३१ अध्यायः

अथ एकत्रिंशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

पवित्रारोहणं कृत्वा चातुर्मास्यं महामते ।
निर्वहणीयं नियमैर्विविधैर्लोकपूजितैः ॥ १ ॥

मूलम्

शयनं देवदेवीयमर्चयेत्तद्विधिं शृणु ।
हेमादिरत्नखचिते सर्वाङ्गपरिशोभिते ॥ २ ॥

मूलम्

शयनं देवदेवीयमर्चयेत्तद्विधिं शृणु ।
हेमादिरत्नखचिते सर्वाङ्गपरिशोभिते ॥ २ ॥

विश्वास-प्रस्तुतिः

भगवत्यनुरूपे च शयने शशिवासिते ।
सितातपत्रचमरकिङ्किणीवरमण्डिते ॥ ३ ॥

मूलम्

भगवत्यनुरूपे च शयने शशिवासिते ।
सितातपत्रचमरकिङ्किणीवरमण्डिते ॥ ३ ॥

विश्वास-प्रस्तुतिः

वैजयन्तीगणोपेते हेमदण्डाङ्घ्रिबूषिते ।
वितानकेन दिव्येन कुङ्कुमाद्यैर्विभूषिते ॥ ४ ॥

शोभिते चोपरिष्टात्तु तिर्यगूर्ध्वपटावृते ।
जातीफलादिकैर्लाजसर्वबीजादिपूरिते ॥ ५ ॥

विदिक् चित्रपटैर्युक्ते सत्पुष्पप्रकरीकृते ।
रत्नदीपसमायुक्त इत्यस्मिन् शयने स्मरेत् ॥ ६ ॥

क्षीरोदार्णवमध्यस्थं सहस्रफणमौलिनम् ।
हिमकुन्देन्दुधवलं नागनाथं महामते ॥ ७ ॥

मूलम्

क्षीरोदार्णवमध्यस्थं सहस्रफणमौलिनम् ।
हिमकुन्देन्दुधवलं नागनाथं महामते ॥ ७ ॥

विश्वास-प्रस्तुतिः

प्रणवेन स्वनाम्ना च वर्णान्तेन सबिन्दुना ।
ध्वात्वार्चयित्वा स्तुत्वा च नमस्कृत्य प्रसाद्य च ॥ ८ ॥

निवेश्य तस्मिन् कर्मार्चो हारकेयूरभूषिताम् ।
श्रीखण्डशशिबाह्लीकविलिप्तां पुष्पवेष्टिताम् ॥ ९ ॥

प्रावृत्तां नेत्रवस्त्रेण सृष्टरूपैः सुधूपिताम् ।
स्वबीजं मन्त्रवर्णं तु ॐ लक्ष्मीपतये नमः ॥ १० ॥

समुदीर्य धिया चार्व्यमङ्गोपाङ्गक्रमेण ।
द्वादशाक्षरवर्णैस्तु स्वनामपदसंयुतैः ॥ ११ ॥

कर्मार्चाया अभावात्तु दर्भमञ्जरिजं शुभम् ।
यथोक्तेन विधानेन विष्टरं विनिवेश्य च ॥ १२ ॥

तस्मिन् मन्त्रवरं न्यस्य स्वपद्मगगनोदरात् ।
निलीनाखिल गण्डादिशक्तिपञ्जरमध्यगम् 1 ॥ १३ ॥

व्यक्तीनां मूर्तिदानेन नीत्वा ध्यानान्वितेन च ।
देवाङ्गमहितं वस्त्रमभुक्तममलात्मकम् ॥ १४ ॥

दत्त्वोपरि समभ्यर्च्य पुष्पधूपविलेपनैः ।
सर्वतत्त्वोपसंहारं चितश्शक्तिं 2 तु विन्यसेत् ॥ १५ ॥

दक्षिणे त्वभिमानाख्यां मूर्तिं तु चमरोद्यताम् ।
एवं ज्ञाननिशां वामे तालवृन्तकरोद्यताम् ॥ १६ ॥

उत्तमां भावयेन्निद्रां करसंवाहने रताम् ।
पादारबिन्ददेशस्थां लालयन्तीं कराम्बुजैः ॥ १७ ॥

आदाय चरणे दिव्ये साक्षाछ्री (स्स) सन्निधिस्थिता ।
आनन्दं ब्रह्मणो रूपं तस्यै देवाधिदेवता ॥ १८ ॥

तदन्तस्स्मरणानन्दजातविस्मयलोचनाः ।
खनामपदमन्त्रैस्तास्सम्पूज्याः प्रणवादिभिः ॥ १९ ॥

एवं हि देवदेवीयं शयनं कमलोद्भव ।
यथोक्तं सम्प्रतिष्ठाप्य चातुर्मास्यपरैर्नरैः ॥ २० ॥

कार्यात्र प्रत्यहं पूजा मार्जनं चोपलेपनम् ।
मृदा धातुविकारैर्वा सुगन्धैश्चन्दनादिकैः ॥ २१ ॥

प्। १६७)

विश्वास-प्रस्तुतिः

प्रदानं धूपदीपानां व्यजनेनानिलोत्थितः ।
शशिचन्दनसंयुक्तशीतलोदक सत्क्रियाः 3 ॥ २२ ॥

कदलीदलकह्लारैः पद्मोत्पलविमिश्रितैः ।
स्वेदशान्तिं 4 समापाद्यं पौनःपुन्येन पूजनम् ॥ २३ ॥

वेणुवीणासमोपेतां गीतिं च मधुरस्वराम् ।
एवं मासद्वये याते जाते मेघरवेऽम्बरात् ॥ २४ ॥

ब्रह्मन् भाद्रपदे मासि द्वादश्यां हि निशामुखे ।
ईषत् प्रबोधमाश्रित्य देवदेवो ह्यधोक्षजः ॥ २५ ॥

स्थित्यर्थममराणां च परिवर्तनमाचरेत् ।
दक्षिणेनाङ्गसङ्घेन त्यक्त्वा चोत्तानशायिकाम् ॥ २६ ॥

योगनिद्रां समाश्रित्य प्रकुर्वन् प्रभवाप्ययौ ।
मरुच्चक्राक्षसंस्थस्य 5 विश्वबीजस्य पौष्कर ॥ २७ ॥

मूलेन्दुमण्डलाच्चाथ आपास्याच्छादनाम्बरम् ।
अस्ते त्वाश्वयुजे त्वेष द्वादश्यां परमेश्वरः ॥ २८ ॥

सन्त्यजेच्छयनं दिव्यं निशायां कार्तिकस्य (तु) च ।
उत्थायामरनाथश्व समाक्रम्य पतत्रिराट् ॥ २९ ॥

निश्शेषभुवनग्रामवीथीनां दोषशान्तये ।
विचरत्यप्रमेयात्मा नन्दयंस्तान् सुरादिकान् ॥ ३० ॥

आवीक्षयञ्जगत्यस्मिन् स्वकृतं धर्मपद्धतिम् ।
एवं भक्तजनैः कार्यं तस्य तच्चेष्टितं महम् ॥ ३१ ॥

विविधैरुत्सवैर्दानजपजागरणैश्शुभैः ।
नृक्तगीतसमोपेतैर्विलासैर्हास्यसंयुतैः ॥ ३२ ॥

क्रीडमा नैस्सुमनसैः प्रयतैः प्रणतैः प्रभोः ।
एकदेशस्थितैर्विप्र अनन्यमानसैस्सदा ॥ ३३ ॥

मासशेषं तपोनिष्ठैस्समर्थैः पुनरेव हि ।
स्वाश्रमे वामरक्षेत्रे रक्षणीयं महाजनैः ॥ ३४ ॥

ब्रह्मन् द्वादशरात्रेण षड्रात्रेण शुभेन च (वा) ।
असामर्थ्यं त्रिरात्रेण अहोरात्रेण वाब्जज ॥ ३५ ॥

नयेन्नक्ताशनेनाथ चत्वार्येते शुभव्रताः ।
मासोपवासनिरतैर्नरैः परमवैष्णवैः ॥ ३६ ॥

अन्ते त्रिद्व्येकरात्रं वा कार्यमच्युतजागरम् ।
पुण्याख्यानकथाभिस्तु स्तोत्रपूर्वैस्तु गीतकैः ॥ ३७ ॥

सवाद्यैर्मधुरैर्नृत्तैरपहासैस्तु हर्षदैः ।
जयशब्दैर्नमस्कारैः करतालसमन्वितैः ॥ ३८ ॥

समर्चयेच्छ्रीनिवासं जुह्वन् ध्यायन् जपन्नपि ।
भोगैः षड्रसपूर्वैस्तु सुपूर्णैरौपचारिकैः 6 ॥ ३९ ॥

अर्घ्यैर्विलेपनैर्माल्यैर्सृष्टधूपसमन्वितैः ।
ब्राह्मे मुहूर्ते द्वाश्यां मन्त्रमूर्तिं यजेद्धरिम् ॥ ४० ॥

शङ्खध्वानसमोपेतैर्दुन्दुभीपटहस्वनैः ।
वन्दिवृन्दोत्थितोच्चाभिर्नानावाग्भिर्महामते ॥ ४१ ॥

