अथ त्रिंशोऽध्यायः
पौष्कर उवाच
विश्वास-प्रस्तुतिः
सञ्जाते भगवन् लोपे भक्तानां मन्त्रसेविनाम् ।
ज्ञानादियोगनिष्ठस्य 1 सद्व्यापारस्य चाच्युत ॥ १ ॥
मूलम्

पातत्राणमुपायं वै श्रोतुमिच्छामि साम्प्रतम् ।
कृतेन येन भक्तानां जायते कृतकृत्यता ॥ २ ॥

श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
कथं संवत्सराद्विप्र कर्मणाभिमतं फलम् ।
प्राप्नुयाच्च क्रियासक्तः पवित्राराहणं विना ॥ ३ ॥

यथाश्वमेघं विप्राणां सर्वेच्छापरिपूरकम् ।
राजसूयं नृपाणां च भक्तानां भूषणं तथा ॥ ४ ॥

भूषणानां यथा मध्ये कौस्तुभं वरभूषणम् ।
ज्ञेयं पवित्रकं तद्वद्भोगजालस्य चान्तरे ॥ ५ ॥

यत्पूरयति भक्तानां व्यापारं पारमेश्वरम् ।
भोगमोक्षाप्तये शश्वद्भोगस्तस्मात्तु कोऽधिकः ॥ ६ ॥

प्। १५७)
विश्वास-प्रस्तुतिः
भक्तानां सततं भक्त्या सालोक्यं विदधाति वै ।
सामीप्यं साधकानां च नानासिद्धिसमन्वितम् ॥ ७ ॥

सायुज्यं साधकेन्द्राणां स्वमन्त्रात्मनि यच्छति ।
तदुत्तरायणेऽतीते चातुर्मास्यस्य मध्यतः ॥ ८ ॥

आदावन्तेऽथवा कुर्याद्द्वादशीष्वखिलासु च ।
सङ्क्रान्तिषु च सर्वासु पुऋनमासीषु चाब्जज ॥ ९ ॥

अमावास्यास्वशेषासु तृतीयासु तथैव च ।
वैष्णवेष्वथ ऋक्षेषु तत्क्षणेष्वखिलेषु च ॥ १० ॥

चातुर्मास्यस्य कालस्य तूत्थानं द्वदशी तु या ।
षडशीतिमुखा दिव्या तस्यामारोपयेत्तु यः ॥ ११ ॥

पवित्रकं जगद्योनेस्सपवित्रीकरोति च ।
अतीतां वर्तमानां च एष्यां स्वकुलसन्ततिम् ॥ १२ ॥

तत्र सन्निहितस्साक्षान्नानानिर्माणविग्रहः ।
भक्तानां भगवान् प्रीतः परमात्माच्युतो हरिः ॥ १३ ॥

यद्यप्यब्जसमुद्भूत भक्तानां नित्यमेव हि ।
नारायणस्तु मन्त्रात्मा स्थितस्स्सन्निहितस्स्वयम् ॥ १४ ॥

तथापि बलवत्ताअ वै तत्तिथेस्तत्र कर्मणि ।
सन्निधिं भजते येन मन्त्रिणां मन्त्रराट् प्रभुः ॥ १५ ॥

ग्रीष्मकालं समासाद्य यथर्कस्तीक्ष्णतां व्रजेत् ।
स्वरूपमजहन्नेव सन्निधानतरं विभोः ॥ १६ ॥

सत्पात्रदेशकालानामासृष्टेस्स्थितये तु वै ।
अतः पवित्रकं तस्यामन्यस्यां तदसम्भवात् ॥ १७ ॥

कार्यं क्रियापरैर्भक्त्या साखण्डा येन जायते ।
अखण्डकारी 2 पुरुषो ज्ञानकर्मपरायणः 3 ॥ १८ ॥
विश्वास-प्रस्तुतिः
भक्तिश्रद्धातथोत्साहयुक्तो योगबलैर्युतः ।
ब्रह्मण्येकात्मतां याति अचिरादेव पौष्कर ॥ १९ ॥

सर्वभावेन भक्तानां यत्पालयति सर्वदा ।
मनोवाक्चित्तजं कृत्स्नं व्यापारं शुभलक्षणम् ॥ २० ॥

परिज्ञेयमतस्तस्मात् स्वरूपं तस्य यादृशम् ।
फलमेति च वै येन भक्तानां तत्समापनात् ॥ २१ ॥

यदच्छिन्नं जगद्योनेरनन्तप्रसरं सितम् ।
विच्छेदमकृतज्ञानामेति नानात्मना स्वयम् ॥ २२ ॥

जगत्सूत्रं 4 तु तद्विधि हेमसूत्रादिना तु वै ।
षाड्गुण्यमभिमानं यद्धत्ते प्रतिसरात्मना ॥ २३ ॥

ज्ञानरागोपरक्तं च युक्तं कार्यैस्तु वीर्यजैः ।
तैजसैरावृत्तं मन्त्रैर्बलेनावलितं परम् ॥ २४ ॥

ऐश्वर्यमुपचारे तु सम्प्राप्ते शक्तितोऽव्ययम् ।
एवं पवित्रकं तावत्परिज्ञातं न तत् प्रभोः ॥ २५ ॥

ब्रह्मण्यधिपतौ विष्णौ तदाकारे प्रतिष्ठिते ।
भक्त्या च विधिवद्दत्तं ददाति भगवत्पदम् ॥ २६ ॥

स्थूलस्य व्यतिरिक्तस्य व्यवहारपदस्थितैः ।
पदार्थैः कल्पनीया च यथा तदवधारय ॥ २७ ॥

सूक्ष्मं दृढं सितं श्लक्ष्णं सूत्रं ब्रह्मप्रसूतया ।
विनिर्मितं कुमार्या वा वृद्धया वा विनीतया ॥ २८ ॥

