अथ द्वात्रिंशोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
भगवन् भूतभव्येश नृणां सन्मन्त्रयाजिनाम् ।
तदर्चनप्रित्यागाद्बुद्धिपूर्वात्तु किं भवेत् ॥ १ ॥
मूलम्

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
मन्त्रपूर्वं हि सङ्कल्पं कृत्वा मन्त्रसमर्चने ।
अनिर्वेदान्महाबुद्धे यावदायुष (ष्य) मेव च ॥ २ ॥

सन्दिष्टदेवतानां च कर्मणा मनसा गिरा ।
यत्नान्निर्हणीयं तच्छक्त्या स्वविभवेन च ॥ ३ ॥

अस्वातन्त्र्यादसामर्थ्याज्जाते वै सूतकादिके ।
विधिवत् प्रार्थनापूर्वं गुरुमर्चापयेत्तदा ॥ ४ ॥

संयतं गुरुपुत्रं वा भ्रातरं सहदीक्षितम् ।
कनिष्ठमथवा ज्येष्ठमन्यथा कमलोद्भव ॥ ५ ॥

प्रायश्चित्तं भवेद्घोरं प्राक्सङ्कल्प परीक्षया 1 ।
तदर्थमितरेषां वै मन्त्रमुद्रादिकं स्वकम् ॥ ६ ॥

प्। १८०)
विश्वास-प्रस्तुतिः
नाख्येयमत्यये प्राप्ते सम्यक्सिद्धिपरैर्नरैः ।
प्रकाशयति यो मोहान्मन्त्रमुद्रादिकं स्वकम् 2 ॥ ७ ॥

इतरेषामभक्तानां तन्त्र(त्र)मन्त्रेश्वरो द्विज ।
सहसिद्धगणेनैव समभ्येति पराङ्मुखम् ॥ ८ ॥

दत्त्वा चैव महादुःखं तस्माद्यत्नेन याजकैः ।
स्वमन्त्रं गोपनीयं च इति कर्तव्यतान्वितम् ॥ ९ ॥

मुक्त्वा गुरुं सुतं जायां तच्छिष्यं चाप्यकृत्रिमम् ।
नान्येषां सन्निधौ 3 कुर्यान्मन्त्रसन्तर्पणार्चने ॥ १० ॥

तत्रापि कमलोद्भूत इति कर्तव्यतापरं(रः) ।
प्रोच्चरेन्मनसा मन्त्रं मन्त्रध्यानं तु गोपयेत् ॥ ११ ॥

तद्वन्मुद्राक्षसूत्रं च यथा वै सिद्धिभाग्भवेत् ।
एवमेव हि वै येन विना मन्त्रपरिग्रहात् ॥ १२ ॥

देवार्चां स्वगृहे भक्त्या संस्कृत्य 4 विनिवेशिताम् ।
तस्यार्चने नियोक्तव्यस्स्वसामर्थ्यादिके सति ॥ १३ ॥

द्विजेन्द्रः पञ्चकालज्ञः षट्कर्मनिरतस्तु वा ।
सम्भवे सति चैतस्य वृत्तिं कुर्याच्च शाश्वतीम् ॥ १४ ॥

शाश्वतं भवतो येन ऐहिकामुष्मिकं फलम् ।
अन्यथा नोपरोधेन न भयेन न मायया ॥ १५ ॥
मूलम्
शाश्वतं भवतो येन ऐहिकामुष्मिकं फलम् ।
अन्यथा नोपरोधेन न भयेन न मायया ॥ १५ ॥
विश्वास-प्रस्तुतिः
देवमर्चापयेत् प्राज्ञो नित्येऽप्याकस्मिकेऽपि वा ।
सुसम्पूर्णफलप्राप्ते 5 स्सद्द्वृत्यममलेक्षण 6 ॥ १६ ॥

तदर्थमर्चनं येन नित्यमङ्गीकृतं पुरा ।
प्रत्यवायं 7 हि तल्लोपातस्य तत्फलभाग्भवेत् ॥ १७ ॥

नावक्तव्यमतस्तस्माद्वृत्तिलोपं शुभेप्सुना ।
कादाचित्केतु वा नित्ये नियुक्तानां हि वार्चने ॥ १८ ॥

बहिःप्रतिष्ठितानां च स्थापितानां तु वा गृहे ।
वृत्तिं भुङ्क्ते तु यां यस्य यन्निमित्तं महामते ॥ १९ ॥

