं वीर्यमैश्वर्यं प्रभवाप्यये ॥ १६ ॥

तं विप्र मन्त्रमूर्तीनां मन्त्रमप्रतिमप्रभम् ।
अनन्तं स्वप्रकाशत्वमनौपम्यं जगत्प्रभोः ॥ १७ ॥

परमेश्वरमूर्तीनां परिज्ञानवशात् सति ।
अनादिनिधनोऽनन्तः कर्मिणां प्रतिपत्तये ॥ १८ ॥

प्। १८८)
विश्वास-प्रस्तुतिः
तदुत्तारणसिध्यर्थं व्यूहतामागतस्स्वयम् ।
प्राणेच्छाशब्दकालाख्यचतुरात्मतया नव ॥ १९ ॥

अविशेषस्वरूपस्य देवस्यैव महात्मनः ।
नित्यसन्निहिताशेषशक्तेर्नित्योदितस्य च ॥ २० ॥

शब्दवित्सम्भवानन्दविशेषैर्गमितस्य च ।
इदमुक्तं मया योगं भविनां भवशान्तये ॥ २१ ॥

अहेयमप्यभिन्नं च प्रपञ्चं परमात्मनः ।
सत्यरूपस्य वै सम्यक् क्षोभं निश्रेयसप्रद(भ)म् ॥ २२ ॥

यस्य सांसारिकी मायाचक्रमिच्छावशात्पुनः ।
निर्गता यत्र मुह्यन्ति ऋषयस्सामरा नराः ॥ २३ ॥

यावन्नानुगृहीता वै देशिकव्यक्तिगेन च ।
षाड्गुण्यमूर्तिनानेन परेण चतुरात्मना (नः) ॥ २४ ॥

अस्याराधनकाले तु बहिर्वा हृदयाम्बरे ।
कदम्बपुष्पवद्व्यक्तिं संस्मरेत् षड्गुणोज्वलाम् ॥ २५ ॥

बह्वात्मना 6 चार्चकेन चतुर्वर्णमयेन च ।
स्वरेण वाक्षरेणैव केवलेन सबिन्दुना ॥ २६ ॥

बाह्योपचारनाम्ना 7 तु सुप्रसिद्धेन केन चित् ।
मुख्येनाभिमतेनैव मनसस्तुष्टिदेन च ॥ २७ ॥

न्यस्याङ्गानि स्वकान्यस्य प्राक् सम्पूर्णगुणानि च ।
स्वमन्त्रैरर्चनेनैव स्थानभेदं विनाब्जज ॥ २८ ॥

तस्मिन् कदम्बकुसुमसदृशे मन्त्रगोलके ।
द्वादशाक्षरमन्त्रेण त्वभिन्नेन तु साम्प्रतम् ॥ २९ ॥

व्यक्तिमापाद्य वै तस्यां पुनर्वर्णक्रमेण तु ।
अङ्गोपाङ्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु ॥ ३० ॥

हृदि मूर्ध्नि शिखायां च स्कन्धयोः करमध्यतः ।
नेत्रयोरुदरे पृष्ठे देशे बाहुद्वये ततः ॥ ३१ ॥

ऊरुभ्यां जानुयुग्मे च पादयोस्तदनन्तरम् ।
तत्र प्रणवपूर्वं तु षड्वर्णास्त्वाङ्गिका मताः ॥ ३२ ॥

षडुपाङ्गाभिधास्त्वन्ये एतेषां लक्षणं शृणु ।
यत्सुप्रतिष्ठितं 8 शुद्धं सामान्यं यदनावृत्तम् 9 ॥ ३३ ॥

प्रबुद्धं भास्वरं नित्यं ज्ञानं साक्षात्तदाच्युतम् ।
स्वस्य शक्तिसमूहस्य बलाद्यस्याखिलस्य च ॥ ३४ ॥

उदयस्थितिसंहारकारणेऽङ्गात्मना पुनः ।
विशेषतां समायाति स्वरूपमपि चात्यजन् ॥ ३५ ॥

मन्त्रेशमन्त्रशक्तीनामनन्तानां तु तद्विज ।
नानासामर्थ्यवर्णानां हृदयं रत्नदीपवत् ॥ ३६ ॥

आत्मप्रकाशकं चैव बलादीनां तथा च तत् ।
सर्वातिशायि चैश्वर्यं यद्गुणं पारमेश्वरम् ॥ ३७ ॥