महाजयजयारावैः पुनःपुनरुदीरितैः ।
प्रबोधलक्षणैस्तोत्रैरुत्थाप्य शयनात्ततः ॥ ४२ ॥

महता विभवेनाथ मण्डलादौ यजेत्क्रमात् ।
महत्स्नपनपूर्वैस्तु भोगैः पूर्णैर्यथोदितैः ॥ ४३ ॥

महादीपैः प्रभूतैस्तु साङ्कुरैः पालिकागणैः ।
फलैः पनसपूर्वैस्तु मध्वाज्यतिलचर्चितैः ॥ ४४ ॥

पुष्पार्घ्यचन्दनाद्यन्तैर्ब्रह्मसूत्रविभूषितैः ।
मालतीमल्लिकापूर्वसमुत्थैर्मञ्जरीगणैः ॥ ४५ ॥

कदम्बचूतश्रीवृक्ष-ऋजुशाखासमन्वितैः ।
तरण्डैः सूत्रसम्बन्धैः कुङ्कुमाद्यैस्सुपूजितैः ॥ ४६ ॥

प्। १६८)

विश्वास-प्रस्तुतिः

गोभूहेमादिकैर्दानैश्चित्रैः प्रावरणैश्शुभैः ।
एवमिष्ट्वा तु होमान्तं ग्रामं वा नगरं गृहम् ॥ ४७ ॥

सपवित्रेण यानेन सचक्रेण शुभेनं वा ।
मन्त्रास्त्रकुम्भयुक्तेन तद्बिम्बोदरकेण वा ॥ ४८ ॥

ब्रह्मघोषसमेतेन गीतवाद्यान्वितेन च ।
गणिकाभगवद्भक्तास्सहनागरिकैर्जनैः ॥ ४९ ॥

मूलम्

ब्रह्मघोषसमेतेन गीतवाद्यान्वितेन च ।
गणिकाभगवद्भक्तास्सहनागरिकैर्जनैः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

परिव्राड्ब्रह्मचारीभिर्जपस्तुतिपरायणैः ।
महता केतुयुक्तेन सितच्छत्त्रावृतेन तु ॥ ५० ॥

प्रदहन् सुरभिं धूपं पृथक् साम्यं च गुगुलुम् ।
यानमेवं परिभ्रम्य द्रविणं चार्थिषु क्षिपेत् ॥ ५१ ॥

ततः प्रदक्षिणीकृत्य चतुर्धा प्रणिपत्य च ।
सर्वाङ्गैर्दण्डवद् भूमौ भक्त्या तु पुरुषोत्तमम् ॥ ५२ ॥

रथस्थमालयस्थं तु चेतसा संस्तुवन् जपन् ।
प्रक्षिपन् 7 चार्घ्यपुष्पे तु लाजान् सिद्धार्थकान् फलान् ॥ ५३ ॥

दृष्टं यदेव 8 दिग्देवं भावयेत्सर्वदिक्तथा ।
चङ्क्रमेद्भवनं कृत्स्नं स्थितिं बध्नानि येन वै ॥ ५४ ॥

भक्तानां भगवान् भक्तौ दिक्कालाद्यैरनाहतः ।
एतत्प्रदक्षिणं नाम सामान्यं सर्वदेहिनाम् ॥ ५५ ॥

समभ्यस्तं परिज्ञातं ददाति पदमाच्युतम् ।
जानुभ्यां सहपाणिभ्यां जानुभ्यां वा समाचरेत् ॥ ५६ ॥

सकृत्संवत्सरस्यान्ते त्रिसन्ध्याद्वादशीषु वा ।
एकमेव तथेज्यान्ते शिरसावनतेन तु ॥ ५७ ॥

समभ्यर्च्य 9 ततो भावमचिरादेव कर्मिणाम् 10
फलं यच्छति देहान्ते क्रमाल्लोकास्तु वैभवाः ॥ ५८ ॥

कृतेज्यः परया भक्त्या प्रणम्यैवमधोक्षजम् ।
प्रदक्षिणैरर्चनीयं प्रणिपातसमन्वितैः ॥ ५९ ॥

सर्वक्षेत्राभिगमनात् सर्वतीर्थाटनात्तु वै ।
फलं ददाति भगवान् भक्तस्य चरणार्चितम् ॥ ६० ॥

प्रदक्षिणीकृता येन मूर्तिर्मन्त्रात्मनो हरेः ।
दोषैः प्रदक्षिणीकृत्य त्यक्तस्सम्भवगैर्नरैः ॥ ६१ ॥

भगवत्कर्मदीक्षणां 11 भक्तानां भावितात्मनाम् ।
प्रकृष्टमेतद्व्यापरं दक्षिणं शुभवर्त्मनि ॥ ६२ ॥

ज्ञानगोलकतुल्यत्वाच्चक्रवद्भ्रमणात्तु वै ।
प्रददाति शुभं नित्यं क्षिणोति क्लेशसञ्चयम् ॥ ६३ ॥

भगवत्कर्मनिष्ठानां देवायतनवासिनाम् ।
भक्तानामपि वान्येषां कर्मवागिन्द्रियात्मकम् ॥ ६४ ॥

अन्तर्गर्भगृहे विष्णोर्गर्भाद्वाननमण्डपे ।
प्रणिपातगणं कुर्यात् प्रदक्षिणगणं विना ॥ ६५ ॥

वह्विस्थस्य विभोर्यस्मात्पाणिपृष्ठस्य दर्शनम् ।
दोषकृन्मन्त्रमूर्तीनामेवं देहमसिद्धिकृत् ॥ ६६ ॥

जानु प्रदक्षिणं 12 कृत्वा अन्तस्सन्निकटे विभोः ।
विरुद्धमपरं विप्र भक्तानां चरणभ्रमः ॥ ६७ ॥

उपानत्पादुकारूढच्छत्रोष्णीषधरास्तथा ।
यानाश्वशिबिकासंस्थस्ताम्बूलाद्यं हि चर्वयन् ॥ ६८ ॥

क्रीडापक्षिहिलादण्डदर्पणं 13 व्यञ्जनं वहन् ।
प्रहसन्नथवामोदमुच्छ्वसन् प्रलपन् बहु ॥ ६९ ॥

विलासकेलिक्रीडां च कुर्वन् कुपितमानसः ।
त्वराविष्टश्शुभार्थी यो लभेन्नात्र 14 भ्रमन् फलम् ॥ ७० ॥

प्। १६९)

विश्वास-प्रस्तुतिः

अनन्यबुद्धिना तस्मात्तद्गतेनान्तरात्मना ।
कार्यं शुभेप्सुना नित्यं गृहायतनयानगे ॥ ७१ ॥

यस्माद्वै भूरिफलदमल्पक्लेशं महामते ।
एकबेरमनन्तं च महामोक्षकरं 15 परम् ॥ ७२ ॥

एवं प्रदक्षिणीकृत्य कृत्वा पुष्पाञ्जलिं ततः ।
अवतार्य रथान्मान्त्रं चक्राधिष्ठानपूर्वकम् ॥ ७३ ॥

पूजनीयं पुनरपि मुद्राबद्धाञ्जलिं ततः ।
तर्पणीयमथाज्याद्यैर्दद्यात्पूर्णाहुतिं शुभाम् ॥ ७४ ॥

अर्घ्यधूपप्रदानाद्यैः क्षमयेत्पुरुषोत्तमम् ।
यानपात्रं तथा च्छत्रं प्रतिपाद्य सदक्षिणम् ॥ ७५ ॥

शयनं स्वगुरोर्विप्र द्विजानां तदसन्निधौ ।
कृत्वा जानुद्वयं भूमौ बद्धाञ्जलिरिदं पठेत् ॥ ७६ ॥

देव सर्वेश्वरानादे कर्मणानेन चाखिलाम् ।
शुभां गतिं जनो यातु प्रीतिं त्वं परमां भज ॥ ७७ ॥

भोजयेद्ब्राह्मणान् पश्चाद्विविधैः पानभोजनैः ।
श्रद्धया दक्षिणान्तश्चै तृप्त्यर्थं पितृसन्ततेः ॥ ७८ ॥

अनुयागं ततः कुर्याद्बन्धुभृत्यसमन्वितः ।
विभवे सति वाब्जोत्थ कार्यमेवमनाकुलैः ॥ ७९ ॥

द्रष्टव्यममरैर्देवं क्षेत्र्रे 16 ब्रह्मरथे स्थितम् ।
ग्रामीये नागरे स्थाने विमाने वा स्थितं प्रभुम् ॥ ८० ॥

इत्येवमुक्तं भक्तानां विधानं कौमुदीयकम् ।
यस्य सालोक्यतापूर्वं फलं भाववशात् स्थितम् ॥ ८१ ॥

पवित्रारोहणाद्यं च भक्तानां भावितात्मनाम् ।
यदुक्तमेवमखिलं यथाकमलसम्भव ॥ ८२ ॥

अस्वातन्त्र्यादसामर्थ्याद्वित्ताभावात्तु वा द्विज ।
द्वादशीष्वखिलास्वेवं कुर्यात्संवत्सरान्तरे ॥ ८३ ॥

वारितेऽपि निशायां तु चातुर्मास्ये तु संयमे ।
भक्तैर्निर्वहणीयं च तुलाभागावसानिकम् ॥ ८४ ॥

प्राक् 17 भवेत्तुलभो (गात्तु) गस्तु ? द्वादश्यां विगतं यदि ।
निशायामाचरेत्कृत्स्नं 18 पारम्यं तत्तिथेर्यतः ॥ ८५ ॥