तन्निमित्तात् फलं तस्य सङ्कल्पादेव चाखिलम् ।
तस्मान्न लोपयेद् वृत्तिमाराधनपरायणः ॥ २० ॥

मनसा मन्त्रमूर्तेर्वै अर्थिनां गृहमेधिनाम् ।
ज्ञात्वा हृदयसद्भावं द्वाभ्यां वै देवता द्विज ॥ २१ ॥

विदधाति फलं सम्यक् प्रत्यवायं करोति वा ।
एवं ज्ञात्वा प्रयत्नेन शाश्त्रसद्भावमब्जज ॥ २२ ॥

नोपेक्ष्या बुद्धिपूर्वाच्च सावलेपेन चेतसा ।
या काचिच्चातुरात्मीया मूर्तिर्वा वैभवी विभोः ॥ २३ ॥

सार्चा 8 तु शैलकाष्ठोत्था पटे कुड्ये च चित्रिता ।
आत्मशक्त्यनुसारेण सूतकादौ सदार्चने ॥ २४ ॥

लोपस्संरक्षणीयश्च 9 ज्ञात्वा कालं कुलोत्थि (चि ?) तम् ।
कृत्वा स्वस्वनिवृत्तिं च श्रद्धापूतेन चेतसा ॥ २५ ॥

तावदर्चापयेद्यावत्कालमभ्येति निर्मलम् ।
क्षान्त्यर्थमर्चनं भूयस्स्नानपूर्वं समाचरेत् ॥ २६ ॥

हुत्वाग्निं विधिवद्भक्त्या गुर्वादीनां च दक्षिणा ।
प्रायश्चितोऽन्यथा 10 विप्रभवेदाराधकस्य वै ॥ २७ ॥

अनर्चनात्तु देवानां कलितानां गृहान्तरे ।
यस्माद्व्यक्तिगतानां च देवानामर्चनं नृणाम् ॥ २८ ॥

प्। १८१)
विश्वास-प्रस्तुतिः
शुभप्रदं ह्येवमेव किं पुनः कमलोद्भव ।
विधिपूर्वं तु निश्शेषं सामग्रीभिस्समन्वितम् ॥ २९ ॥

सह 11 वै भोगसम्पत्या भक्त्या सश्रद्धया द्विज ।
नीतिमार्गगतेनैव बुध्या तु सुविशुद्धया ॥ ३० ॥

मन्त्रमुद्रासनध्यानैर्देवतानां यदर्चनम् ।
तदर्थसिद्धिकृत् 12 शश्वद्याजकानां यथास्थितैः ॥ ३१ ॥

एवं ज्ञात्वा नावलेपः कार्यस्संसारभीरुणा ।
अनर्चने तु देवानां काम्ये नैमित्तिकेऽब्जज ॥ ३२ ॥

प्रत्यहं च विशेषेण तव ? विघ्नं यथा भवेत् ।
विप्रादीनां च भक्तानां विप्रयोगादिकात्तु वै ॥ ३३ ॥

दिव्यपित्र्योचितं स्नानं कृत्वा तदनु पौष्कर ।
प्राणायामं जपान्तं च प्राधान्येनाभिवर्तिनाम् 13 ॥ ३४ ॥

मन्त्राणां च महत्तेषां सिद्धान्ताख्यागमस्य च ।
प्राप्यते तदनुष्ठानात् सर्मोत्कृष्टरं फलम् ॥ ३५ ॥

तथा च कमलोद्भूत जगत्यस्मिन् हि दृश्यते ।
देवासुरमनुष्याणां व्यवहारं स्वभावजम् ॥ ३६ ॥

जात्युक्तैः स्वप्रणैर्युक्ता ? वर्णाद्याश्रमिणोऽखिलाः ।
पुराणस्मृतिपारज्ञा वेदवेदान्तवेदिनः ॥ ३७ ॥

स्वकर्मधर्मनिरता मुनयोऽपि महामते ।
न यान्ति परमां सिद्धिं विना मन्त्रपरिग्रहात् ॥ ३८ ॥

सैद्धान्तिकादनुष्ठानात्तद्विधानां च सेवनात् ।
किं पुनर्लोऽभमोहार्थं मानवा मन्दन्बुद्धयः ॥ ३९ ॥

ज्ञात्वैव यत्नमातिष्ठेन्मन्त्राराधनकर्मणि ।
प्रसादने 14 गुरूणां च सिद्धान्ताद्यवगाहने ॥ ४० ॥