तच्छिरस्सर्वमन्त्राणां श्रीमद्भोगापवर्गदम् ।
या भूरिशक्तिभिः पूर्णा शक्तिर्वै पारमेश्वरी ॥ ३८ ॥

ऊर्ध्वतेजोवहा शुद्धा विधि मान्त्री 10 शिखा तु सा ।
धैर्यं यन्नापरं प्राणादाच्युतं धृतिलक्षणात् ॥ ३९ ॥

तदेव कवचं विद्धि मन्त्राणां हि बलात्मकम् ।
यदप्रतिहतं वीर्यमैश्वर्यं प्रभवाप्ययम् ॥ ४० ॥

तद्विप्र मन्त्रमूर्तीनामस्त्रमप्रतिमप्रभम् ।
यदनन्तप्रकाशत्वमनौपम्यं जगत्प्रभोः ॥ ४१ ॥

तन्नेत्रं तत्परिज्ञानात् धामाचालक्ष्यते परम् ।
हृदा सह प्रलीनं च तत्केषां चिन्महामते ॥ ४२ ॥

स्वकमुज्झित्य वै क्षेत्रं ज्ञानमुद्दिपयेद् स्थितम् ।
मन्त्राणां नेत्रमन्त्रं तु ईश्वरेच्छावशाद् द्विज ॥ ४३ ॥

प्। १८९)
विश्वास-प्रस्तुतिः
क्वचिदङ्गचतुष्कस्य अन्तस्था (ञ्ज ?) जनवत्प्रभा ।
वर्तते मूर्धपूर्वस्य 11 रत्नेष्विव उपाश्रयम् ॥ ४४ ॥

वाचकेन विना तस्मात्तदीयाज्ञामयप्रभा ।
भगवत्कर्मकुशलैः 12 परिज्ञेयार्चना * * * * ताः ॥ ४५ ॥

इत्याङ्गिकी स्थितिस्तावत् सर्वत्र न्यासकर्मणि ।
प्रकाशिताब्जसम्भूत त्वौपाङ्गं निश्चयं शृणु ॥ ४६ ॥

क्रोडीकरोति वै येन ज्ञानधर्मेण सर्वदा ।
बहिर्वा विषयं स्वल्पमुपाङ्गमुदरं च तत् ॥ ४७ ॥

संसिद्धमुपचराद्वै अन्येऽप्येवं महामते ।
उपायधर्मवद्यस्तु सिद्धिमोक्षवशात् पुनः ॥ ४८ ॥

पृष्ठतस्सर्वदाने च ऐश्वर्यस्य फलात्मनः ।
पृष्ठसञ्ज्ञामुपाङ्गं तद् द्वितीयममलेक्षण ॥ ४९ ॥

द्व्यात्मकं हि यदुल्लासं विभोश्शक्त्यात्मनो द्विज ।
सूतीक्ष्णमति सौम्यं 13 च तदुपाङ्गं भुजाभिधम् ॥ ५० ॥

विभूतिशक्तेर्व्यक्तस्य नानाबीजस्य यन्महत् ।
रसं वीर्यमयं क्षेत्रमूरुसञ्ज्ञं तदात्मकम् ॥ ५१ ॥

यत्सर्वज्ञस्य 14 शक्तेर्वै विद्याविद्यात्मकं वपुः ।
जान्वाख्यं तदुपाङ्गं वै पञ्चमं परिकीर्तितम् ॥ ५२ ॥

आच्युतस्थितिशक्तिर्यत् स्वगुणं हि विलक्षणम् ।
सन्धारकत्वमब्जाक्ष तत्पादाह्वमुदाहृतम् ॥ ५३ ॥

सृष्टिसंस्थितिसंहारन्यासे स्वात्मनि वा प्रभोः ।
द्वादशाक्षरपूर्वाणां पूर्वाङ्गोपाङ्गकल्पना ॥ ५४ ॥

सा पुनः स्वल्पवर्णानामधिकाक्षरवर्तिनाम् ।
हीनातिरिक्तरूपापि तदङ्गाः परमेश्वर ॥ ५५ ॥

एवं भजन्ति मां नित्यं प्रक्रियार्थं तु वै पुनः ।
स्वक्षेत्रेष्वर्चयेन्नाम्ना नतिना प्रणवेन तु ॥ ५६ ॥