कुर्याद्व्रतवरं चैवं पञ्चाहमुभयोरपि ।
एकादशीपूर्णिमान्ते तुलाद्वै वृश्चिकावधि ॥ ८६ ॥

मधुमांसपरित्यागं मदिरास्त्रीनिषेवणम् ।
मारणं मृगजातीनां द्रुमविच्छेदनं तथा ॥ ८७ ॥

वनदाहं च वसुधाखातं कुद्दालकादिना ।
ताडनं गोपशूनां च वधबन्धादिकं नृणाम् ॥ ८८ ॥

निशाटनमवर्णानां व्यवहारं तु तैस्सह ।
मृष्टोदनं 19 तु साभ्यङ्गं सर्वं यत्नाद्विवर्जयेत् ॥ ८९ ॥

उपसंहारदिवसादपरेऽहनि पद्मज ।
भक्तानामास्तिकानां च विहितं वत्सरं प्रति ॥ ९० ॥

कर्तव्यमभिषेकं च स्वस्तिशान्तिशुभाप्तये ।
तस्मादनुग्रहधिया कर्ताचार्यवरेण तु ॥ ९१ ॥

जनन्या जनकेनाथ ऋत्विग्भिर्वा वयोऽधिकैः ।
गुरोरसन्निधानाच्च साधकः साधकैस्तु 20 वा ॥ ९२ ॥

भद्रासने समारोप्य साम्बुजे स्वस्तिकाङ्किते ।
सूत्रिते नवनाभे तु पद्मे वाष्टदले ततः ॥ ९३ ॥

कुङ्कुमाद्यैर्विलिखिते कुसुमैर्वा सुपूरिते ।
नेत्रवस्त्रैः परिच्छन्ने यथोक्तरजसा 21 कृते ॥ ९४ ॥

प्। १७०)

विश्वास-प्रस्तुतिः

घण्टाविधानपूर्णैस्तु प्राक्स्थितैर्वा नवैर्युते ।
जातबीजशरावैस्तु शुभपूर्णयवाङ्कितैः ॥ ९५ ॥

दधिदर्पणसच्छत्रपुष्पैस्सन्माङ्गलीयकैः 22
सर्वबीजादिकैर्त्सर्वैस्सुगन्धैश्श्रीफलादिकैः ॥ ९६ ॥

मङ्गल्यगीतिभिर्वाद्यैर्ब्रह्मघोषसमन्वितैः ।
आचार्यैः पञ्चरात्रज्ञैर्ज पध्यानपरायणैः 23 ॥ ९७ ॥

प्रभवाप्ययसद्ब्रह्मसदागममतस्थितैः ।
अलाबुवीणाजलजैर्वंशघण्टारवैस्सह ॥ ९८ ॥

मूलम्

प्रभवाप्ययसद्ब्रह्मसदागममतस्थितैः ।
अलाबुवीणाजलजैर्वंशघण्टारवैस्सह ॥ ९८ ॥

विश्वास-प्रस्तुतिः

ज्वालासुमनसः पूर्णकुम्भसद्वृक्षमञजरीः ।
साकारविविधाकन्यालङ्कृते यज्ञमन्दिरे ॥ ९९ ॥

दूर्वादीनपि चर्वद्भिर्गोवृषैर्बालवत्सकैः ।
परितश्चावृते गोभिर्वन्दि बृन्दसमाकुले 24 ॥ १०० ॥

वृद्धये तु परां लक्ष्मीं सर्वशक्तिसमन्विताम् ।
प्राप्तये त्वाच्युतं सत्यं शाश्वतं पदमव्ययम् ॥ १०१ ॥

भक्तानां विहितं स्नानविधिनानेन पौष्कर ।
पूर्वोद्दिष्टेन विधिना अधिवास्य यथाक्रमम् ॥ १०२ ॥

हेमाद्यं रत्नखचितं प्रागुक्तरचनान्वितम् ।
नवकं कलशानां तु न्यस्तव्यमुदकोदरम् ॥ १०३ ॥

सर्वेषां वरुणं तावद्ध्येयं फणिरथस्थितम् ।
वरदाभयहस्तं च प्रोद्गिरन्तं सुधारसम् ॥ १०४ ॥

स्वाद्वाख्यं क्षीरसञ्ज्ञं च (तु) एकभावत्वमागतम् ।
विचित्रमकरारूढं रत्नपात्रकरोद्यतम् ॥ १०५ ॥

वरपाणिं समुद्रं च ध्येयं सर्वत्र चाम्बुवत् ।
नारायणाङ्घ्रिसम्भूतां पूर्वे जलघटोद्वहाम् ॥ १०६ ॥

आग्नेये कच्छपारूढां यमुनां देवपूजिताम् ।
मण्डूकाम्बुजसंस्थां च दक्षिणे तु सरस्वतीम् ॥ १०७ ॥

शनैः प्रवाहसञ्ज्ञां च पाशबन्धविमोक्षणीम् ।
नैर्-ऋते वृषभस्थां च पश्चिमे सिंहवक्त्रकाम् ॥ १०८ ॥

ऐरावतीं तु वायव्ये कलशे तु गजस्थिताम् ।
ईशानपद्ममध्येऽत्र वितस्तां मीनगां घटे ॥ १०९ ॥

नर्मदां महिषारूढां समङ्गां देवपूजिताम् ।
वृ(दृ)षद्वतीं देविकां च परोष्णीं बडबाह्वयाम् ॥ ११० ॥

सिन्धुः ककुप्सु सर्वासु अष्टासु परितः क्रमात् ।
उपकुम्भेषु वाब्जस्थास्सर्वास्तोयघटोद्यताः ॥ १११ ॥

कुसुमैस्स्तबकैर्युक्ता जलमुद्गीर्यमानसाः ।
वासुदेवादिमूर्तीशैश्शताष्टपरिमन्त्रितैः ॥ ११२ ॥

पूजितैरभिषेकं च दद्यात्सर्वफलाप्तये ।
ध्यात्वाधारे तु हेमाद्ये एवं चक्रगतेऽम्बुजे ॥ ११३ ॥

नदीसपुद्रवरुणयथोक्ते पूर्वनिर्मिते ।
उत्कृष्टमुक्तारत्नाढ्ये स्वस्तिकाद्यैर्विभूषिते ॥ ११४ ॥

द्वादशारासु मासेशकेशवाद्यैरधिष्ठिते 25
सर्वाङ्गदेवतोपेते मन्त्रन्यस्ते प्रतिष्ठिते ॥ ११५ ॥

तदम्बुना तु वा कुर्यात् स्नानं चावभृथं शुभम् ।
प्रत्यहं तज्जलं मूर्ध्नि धारणादभिवादनात् ॥ ११६ ॥

मुच्यते सर्वदोषेभ्यो मङ्गल्यं वृद्धिमेव च ।
तीर्थेभ्यस्त्वासमुद्रेभ्यो गङ्गादिसरितो गणात् ॥ ११७ ॥

स्नानोत्थं फलमाप्नोति भावितात्माच्युताश्रयी ।
कृते चावभृथस्नाने परितुष्टोऽथ साधकः ॥ ११८ ॥

भगवत्पदसिध्यर्थं 26 गुरुपादाम्बुना स्वयम् ।
दक्षिणेन करेणैव स्वमन्त्रं मनसा स्मरन् ॥ ११९ ॥

प्। १७१)

विश्वास-प्रस्तुतिः

मूर्ध्नि संसिच्य शङ्खाख्यमुद्रया 27 चोर्ध्ववक्त्रया ।
अम्बुसिक्तेऽम्बरेऽपास्य परिधायापरे 28 ततः ॥ १२० ॥

प्राग्वदुष्णीषपूर्वैस्तु पुष्पैर्गन्धैस्तु भूषणैः ।
शरीरमभ्यलङ्कृत्य उपविश्यासने ततः ॥ १२१ ॥

यथोदितं पुरास्त्रेण कुर्यान्निर्भर्त्सनं ततः ।
अभिनन्द्य 29 कृतन्यासो मङ्गलार्घ्यपुरस्सरान् ॥ १२२ ॥

नृपोपकरणान् सर्वान् छत्रचामरपश्चिमान् ।
देशिकेन्द्रकरात् प्राप्य समुत्थायासनात्ततः ॥ १२३ ॥

नमस्कृत्य जगन्नाथं परमेश्वरमच्युतम् ।
अनलालयमासाद्य देशिकेन्द्रेण वै सह ॥ १२४ ॥

पुष्पस्रग्गन्धधूपैश्च फलैर्बीजैस्तु वा(चा)ञ्जलिम् ।
पूरयित्वार्चनं कृत्वा विभोर्वह्निगृहान्तरे ॥ १२५ ॥

संस्मरन् हृदि मन्त्रेशमुपविश्याग्निसम्मुखम् ।
ततो मन्त्राभिजप्तेन साम्बुना विष्टरेण तु ॥ १२६ ॥

प्राग्वदामस्तकात्सर्वं स्पृशेद्ध्यानधिया 30 शुचि ।
कुर्याद्विन्यस्तदेहं तु ध्यात्वा मन्त्रं करोदरे ॥ १२७ ॥