तन्निष्ठानां यतस्सम्यक् कैवल्यममलेक्षण ।
अपरोक्षमतोऽन्येषां शुष्कतर्करतात्मनाम् ॥ ४१ ॥

ज्ञानकर्मरतानां च सिद्धयो विविधास्त्विह ।
सर्वथा यान्ति कैवल्यं शश्वद्देह परीक्षया 1 ॥ ४२ ॥

नाथज्ञानानुविद्धस्य 15 ज्ञातुमिच्छामि साम्प्रतम् ।
कर्मणोऽहं स्वरूपं च मन्त्रिणां यन्महर्द्धिदम् ॥ ४३ ॥

वाचकान्तनिविष्टं तु मन्त्रकृत्यादिकं हि यत् ।
प्रयाति चाङ्गभावं तु भोगजाले हि मन्त्रिणाम् ॥ ४४ ॥

तत्तदादौ 16 परिज्ञेयं नित्यमाराधकेन तु ।
शुद्धसंवित्स्वरूपं च प्रस्फुरन्तं स्वतेजसा ॥ ४५ ॥

विषयेन्द्रियभूताख्ये नानाकरणशक्तिभिः ।
सुसम्पूर्णं 17 प्रबुद्धाभिर्न्यग्भूताभिः परस्परम् ॥ ४६ ॥

यच्चाभिमानिके रूपे भोगे व्यक्तिं ब्रजन्ति च ।
तत्पुनर्भोगकैवल्यसिद्धये स्वयमेव हि ॥ ४७ ॥

प्रसिद्धं लक्षणेनैव वपुषा मन्त्रयाजिनाम् ।
समायात्यङ्गभावं च एवं नित्यं स्थिता स्थितिः ॥ ४८ ॥

साम्प्रतं च प्रबुद्धैस्तु सा पद्मदललोचन ।
क्षेप्तव्या ? भावनापेक्षो वस्तु 18 तच्चासतो न हि ॥ ४९ ॥

प्। १८२)
विश्वास-प्रस्तुतिः
सत्वं स्याद्भावमन्त्रेण सद्भावं किन्तु साधनम् ।
आप्तवाक्यप्रधानानामागमैकरतात्मनाम् ॥ ५० ॥

सम्यगच्युतभक्त्या वै 19 निर्मलीकृतचेतसाम् ।
यथाजलत्वं वै वह्नेर्युक्तिभिर्नोपपद्यते ॥ ५१ ॥

एवं जलस्य वह्नित्वं न कदाचित प्रजायते ।
यत्र वा मन्त्रिणा ताभ्यो(भ्यां)विपर्यासोऽभिदृश्यते ॥ ५२ ॥

तदिन्द्रजालं वै मान्त्रं भक्तानां शुभवर्त्मनि ।
प्रेरकं कमलोद्भूतं नानाप्रत्ययलक्षणम् ॥ ५३ ॥

ज्ञानमूर्तिस्तु भगवान् भक्तानुग्रहकाम्यया ।
भुक्त्वा भोगात्मनांशेन भुनक्ति स्वयमेव हि ॥ ५४ ॥

मुक्तये 20 याजकानां तु द्विविधं वस्तुसङ्ग्रहम् ।
द्विविधेन तु भेदेन तस्मान्नित्यं समभ्यसेत् ॥ ५५ ॥

ज्ञानयुक्तं हि वै कर्तृ ? कर्मैवं सुविलक्षणम् ।
यत्प्राप्तमाप्तवक्त्रात्तु आगमान्निश्चयीकृतम् ॥ ५६ ॥

अभ्यर्थनादिना मन्त्रं यत्क्रमात्समुपागतम् ।
मुद्रान्वितं महाबुद्धे ह्यस्तित्वेनाप्यलङ्कृतम् ॥ ५७ ॥

तत्प्रमादादबुद्धानामन्यकर्मरतात्मनाम् ।
वर्णाद्यैर्व्यत्ययीभूतं विलुप्तं 21 वा स्वरादिना ॥ ५८ ॥

अधिकं वाब्जसम्भूत तत्करोत्यशुभं सदा ।
मन्त्रिणामचिरादेव तत्रापि कमलोद्भव ॥ ५९ ॥

अतिभक्तिप्रभावेन वाच्यस्यानेकरूपिणः ।
सम्मुखीकरणादीनां कर्मणा सम्प्रयोजितम् ॥ ६० ॥