वर्णाधिकानां मन्त्राणामुपाङ्गेष्विदमाचरेत् ।
सह द्वादशमानैव वर्णेन समुदीरणा ॥ ५७ ॥

सामान्यशब्दभावेन स्यादेव 15 ह्यम्मयी स्थिता ।
अकारादिस्वरेणैव कादिना वा सबिन्दुना ॥ ५८ ॥

स्वरव्यञ्जनमिश्रेण पिण्डीभूतेन पाणिना ।
यत्र द्विजेन्द्र विहितं व्यक्तिदानं पुराणिषु ॥ ५९ ॥

अङ्गोपाङ्गमयी 16 व्याप्तिस्स्मर्तव्या वान्यलक्षणा ।
ज्ञानाङ्गोपाङ्गनिर्मुक्ता मन्त्रज्ञानप्रभात्मिका ॥ ६० ॥

या 17 परा प्रकृतिर्वाणी चिद्रूपा निर्मला परा ।
पूरिताध्यक्षभावेन निष्कलेन महात्मना ॥ ६१ ॥

शरीरमिव जीवेन स्थूलसूक्ष्माद्विलक्षणम् ।
स्थूलं भूतमयं तत्र सूक्ष्मं पुर्यष्टकाभिधम् ॥ ६२ ॥

देहस्थमात्मतत्त्वं तु भोगं विषयजं यथा ।
भुनक्ति तद्वदादत्ते पूर्णव्यक्तिगतः प्रभुः ॥ ६३ ॥

सर्वथा तं स्वमन्त्रेण मन्त्रेशं मूर्तिसंस्थितम् ।
भोगैर्जपैस्तथा स्तोत्रैर्विविधैर्वह्नितर्पणैः ॥ ६४ ॥

दानैविशेषयागैस्तु पितृतर्पणपश्चिमैः ।
नेतव्यमतुलां प्रीति प्रयोगैः प्रतिवाचकैः ॥ ६५ ॥

मन्त्रेशस्यार्चनं कुर्यात् क्रमात्तदनु पौष्कर ।
तन्मूर्तिवाचकादीनां मन्त्रेशानां हि माननाम् ॥ ६६ ॥

अन्तरङ्गाङ्गयुक्तानां लाञ्छनानामपि द्विज ।
भोगभूमौ तु तन्मूर्तौ किन्तु भोगावनेस्तु 18 ते ॥ ६७ ॥

प्। १९०)
विश्वास-प्रस्तुतिः
यथोक्तलक्षणास्सर्वे ध्यातव्यास्तु यथाक्रमम् ।
मन्त्रमूर्तौ सदेहे च प्रस्फुरत्किरणोज्ज्वलाः ॥ ६८ ॥

या परा प्रकृतिर्मान्त्री वैश्वरूप्यात्तु सा पुनः ।
नानानामाक्षरत्वेन नानामूर्तित्वमेव च ॥ ६९ ॥

अतो न विहितं विप्र मूर्तिदानं पृथक् पृथक् ।
मूलमन्त्रवदन्येषां मन्त्राणां पृथगक्षरैः ॥ ७० ॥

कारणान्निर्गताः केचिद्व्याक्तिशक्तिगुणैर्युताः ।
पृथक् व्यक्तिमयाश्चान्ये मन्त्रनाथास्तदिच्छया ॥ ७१ ॥

एकस्सर्वेश्वरोऽनन्तो जीवानामनुकम्पया ।
नानामन्त्रस्वरूपेण संस्थितिं स्वेच्छया यथा ॥ ७२ ॥

प्रकृत्येका तथा बह्वी ह्याधेयानां महात्मनाम् ।
लोकनाथेच्छया विप्र बहुधा संव्यवस्थिता ॥ ७३ ॥

या परा प्रकृतिर्मान्त्री वासुदेवाख्यलक्षणा ।
षाड्गुण्यविग्रहा सर्वशक्तितत्त्वगुणान्विता ॥ ७४ ॥

कोशभूतत्वमापन्ना स्वयमानन्दलक्षणा ।
प्रकाशैकस्वभावे 19 तु सूक्ष्मे स्वे मन्त्रविग्रहे ॥ ७५ ॥

जपात्संस्मरणाद्यस्य स्वव्यक्तिस्थस्य पूजनात् ।
तदभिन्नं परं शान्तं परमाप्नोति तद्व्रती ॥ ७६ ॥