विशुधया विधवया सम्पादितमथापि वा ।
यथालब्धं तु चादाय कुर्यादस्त्रविशोधितम् ॥ २९ ॥

अवलोक्य स्मरन्मूलं विनिष्पाद्य चतुर्गुणम् ।
चातुरात्म्यव्यपेक्षायामथवाष्टगुणं द्विज ॥ ३० ॥

भगवन्मूर्तिभेदे तु भेदभिन्नोपलाङ्क्षतम् ।
केशवादिष्वधिष्ठातृभावेन त्रिचतुर्गुणम् ॥ ३१ ॥

तन्तुभिर्विषमैविष्णोः राजस्य परिवजयेत् ।
पावित्रिकी क्रिया यस्माद्विषमा सा न कस्यचित् ॥ ३२ ॥

प्। १५८)
विश्वास-प्रस्तुतिः
पावित्रकाणि कार्याणि तन्तुभिस्तैस्सुतानितैः ।
मन्त्रास्त्रकुम्भयोः पूर्वं नानामन्त्रालयस्य च ॥ ३३ ॥

मण्डलाख्यप्रधानस्य तद्गतस्याखिलस्य च ।
कर्णिकास्थस्य च विभाः केसरच्छदगस्य च ॥ ३४ ॥

विभवव्यूहरूपस्य लाञ्छनास्त्रद्वयस्य 5 च ।
मूर्ध्नि कण्ठेंऽसयोः पुष्पपूजायामुपरि क्षितौ ॥ ३५ ॥

प्रमाणेन जगनाथप्रतिमायां चतुष्टयम् ।
द्वयम् हि कुण्डानलयोश्शास्त्रपीठस्य च द्वयम् ॥ ३६ ॥

लिपेर्वाक्तत्वभूतस्य 6 शब्दतत्त्वस्य च प्रभोः ।
घण्टाक्षसूत्रपूर्वाणां क्रियाङ्गानां महात्मनाम् ॥ ३७ ॥

जायायां भक्तिनम्रायां रक्तायामर्चने हरेः ।
सम्बन्धिनां च मित्राणां भगवद्धर्मसेविनाम् ॥ ३८ ॥

तदुत्तरसहायानां चातुरात्म्याभिलाषिणाम् ।
भृत्यानां स्वानुकूलानां पुरुषोत्तमयाजिनाम् ॥ ३९ ॥

वृद्धये योषितां चैव पवित्रीकरणाय च ।
पवित्रकरणं रम्यं रचनीयं यथाक्रमम् ॥ ४० ॥

षडध्वपीठसंस्थस्य नानामन्त्रास्पदस्य च ।
ज्ञानादिगुणभेदस्य चतुस्स्थानार्चनाय च ॥ ४१ ॥

मुख्यमन्त्रस्य च विभोश्शतेनाष्ठाधिकेन च ।
तन्तुना भूषणं कुर्यादर्धेनांशेन वाब्जज ॥ ४२ ॥

जपहोमादिका सङ्ख्या पूर्णा रिक्ता तदात्मना ।
समीकरोति भक्तानां मन्त्राणामत एव हि ॥ ४३ ॥

हेमसद्रत्नकर्पूरमालयक्षोदकुङ्कुमैः ।
सर्वौषधिसमोपेतैस्त्वगेलादिविमिश्रितैः ॥ ४४ ॥

पावनैर्विविधैर्द्रव्यैर्निर्व्याजपिचुना सह ।
कुर्यात्तद्गर्भरचनां सूत्रसङ्ख्यापलक्षिताम् ॥ ४५ ॥

बीजपूरवदब्जाक्ष आर्द्रामलकशङ्खवत् 7 ।
तदन्तरालानि पुनस्त्वच्छिन्नेन तु तन्तुना ॥ ४६ ॥

विभागप्रतिपत्त्यर्थं ग्रथनीयान्यदूरतः ।
यथेच्छया ततोऽन्येषां याज्यानां परिकल्प्य च ॥ ४७ ॥

सूत्रभ्रमसमोपेतैर्गर्भैर्भूषणसञ्चयम् ।
आराधकस्य च गुरोस्सगर्भं भूषणद्वयम् ॥ ४८ ॥

विहितं भगवन्मन्त्रन्यासात्तादात्म्यभावनात् ।
अतोऽन्येषामगर्भं च रचनीयं पविक्रम् ॥ ४९ ॥

अन्तरालगतं गर्भं कुर्याद्बाह्लीकरञ्जितम् ।
अलङ्कृत्य च सौवर्णैरुपरिष्टाच्च रूपकैः ॥ ५० ॥

पत्रच्छेदसमुत्थैस्तु जातरूपमयैस्तु वा ।
शङ्खचक्रगदापद्ममालाश्रीवत्सकौस्तुभैः 8 ॥ ५१ ॥

खगेशतालमुसलनन्दकज्याहलादिकैः 9 ।
मन्दारकुसुमाकारैः पारिजातद्रुमोपमैः ॥ ५२ ॥

श्रीवृक्षाचलनागेन्द्रस्वस्तिकैश्चामरैर्घटैः ।
वेद्यानलार्चिषाढ्या च व्यञ्जनैरातपत्रकैः ॥ ५३ ॥

सरित्समुद्रवृषभभोगजालैस्तु सारसैः ।
एकस्यैव बहूनां वा यथास्थानानुरूपतः ॥ ५४ ॥

धातुजे पित्तले भाण्डे वस्त्रच्छन्ने निधाय च ।
छादयेदुपरिष्टाच्च धूपितेनाहतेन च ॥ ५५ ॥

कृताह्निकोऽधिवासार्थं दशभ्यां प्रयतश्शुचिः ।
देशिकेन्द्रद्वितीयस्तु कर्तार्घ्यकुसुमोद्यतः ॥ ५६ ॥

सह सद्ब्रह्मघोषेण स्तुतिमङ्गलपाठकैः ।
शशाङ्कोदयवेलायां कृत्वा द्वार्स्थार्चनं विशन् ॥ ५७ ॥

प्। १५९)
विश्वास-प्रस्तुतिः
वैराजभुवनाकारं मण्डपं मण्डनाङ्कितम् ।
उपविश्य यथान्यायमन्तर्यागान्तमारभेत् ॥ ५८ ॥