तदनुग्रहसामर्थ्याद्वाञ्छितं सम्प्रयच्छति ।
यस्मात्सद्भक्तिभूतानां प्रपन्नानां क्रमं विना ॥ ६१ ॥

प्रसादमेति मन्त्रेशस्त्वचिराद्भावितात्ग्ननाम् ।
किं पुनर्वै क्रियाज्ञानसम्पूर्णानां तु पौष्कर ॥ ६२ ॥

भक्तिश्रद्धापराणां च बोधितानां च देशिकैः ।
विना गर्वोक्तिभिश्चैव वाक्यैश्चित्तानुरञ्जकैः ॥ ६३ ॥

समुद्राणां च मन्त्राणामुपायं प्राग्यतो महत् ।
परम्परागतं चैव शाश्वतं हि गुरुक्रमम् ॥ ६४ ॥

ततस्सदास्तिकत्वं च तत्परिग्राहिणो द्विज ।
संयमं भक्तिपूर्वं तु सक्रियं तदनन्तरम् ॥ ६५ ॥

ततश्चैवागमार्थं तु पश्चात्संवेदनं स्वकम् ।
बुध्वैवं भक्तिपूर्वं तु ह्युपायैर्विविधैः पुनः ॥ ६६ ॥

आप्तस्सदागमज्ञश्च सेवनीयस्सदैव हि ।
नित्यं मन्त्रपरेणैव दृष्टादृष्टफलार्थिना ॥ ६७ ॥

सम्भवे सति सम्यक्च प्रत्यहं तस्य पौष्कर ।
योगक्षेमादिकं सर्वं चिन्तनीयं स्वशक्तितः ॥ ६८ ॥

यस्मादस्मिन् 22 हि संसारे गुरुत्वेन प्रवर्तितम् ।
ईश्वरेच्चहवशाच्चैवमच्युतं परमेश्वरम् ॥ ६९ ॥

तन्मूखेन महाबुद्धे यः प्रसर्पितुमिच्छति ।
स्वमन्त्रं 23 भक्तिमत्यर्थं तदादौ तस्य ॥ ७० ॥

तत्पुत्रस्याथवा भक्त्या अनुयागविधौ सदा ।
निवेदनीयं पाकाग्रं परितुष्टेन चेतसा ॥ ७१ ॥

आस्तां तावन्महाबुद्धे स्वगुरुं तत्सुतं तु वा ।
क्रमविच्चागमज्ञोऽन्य एकान्ती वा त्रयीमयः ॥ ७२ ॥

कृताह्निकस्सुसन्तुष्टश्शान्तचित्तो ह्यनाकुलः ।
अभ्यर्थितोऽतिभक्तो वै चिरकालं महामते ॥ ७३ ॥

स्वमन्त्रसाधनाख्यं वा द्विषडष्टषडक्षरम् ।
जितन्तसञ्ज्ञं प्रणवमाद्यं चान्तं सबीजकम् ॥ ७४ ॥

प्। १८३)
विश्वास-प्रस्तुतिः
एवमेकत्र संयोज्यमूर्ध्वमङ्गारकूटवत् 24 ।
साङ्गं पाणितले न्यस्य तद्विज्ञानादिना तनौ ॥ ७५ ॥

तदहङ्कारमलम्ब्य यस्य सानुग्रहं गृहे ।
भुनक्ति तदनन्तं वै जायते तस्य तत्क्षणात् ॥ ७६ ॥

मण्डलादौ तु मन्त्रेशो भोगैरिष्टस्तथाखिलैः ।
तर्पितश्चाग्निमध्ये तु आज्याद्यैर्न तथाब्जज ॥ ७७ ॥

समभ्येति परां प्रीतिं यथाचार्यशरीरगम् ।
तस्मान्निमित्तमाश्रित्य प्रतिपक्षस्य चान्तरे ॥ ७८ ॥

तथामासस्य 25 चाब्दस्य मासषट्कस्य वाब्जज ।
मध्येऽभ्यर्च्य विशेषेण स्वमन्त्रं गुरुसन्निधौ ॥ ७९ ॥

पितॄणां प्रीतये पश्चाद् भूतयेऽपि हि चात्मनः ।
प्रपूज्य देशिकेन्द्र(न्द्रं)स्तु कालं रात्रिक्षयावधि ॥ ८० ॥