एवमेकत्वमापन्नं योऽर्चयत्यच्युतम् विभुम् ।
नित्याकृतधरस्तस्य ? भोगमोक्षौ करस्थितौ ॥ ७७ ॥

शुद्धसंवित्स्वभावानां ज्ञानादिगुणिनां तु वै ।
स्वमन्त्रशक्तिव्यूहानां व्यक्तये परमेश्वरः ॥ ७८ ॥

स्वेच्छया शब्दशक्तिं स्वामनभिव्यक्तलक्षणाम् ।
प्रकाश्य चाब्जसम्भूत यस्यां मन्त्रमयं वपुः ॥ ७९ ॥

ते सर्वज्ञगुणैश्चाथ 20 मन्त्रैस्सम्प्रोक्तलक्षणाः ।
अनुग्रहार्थं भविनां निबध्नन्ति स्थितिं स्थिराम् ॥ ८० ॥

लिपिव्यूहे तु विविधैर्बीजपिण्डवदातिमिके ।
केवलेऽपि च सम्मिश्रे भुरिसङ्ख्ये जपात्मके ॥ ८१ ॥

ज्ञशुद्धिश्चिदधिष्ठातृवशादमरपूजिता ।
यस्योपचारमन्त्रत्वमामूलादुपगीयते ॥ ८२ ॥
मूलम्
ज्ञशुद्धिश्चिदधिष्ठातृवशादमरपूजिता ।
यस्योपचारमन्त्रत्वमामूलादुपगीयते ॥ ८२ ॥
विश्वास-प्रस्तुतिः
शब्ददेहाः पुनस्त्वेते मन्त्रा मननधर्मिणः ।
अपरिच्युतरूपाश्च नानात्वमुपयान्ति च ॥ ८३ ॥

नानाकारवशाच्चैव नानासत्त्ववशादपि ।
श्रद्धाभक्तिवशान्नाना नानाफलवशात् पुनः ॥ ८४ ॥

नानाजातिवशाच्चापि नानादेशवशात् पुनः ।
नानाकालवशाद्ब्रह्मन् 21 नानासाधनसम्भ्रमैः ॥ ८५ ॥

मोक्षैकनिरतानां च नराणामात्मसिद्धये ।
विषयाक्षिप्तचित्तानां भूतये भविनामपि ॥ ८६ ॥

त्वयोक्तं भगवद्यागं शुद्धसत्त्वस्य कर्मिणः ।
जितेन्द्रियस्य भक्तस्य मन्त्रसिद्धस्य चाच्युत ॥ ८७ ॥

योगं तत्त्वजयार्थं वै ज्ञातुमिच्छाम्यहं पुनः ।
विधिवद्यत्परिज्ञानात् 22 मन्त्रज्ञो लभते स्थितम् ॥ ८८ ॥

निवाताचलदीपाभे समाधौ पारमेश्वरे ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
प्रधानयोगमुक्तं ते कर्मयोगादनन्तरम् ।
तद्गार्हस्थ्यस्य च मुनेर्विहितं नान्ययाजिनः ॥ ८९ ॥

प्। १९१)
विश्वास-प्रस्तुतिः
तथा परमहंसस्य लोकबाह्यस्थितस्य च ।
तत्त्वयोगमतो वक्ष्ये भूमिकाभिन्नलक्षणम् ॥ ९० ॥

शुद्धयेऽखिलतत्त्वानां कृतदीक्षस्य पौष्कर ।
शश्वत्साक्षात्तु करणे नानासिद्धिव्यपेक्षया ॥ ९१ ॥

अपवर्गाप्तये चैव ज्ञानावरणशान्तये ।
शुद्धसंवित्स्वभावेन परमात्मनि तिष्ठति ॥ ९२ ॥

चित्प्रकाशस्वरूपेण मन्त्रात्मनि महामते ।
विभवव्यूहयोगेन कर्मणाच्छाद्य संस्थितः ॥ ९३ ॥

व्याप्तः परेण विभुना सर्वशक्त्यात्मकेन तु ।
यमाच्छाद्य 23 स्थितस्सम्यग्बोध्यं तं सर्वदाब्जज ॥ ९४ ॥