न्यासपूर्वमशेषं तु अर्घ्याम्बुपरिकल्पनम् ।
गणेशाभ्यर्चनं कृत्वा निर्विघ्नफलसिद्धये ॥ ५९ ॥

कल्पयेद्ब्रह्मकूर्चं तु शोधयेद्वसुधां ततः ।
स्थापनं तोरणादीनामर्चनं कुण्डसंस्कृतिः ॥ ६० ॥

मन्त्रास्त्रकुम्भरचना तयोर्मन्त्रावतारणम् ।
तदर्चनादिकं सर्वं कुर्याद्दीङ्क्षाविधेस्समम् ॥ ६१ ॥

व्यापारमाचरेद्दिव्यं कुम्भकेन स्मरन् विभुम् ।
नानिशं युज्यते यस्मात्तस्मादेषा प्रतिक्रिया ॥ ६२ ॥

विभाव्या मन्त्रिणा कौम्भी आस्त्री रक्षार्थमेव हि ।
ततोऽवतार्य भगवान् ? स्थण्डिलेऽभ्यर्च्य चासनम् ॥ ६३ ॥

जपान्तमखलितं कृत्वा प्रयायाद्बिम्बसन्निधिम् ।
अष्टाङ्गेन नमस्कृत्य 10 दद्यादर्घ्यं तु मूर्धनि ॥ ६४ ॥

अनुलेपनसंयुक्तं ततः पुष्पाञ्जलिं शुभम् ।
साङ्गं सावरणं भक्त्या धूपयेत् पुरुसोत्तमम् ॥ ६५ ॥

पुष्पपूजादिकं सर्वं मध्याह्ने यद्विनिर्मितम् ।
अपास्यादाय शिरसा अभिवन्द्य समर्च्य च ॥ ६६ ॥

विष्वक्सेनस्य चास्त्रेण निर्मलीकृत्य वारिणा ।
सपीठं भगवद्बिम्बं प्रासादं शोधयेत्ततः ॥ ६७ ॥

स्नापयेद्देवदेवेशं विथिदृष्टेन कर्मणा ।
ब्रह्मकूर्चादिकैस्स्नानैर्मन्त्रादानप्रकल्पितैः ॥ ६८ ॥

पदार्थसम्मितैश्शक्त्या यथावदधिवासितैः ।
फलैरत्नादिकोपेतैः पूजयेद्विधिना ततः ॥ ६९ ॥

भक्त्या क्रमोपदिष्टैस्तु भोगः कृत्स्नैरकृत्रिमैः ।
सर्वं कृत्वा प्रणामान्तं यायाद्धोमनिकेतनम् ॥ ७० ॥

तत्रानलं च संस्कृस्य कुर्याद्वै मन्त्रतर्पणम् ।
कलशस्थार्चबैम्बीयसंस्कृतेनाथ 11 वह्निना ॥ ७१ ॥

चरुं संश्रपयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः ।
समुद्धृत्याज्यपूतं तं विनिवेद्य यथाक्रमम् ॥ ७२ ॥

कलशस्थलवृत्तीनामेकांशं जुहुयात्ततः ।
दद्यात्पूर्णाहुतिं पश्चाद्बलिभिस्सर्वमन्तरम् 12 ॥ ७३ ॥

तर्पयित्वाम्बुसिक्ताभिः क्रमेण जुहुयात्ततः ।
तद्वदाज्यं सुपूर्णं तं मुद्राबन्धादिकं तु वै ॥ ७४ ॥

कृत्वा 13 प्रणामपर्यन्तं स्थलस्थस्याग्रतो विभोः ।
अस्त्रमन्त्रेण सम्प्रोक्ष्य कृत्स्नद्रव्यगणं ततः ॥ ७५ ॥

निवेश्य वायुदिग्भागे सर्वं सूत्रपुरस्सरम् ।
सितवस्त्रान्वितेनैव त्वक्षेतेनैव वर्मणा ॥ ७६ ॥

अर्चयित्वास्त्रमन्त्रेण स्थगयेत् कवचेन च ।
बहिःपक्षसमोपेतं सर्वमिष्वष्टकं ततः ॥ ७७ ॥

दिग्विदिक्ष्वस्त्रजप्तं तु दत्त्वाज्यमनलालये ।
पञ्चरङ्गेण सूत्रेण दृढेन सुसितेन वा ॥ ७८ ॥

प्रदक्षिणचतुष्कं तु स्मरन् वर्म समापयेत् ।
ग्रासादस्यान्तराद्बाह्याद्वेष्टयेत्तद्वदेव हि ॥ ७९ ॥

प्राङ्मुखस्त्वासनारूढो गुरुपाणिपरिच्युतम् ।
ब्रह्मकूर्चं पिबेत् पश्चाच्चरुशेषं तु भक्षयेत् ॥ ८० ॥

पिबेद्धॄदयसञ्जप्तं हेमरत्नकुशोदकम् ।
अद्यात्तदनु ताम्बूलं दन्तकाष्ठसमन्वितम् ॥ ८१ ॥

कुतपे कम्बलोपेते स्हित्वा च सकुशास्तरे ।
जपेन्मन्त्रवरं साङ्गं पठन् स्तोत्रवरान् शुभान् ॥ ८२ ॥

प्। १६०)
विश्वास-प्रस्तुतिः
कथां सर्वेश्वरीं पुण्यां कुर्वन्निष्पाद्य मण्डलम् ।
कर्मशेषं तदापाद्य भूषणानां यथोदितम् ॥ ८३ ॥

एकादश्यां प्रभाते तु स्नानपूर्वं तु पूजनम् ।
सम्पूर्णाहुतिदानान्तं हुत्वा सम्यग्यथाविधि ॥ ८४ ॥

आसाद्य कलशोद्देशं विनिवेदनमाचरेत् ।
ततो विशेषभोगानां प्रभोरामन्त्रणाय च ॥ ८५ ॥

दन्तकाष्ठं सताम्बूलं मुखवासांसि दर्पणम् ।
चन्दनादीनि गन्धानि जातिपूगफलानि च ॥ ८६ ॥