पादसंवाहनान्तैस्तु भोगैः पाद्यार्घ्यपूर्वकैः ।
प्रसाद्य च यथाशक्त्या मात्रावित्तं निवेद्य च ॥ ८१ ॥

अनुब्रज्य महाबुद्धे व्रजन्तं स्वगृहादिकम् ।
एवं सम्प्रतिपन्ना ये मन्त्राराधनकर्मणि ॥ ८२ ॥

वर्णा 26 द्विजेन्द्रपूर्वास्तु ब्रह्मचारिपुरस्सराः ।
भैक्षुकान्तास्तु वै सर्वे सिद्धिं समुपयान्ति च ॥ ८३ ॥

पुरा यस्य जगन्नाथ मन्त्रमूर्तिर्गुहान्तरे ।
एका वानेकभेदोत्था विद्यते बिम्बलक्षणा ॥ ८४ ॥

भक्त्या परिग्रहीता प्राक् स्वयं वा पूर्वजैर्द्विज ।
निवेशिता मन्त्रपूर्वं निक्षिप्ता वा परेण तु ॥ ८५ ॥

धनेनाप्ताथवान्यस्मादयोग्यात्तस्करादिकात् ।
साम्प्रतं स्वगुरोर्लब्धा दृष्टादृष्टप्रसिद्धये ॥ ८६ ॥

चित्तप्रसादजनको मन्त्रस्संसारदुःखहृत् ।
स च तद्विनियुक्तस्तु साङ्गस्सपरिवारकः ॥ ८७ ॥

आराधकस्य भगवन् विहितं वा नवादिश ।
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
स्वयं व्यक्तं हि यद्विप्र तथामरगणैर्द्विज ।
स्थापितं मन्त्रसिद्धैस्तु आकारं भगवन्मयैः ॥ ८८ ॥

तदधिष्ठितमन्त्राणां सह तस्य च योजना ।
विहिता 27 कमलोद्भूत नृणां सन्निधिसिद्धये ॥ ८९ ॥

एवं सपरिवारं च न स्वमन्त्रस्सदा गृहे ।
मन्त्राकृतौ तु चान्यस्मिन् योजनीयः पदादिषु ॥ ९० ॥

पूजनीयं स्वमन्त्रेण लाञ्छनाङ्गान्वितेन च ।
बिम्बसंरुद्धमन्त्रं च तद्विमुक्तमपि द्विज ॥ ९१ ॥

सर्वा चैव स्वयं व्यक्तपूर्णानां हि महामते ।
निवेशनं हि मन्त्राणामन्योन्यानां गुणावहम् ॥ ९२ ॥

नित्यं योद्यतचित्तस्तु मन्त्राराधनकर्मणि ।
देहस्थं क्षपयेच्छेषं कर्मबन्धमशाश्वत् ॥ ९३ ॥

समस्सर्वेषु भूतेषु मन्त्रेषु च विशेषतः ।
निषिद्धं तद्विनान्येषां स्वमन्त्रस्य नियोजनम् ॥ ९४ ॥

कस्य चित्कुत्र चित्सम्यक् यस्मान्मन्त्राकृतौ द्विज ।
प्रसीदति स्वमात्मानं शुद्धज्ञानोदयं विना ॥ ९५ ॥

प्। १८४)
विश्वास-प्रस्तुतिः
न निषिद्धं स्वमन्त्रेण क्वचिदन्यत्र पूजनम् ।
प्राधान्येन स्वमार्गाच्च गृहे वान्यत्र मण्डले ॥ ९६ ॥

समाहृतां च पूजार्थं मन्त्रतन्त्रार्चने सति ।
स्वमन्त्रेण न दोषोऽस्ति तद्वदायतनेषु च ॥ ९७ ॥

मन्त्रेण भिन्नमार्गाच्च प्रतिमामण्डलं तु वा ।
अधिष्ठितं यदा तत्र विहितं दर्शनं तु वै ॥ ९८ ॥

पुष्पदानं स्वमन्त्रेण व्यापकेनामलात्मना ।
चिन्मात्रतास्वरूपेण मन्त्राणां हि यतोऽब्जज ॥ ९९ ॥

अविशेषं हि सामान्यं शब्दब्रह्ममयं वपुः ।
ध्यानन्यासादिकैस्तेषां विशेषस्तु परस्परम् ॥ १०० ॥