असङ्कीर्णमसङ्ख्यं च वासनाशतवासितम् ।
गुरुणानुगृहीतस्य मन्त्रैकनिरतस्य च ॥ ९५ ॥

समग्रं तत्त्वजालं तद्विनिवर्तति नान्यथा ।
अतस्तु लब्धलक्षेण कर्मतन्त्ररतेन च ॥ ९६ ॥

नित्यं तत्त्वजयं कार्यं स्वरूपप्राप्तये तु वै ।
व्यापकस्सर्वशक्त्यात्मा समाराध्य विभाव्य च ॥ ९७ ॥

तत्त्वाधिष्ठातृभावेन आपादान्मस्तकावधि ।
ज्ञातव्यं स्थानभेदेन दीक्षायां कथितं यथा ॥ ९८ ॥

कदलीपुटवच्चाथ ततो मोदकवद् द्विज ।
तज्जयार्थं समभ्यस्य योगमेवं त्रिधामलम् ॥ ९९ ॥

किन्तु चाभ्या (भ्य ?) समानस्य ? मोहमायाति साम्प्रतम् ।
निद्रालस्यश्रमश्वासशून्यदृष्टित्वमब्जज ॥ १०० ॥

षट्कोशलक्षणं 24 विद्धि सविघ्नं ते तदात्मना ।
निश्चयात्तज्जयेदेतदस्त्रध्यानाज्जपादपि ॥ १०१ ॥

प्राणादीनां तु वायूनां कृत्वा तु विजयं पुरा ।
सुखासनोपविष्टस्तु गुर्वङ्घ्रिं वन्दयेद्धिया 25 ॥ १०२ ॥

व्यापकत्वेन चाराध्य न्यस्त्वाकारशरीरगम् ।
ततस्तादात्म्यमालम्ब्य चित्तं बाह्यस्थमाचरेत् 26 ॥ १०३ ॥

हृत्पुण्डरीकमध्ये तु त्रिधाम भुवनोदरे ।
प्रणवेनापरं ब्रह्म सर्वशक्तिमयं द्विज ॥ १०४ ॥

अभ्यस्याभ्यासयोगेन प्रथमं भावयेत्ततः ।
कुर्यात्तत्त्वजयाभ्यासं विधिनानेन वै द्विज ॥ १०५ ॥

प्रणवाद्यन्तरुद्धेन हृदा सञ्ज्ञापरेण 27 वा ।
सहस्ररश्मिं ध्यायेद्वै तत्त्वजालं पृथक् पृथक् ॥ १०६ ॥

जपाद्विलयमायाति तत्वज्ञानं 28 शनैश्शनैः ।
आधारं प्रणवं शब्दं हृन्मन्त्रस्तन्मये ततः ॥ १०७ ॥

तत्त्वतो भवहृच्छब्दं तत्सञ्ज्ञं प्रणवोदरे ।
स्वात्मानं प्रणवं शब्दमात्मानन्दमये हरौ ॥ १०८ ॥

एवं क्रमेण क्ष्मादीनां तन्मन्त्राणां जयं द्विज ।
कुर्यात् स्वकरणनां च इन्द्रियाणां पराजयम् ॥ १०९ ॥

इति त्रिदशकं जित्वा तत्त्वानां चाव्ययेन तु ।
ततो मनस्त्वहङ्कारं बुद्धिं गुणगणं क्रमात् ॥ ११० ॥

तमोरजस्सत्त्वसञ्ज्ञं ध्यात्वा जप्त्वा परित्यजेत् ।
सूक्ष्मं सङ्घातसञ्ज्ञं तु स्वगुणेभ्यो विलक्षणम् ॥ १११ ॥

साक्षात्कृत्वाथ सन्त्यज्य अव्यक्तं च जयेत्ततः ।
कारणं यत्प्रपञ्चस्य अस्योक्तस्यापरस्य च ॥ ११२ ॥

नानामतिनिविष्टस्य स्वविकल्पोत्थितस्य च ।
कालतत्त्वमतश्चिन्त्यं भूतभव्यभवात्मकम् ॥ ११३ ॥

शुद्धिकृद्यदनन्तस्य सदसल्लक्षणस्य च ।
प्रपञ्चस्य महाबुद्धे ध्यात्वैवं त्रितयं त्यजेत् ॥ ११४ ॥

प्। १९२)
विश्वास-प्रस्तुतिः
उपायलक्षणं धर्मं चतुस्सङ्ख्यं हि लक्षणम् ।
ज्ञानक्रियेच्छाप्राणाख्यशक्तिसञ्ज्ञं 29 हि शाश्वतम् ॥ ११५ ॥