विनिवेश्य निधायाग्रे दक्षिणेऽथ जगत् प्रभोः ।
गुग्गुलं मृष्टधूपं च प्रकाशं ताम्रपात्रगम् ॥ ८७ ॥

दृक्प्रभामण्डनं 14 चैव हेमसूत्रं सकङ्कणम् ।
मध्वाज्यपूरिते पात्रे तैजसे रोचनाञ्जनम् ॥ ८८ ॥

रसषट्कं महामूर्तेर्नेत्रवस्त्रे सितारुणे ।
पश्चिमेऽथ विभोर्दद्यात् पुण्यनद्युदकं तथा ॥ ८९ ॥

तीर्थतोयान्नभोगार्थं नगमृत् 15 श्रीफलादि यत् ।
शाड्वलं नीलदर्भांश्च 16 ताम्रपात्रे तु वायसे ॥ ९० ॥

उत्तरेऽथ विभोर्दद्याद्देवदेवस्य पुष्कर ।
माल्यान्योपधयस्सप्त बीजानि च फलानि च ॥ ९१ ॥

तिलतण्डुलपात्राणि क्षीरं दधिरसं घृतम् ।
गन्धबृन्दत्वगेलाद्यं घातवो गैरिकादयः ॥ ९२ ॥

सफलं नारिकेलं च विकारस्त्वैक्षवोऽखिलः ।
सराजते कांस्यपात्रे सम्भवे सति प्रद्मज ॥ ९३ ॥

यज्ञपर्णपुटे वापि विनिवेद्यमसम्भवे ।
सकुशोदकमन्येषां ताम्बूलं दन्तधावनम् ॥ ९४ ॥

सितानि सोत्तरीयाणि उपवीतानि चन्दनम् ।
कुङ्कुमागुरुकर्पूरश्रीखण्डैरधिवासितम् ॥ ९५ ॥

चतुस्स्थानावतीर्णस्य दद्याद्गन्धपवित्रकम् ।
ततोऽर्घ्यपुष्पधूपं च मुद्राबन्धं समाचरेत् ॥ ९६ ॥

आदिमध्यावसाने तु सम्यगच्छिद्रशान्तये ।
जपेन्मन्त्रवरं साङ्गं पश्चाद्बद्धाञ्जलिः पठेत् ॥ ९७ ॥

प्रणवद्विद्ययाद्यं ? तु स्तोत्रमन्त्रं निवेदयेत् ।
सर्वमन्त्रमयानन्त नित्यसन्निहिताव्यय ॥ ९८ ॥

गुणप्रधान योगेश भावनाभोगविग्रह ।
नारायण परं ब्रह्म प्राणेश चतुराकृते 17 ॥ ९९ ॥

सर्वगाच्युत सन्मूर्ते सर्वज्ञ पुरुषोत्तम ।
अस्मात्काललवाद्यावद्विसर्जनदिनावधि ॥ १०० ॥

नानामन्त्रगणोपेतस्सन्निधिं भज मे प्रभो ।
देवबिम्बे तु तन्मूर्तौ कलशे मण्डलक्षितौ ॥ १०१ ॥

सङ्ख्यासूत्रेऽक्षसूत्रे च पावके गुरुविग्रहे ।
घण्टायां शास्त्रपीठे च यागोपकरणेषु च ॥ १०२ ॥

स्रुक् स्रुवाद्येष्वशेषेषु एकान्ति * * * * * ? ।
विष्णुपार्षदभेदेषु जन्मकर्मरतेषु 18 च ॥ १०३ ॥

श्रद्धापूतेषु दक्षेषु त्वदेकशरणे * * ? ।
तीतवात्सरीयाणां स्नानादीनां हि कर्मणाम् ॥ १०४ ॥

नैमित्तिकानां नित्यानामपूर्ण * * * ? तये ।
त्वत्प्रीतये * * * * * ? द्य निर्वर्तयाम्यहम् ॥ १०५ ॥

पावित्रकं विधानं च सर्वकर्म * * * * ? ।
अतोयं मुखवा * * * * * * * * ? र्चितम् ॥ १०६ ॥

होमान्तमधिवासीयं 19 कुरु सर्वं ? * * * * त्मसात् ।
त्वामय * * * * * * ? पतीते तु जागरे ॥ १०७ ॥

प्। १६१)
विश्वास-प्रस्तुतिः
यथावद्ब्रह्मसूत्रान्तैभागैर्भोगापवर्गद ।
विज्ञप्तो सीह 20 भगवन् वेत्सि सर्वं हृदि स्थितम् ॥ १०८ ॥

भक्तस्य मम वात्सल्यात् प्रातः कार्यस्त्वनुग्रहः ।
एवं निमन्त्रयित्वाजमष्टाङ्गेन नमेत् क्षितौ ॥ १०९ ॥

चतुःप्रदक्षिणीकृत्य हृदि मन्त्रमनुस्मरन् ।
गीतनृत्तादिकैः स्तोत्रैर्वेदपाठसमन्वितैः ॥ ११० ॥

जयशब्दसमेतैस्तु जागरेण नयेन्निशाम् ।
स्नात्वा ब्राह्ममुहूर्तेऽथ कृतकौतुकमङ्गलः ॥ १११ ॥

महता विभवेन प्राक् द्वारयागं समाचरेत् ।
यथावद्भगवद्यागं कुर्यात्तदनु पौष्कर ॥ ११२ ॥

सांस्पर्शिकैरासनाद्यैर्विविधैरौपचारिकैः 21 ।
हृदयङ्गमसञ्ज्ञैस्तु बहुभेदविनिर्मितैः ॥ ११३ ॥

भक्ष्यैर्भोज्यैस्तथा लेह्यैश्चोष्यैर्नानाविधैरपि ।
षडृतुप्रभवैस्सर्वैश्शाकैर्मूलैः फलैश्शुभैः ॥ ११४ ॥