जायते शबलं भीममभिचारफलप्रदम् ।
अनुग्रहपरं मन्त्रं शब्दब्रह्ममयं स्वकम् ॥ १०१ ॥

याज्ययाजकभावेन समभ्येति तथाब्जज ।
संरुद्धमपि यत्तत्र व्यक्तिशक्तिधिया विना ॥ १०२ ॥

शब्दब्रह्मात्मना त्वास्ते तदैक्याच्च बलं कुतः ।
पटव्यक्तिद्वयेनैव 28 विनैक्यं न भसो यथा ॥ १०३ ॥

द्वाभ्यां शब्दस्वरूपाभ्यामेवमैक्यमनुग्रहात् ।
सुजन्म चैवं क्षोभस्य विशेषयजनं विना ॥ १०४ ॥

स्वगृहे मण्डले यागे दिव्याद्यायतनेऽपि च ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
परं मार्गं न पश्यामि जगत्यस्मिञ्जगन्मय ।
वासुदेवात्मकं यस्मात्सर्वं स्थावरजङ्गमम् ॥ १०५ ॥
मूलम्
परं मार्गं न पश्यामि जगत्यस्मिञ्जगन्मय ।
वासुदेवात्मकं यस्मात्सर्वं स्थावरजङ्गमम् ॥ १०५ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
सत्यमेतन्महाबुद्धे यथासञ्चोदितं त्वया ।
किन्तु क्रियाप्रवृत्तस्य जन्तोर्भक्तिपरस्य च ॥ १०६ ॥

हृदयावर्जको (गो) यत्र विश्रामः परमार्थतः ।
तत्सन्मार्गो 29 याजकस्य वैष्णवस्स हि सात्त्विकः ॥ १०७ ॥

स्वयमेव प्रवृत्तस्य 30 लोकानुग्रहकाम्यया ।
विभवव्यूहभावेन स्वच्छसत् षड्गुणाअत्मना ॥ १०८ ॥

तस्योपचर्यते येन आगमेनाथ कर्मणा ।
सन्मार्गं विद्धि तं विप्र शश्वद्ब्रह्मविभूतिदम् ॥ १०९ ॥

विभुर्विभवभावस्थ इच्छया वितनोति यत् ।
पाकृतं क्षेत्रमाश्रित्य तद्गुणं देवतात्मकम् ॥ ११० ॥

तन्मायीयं च निश्शेषज्ञानाद्यैश्छुरितं गुणैः ।
गुणात्मकं तु तं विद्धि शबलं नातिनिर्मलम् ॥ १११ ॥

तद्व्यञ्जकं हि यच्छास्त्रमितिकर्तव्यता च वै ।
असन्मार्गं तु तं विप्र विद्धि पूर्वव्यपेक्षया ॥ ११२ ॥

तस्मात्परपदप्राप्तेः कारणं परमं स्मृतम् ।
विभवव्यूहसञ्ज्ञं तु शाश्वतं रूपमाच्युतम् ॥ ११३ ॥

क्षिप्रमेव प्रपन्नानां ज्ञानपूर्वेण कर्मणा ।
ददाति सत्पदप्राप्तिं कर्मिणां भावितात्मनाम् ॥ ११४ ॥

काम्यानां कर्मणां प्राप्तौ ह्यचिरेणैव पद्मज ।
उपायं नापरं मन्ये नित्यं भोगाभिलषिणाम् ॥ ११५ ॥

सुसूक्ष्मव्यूहविभवं मुक्त्वा सद्ब्रह्मयाजिनाम् ।
सांसारिकं फलं हेयं स्वर्गादिप्राप्तिलक्षणम् ॥ ११६ ॥

प्रार्थ्य * * हि ? यज्ञाद्यैश्शश्वत्तस्मान्न चाप्यते ।
अत एव हि मायीये नाराध्यो देवतागणः ॥ ११७ ॥

प्। १८५)
विश्वास-प्रस्तुतिः
सम्यक् सम्प्रतिपन्नैस्तु सन्मार्गे परिचोदिते ।
तस्मात्कमलसम्भूत प्रयत्नेन सदैव हि ॥ ११८ ॥

कुर्यादाराधनं भक्त्या मन्त्राणां हि यथा क्षणम् ।
एषामनुग्रहाद् दुःखं त्रिविधं क्षयमेति च ॥ ११९ ॥

आधिभौतिकमाध्यात्ममधिदेवीयमब्जज ॥
पौष्कर उवाच
विश्वास-प्रस्तुतिः
आराधकानां भगवन् मन्त्राणां शश्वदर्चने ।
सर्वदा पत्रपुष्पाद्यैर्भोगैः किं फलमर्चनात् ॥ १२० ॥