गन्धपुष्पार्घ्ययुक्तं तद्दद्यान्मूर्ध्नि शिरोहृदि ।
सौत्रं वा कुसुमं दार्भा ? दामवर्णाभिमन्त्रितम् ॥ १२८ ॥

स्वेऽम्बरे मेखलासूत्रे उपवीतेऽथ कूर्परे ।
कृत्वा सम्यक् निविष्टं प्राक् दद्यात् शिष्यकराम्बुजे ॥ १२९ ॥

एवमैक्यं समापाद्य सगुणेनानलेन वै ।
आमोक्षात्सर्वसिद्धीनां तस्य साम्मुख्यसिद्धये ॥ १३० ॥

गुरुस्समाचरेद्धोमं पूर्णान्तं पुनरेव हि ।
मिश्रीभूतैस्समिद्द्रव्यैस्सप्तभिश्शर्करान्वितैः ॥ १३१ ॥

मध्यस्थं मन्त्रमूर्तेर्वै साष्टकं जुहुयाच्छतम् ।
सहस्रं वायुतं विप्र दद्यात्पूर्णाहुतिं ततः ॥ १३२ ॥

सविष्टरमधोवक्त्रं स्रुचामुपरि विन्यसेत् ।
स्रुचमभ्यर्च्य पुष्पाद्यैराज्यपूर्णां स्रुचं ततः ॥ १३३ ॥

कुर्यात्पूजां सुगन्धाक्तैः पुष्पैः सार्ध्यैर्निरम्बुभिः ।
उक्तसङ्ख्यं त्वतस्त्वाज्यं तदर्धमथ होमयेत् ॥ १३४ ॥

पूजान्ते पातयेत्पूर्णां पुनरेवं यथोदिताम् ।
शतात्सहस्रादयुताल्लक्षाद्वामललोचन ॥ १३५ ॥

ज्ञानात्मा पूर्वमूर्तीनां चतुर्थाम्श पृथक् पृथक् ।
तत्समं हृदयादीनामथोर्ध्वमखिलासु च ॥ १३६ ॥

परमेश्वरकान्तासु तदर्धेन तु पौष्कर ।
लाञ्छनाभरणादीनि सर्वाणि जुहुयात् क्रमात् ॥ १३७ ॥

साधारासनमन्त्राणां षण्णां कालात्मरूपिणाम् ।
गुर्वादीनां च विहितमर्धं लाञ्छनतर्पणम् ॥ १३८ ॥

सास्त्राणां लोकपालानां द्वार्स्थानां कमलोद्भव ।
गुरुपूर्वक्रमाद् हुत्वा अर्धमर्धं यथाक्रमम् ॥ १३९ ॥

कार्या चैकाधिका सङ्ख्या विषमार्धस्य चाहुतेः ।
आज्यहोमस्य विप्रेन्द्र तद्वदेवाम्बुजादिषु ॥ १४० ॥

ब्रह्मयज्ञद्रुमोद्भूताः पूतज्ञानद्रुमोत्थिताः ।
एवं क्षीरतरुभ्यो वै समिधस्त्रिमधुप्लुताः ॥ १४१ ॥

जुहुयाद्विधिवन्मन्त्री नयन्मन्त्रगणं क्रमात् ।
तृप्तिं पूर्णप्रदानैस्तु अंशांशहवनैः 31 कृतैः ॥ १४२ ॥

स्वबुद्धिसङ्ख्याहोमेन स्वाङ्गं वै विश्वविघ्नजित् ।
तर्पणीयश्च पूर्णान्तमेवमन्तेऽनलो द्विज ॥ १४३ ॥

पूर्णान्तेन नयेत्तृप्तिं मन्त्रव्यूहे कृते हृदि ।
इति सम्पादिते होमे दद्यात्पुष्पाञ्जलिं ततः ॥ १४४ ॥

प्। १७२)

विश्वास-प्रस्तुतिः

तिलकं चोर्ध्वपुण्ड्रं वा कुर्याद्वै भूतिना शिशोः ।
स्वस्थानेषु हृदा वर्म शिरोमन्त्रेण 32 च क्रमात् ॥ १४५ ॥

हृन्मन्त्रेण प्रयोक्तव्यं सर्वदा सर्वकर्मसु ।
तस्य सर्वाणि कर्माणि सदा तेन समाचरेत् ॥ १४६ ॥

सर्वमन्त्राख्यभूतस्य विधिमेवं समाचरेत् ।
कृते चास्रवणे वारिबिन्दवः स्रुङ्मुखात् च्युताः ॥ १४७ ॥

दद्यात्करेण शिरसि प्रणीताभाजनात्ततः ।
होममेतन्मुमुक्षोर्वै निष्कामस्य पुरोदितम् ॥ १४८ ॥

सकामस्य मुमुक्षोर्वै कुर्यात्सालङ्कृतस्य 33 च ।
काङ्क्षितं नानुजानाति सर्वज्ञो हृदये स्थितः ॥ १४९ ॥

अप्रार्थितोऽपि स्वर्गं तु भक्तानां यो ददाति च ।
किमदेयं हि तस्यास्ति तस्मादभ्यर्थनां 34 त्यजेत् ॥ १५० ॥

एतावदर्थनीयं च परमेश्वरमच्युतम् ।
जन्तुना क्र्तपूजेन नित्यमेव महामते ॥ १५१ ॥

मम यच्छ परां भक्तिं यया त्वं मे प्रसीदसि ।
त्वयि प्रसन्ने देवेश किं न प्राप्तं मया भुवि ॥ १५२ ॥

इत्युक्तस्त्वरबिन्दाक्ष आभिषेचनिको विधिः ।
समाप्य भगवच्छास्त्रश्रवणेऽधिकृतो भवेत् ॥ १५३ ॥

अधिकारपदं दिव्यमासादयति वैष्णवम् ।
येनातिभक्तस्संसारादुत्तारयति सङ्कटात् 35 ॥ १५४ ॥

कृते कलशदानेऽथ सक्तुना पललादिना ।
मण्डलाद्बाह्यतो दद्यात्प्रादक्षिण्येन पौष्कर ॥ १५५ ॥

सर्वदिग्भगवन्भूत ? बलिं दत्त्वा सहाम्बुना ।
सतिलोदकमध्वाज्यगन्धपुष्पान्वितेन च ॥ १५६ ॥

कार्या पितृक्रिया प्राग्वदोदनेनानलाग्रतः ।
बहिर्मण्डलवत्कुण्डाद्बलिदाने कृते सति ॥ १५७ ॥

आचम्य पूजयित्वाजं कुम्भात्कुण्डाच्च मण्डलात् ।
क्षान्त्याथ भुक्तं पूजार्थं माननीयो यथाविधि ॥ १५८ ॥

साङ्गं सपरिवारं च धूपयित्वा यथाक्रमम् ।
तत्क्षान्तिप्रार्थनां कृत्वा निरम्बुकुसुमादिकैः ॥ १५९ ॥

वह्निपूजां समापाद्य नमस्कृत्य यथाविधि ।
तच्छक्तिमात्मसात् कृत्वा हृदा संहारमुद्रया ॥ १६० ॥

विसृज्य स्रुक्स्रुवे कुर्यात् परिषेचनमम्बुना ।
यज्ञभूमेस्स्वशिरसि प्रणीतोत्थमथोदकम् ॥ १६१ ॥

अथ द्वाभ्यां च संहृत्य हृदि तत्स्थितमच्युतम् ।
स्तरोपसंहृतिं कृत्वा मधुक्षीराम्बुना ततः ॥ १६२ ॥

सम्प्राप्य यज्ञवसुधामानलीमपि पद्मज ।
सर्वमम्भसि निक्षिप्य समाहृत्यार्घ्यपूर्वकम् ॥ १६३ ॥

अनुग्रहार्थं शिष्यस्य अनुयागं समाचरेत् ।
भगवद्यागवत्कार्यं यागं तेनापि वै गुरोः ॥ १६४ ॥

दत्त्वा शिष्यं ततो यायादात्मयागे कृते सति ।
यथावदद्यप्रभृति मन्त्राराधनमाचरेत् ॥ १६५ ॥

मोहालस्यादिकैर्दोषैर्बुद्धिपूर्वेण चेतसा ।
नाचर्तव्यं विभोः पुत्र परित्यागं हि पूजने ॥ १६६ ॥

जपे तथाग्निभवने स्नाने दाने यथोदिते ।
स्तुतिपाठे यथा शास्त्रचिन्तने श्रवणेऽपि च ॥ १६७ ॥

व्याख्याने भव्यबुद्धीनां नारायणरतात्मनाम् ।
शिरसा दधतामाज्ञां कृत्वा पादाभिवन्दनम् ॥ १६८ ॥

प्राणयात्रां ततः कुर्यात् नैवेद्यप्राशनादिकाम् ।
कृतोपवासा येऽश्नन्ति प्रापणं पारमेश्वरम् ॥ १६९ ॥

प्। १७३)

विश्वास-प्रस्तुतिः

सम्प्रदानावशिष्टं च पूतदेहा नरास्तु ते ।
वन्दनीया नराणां च मान्या वै सिद्धिसन्ततेः ॥ १७० ॥

अन्वात्मतत्वं 36 विज्ञेयं विहितं तस्य सर्वदा ।
आत्मनैवात्मसिध्यर्थं यागमन्नेन तेन च ॥ १७१ ॥