पावनैः पावकस्विन्नैरुपदंशादिकान्वितैः ।
गोसम्भवैस्स्थिरैः कांस्यपात्रैर्मध्वाज्यपूरितैः ॥ ११५ ॥

रसालक्षीरसम्पूर्णैर्दिक्स्थितैस्तु समुद्रवत् ।
मात्रावित्तैस्सताम्बूलैरन्तर्मानैर्यथोचितैः ॥ ११६ ॥

वरशय्यासमेतैस्तु पावनैरात्मवल्लभैः ।
स्वदेशपरदेशोत्थैः क्रीडाभोगैरकृत्रिमैः ॥ ११७ ॥

जातरूपमयैः पात्रैर्गन्धमाल्याद्यलङ्कृतैः ।
जपमुद्रावसानान्तमेवं मण्डलसन्निधौ ॥ ११८ ॥

कृत्वा तु भगवद्यागं विशेषाद्देवमन्दिरे ।
अथ भूषणपात्रं तु आदायोद्घाट्य पूज्य च ॥ ११९ ॥

पवित्रकं समादाय यायात्कलशसन्निधिम् ।
आराधनाङ्गनिचयमव्यक्त तात्त्विकं हि यत् ॥ १२० ॥

तृतीयमुभयात्मं वै अध्यात्मादित्रयं तथा ।
अनुसन्धाय वै तस्मिन् संस्मरन् हृदयाद्धिया ॥ १२१ ॥

तत्राष्टाष्टकसङ्ख्यं तु अव्यक्तं भोगसङ्ग्रहम् ।
मन्त्रमुद्रासमूहं तु तात्त्विकं परिकीर्तितम् ॥ १२२ ॥

स्वाध्यायगीतवाद्यानि व्रतानि नियमानि च ।
दानान्युत्सवपूर्वाणि नानानैमित्तिकानि च ॥ १२३ ॥

एतान्युभयरूपाणि पुरुषार्थप्रदानि च ।
प्रीतिदानि जगद्योनौ मन्त्रमूर्तौ जनार्दने ॥ १२४ ॥

भास्वरं 22 चिन्मयं शुद्धं यदेषां रूपमक्षयम् ।
तद्गर्भेष्वनुसन्धेयं सूक्ष्मं तदनु पौष्कर ॥ १२५ ॥

सूर्येन्दुवह्निसङ्काशमियत्तापरिकल्पितम् ।
तद्ग्रन्थिगणदेशेषु भावनीयं महामते ॥ १२६ ॥

सुस्थूलं व्यावहार्यं च तृतीयं सार्वलौकिकम् ।
तत्तन्तुनिचयोद्देशे 23 भावनीयं सदैव हि ॥ १२७ ॥

एवमाध्यात्मिकीं व्याप्तिं लक्षयित्वा तु पौष्कर ।
चिन्तयेदधिदेवाख्यां व्याप्तिं मान्त्रीमनश्चरीम् ॥ १२८ ॥

चतुर्णामविनाभावि यद्रूपममृतोपमम् ।
नानाभासगणाकीर्णं 24 मूर्तामूर्तमनश्वरम् ॥ १२९ ॥

किरीटमालाश्रीवत्सकौस्तुभानां महामते ।
सन्निधिं भावयेन्नित्यमधिदेवात्मना त्रयम् ॥ १३० ॥

पृथ्य्वप्तेजोऽनिलाकाशपञ्चानां समु * * ? यत् ।
रमणीयं शुभं रूपं भक्तानां परितोषकृत् ॥ १३१ ॥

तस्य? चाधिभूतत्वं मन्तव्यं योजनावधौ ।
ध्यात्वैवं मूलमन्त्रान्त? समुदीर्याब्जसम्भव ॥ १३२ ॥

प्। १६२)
विश्वास-प्रस्तुतिः
प्रणवालङ्कृतं मन्त्रं तमुद्यतकरः पठेत् ।
त्वत्प्राप्तिसाधनं देव ज्ञानं यदमलं परम् ॥ १३३ ॥

भक्तिश्रद्धासमोपेता सत्क्रिया त्वत्प्रकाशिकी ।
अखण्डसिद्धये तस्याह्युपायः कथितस्त्वया ॥ १३४ ॥

ज्ञानकर्मप्रसक्तानां भक्तानां भावितात्मनाम् ।
पवित्राख्यं यथाशक्त्या त्वत्प्रसादान्मया कृतम् ॥ १३५ ॥

यथोचितमिदानीं तां ध्यायस्व परमेश्वरीम् ।
तस्माच्छुभतरं कर्म विज्ञानममलं हि यत् ॥ १३६ ॥

विध्यन्तरं मन्त्रगणाद् द्रव्यसङ्घस्त्वमेव हि ।
प्राप्तिः पूरयिता पूर्णमपुर्णानां 25 हि कर्मणाम् ॥ १३७ ॥

तथ्येनानेन भगवन् भवभङ्गार्दितस्य च ।
अशठस्य 26 क्रियाकाण्डमखण्डं सर्वमस्तु ते ॥ १३८ ॥

विज्ञप्तोऽसीह भगवम् अर्थिता मे परा त्वयि ।
विना त्वत्परितोषेण सम्यक् ज्ञानप्रदेन च ॥ १३९ ॥

आपत्काले तु सम्प्राप्ते बुद्धिपूर्वं 27 मयाच्युत ।
न सन्त्याज्यं क्रियाज्ञानं त्वं सर्वं वेत्सि तत्त्वतः ॥ १४० ॥

यथाकालं यथावच्च भोगैर्देव यथोचितैः ।
नार्चितोऽसि यथा सम्यक् खेदश्चेतसि तेन मे ॥ १४१ ॥

पूजनं भोगसम्भोगैराज्यदोहैस्तु तर्पणम् ।
त्वय्येतत्कृतकृत्यानां न किञ्चिदुपयुज्यते ॥ १४२ ॥