विस्तरेणार्चनात्तेषां बहुभिः कुसुमादिकैः ।
किं फलं याजकानां तु अत्र मे संशयो महान् ॥ १२१ ॥
मूलम्
विस्तरेणार्चनात्तेषां बहुभिः कुसुमादिकैः ।
किं फलं याजकानां तु अत्र मे संशयो महान् ॥ १२१ ॥
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
फलसाम्यं द्विजश्रेष्ठ भावभक्तिवशात् स्थितम् ।
दरिद्राणां च भक्तानां फलपुष्पादिना विना ॥ १२२ ॥

यत्फलं तद्द्विजाढ्यानां निरन्नानां तु चार्चनात् ।
सदाढ्यानां च भक्तानां होमाद्यैरर्चनात् फलम् ॥ १२३ ॥

यत्तद्विद्धि दरिद्राणां भक्तानां कुसुमादिकैः ।
क्षणस्य च समं ज्ञेयं सदाहोरात्रलक्षणम् ॥ १२४ ॥

नृपाणां च दरिद्राणां कालं यत्तत्क्रिअयाश्रितम् ।
तत्रापि कमलोद्भूत भूतार्थमवधारय ॥ १२५ ॥

यथालब्धेन शुद्धेन भोगजालेन वै सह ।
कर्तव्या धारणा ध्यानं मन्त्राणां यत्र पौष्कर ॥ १२६ ॥

समुद्राणां च योगस्य विस्तरान्नित्यमेव हि ।
तद्याजकानां यजनमचिराद् भुक्तिमुक्तिदम् ॥ १२७ ॥

सङ्क्षिप्तं धारणाद्यैर्यत्तत्कृतं चाप्यभोगदम् ।
सम्भोगैर्धारणाद्यैर्यत्सङ्कटं तच्चिरेण तु ॥ १२८ ॥

विदधाति च भक्तानां भोगहीनं परं पदम् ।
तस्माच्छ्रेयोऽर्थिनां नित्यं भुक्तिमुक्तिफलाप्तये ॥ १२९ ॥

निर्व्याकुलधिया भक्त्या कालांशमवलम्ब्य वै ।
विमुक्तमन्यैर्व्यापारैर्विधिवद्घटते यथा ॥ १३० ॥

सुसम्पूर्णं तु यजनं धारणाद्यैस्सुविस्तृतैः ।
भोगैर्यद्यपि सम्पूर्णैस्सम्पत्तिस्सह वै नृणाम् ॥ १३१ ॥

तथापि कर्मनिष्ठानामाधिक्यं चास्ति पौष्कर ।
भोगापवर्गहृत् 31 शाठ्यात् तन्निरासात् कृते स्फुटे ॥ १३२ ॥

जायते याजकानां तु नातोत्साहं परित्यजेत् ।
द्रव्यसम्पद्विना नित्यं मन्त्राराधनकर्मणि ॥ १३३ ॥

परं हि यस्य वा भावो भोगबृन्दस्य पौष्कर ।
भोगाप्तिफलनिष्ठस्य प्रथमं चाकृतात्मनः ॥ १३४ ॥

न पुनर्मोक्षनिष्ठस्य कर्मणश्शाश्वतस्य च ।
पुरुषार्थप्रदस्याशु खण्डनं सद्विवेकिनाम् ॥ १३५ ॥

संसारिणां हि भक्तानां नानाकर्मरतात्मनाम् ।
पुत्रदारादिभरणे नित्यं व्याकुलचेतसाम् ॥ १३६ ॥

विस्तरेणार्चने तेषां कथं सम्पद्यतेऽच्युत ।
अनर्चनात्त्वयोद्दिष्टफलं वैकल्यमुत्तमम् ॥ १३७ ॥

प्। १८६)
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
क्रमयुक्तं हि यत्कर्मं तच्च श्रेयस्करं नृणाम् ।
तस्मात्तन्न परित्याज्यं सङ्क्षिप्तमथ विस्तृतम् ॥ १३८ ॥