सहयज्ञावशिष्टेन साम्बुना च फलादिना ।
अनुयागं च तं विद्धि आत्मनात्मनि यत्कृतम् ॥ १७२ ॥

कुर्वन्ति भोजनात्पूर्वं प्रत्यहं प्राशनं तु ये ।
तच्छक्ति ग्रहणं 37 प्राणे प्रयोजनवशात्तु वा ॥ १७३ ॥

भावभक्तिसमायुक्तास्सन्मार्गस्था दृढव्रताः ।
अप्रयत्नेन ते यान्ति देहान्ते पदमाच्युतम् ॥ १७४ ॥

येषां व्रतमिदं दिव्यं नराणां पुण्यकर्मणाम् ।
ते सर्वव्रतिनां मूर्ध्नि तिष्ठन्ति मखयाजिनाम् ॥ १७५ ॥

मन्त्रब्रह्मात्मनोविष्णोस्सम्यग्विधिनिवेदितम् ।
शुभं तस्य परिज्ञेयं मत्वा वापमिदं पुनः ॥ १७६ ॥

इदं तदमृतं ब्रह्म इदमायुरनश्वरम् ।
इदं ज्ञानमिदं वीर्यमिदं तेजस्तु वैष्णवम् ॥ १७७ ॥

इदमिन्दुरखण्डं च स्थितमन्नात्मना स्वयम् ।
पर्जन्यदस्य भगवान् व्यञ्जनस्थितसिद्धये ॥ १७८ ॥

हार्दानलात्मना भुङ्क्ते अध्यक्षःपरमेश्वरः ।
तच्छक्त्यानुगृहीतत्वात् सोऽहं प्रकृतिगः पुमान् ॥ १७९ ॥

एवमन्नदमन्नादं ज्ञेयमन्नं पुरस्स्थितम् ।
बाह्यतस्स्वाज्यदानेन सम्बोधमुपयाति च ॥ १८० ॥

यथा तथाम्बुनाभ्येति देहस्थो हुतभुक् प्रभुः ।
कारणं रसमन्नस्य षङ्गुणं षड्विधस्य च ॥ १८१ ॥

आत्मब्रह्मा ततस्तस्मादीषत्तत्कारणेन तु ।
साम्मुख्यमात्मना नीत्वा ततोऽन्नं जुहुयाच्छनैः ॥ १८२ ॥

प्रान्तपर्वैश्चतुर्धा प्राक् चातुरात्म्यव्यपेक्षया ।
तुर्यापेक्षावशेनैव जुहुयाद्वाहुतित्रयम् ॥ १८३ ॥

सहृदा मूलमन्त्रेण भुञ्जीयात्कबलैस्ततः ।
प्रयतास्यकरश्चान्ते पिबेन्मन्त्राभिमन्त्रितम् ॥ १८४ ॥

तोयं तद्ध्यानपादाब्जपरिस्रुतमथापि वा ।
प्रतिष्ठितस्य वा पूर्वं तदाकृतिधरस्य च ॥ १८५ ॥

यतस्तत्सर्वमापन्नं सर्वदोषक्षयङ्करम् ।
सर्वोपतापशमनं सर्वसौख्यप्रदं सदा ॥ १८६ ॥

पावनं सर्वतीर्थेभ्यो मन्त्रेभ्यः पद्मसम्भव ।
अतस्तु भोजनान्ते वै हार्दाग्नेस्तर्पणं पुरा ॥ १८७ ॥

भावभक्तिपरो नित्यं कं पिबेदाज्यदोहवत् ।
ब्रह्मतीर्थे तदा पाने द्विः पठेद्वा चतुः क्रमात् ॥ १८८ ॥

दत्तशिष्टस्य चान्नस्य प्रापणाख्यस्य वै तदा ।
माहात्म्यमेवमतुलं परिज्ञेयं यथोदितम् ॥ १८९ ॥

यागावसाने योग्यानां भक्तानां परमेश्वरे ।
पितॄणां तर्पयेन्नित्यं दद्याद्वै प्रीतये विभोः ॥ १९० ॥

यो वेत्त्येवं महत्तां च नैवेद्यस्याच्युतस्य च ।
विधिपूर्वं समश्नाति सयात्यच्युतसाम्यताम् ॥ १९१ ॥

व्रतज्ञेन जगद्योनेर्भक्तेन च विशेषतः ।
प्राणवद्रक्षणीयश्च प्राणेभ्यो नित्यमेव हि ॥ १९२ ॥

अन्नदानादिना सम्यग्विधिनानेन शक्तितः ।
परां प्रीतिं समभ्येति तस्य वै परमेश्वरः ॥ १९३ ॥

मूर्तमन्नं परं ब्रह्म पूजितं प्रददाति यः ।
भगवत्तत्त्ववेत्तॄणां दत्तं तेनाखिलं भवेत् ॥ १९४ ॥

व्रतपर्यन्तकाले तु स्थानेष्वायतनादिषु ।
पुण्येषु सन्मुहूर्तेषु तिथिलग्नाश्रितेषु च ॥ १९५ ॥

प्। १७४)

विश्वास-प्रस्तुतिः

कृत्वाऽक्षयं भगवतो दत्तमक्षय्यमेति च ।
सत्पात्राणां तदग्रे तु येन तुष्यत्यधोक्षजः ॥ १९६ ॥

अपात्राणामभक्तानां नास्तिकानां दुरात्मनाम् ।
वर्जनीयं प्रयत्नेन स्वानुष्ठानपरेण तु ॥ १९७ ॥

स्त्रीशूद्राणां पशूनां च भृतकानां विशेषतः ।
सकामो वाथ निष्कामो मन्त्रज्ञः सद्व्रतस्थितः ॥ १९८ ॥

मन्त्रपूतं हि नैवेद्यं निषिद्धानां ददाति यः ।
सिद्धोऽपि याति पातित्यमारुरुक्षुस्तु किं पुनः ॥ १९९ ॥

पौष्कर उवाच

विश्वास-प्रस्तुतिः

ज्ञातुमिच्छामि देवेश तत्तत्सङ्क्षेपतो यथा ।
लौकिकं यत्त्वयोद्दिष्टं भगवद्धर्मसङ्ग्रहम् ॥ २०० ॥

मूलम्

ज्ञातुमिच्छामि देवेश तत्तत्सङ्क्षेपतो यथा ।
लौकिकं यत्त्वयोद्दिष्टं भगवद्धर्मसङ्ग्रहम् ॥ २०० ॥

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

धनेन धर्मलब्धेन भूरिणाल्पेन वा पुनः ।
अधिकृत्याच्युतं देवं यदिवाप्यशुभं शुभम् ॥ २०१ ॥

भगवत्प्रीतये त्विष्टं सदस्यैस्तन्मयैस्सह ।
क्रतुवत् स्वल्पफलदा स्वर्गदा यद्यपि स्मृताः ॥ २०२ ॥

सकामानां हि तत्रापि तेन तत्फलदास्तु वै ।
अकामानां तु भक्तानां नूनमच्युतलोकदाः 38 ॥ २०३ ॥

कृच्छ्रचान्द्रायणादीनि तपांसि विविधानि च ।
कृताअनि भगवत्प्रीत्यै यथाभिमतदानि च ॥ २०४ ॥

यावज्जीवाधिकारं तु यदेभ्योऽभिमतं हि यत् ।
प्रीत्यर्थं परमेशाय अङ्गीकृतमखेददम् ॥ २०५ ॥

तत्फलत्यचिरेनैव दिव्यज्ञानात्मना तु वै ।
पुण्यमासाद्य वै क्षेत्रं तत्र चागतमव्ययम् ॥ २०६ ॥

स्थले वा पत्रपुष्पाद्यैर्योऽर्चयत्यनिशं व्रती ।
भक्त्या ह्यनन्यचित्तस्तु देहान्ते तस्य देहिनः ॥ २०७ ॥

प्रसादाद्देवदेवस्य स्थितिस्स्यात् सार्वलौकिकी ।
पूजां विष्णुवदाप्नोति यावज्जीवावधिं तु सः ॥ २०८ ॥

देहावसानसमये श्वेतद्वीपं प्रयाति च ।
भक्तिश्रद्धापरो विद्वान् नारायणपरायणः ॥ २०९ ॥

तैर्विमानैश्च मार्गेण ह्यर्चिराद्यान् महामते ।
सुप्रसिद्धैस्सुगन्धैस्तु 39 हृद्यैः पुष्पफलैश्शुभैः ॥ २१० ॥

प्। १७५)

विश्वास-प्रस्तुतिः

योऽर्चयत्यच्युतं भक्त्या वने वा पर्वतान्तरे ।
बहवोऽभिमतान् कामान् प्राप्नोत्यप्रार्थितांस्तु वै ॥ २११ ॥

देहान्ते वासवादीनां सम्पूज्यो भगवानिव ।
वैष्णवायतने दिव्ये सैद्धे वा पौरुषे तु यत् ॥ २१२ ॥

कुर्यात् कर्म धिया भक्त्या स्नानं क्षीरादिना महत् ।
श्रीखण्डागुरुकर्पूरबाह्लिकेनानुलेपनम् ॥ २१३ ॥

सितपीतारुणैर्दिव्यैर्दुत्तुलैर्वेष्ठनं ? तु वै ।
शुभेन सोत्तरीयेण उपवीतेन तु द्विज ॥ २१४ ॥