सुक्षेत्रवापितं ह्येतदखिलार्थस्य मेऽखिलम् ।
फलिष्यत्यमृतत्वेन ज्ञात्वैवं हि पुरा मया ॥ १४३ ॥

अङ्गीकृतं गुरुमुखात् किन्तु सर्वेश्वर प्रभो ।
परिस्फुरति मे बुद्धौ न निर्व्यूढं यथास्थितम् ॥ १४४ ॥

मनोवाक्कायकर्मैस्तु आप्रभातान्निशावधि ।
अस्वातन्त्र्यादसामर्थ्यान्मनसश्चानवस्थितेः ॥ १४५ ॥

शीतोष्णवातवर्षाद्यैरन्तरायैर्ज्वरादिकैः ।
असम्पत्तेः क्रियाङ्गानां देव त्वदनुरूपिणाम् ॥ १४६ ॥

आप्रवृत्तेः परानन्दप्राप्तिनिष्ठं यथाह्निकम् ।
यथोक्तममराणां तु यस्मान्न घटते त्वतः ॥ १४७ ॥

तस्य सम्पूरणार्थं तु प्रधानतरमर्चनम् ।
पवित्रकाख्यमादिष्टं वत्सरं प्रति यत्त्वया ॥ १४८ ॥

तन्मया कृतमध्यक्षमर्चितं यदनिर्मलम् ।
क्रियायोगादसम्पूर्णं तन्मे निर्मलतां नय ॥ १४९ ॥

ज्ञानतोऽज्ञानतो वापि यथोक्तं न तु तन्मया ।
तत्सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥ १५० ॥

ओमच्युत जगन्नाथ मन्त्रमूर्ते सनातन ।
रक्ष मां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ओम् ॥ १५१ ॥

उक्त्वैवं मूलमन्त्रं तु हृदाद्यैर्लाञ्छनैस्सह ।
समुद्दिश्य ततो दद्यान्मूर्ध्नि मन्त्रात्मनो विभोः ॥ १५२ ॥

सर्वज्ञानक्रियाभोगशुभसङ्कल्पविग्रहम् ।
मण्डलान्तर्गतस्यैवं प्रासादान्तस्स्थितस्य च ॥ १५३ ॥

वह्निमध्यगतस्यापि समारोप्य महामते ।
अर्चनेन पुटीकृत्य पावनं च पवित्रकम् ॥ १५४ ॥

यागोपकरणानां च दत्त्वा शास्त्रात्मनस्ततः 28 ।
देशिकस्य हृदारोप्य पूजितस्य च देववत् ॥ १५५ ॥

परितुष्टेन तेनाथ तस्य सर्वार्थसिद्धये ।
साशिषं 29 हि सदारभ्य संस्थितस्याग्निसन्नियौ ॥ १५६ ॥

हवनान्तेर्चनान्ते वा ह्यन्येषां क्रमशस्तु वै ।
ततः प्रावरणैर्दानैर्यथासम्पत्ति सम्भृतैः ॥ १५७ ॥

प्। १६३)
विश्वास-प्रस्तुतिः
सोपवीतोत्तरीयैश्च छत्त्रोपानत्समायुतैः ।
विविधैर्भोजनैर्विप्र धूपैश्चालभनादिकैः ॥ १५८ ॥

पूजयेद्ब्राह्मणान् सर्वान् सुसूपायांस्तथा यतीन् ।
त्रिरात्रादथ सप्ताहादुपसंहृत्य पौष्कर ॥ १५९ ॥

महदर्चनपूर्वं तु कृत्वा पूर्णावसानिकम् ।
क्रमशश्चोपसंहृत्य स्वयं गुर्वात्मनाथवा ॥ १६० ॥

आदाय पूजिते पात्रे अर्चयित्वा यथाविधि ।
जानुनी भूगते कृत्वा प्रणिपत्य च देशिकम् ॥ १६१ ॥

मानयित्वार्घ्यपुष्पाद्यैः प्रणिपत्य स्वयं पुरा ।
विनिवेद्य च तत्पात्रं प्रसादः क्रियतां विभो ॥ १६२ ॥

साशिषं भगवत्प्रीतिर्वाच्याचार्येण तस्य तु ।
यथागमं यथाशास्त्रं प्रसादाच्चतुरात्मनः ॥ १६३ ॥

त्वयि सांवत्सरं विप्र सुसम्पूर्णं तदस्तु ते ।
समुत्कीर्तयतस्तस्य आसनस्थस्य मूर्धनि ॥ १६४ ॥

कलशद्वितयं मन्त्रं रक्षासौभाग्यमोक्षदम् ।
विसर्जनं विभोः कुर्यात् पूजापूर्वं यथाक्रमम् ॥ १६५ ॥

विष्वक्सेनं यजेत् साङ्गं तर्पयेत्तदनन्तरम् ।
समाहृत्याखिलं पश्चात् कृते वै तद्विसर्जने ॥ १६६ ॥

प्रकल्प्य पूर्ववत्सोमपानमच्छिद्रसिद्धये ।
रुक्मराजतसद्रत्नघटिते वा विभूषिते ॥ १६७ ॥

चक्राधारे तु कलशे वितते कमलोदरे ।
पाञ्चजन्यवलीग्रीवे शतपत्रशुभानने ॥ १६८ ॥

ऊर्ध्वाधःकौमुदीमालामण्डलालङ्कृतेऽब्जज ।
मकराननशेषाभिरमृताम्बुप्रवाहकै ॥ १६९ ॥
मूलम्
ऊर्ध्वाधःकौमुदीमालामण्डलालङ्कृतेऽब्जज ।
मकराननशेषाभिरमृताम्बुप्रवाहकै ॥ १६९ ॥
विश्वास-प्रस्तुतिः
नदीसमुद्रश्रीवृक्षमीनमाल्यैः 30 परिष्कृते ।
एवं 31 लक्षणसंयुक्ता ? विभोराराधनाय च ॥ १७० ॥
विश्वास-प्रस्तुतिः
पाद्यार्घ्याचमनस्नानदाने सांवत्सरोत्सवे ।
तथा सहस्रकलशैरभिषेकविधावपि ॥ १७१ ॥