साक्षात्कुर्याज्जपाद्ध्यानात् योगाभ्यासादथोर्ध्वतः ।
उपादेयमतो ब्रह्मन् समूहं व्यापकं ध्रुवम् ॥ ११६ ॥

सप्तसञ्ज्ञं 30 पदं दिव्यं ध्यातव्यं कर्मशान्तये ।
शब्दब्रह्मावसानं च ज्ञातव्यं च सदोदितम् ॥ ११७ ॥

शब्दब्रह्मस्वरूपस्य परस्य परमात्मनः ।
अमूर्तस्य च तन्मूर्तेः स्थितिस्सा षड्गुणात्मिका ॥ ११८ ॥

शब्दब्रह्म समभ्यस्य गुणषट्कादनन्तरम् ।
अनुर्च्चायमवर्णं तं निरावरणमस्वरम् ॥ ११९ ॥

सद्ब्रह्मवाचकं तद्वै वाङ्मयातीतमच्युतम् ।
स्वरव्यञ्जनरूपाश्च 31 सर्वेषां मूर्तिवाचकाः ॥ १२० ॥

स्वविशेषाच्च बहवो दशलक्षणलक्षिताः ।
अक्षरस्वरवर्णाख्यघोष (षो ?) रावस्वरात्मकाः ॥ १२१ ॥

ध्वनिः 32 कूटस्तथा स्फोटविसर्गान्ता महामते ।
एभ्यस्सङ्कीर्णरूपाभ्यो यत्ने वाक्यतरात्मना ॥ १२२ ॥

आमोक्षात् सर्वसिद्धीनां प्रदाता सिद्धिभाग्भवेत् ।
ध्यातातस्मिन् हि निष्णातः परं ब्रह्माधिगच्छति ॥ १२३ ॥

सम्यग्वेत्ति तदाभ्यासात् स्वाराध्येनानुरञ्जनात् ।
विलक्षणं च तद्ध्यानं ध्यानाध्यात्मकमब्जज ॥ १२४ ॥

प्रकाशानन्दरूपे च नानाभूतं हि यद्बहिः ।
ते द्वे 33 सच्छब्दनाथस्य ऊर्मिस्सूक्ष्मत्मानला ॥ १२५ ॥

यया सह समं याति तत्त्वज्ञस्त्वव्यये पदे ।
आत्मलाभमतः प्राप्य परस्मात् परमेश्वरात् ॥ १२६ ॥

ज्ञानकर्मरतानां च श्रद्धासंयमसेविनाम् ।
आस्तिकानां जिताक्षाणां सद्भक्तानां सदा भवेत् ॥ १२७ ॥

नैतद्वाच्यमभक्ताय नास्तिकाय कदाचन ।
न कुतर्कमतिष्ठाय कर्मब्रह्मोज्झिताय च ॥ १२८ ॥

आप्रभातान्निशान्तं च व्यापारं पारमेश्वरम् ।
लोकातीतास्तु ये विप्रास्तेषां तद्धृदयङ्गमम् ॥ १२९ ॥

लौकिकव्यवहारस्था बहवोऽन्ये च नेश्वराः ।
शून्यब्रह्मैकनिष्ठाश्च वाक्प्रपञ्चधियान्विताः ॥ १३० ॥

तत्त्वग्रामस्य भेदैश्च हेयोपादेयलक्षणम् ।
ज्ञातुमिच्छामि विधिवत्तन्ममाचक्ष्व शाश्वत् ॥ १३१ ॥
मूलम्
तत्त्वग्रामस्य भेदैश्च हेयोपादेयलक्षणम् ।
ज्ञातुमिच्छामि विधिवत्तन्ममाचक्ष्व शाश्वत् ॥ १३१ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
यथा क्षीरस्य वै स्नेहं भेदेन न तु वर्तते ।
एवं 34 हि विद्धि सर्वेषां तत्वानां परमेश्वरः ॥ १३२ ॥

एकत्वेन पृथक्त्वेन समाधौ प्रोक्तमभ्यसेत् ।
केवलं हि यथापूर्वमुद्विष्टं च तदाप्तये ॥ १३३ ॥