विभवे सत्यलङ्कारैस्सौवर्णैरत्नरञ्जितैः ।
मण्डयेच्च ततः पुष्पैस्स्रग्वरैश्चरणावधि ॥ २१५ ॥

धूपयेदाज्यसिक्तेन गुग्गुलेन शुभेन च ।
प्रभूतैश्च महादीपैस्तिलतैलाज्यपूरितैः ॥ २१६ ॥

अभुक्ताहतसुश्वेतरञ्जितैर्व्यतिवेष्टनैः ।
गर्भीकृतत्वगेलाद्यैः पूजयेत्तदनन्तरम् ॥ २१७ ॥

ततो मध्वाज्ययुक्तेन दध्नाभ्यर्चितमीश्वरम् ।
नैवेद्यैर्विविधैः पूतैर्भक्ष्यैस्सफलमूलकैः ॥ २१८ ॥

पानकैः पावनैस्स्वच्छैश्शीतलैर्मधुरादिकैः ।
त्वगेलाद्यन्विप्तैर्घृष्टैर्धूपकर्पूंरवासितैः ॥ २१९ ॥

नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् ।
नैवेद्याचमनार्थं तु गन्धोदकमनुत्तमम् ॥ २२० ॥

अभुक्तमहतं शुक्लमथ निष्पुंसनाम्बरम् ।
अथ चूर्णितकर्पूरघृष्टश्रीखण्डभावितम् ॥ २२१ ॥

सपूगफलमुत्कृष्टं ताम्बूलं विनिवेद्य च ।
शालयश्शिम्बधान्यादितिलास्सिद्धार्थकानि च ॥ २२२ ॥

रोचना श्रीफलं पुष्पं दूर्वा धात्रीफलं दधि ।
दुकूलमहतं श्वेतं दक्षिणावर्तमम्बुजम् ॥ २२३ ॥

तमालादिदलच्छन्ने धातूत्थे वैदलेऽपि 40 वा ।
पात्रे कृत्वार्घ्यपुष्पाढ्ये तत्र मध्ये निवेश्य च ॥ २२४ ॥

हेममानं हिरण्यं च स्वशक्त्या वातिनिर्मलम् ।
जानुनी भूगते कृत्वा शिरसावनतेन तु ॥ २२५ ॥

आदायोत्तानपाणिभ्यां विनिवेद्य जगत्प्रभोः ।
सम्पूरणार्थं सर्वेषां भोगानां द्विजसत्तम ॥ २२६ ॥

येनाप्तिस्सर्वकामानां भाविनां सत्फलार्थिनाम् ।
परमात्मनि संयोज्यमकामानां हि येन वै ॥ २२७ ॥

चामरव्यजनादीनि भोगान्यन्यानि यानि च ।
शयनासननिष्ठानि तन्त्रीवाद्यानि यानि च ॥ २२८ ॥

भेरीमृदङ्गसत्सङ्गपर्यन्तानि महान्ति च ।
तत्प्रेक्ष्य स्वधिया सम्यक् चित्तानन्दप्रदानि च ॥ २२९ ॥

सम्भवे सति सर्वाणि मनसा तदसम्भवे ।
श्रद्धाभक्तिवशाच्चैव यो यजत्यमराजितैः ॥ २३० ॥

स्वर्गादिसत्यनिष्ठानां भुक्त्वा भोगान् यथेच्छया ।
ततः कालान्तरेणैव देवीयेच्छावशेन तु ॥ २३१ ॥

प्। १७६)

विश्वास-प्रस्तुतिः

तद्भूतदर्शितेनैव मार्गेण महता मुने ।
विभवव्यूहलोकानामास्ते 41 कल्पशतान् बहून् ॥ २३२ ॥

ज्ञानमासाद्य तत्रैव ह्यवतीर्याथ भूतले ।
लयं च सहसा याति भगवत्यमितात्मनि ॥ २३३ ॥

मूलम्

ज्ञानमासाद्य तत्रैव ह्यवतीर्याथ भूतले ।
लयं च सहसा याति भगवत्यमितात्मनि ॥ २३३ ॥

विश्वास-प्रस्तुतिः

क्षेत्रायतनसत्तीर्थवशेनाच्युतमर्चनम् ।
उक्तमुद्देशतः किञ्चित् 42 भक्तानां भवशान्तये ॥ २३४ ॥

इदानीं का(ल)म ? माश्रित्य हरेराराधनं शृणु ।
भक्तानां भवनाशार्थं विष्ण्वेकनिरतात्मनाम् ॥ २३५ ॥

प्रभूतैः पावनैर्भोगैर्न्यायोपायसमाजितैः ।
यष्टव्यं श्रद्धया बक्त्या पुण्येषु दिवसेष्वथ ॥ २३६ ॥

नैमित्तिकेषु कालेषु नित्यमेव निराकुलैः ।
दिव्यान्तरिक्षभौमाख्यशुभलग्नक्षणेष्वपि ॥ २३७ ॥

द्वादशीषु विशेषेण पक्षयोरुभयोरपि ।
दिनेषु देशरूढेषु 43 विज्ञातेष्वागमान्तरात् ॥ २३८ ॥

सत्क्रियेष्वविरुद्धेषु देवतान्तरपूजनात् ।
पयोमूलफलाद्यैर्वा परिविद्धाद्यवासरे 44 ॥ २३९ ॥

कोष्ठसङ्क्षालनार्थं तु पञ्चगव्यं ततः पिबेत् ।
भगवद्बिम्बपादाम्बुभावितं पर्णपात्रगम् ॥ २४० ॥

सुवर्णदर्भसद्रत्नक्षालितेनाम्भसा सह ।
एवं कृतोपवासश्च प्राग्वदाराध्य केशवम् ॥ २४१ ॥

हिरण्यान्नाम्बुगोभूमिदानैः कृष्णाजिनादिकैः ।
निवेदितैश्च सन्तोष्य पुण्डरीकाक्षमच्युतम् ॥ २४२ ॥

तदाज्ञां शिरसादाय यो यच्छेत्तन्मयस्य च ।
भक्त्या फलार्थिनो नूनं लभेत्तु भगवत्पदम् ॥ २४३ ॥

फलार्थिनोऽस्य च पुनः कल्पकोटिशतान् बहून् ।
दिव्यभावफलत्वेन 45 फलत्याशु महामते ॥ २४४ ॥

आयुरारोग्यसद्भृत्यपुत्रदारान्वितस्य च ।
लाग्नं (यागम्) मौहूर्तिकं कर्म तैथ्यं यदपि वित्मृतम् ॥ २४५ ॥

सशेषं प्राक् समापाद्य सावधानेन चेतसा ।
प्राप्तायां पुण्यवेलायां कर्मशेषं समापयेत् ॥ २४६ ॥

पूर्णान्तमर्घ्यपुष्पाद्यैर्दतैर्हेमगवादिकैः ।
द्विवासरमहर्वात्र त्रिदिनं षडहं हि यत् ॥ २४७ ॥

द्वादशाहं द्विपक्षं यत् (च) क्षपयित्वा यथाविधि ।
व्रतान्तवासरात्पूर्वं सहजागरणादिना ॥ २४८ ॥

जपहोमार्चनध्यान 46 प्रणामैस्सप्रदक्षिणैः ।
कथानकैस्तवैः 47 पुण्यैः क्षपणीयमतन्द्रितैः ॥ २४९ ॥

ततः प्रभातसमये रात्रौ वा पुण्यवासरे ।
प्राणाग्निहवनान्तं च स्नानपूर्वं समाचरेत् ॥ २५० ॥

सूर्योदयं विना रात्रौ विरुद्धमनिशं द्विज ।
सिद्धान्नं कल्पयित्वा तु द्विजानामुदकान्वितम् ॥ २५१ ॥

दद्याच्च भगवत्यग्रे सुसिद्धं हविषा युतम् ।
देवपादाम्बुपूर्वं तु तिलसत्फलचर्वणम् ॥ २५२ ॥

कृत्वाचाघ्राय 48 नैवेद्यं स्पृशेत्तत्पुनरेव हि ।
भोजनात् प्राक् समश्रीयादशुभध्वंसनाय वै ॥ २५३ ॥

वन्दनीयं सदानन्दसुखसौभाग्यसिद्धये ।
एष्यद्दिनोदयं ह्येवं व्रतज्ञैर्भगवन्मयैः ॥ २५४ ॥

प्। १७७)

विश्वास-प्रस्तुतिः

व्रताद्यदिवसं कार्यमेवं व्रतदिनस्य च ।
वर्जनीयं प्रयत्नेन प्रजासद्गतिकाङ्क्षिणा ॥ २५५ ॥

परपीडदिनं शुद्धमुपादेयं हि सर्वदा ।
पुरोवर्तिदिनांशेन 49 युक्तं गुरुतरं तु तत् ॥ २५६ ॥

ईषदा 50 द्यदिनोपेतमुपवासदिनं यदि ।
लोके लब्धप्रतिष्ठं च तथात्वेन तु सर्वदा ॥ २५७ ॥

उपवासपराणां तु न तद्दोषप्रदं भवेत् ।
निष्कामानां हि भक्तानां व्रतं व्रतपरायणः ॥ २५८ ॥

फलार्थिनां तद्भविनां कर्मतन्त्ररतात्मनाम् ।
प्रतिषिद्धं 51 च सिद्धत्वादुपवासेऽशनेऽपि च ॥ २५९ ॥