इत्युक्तमरबिन्दाक्ष पवित्रारोपणं परम् ।
ऊनातिरिक्ताद्यद्याति 32 भुवि भक्तजनं सदा 33 ॥ १७२ ॥
विश्वास-प्रस्तुतिः
तस्य निर्वर्तनाद्भक्त्या ब्राह्मणो वेदविद्भवेत् ।
श्रीमानत्युग्रशक्तिर्वै क्षत्रियोऽच्छिन्नसन्ततिः ॥ १७३ ॥

धनधान्ययुतो वैश्यश्शुद्रस्तु सुखवान् भवेत् ।
गोभूसुवर्णदानानामनन्तानां हि यत्फलम् ॥ १७४ ॥

यावज्जीवं प्रदत्तानां प्रत्यहं तु समाश्शतम् ।
परमायुषि सम्पूर्णे तत्फलं प्राप्नुयान्नरः ॥ १७५ ॥

प्राप्तकालस्स्वबुध्या तु आसाद्यायतनं हरेः ।
स्मरन्मन्त्रेश्वरं सम्यक् सम्यक् सृजति विग्रहम् ॥ १७६ ॥

यानैश्चन्द्रप्रतीकाशैर्दिव्यस्त्रीजनसंयुतैः ।
वीज्ममानो दिवं याति पूज्यमानस्तथामरैः 34 ॥ १७७ ॥

भुक्त्वा भोगांस्तु विपुलान् सर्वलोकान्तरोद्भवान् ।
कालेन महता साद्य 35 मानुष्यं पुनरेव हि ॥ १७८ ॥

शुभे काले शुभे देशे जायते च शुभे कुले ।
निवृत्ते बाल्यभावे तु व्यक्ते करणसङ्ग्रहे ॥ १७९ ॥

बुद्धितत्त्वे प्रबुद्धे तु जन्माभ्यासवशात्तु वै ।
कर्मणा मनसा वाचा नारायणपरो भवेत् ॥ १८० ॥

नित्यं क्रियापरो धीमान् ब्रह्मण्यस्सत्यविक्रमः ।
अनन्यथा विशुद्धात्मा दुष्टसङ्गविवर्जितः ॥ १८१ ॥

प्। १६४)
विश्वास-प्रस्तुतिः
व्यधिशोकविनिर्मुक्तः पुत्रदारादिकैर्युतः ।
अपमृत्युविनिर्मुक्तो ज्ञानमासाद्य निर्मलम् ॥ १८२ ॥

श्वेतद्वीपं समायाति सुराणां यत्सुदुर्लभम् ।
ज्ञानिनामपि चान्येषां तत्र दृष्ट्वा जगत्पतिम् ॥ १८३ ॥

परं ब्रह्मत्वमायाति तत्कर्मपरमः पुमान् ।
पस्यन्त्यारोप्यमाणं ये ब्रह्मसूत्रं जगत्प्रभोः ॥ १८४ ॥

तथानुमोदयन्त्यन्ये 36 यान्ति तेऽप्यमरावतीम् ।
शृण्वन्ति ये विधानं तु पवित्रं पापनाशनम् ॥ १८५ ॥

प्राप्नुवन्ति च ते पुण्यमिष्टापूर्तादिकं हि यत् ।
नारीह्यनन्यशारणा पतिना परिचोदिता ॥ १८६ ॥

तद्भक्ता सः सती साध्वी कर्मणा मनसा गिरा ।
नित्यं भर्तरि चाद्रोहा प्रयता साङ्गतेन वै ॥ १८७ ॥

पवित्रकं जगद्योनेरारोपयति चाब्जज ।
सातुलं चैव सौभाग्यं प्राप्नुयादचिरेण तु ॥ १८८ ॥

देहान्ते देवनारीणां देवानां याति पूज्यताम् ।
सात्वरुन्धतिपूर्वाणामवाक् समभिवीक्षते 37 ॥ १८९ ॥

ज्ञानमासादयत्यन्ते येन यान्त्य(त्य)च्युतं पदम् ।
प्रोत्तारयति बन्धूनां दुष्कृतेभ्योऽब्जसम्भव ॥ १९० ॥

पितॄणां जनकादीनां नाम्ना स्नेहपुरस्तु यः ।
ददाति भूषणं विप्र मन्त्री मन्त्रात्मनो विभोः ॥ १९१ ॥

दुर्गतेस्सुगतिं 38 याति द्युसिन्धोरस्थिरा ? नरः ।
यथा सुराणाममृतं नृणां गाङ्गं जलं यथा ॥ १९२ ॥

स्वधा यथा पितॄणां च कर्मिणां तद्वदब्जज ।
पवित्रकं क्रियाढ्यानां पावनं भूतिवर्धनम् ॥ १९३ ॥

सर्वदोषभयघ्नं च सर्वोपद्रवनाशनम् ।
सर्वसौख्यप्रदं चैव सर्वगुह्यप्रकाशकम् ॥ १९४ ॥

यस्सम्यग्भगवद्भक्तः कृतमन्त्रपरिग्रहः ।
एवमेव प्रवृत्तौ वा जन्माभ्यासात्सदार्चने ॥ १९५ ॥

अनन्यतेन वै विष्णोः परस्य परमात्मनः ।
प्रयत्नेनार्थनीयं च महतानेन देशिकः ॥ १९६ ॥

असन्निधानात् स्वगुरोरभाबात्तस्य चाब्जज ।
प्रवर्तनीयमन्येन गुरुणाभ्यर्थितेन च ॥ १९७ ॥

कर्मणा मनसा वाचा नेतरस्याधमस्य च ।
नान्यदर्शनसंस्थस्तु मद्भक्तैस्तत्परायणैः ॥ १९८ ॥

पवित्रारोहणादीनामर्थनीयो हि देशिकः ।
मामतिप्रतिपन्नं 39 च अन्तस्था वेत्ति यद्यपि ॥ १९९ ॥