मुख्यकल्पं हि विस्तारमनुकल्पमतः परम् ।
समत्वं घटते केन हेतुना कमलोद्भव ॥ १३९ ॥
मूलम्
मुख्यकल्पं हि विस्तारमनुकल्पमतः परम् ।
समत्वं घटते केन हेतुना कमलोद्भव ॥ १३९ ॥
विश्वास-प्रस्तुतिः
तत्रापि चाशठानां च भक्तानां भावितात्मनाम् ।
विहितं पत्रपुष्पाद्यैस्सभोगैर्वाग्भिरर्चनम् ॥ १४० ॥

कर्मणामनुसन्धानं विना कालान्तरेण तु ।
क्ष्माजलानलवाय्वाख्यं नाभसीयं महामते ॥ १४१ ॥

धारणापञ्चकाच्चैव सङ्क्षिप्तं विहितं द्वयम् ।
दहनाप्यायनाख्यं यदादेहात् सर्वशुद्धये ॥ १४२ ॥

परापरस्वरूपाच्च ध्यानादेकं परं महत् ।
हृन्मन्त्रं सर्वमन्त्राणामुपचारक्रियाविधौ ॥ १४३ ॥

कर्मणा 32 समनस्कं च प्रणवाद्यं महामते ।
एका ह्याराध्यमुद्रा वै योगमन्त्रस्य सा स्मृता ॥ १४४ ॥

स्मरणान्नेत्रयोर्मध्ये स्वोच्चारं 33 निष्कलस्य तु ।
नतिप्रणवगर्भाभिः स्वसञ्ज्ञाभिर्यदर्चनम् ॥ १४५ ॥

विधिवन्मन्त्रमूर्तीनां तत्परं क्षिप्रसञ्ज्ञितम् ।
बीजैर्विशेषिताभिस्तद्द्वितायं सूक्ष्मलक्षणम् ॥ १४६ ॥

यल्लक्षणामृतैः पिण्डैः सह सञ्ज्ञाभिरब्जज ।
जपान्तमखिलं कर्म मन्त्राणां तद्बृहत् स्मृतम् ॥ १४७ ॥

क्षिप्रमाद्याच्च कैवल्यं किञ्चित्कालान्तरेण तु ।
द्वितीयादब्जसम्भूत बुद्धिपूर्वक्रमेण तु ॥ १४८ ॥

ज्ञानादिगुणषट्कं च इहैवाद्यं प्रयच्छति ।
अणिमाद्यष्टकं चैव द्वितीयममलेक्षण ॥ १४९ ॥

समस्तभुवनैश्चर्यं तृतीयमचिरात्तु वै ।
साम्यं निश्रेयसावाप्तेस्सर्वेषां किन्तु पौष्कर ॥ १५० ॥

क्षिप्रं लक्षणपूर्वेण कालेन त्रिविधेन तु ।
महत्तैव हि मन्त्रस्य स्वसञ्ज्ञाख्यस्य यद्यपि ॥ १५१ ॥

तथापि कमलोद्भूत क्षिप्रपूर्वादिकेऽर्चने ।
बीजं वा पिण्डमन्त्रं च प्रणवादनुसंस्मरेत् ॥ १५२ ॥

आराध्य मन्त्रनथस्य हृदादीनां तथैव च ।
अन्येषामन्तरङ्गाख्यं मन्त्राणां कमलोद्भव ॥ १५३ ॥

प्रधानलक्षणानां च कमलासनवर्तिनाम् ।
न विरोधोऽस्त्यतोऽन्येषां बीजैः पिण्डैर्विनाब्जज ॥ १५४ ॥

वज्रलाञ्छनलोकेशतदस्त्राधारवर्तिनाम् ।
तथासनाख्यविघ्नेशपूर्वाणां द्वारवासिनाम् ॥ १५५ ॥

ब्रह्मचारिगृहस्थस्य स्वतन्त्रस्य यतेरपि ।
किं पुनस्तु गृहस्थस्य व्यापारनिरतस्य च ॥ १५६ ॥

एतद्वै नैष्ठिकानां तु तच्चित्तनिरतात्मनाम् ।
साधकानां सवित्तानां हितमेकान्तवासिनाम् ॥ १५७ ॥

भक्तिश्रद्धापरस्सम्यग्गृहीत्वा यस्समाचरेत् ।
ददाति तत्र मन्त्रात्मा पूर्वोक्तं द्विविधं फलम् ॥ १५८ ॥

सह साधकसिद्धीभिर्निर्विघ्नेन महामते ॥
इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां आराधनलोपविचारो नाम
द्वात्रिंशोऽध्यायाः ॥ ३२ ॥
(समुदितश्लोकसङ्ख्या १६०)