ततोऽङ्गभावं भक्तानां 52 नतार्थं तत्प्रयान्ति च ।
मनसो येन कालुष्यं न भवत्यच्युतार्चने ॥ २६० ॥

उपवासेप्यशक्तानां कर्मब्रह्मरतात्मनाम् ।
परपीडसमं विद्धि 53 सदानं सर्वमाचरेत् ॥ २६१ ॥

सोपवासवदन्यस्मिन्दिवसे भगवन्मयः ।
इतिकर्तव्यताशक्तः प्राप्तादेवं गुरुं यजेत् ॥ २६२ ॥

सन्तोष्याभ्यर्त्थ वै क्षान्तिं वृत्त्यर्थं हि जगद्गुरोः ।
दिवसार्धसमानेन तदूनेनाधिकेन वा ॥ २६३ ॥

युक्तमाद्यदिनेनैवं पुरोवर्ति च वासारम् ।
कृत्वा नक्ताशनं नित्यं यदि सङ्कल्पमाचरेत् ॥ २६४ ॥

फलं सातिशयं तस्य उपवासात्तु जायते ।
सर्वदानावसानान्तमापाद्य व्रतवासरे ॥ २६५ ॥

तस्मिन्नेवात्मयागं तु विधेयमुपवासिना ।
तद्वासरक्षयाच्छश्वद्विश्वेशे पूजनादिना ॥ २६६ ॥

शिष्टं दिनेऽपरस्मिन् वै कृतं तदभवं भवेत् ।
विरोधमन्यथासि (वि) द्धि कृतकृत्यस्य देहिनः ॥ २६७ ॥

अक्षीणस्य परित्यागात् प्रभावादग्रहस्य च ।
परिपीडतिथिष्वेवं हेयोपादेयतां पुरा ॥ २६८ ॥

ज्ञात्वा तिथीशनाथात्मा वासुदेवोऽच्युतः प्रभुः ।
पूजनीयो हि पर्वादौ सोपवासैः क्रमेण तु ॥ २६९ ॥

पक्षयोरुभयोश्चैव सितपक्षे तु वेच्छया ।
पितामहात्मा भगवान् तत्राद्येऽहनि पद्मज ॥ २७० ॥

विधिवत्पूजनीयश्च भक्तियुक्तेन चेतसा ।
एवमब्ज 54 द्विपक्षेण एकपक्षार्चने न वा ॥ २७१ ॥

क्षपयित्वा यथान्यायं दानैर्होमैस्स्वशक्तितः ।
विधात्रात्मा द्वितीयायां तृतीयायां स्वयं हरिः ॥ २७२ ॥

ततस्संयमनात्माहं (नं ?) चतुर्थे ह(रि) नि मानयेत् ।
पञ्चम्याममृतात्मानं शक्तीशं षष्ठवासरे ॥ २७३ ॥

सप्तम्यां ज्ञानमूर्तिं वै विश्वात्मा तदनन्तरम् ।
नवम्यामथ सिद्धात्मा धर्मात्मा भगवांस्ततः ॥ २७४ ॥

ईशानात्माथ देवेशस्सूर्यात्मा दिक्प्रकाशकृत् ।
कामात्माथ त्रयोदश्यां कलात्माथ महामते ॥ २७५ ॥

भगवान् पितृसञ्ज्ञात्मा भेदास्त्वेते जगत्प्रभोः ।
काम्यकर्माधिकारेण नित्यं चाभिमताप्तये ॥ २७६ ॥

पूजनीयोऽर्घ्यपुष्पाद्यैरुपहारैः क्रियान्वितैः ।
पूजार्थमाद्यदिवसे ब्राह्म (ब्रह्मा)णं वत्सरं यजेत् ॥ २७७ ॥

एवं हि वाग्विभूत्यार्थी देवं धातारमव्ययम् ।
मोक्षविघ्नविनाशार्थं हरिं तत्सिद्धयेऽपि च ॥ २७८ ॥

प्। १७८)

विश्वास-प्रस्तुतिः

अधर्मशान्तये चैव यमं 55 संयमतां ततः ।
आयुरारोग्यवृद्ध्यर्थं पञ्चम्याममृतेश्वरम् ॥ २७९ ॥

यजेच्छक्तिप्रभावार्थं षष्ठ्यां शक्तीशमच्युतम् ।
स्वसंविदाप्तये सम्यक् तद्दिनेशमथार्चयेत् ॥ २८० ॥

प्रभूतये तु विश्वात्मा त्रिविधास्वथ सिद्धिषु ।
प्राप्त्यर्थं नवमीनाथं सधर्मावाप्तिकृत्ततः ॥ २८१ ॥

दशम्यामर्चनीयं च तद्दिनेशं महामते ।
एकादशेऽह्नि विद्यार्थीं विद्यानाथमहेश्वरम् ॥ २८२ ॥

महत्तेजःप्रभावार्थं तदीशं द्वादशेऽहनि ।
नानास्त्रीरत्नलाभार्थं त्रयोदश्यां च तत्पतिम् ॥ २८३ ॥

कलात्मा कालमृत्यूनां विजयेऽथ यजेत् सदा ।
शान्तये त्रिविधस्याथ ऋणस्य परमेश्वरम् ॥ २८४ ॥

एवं पञ्चदशाहेशो माननीयस्ससर्वदा ।
यद्यप्युक्तं तिथीशानामर्चनं तिथिषु द्विज ॥ २८५ ॥

नैकान्तिनां तद्विहितं द्विजानामफलार्थिनाम् ।
एकादश्यां हि वै तेषां पक्षयोरुभयोरपि ॥ २८६ ॥

परपीडं 56 च विहितं तन्निष्ठं वा परावृतम् ।
तिथीश्वरद्वयेनैव यद्यप्युक्तं तिथिद्वयम् ॥ २८७ ॥

एकादश्यादिकं चैवं तथापि द्विजसत्तम ।
गौणमेतन्न मुख्यं च मुख्यत्वेन तदाच्युतम् ॥ २८८ ॥

न केवलं हि तद्यावद्वस्तुजालं हि चापरम् ।
मनवश्चोपदेष्टारः प्रपञ्चस्यास्य पौष्कर ॥ २८९ ॥

एवं प्रवर्तितं सर्वं भक्तानुग्रहकाम्यया ।
पूर्णभावेश्वर 57 पदात् सुपूर्णमय ? मुदीरितम् ॥ २९० ॥

व्रतार्थमुपवासानां 58 येन संवत्सरस्य च ।
सङ्कल्पमुदकक्षेपपूर्वं कृतमकृत्रिमम् ॥ २९१ ॥

तस्य द्वादशमे मासे अनुयागावसानिकम् ।
द्वादश्यां विहितं सर्वमन्यथा वात्सरं फलम् ॥ २९२ ॥

विफलं नूनमायाति त्रयोदश्यां समर्चनात् 59
इच्छयाभिमतायां वै एकादश्यां समाचरेत् ॥ २९३ ॥

त्रिवर्गफलसिद्ध्यर्थं भक्त्या तावत्फलं विना ।
एकरात्रादिकं विप्र व्रतं व्रतपरायणः ॥ २९४ ॥

सर्वभावेष्वसक्तत्वान्नदोषस्तस्य जायते ।
यजने चात्मयागे च त्रयोदश्यां विनोदयात् ॥ २९५ ॥

पूर्वप्रहरपर्यन्तकालाद्वा धर्ममिश्रितम् ।
ऊनाधिकं तु प्रहरं द्वादशाख्यं यदा द्विज ॥ २९६ ॥

अङ्गभावं त्रयोदश्यामुपयातं महामते ।
अनुद्यमेनेच्छया तु परिहृत्य विशेषतः ॥ २९७ ॥

स्वबुध्या च त्रयोदश्यामितिकर्तव्यतां चरेत् ।
प्रत्यवायो महांस्तस्य विहितं वैष्णवस्य च ॥ २९८ ॥

अमन्त्रज्ञस्य देवानामधिकं द्विजतर्पणम् ।
मन्त्रज्ञस्यार्चनं होमं जपदाने स्वशक्तितः ॥ २९९ ॥

प्रीतस्समाचरेद्यत्नं 60 व्रतवांश्च क्रिया 61 परः ।
सम्पद्यतेऽखिलो येन मुख्यकल्पविधिस्सदा ॥ ३०० ॥

भक्त्या सम्प्रतिपन्नानां विना शाठ्येन मायया ।
व्रतिनां मुख्यतस्सम्यगनुकल्पं समं स्मृतम् ॥ ३०१ ॥

सर्वस्य हृदयस्थो वै देवस्सर्वेश्वरो हरिः ।
सत्यार्थं वेत्ति वै भावं फलं यच्छति तत्समम् ॥ ३०२ ॥

प्। १७९)

विश्वास-प्रस्तुतिः

सुवर्णं रत्नमुदकं षड्रसानि तिलानि च ।
आज्योपवीतातपत्रमुपानद्वस्त्रगोमहीः 62 ॥ ३०३ ॥

स्रग्गन्धदीपधान्यं 63 च सत्फलं कामिकास्त्वमी ।
प्रदाय समुदायेन कामदास्ते भवन्ति च ॥ ३०४ ॥