आक्षितेः करणग्राममिन्द्रियाख्यगणान्वितम् ।
उत्तमव्यक्तपर्यन्तं प्रपञ्चं तदनश्वरम् ॥ १३४ ॥

नानामूर्तिसमाख्यं 35 च भोगक्षेत्रं हि कर्मिणाम् ।
सुखदुःखगुणोपेतं मोहमायामयं दृढम् ॥ १३५ ॥

प्। १९३)
विश्वास-प्रस्तुतिः
अज्ञानं तु तदासक्तेर्वर्धते च क्षणात् क्षणम् ।
ज्ञानाद्विलयमायाति तस्मान्नित्यं हि तद्विज ॥ १३६ ॥

हेयभावनया चिन्त्यमुपायं यद्यपि स्फुटम् ।
सिद्धीनामात्मलाभे तु तत्राप्यस्थिरमेव तत् ॥ १३७ ॥

सारमादाय वै तस्मात्साधनं योगसिद्धये ।
मनोबुद्धिरहङ्कारस्सत्त्वं सत्ववतां वर ॥ १३८ ॥

चतुष्कमिदमव्यक्तं ब्रह्मप्राप्त्या निवर्तते ।
अथोपकरणं दिव्यं पञ्चशक्त्योपलक्षितम् ॥ १३९ ॥

कालज्ञानक्रियाख्येच्छाप्राणशञ्ज्ञं महामते ।
अहेयमपरं नित्यं कर्मण्यानां च सिद्धिकृत् ॥ १४० ॥

तत्त्वबृन्दस्य विजये गुणषट्कोपलब्धये ।
चातुरात्म्यपरिज्ञाने शब्दब्रह्माप्तये तु वै ॥ १४१ ॥

प्रकाशानन्दलाभे तु निर्विकल्पपदाप्तये ।
नवप्रकारेणानेन प्राक्प्राप्तेन गुरोर्मुखात् ॥ १४२ ॥

प्राकृतेनाच्युतीयेन साध्यसाधनवस्तुना ।
तन्नास्ति यन्नचाप्नोति साक्षात्कारात्तु साधकः ॥ १४३ ॥

सिद्धध्यानं जयात् स्वं स्वं फलं यछति वै सदा ।
एतस्मात्कारणात् साध्यं साध्यस्यान्यस्य साधनम् ॥ १४४ ॥

तच्च ज्ञानादिकं षट्कं ब्रह्मतत्वविलक्षणम् ।
अणिमाद्यष्टकं चैवमतोऽन्यं रोचते हि यत् ॥ १४५ ॥

प्रभवः प्रलयश्चैव ऐश्वर्यं सर्वतोमुखम् ।
आध्यात्ममाधिदैवत्यमाधिभूतात्मना द्विज ॥ १४६ ॥

तत्त्वाभ्याससमाधौ तु ज्ञातव्यं तत्त्वचिन्तकैः ।
शब्दब्रह्मपदादेव क्षित्यन्ते तत्त्वसङ्ग्रहे ॥ १४७ ॥

अध्यात्मं परमं ब्रह्म सामान्यं विद्धि सर्वदा ।
ज्ञातव्यमधिदैवं च सेश्वरं प्रणवं तथा ॥ १४८ ॥

स्वं स्वं स्वभावं सर्वस्य स्थूलसूक्ष्मपरात्मकम् ।
विज्ञेयमधिभूतत्वं साक्षात्कमललोचन ॥ १४९ ॥

सामान्यमेतत्सर्वत्र ध्येयमध्यात्मपूर्वकम् ।
सविशेषमथो वक्ष्ये शृणुष्वैकाग्रमानसः ॥ १५० ॥

निस्तरङ्गं परं ब्रह्म शब्दब्रह्मण्यकृत्रिमे ।
अध्यात्मं द्विज बोद्धव्यं मन्त्रकोट्या ह्यनेकशः ॥ १५१ ॥

अधिदैवत्यभावेन तस्मिन्नेव सदा 36 स्थिताः ।
अधिभूतं तु बोद्धव्यं तद्वाक्तत्त्वचयं 37 तु यत् ॥ १५२ ॥

अध्यात्मगुणषट्काख्यं शब्दब्रह्म यथोदितम् ।
चातुरात्म्यं परिज्ञेयमधिदैवमनाकृति ॥ १५३ ॥