कृतार्थमतिभक्तत्वादमुं मन्ये तदा गुरुम् ।
प्राप्तमुत्तारकं शिष्यो मन्ये भक्तिवशाद् गुरुम् ॥ २०० ॥

यत्रैवं चित्तवृत्तीनां साम्यमस्ति त्रयस्य च ।
शिष्यदेशिकमन्त्राणां तन्त्रमोक्षश्च सिद्धयः ॥ २०१ ॥

ज्ञात्वैवं यस्तु भक्तानामभक्तस्सम्प्रवर्तते ।
मन्त्रदाने 40 च शिष्याणां स याति नरकेऽधमः ॥ २०२ ॥

प्रत्यक्षमेति भक्तानां भक्तिः प्रागार्जिता शनैः ।
तत्सम्पर्कसमाचारान् मन्त्रदैवतनिन्दनात् ॥ २०३ ॥

तस्माद्विषयसम्भूतं यस्य यद्विषयं स्फुटम् ।
परेषामात्मनश्चापि तस्य तत्सिद्धिदं स्मृतम् ॥ २०४ ॥

यत्रास्ति देशिकानां च भक्तिरव्यभिचारिणी ।
तत्रैव 41 यदि शिष्याणामभिलाषोऽस्ति पूजने 42 ॥ २०५ ॥
प्। १६५)
विश्वास-प्रस्तुतिः
तदा मन्त्रवरः 43 प्रीतः सन्निधिं कुरुतेऽब्जज ।
सिद्धस्य समबुद्धेर्वै निष्क्रियस्य तु या क्रिया ॥ २०६ ॥

अतोऽन्यस्य क्रियां विद्धि भक्तिपूर्वा तु सा स्मृता ।
या च तद्विषया भक्तिः पतिवृत्तिसमोचिता ॥ २०७ ॥

अष्टाङ्गलक्षणा पूर्णा श्रद्धापूता च मोक्षदा ।
अतोऽन्या सिद्धिदा सिद्धिर्व्यभिचारफलप्रदा ॥ २०८ ॥

सर्वस्याहं तटस्थोऽहमाशयं वेद्मि तत्त्वतः ।
भक्तिर्मां प्रति वै 44 ताभ्यां यदा ह्यव्यभिचारिणी ॥ २०९ ॥

मन्त्रात्मनानुगृह्णामि शिष्यं गुरुमुखेन तु ।
नाभक्तेन त्वतो भक्तो दीक्षणीयः कदाचन ॥ २१० ॥

नाभक्तस्त्वतिभक्तेन योजनीयस्त्वदर्चने ।
गुरोरभक्ताद्भक्तानां भक्तिरभ्येति तापनम् ॥ २११ ॥

शारीरं मानसं दुःखं वर्धते च क्षणात् क्षणम् ।
भावनासुरतामेति येन यात्यधमां गतिम् ॥ २१२ ॥

गुरोरनन्यशरणाद्भक्तानां कमलोद्भव ।
द्विविधं त्रिविधं दोषमचिरात् क्षयमेति च ॥ २१३ ॥

अनुग्राह्यादभक्ताच्च सावलेपात् क्रियोज्झितात् ।
गुरोरकीर्तिं महतीं विद्वेषं सहते न वै ॥ २१४ ॥

सामुख्यं दुस्सहानां च दोषाणां दीक्षितस्य च ।
तस्मात्सर्वप्रयत्नेन अदृष्टफलसिद्धये ॥ २१५ ॥

विहितं यच्च तत्कार्यं शिष्येण गुरुणापि च ।
नाभक्तस्संविदाप्नोति नाभक्तो ध्यानमाप्नुयात् ॥ २१६ ॥

नाभक्तस्सत्क्रियां वेत्ति नाभक्तश्शास्त्रविद्भवेत् ।
नाभक्तमर्चां यागं च वह्निमर्चापयेत्तथा ॥ २१७ ॥

बन्धापयेन्नमुद्रां च श्रावयेत्समयान्न हि ।
योऽपराधेन 45 वा लोभादभक्तानां जगद्गुरौ ॥ २१८ ॥

विपर्ययार्थवेत्तृणामपहासरतात्मनाम् ।
अभिगच्छापयेन्मोहात्स याति नरकं गुरुः ॥ २१९ ॥

प्रायश्चित्तं हि पूर्वोक्तं तापार्तो नाचरेद्यदि ।
इत्युक्तमरविन्दोत्थ यत्त्वया परिचोदितम् ॥ २२० ॥

भक्तानामुपकारार्थं पवित्रारोहणं शुभम् ।
प्रावृट् काले प्रवृत्ते तु त्रैलोक्योदरवर्तिनाम् ॥ २२१ ॥

मनुष्यामरसिद्धानां वक्तव्यं चानुवर्तिनाम् ।
प्रवर्तन्ति 46 हि वेगेन श्रद्धया वत्सरं प्रति ॥ २२२ ॥

महत्यस्मिन् महाबुद्धे व्यापारे पारमेश्वरे ।
विभोश्शयनसंस्थस्य काले पुष्पफलाकुले ॥ २२३ ॥

गगने लङ्घ्यमाने तु सबलाकैर्वलाहकैः ।
कुमुदोत्पलकह्लारैर्भूषिते वसुधातले ॥ २२४ ॥

वनोपवन उद्याने हरितैश्शाद्वलादिकैः ।
शालिसस्यादिकैर्युक्ते पल्वलोदकशोभिते ॥ २२५ ॥

पवित्रकं कृतं विष्णोरन्तस्स्थस्याति तुष्टिदम् ।
तस्य प्राग्विहिता विप्र सततं शयनक्रिया ॥ २२६ ॥

अथोक्तदिवसे ताभ्यां ब्रह्मन्निर्वर्तिते सति ।
रक्षणीयमवश्यं वै कर्मयागं 47 क्रियापरैः ॥ २२७ ॥

इति श्रीप्राञ्चरात्रे महोपनिषदि पौष्करसंहितायां पवित्रारोहणं नाम
त्रिंशोऽध्यायः ॥ ३० ॥