कामधेनुघटैस्तस्माद्बुधश्रवणवासरे
द्वादश्यां प्रीणनीयश्च निम्नगासागरक्षितौ ॥ ३०५ ॥

सर्वकामाप्तये देवस्सर्वसत्त्वहिताय च ।
सर्वद्वन्द्वविनाशार्थी पितॄणां तृप्तये घटम् ॥ ३०६ ॥

कामधेन्वाख्यदानेन अनेन परमेश्वरः ।
प्रयाति परमां प्रीतिं जगदुद्धरणोद्यतः ॥ ३०७ ॥

अवेक्ष्य देशकालादीन् गृहे वायतनेऽच्युतम् ।
श्रद्धयाभ्यर्चितं तं तु प्रदत्तं स्वाद्यथाविधि ॥ ३०८ ॥

64 चेत् किन्त्वङ्गभावं तु भावभक्तिवशात्तु वै ।
द्विजलं यत्र वा तीर्थं गङ्गायमुनसङ्गमे ॥ ३०९ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां लोकधर्मो नाम

एकत्रिंशोऽध्यायः ॥ ३१ ॥

(समुदित श्लोकसङ्ख्या ३०९)

  1. घ्: नाखिलगन्ध्यादि ↩︎ ↩︎

  2. घ्: चिन्ताशक्तिम् ↩︎ ↩︎

  3. क्, ख्: संस्क्रियाः ↩︎ ↩︎

  4. क्, ख्: स्वेदे शान्तिम् ↩︎ ↩︎

  5. क्, ख्: कुरु * * * * कक्ष ↩︎ ↩︎

  6. क्, ख्: सुवर्णै ↩︎ ↩︎

  7. क्, ख्: प्र * ?चार्घ्यपुष्पे ↩︎ ↩︎

  8. ग्, घ्: यथैव ↩︎ ↩︎

  9. क्, ख्: * * * समततो भावकर्मणाम्; ग्, घ्: समभ्यज्य ↩︎ ↩︎

  10. क्, ख्: कर्मणाम् ↩︎ ↩︎

  11. ग्, घ्: कर्मदक्षाणाम् ↩︎ ↩︎

  12. क्, ख्: प्रदक्षिणं मत्वा ↩︎ ↩︎

  13. ख्, ग्, घ्: पक्षिभिलादण्ड ↩︎ ↩︎

  14. क्, ख्: लभेन्नात्र द्रुमात् फलम् ↩︎ ↩︎

  15. क्, ख्: महामोहक्षयङ्करम् ↩︎ ↩︎

  16. क्, ख्: क्षेत्रात् ↩︎ ↩︎

  17. क्, ख्: प * * * भवे ↩︎ ↩︎

  18. क्, ख्: यगायामाचरेत् ↩︎ ↩︎

  19. क्, ख्: मृष्टोदनं तु सौभाग्यम् ↩︎ ↩︎

  20. ग्, घ्: साधकस्तु ↩︎ ↩︎

  21. क्: यथोक्त * * * त्तुते ↩︎ ↩︎

  22. क्, ख्: सच्छस्त्रपूर्णैः समाङ्गलीयकैः ↩︎ ↩︎

  23. ग्, घ्: ध्यानजप्यपरायणैः ↩︎ ↩︎

  24. क्, ख्: वन्दिब्रह्मसमाकुले ↩︎ ↩︎

  25. क्, ख्: मासेऽथ ↩︎ ↩︎

  26. क्, ख्: भगवत्पद्म ↩︎ ↩︎

  27. क्, ख्: शङ्खाद्यमुद्रया ↩︎ ↩︎

  28. क्, ख्: धायाम्बरे ↩︎ ↩︎

  29. क्, ख्: अभिनन्द्य तु तन्यासो ↩︎ ↩︎

  30. क्, ख्: धिया * * * * ↩︎ ↩︎

  31. क्, ख्: अङ्गाङ्गभवनैः ↩︎ ↩︎

  32. क्, ख्: गिरोमन्त्रेण ↩︎ ↩︎

  33. क्, ख्: सालङ्कृतेन ↩︎ ↩︎

  34. क्, ख्: दभ्यर्थिताम् ↩︎ ↩︎

  35. आत्मानमिति शेषः ↩︎ ↩︎

  36. क्, ख्: अब्जात्मतत्वम् ↩︎ ↩︎

  37. ग्, घ्: ग्रहणं प्राणैः ↩︎ ↩︎

  38. क्, ख्: ज्ञानमच्युतलोदकाः ↩︎ ↩︎

  39. इतः परं मातृकाकोशेषु ग्रन्थपरिपाट्यां मिथः उल्लुण्ठितत्वं दृश्यते; क्, ख्: कोशौ एको वर्मः; ग्, घ्: कोशौ अपरो वर्गः तत्र प्रथमवर्गे यथा अध्यायादितः आरभ्य अर्चिराद्यान् महामते इत्यन्तं प्रथमो राशिः पश्चात् विभवव्यूह इत्युपक्रम्य देवपादाम्बुपूर्वं तु तिलसत्फलचर्वणम् इत्यन्ता अर्धन्यूना श्लोकविंशतिः द्वितीयो राशिः अथ च सुप्रसिद्धैः इत्युपस्तुल्य तद्भूत दर्शिते नैव माग्रेण महता मुने इत्यन्ता श्लोकद्वाविंशतिः तृतीयो राशिः अत ऊर्ध्वं कृत्वा चाघ्राय इत्युपक्रम्य आचाध्यायसमाप्ति चतुर्थो राशिः द्वितीयकोशवर्गे यथा प्रथम द्वितीय तृतीयराशयः यथापूवं लिखिताः चतुर्थस्य आरम्भस्तु भिद्यते यथा तृतीयराशेरनत्तरं पुनरपि द्वितीयराशिं आन्तं लिखित्वा तृतीयराशिं परित्यज्य तुरीयराशिरनुस्यूततया समग्रा लिखिता वर्तते कोशवर्गद्वयेऽपि द्वितीयतृतीयरशयोः व्युत्क्रमेण लेखनमेव विपर्यासे हेतुः अत्रैवं समाधिः द्वितीयतुरीयराश्योरनालक्षितसन्धिबन्धतया स्थितिः ग्रन्थस्य परिपाटीं अनुसीव्यति न विश्लेषयति च यः पुनरन्तरापतितः तृतीयोराशिः स तु तुरीयेणराशिना साकं कथञ्चिदपि नान्वेतुं शक्नोति प्रत्युत प्रथमेन राशिना समं सुघटितसन्धानः प्राप्तावसरश्च सम्पद्यते अस्मात् परं द्वितीयराशिस्साधूपक्रमः ग्रन्थानुपूर्वीं पुष्णाति अतः दर्शितानुसारेण ग्रन्थपरिपाटी सन्निवेशिता परमतः सुधियः प्रमाणम् ↩︎ ↩︎

  40. क्, ख्: धातूत्थे पैत्तले ↩︎ ↩︎

  41. क्, ख्: अत्र यदवधेयं तत् (२१०) श्लोकस्य उत्तरार्धभूतस्य सुप्रसिद्धैः इत्यस्य ठिप्पणे निरुपितम् ↩︎ ↩︎

  42. क्, ख्: किञ्चिदुक्तानाम् ↩︎ ↩︎

  43. दिशि रुद्धेषु इति क्वचित् ↩︎ ↩︎

  44. क्, ख्: परिनिध्यार्धवासरे; घ्: परिपीड्याद्य ↩︎ ↩︎

  45. दिव्यभोग इति स्यात् ↩︎ ↩︎

  46. क्, ख्: ध्यानप्राणायामैः ↩︎ ↩︎

  47. घ्: कथान्तरैस्तवैर्दिव्यैः इति क्वचित् ↩︎ ↩︎

  48. अत्र यत् ज्ञातव्यं तत् (२१०) सङ्ख्यातस्य सुप्रसिद्धैः इत्यस्य टिप्पणे प्रकाशितम् ↩︎ ↩︎

  49. क्, ख्: पुरोवृत्ति ↩︎ ↩︎

  50. क्, ख्: * * * माद्यदिनो ↩︎ ↩︎

  51. क्, ख्: प्रतिषिद्धं च सि * * * दुपवासे ↩︎ ↩︎

  52. ग्, घ्: क्तानामुक्तार्थं तत्प्रयाति च ↩︎ ↩︎

  53. क्, ख्: विद्धि * * * सर्व ↩︎ ↩︎

  54. एवमब्दे द्वि इति स्यात् ↩︎ ↩︎

  55. ग्, घ्: यमसंयमतां स्थितम् ↩︎ ↩︎

  56. सर्वत्र परपीडं इत्यस्ति क्वचित् परिपीडं इति दृश्यते ↩︎ ↩︎

  57. क्, ख्: पूर्णभावेश्वरभवात् ↩︎ ↩︎

  58. क्, ख्: भृतार्धम् ↩︎ ↩︎

  59. ग्, घ्: समापनात् ↩︎ ↩︎

  60. ग्: अन्तस्समाचरेत् पूतस्समाचरेत् इति च पाठः ↩︎ ↩︎

  61. क्, ख्: क्रिया विना ↩︎ ↩︎

  62. क्, ख्: आज्योपवीता * * * ↩︎ ↩︎

  63. क्, ख्: धान्यापस्सत् ↩︎ ↩︎

  64. क्, ख्: * * * भावभक्ति ↩︎ ↩︎