शक्तिव्यूहमसङ्ख्यं यद्गुणेभ्यः 38 प्रवदन्ति तु ।
तद्विशेषस्वरूपं च अधिभूतं तु विद्धि तत् ॥ १५४ ॥

प्राणशक्तेस्तु चाध्यात्मं षाड्गुण्यमखिलं हि यत् ।
अधिदैवतमब्जाक्षो वसुदेवस्सनातनः ॥ १५५ ॥

अधिभूतमपानाद्या 39 वायवो विश्वधारकाः ।
इच्छाशक्तेः परत्वेन स्थितं ज्ञानबलद्वयम् ॥ १५६ ॥

ज्ञेयं तदधिदैवं च परस्सङ्कर्षणः 40 प्रभुः ।
सामर्थ्यमधिभूतं च सर्वतत्त्वाश्रितं हि यत् ॥ १५७ ॥

द्वयमैश्वर्यवीर्याख्यमध्यात्मं विद्धि पौष्कर ।
क्रियाशक्तेस्तु दैवत्यं पद्युम्नः परमेश्वरः ॥ १५८ ॥

महत्प्रकाशप्रसरमधिभूतं सदोदितम् ।
तेजश्शक्तिर्द्विजाध्यात्ममव्यक्तममलेक्षण ॥ १५९ ॥

अर्केन्दुवह्नित्रितयं दैवतं परिकीर्तितम् ।
गुणत्रयमसङ्कीर्णमधिभूतं महामते ॥ १६० ॥

प्। १९४)
विश्वास-प्रस्तुतिः
गुणत्रयस्य चाध्यात्मं सङ्घातकरणं स्वकम् ।
सत्त्वस्य दैवतं वह्नीरजसस्त्वमृतात्पदम् ॥ १६१ ॥

तमसस्तपनोविष्णोः 41 सत्व * * * * धिभूतता ।
रजस्यरागो विज्ञेयमधिभूतं महामते ॥ १६२ ॥

महामोहं हि तमसस्त्वधिबूतं प्रकीर्तितम् ।
अध्यात्मं चेतनो बुद्धेर्धर्मं सदधिदेवता ॥ १६३ ॥

स वै राग ? द्विजैश्वर्यमधिभूतं तदात्मकम् ।
अहङ्काराख्यत्त्वस्य बुद्धिरध्यात्ममब्जज ॥ १६४ ॥

अधिदैवं परिज्ञेयं कालवैश्वानरो महान् ।
महत्त्वमधिभूतं च मनसोऽथ निरुच्यते ॥ १६५ ॥

अध्यात्मं तु अहङ्कारो नृवराहः प्रजापतिः ।
विज्ञेयमधिदैवं च सङ्कल्पमधिभूतता ॥ १६६ ॥

पञ्चानामिन्द्रियाणां तु अध्यात्मं च मनः स्मृतम् ।
कालात्मदैवतं विद्धि अधिभूतं सुखादिकम् ॥ १६७ ॥

वागादीनां द्विजाध्यात्मं व्यूहमिन्द्रियकं तु यत् ।
अधिदैवं तु बोद्धव्यं विश्वरूपाख्यमच्युतम् ॥ १६८ ॥

व्यापारमधिभूतं च अष्टयोन्यात्मकं हि यत् ।
तन्मात्राणां सभूतानामध्यात्मममलेक्षण ॥ १६९ ॥

सुसूक्ष्मं करणव्यूहमधिदैवं निबोधतु ।
वैभवं भगवद्व्यूहं विचित्रं विद्धि पद्मज ॥ १७० ॥

वोद्धव्यमधिभूतं च तत्त्वभूमिजयैषिणाम् ।
उक्तमध्यात्मपूर्वं यत्त्रितयं योगसिद्धये ॥ १७१ ॥

प्रभावेन क्रमेणैव तत्पुनश्चतुरानन ।
आप्ययेन क्रमेणैव अभ्यस्तैस्सर्वयोगिनाम् ॥ १७२ ॥

आ 42 (क्षितेः ?) सर्वशक्त्यात्म पदपर्यन्तमाच्युतम् ।
तत्वबुद्धनिरासार्थं 43 योगाभ्यासमिदं स्मृतम् ॥ १७३ ॥

भवेत् तत्वजयात् भिन्नं फलं तत्त्वं फलार्थिनाम् ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां तत्त्वसमाख्यानं नाम
त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
(समुदित श्लोकसङ्ख्या १७४)