अथ एकोनत्रिंशोऽध्यायः
श्रीभगवानुवाच
विश्वास-प्रस्तुतिः
प्राजापत्ये दैशिकीये 1 सैषोत्थकरसम्मिते ।
क्षेत्रं 2 क्रमान्नयेद् वृद्धिं तावदेकैकमङ्गुलम् ॥ १ ॥
मूलम्

यावदष्टकरं क्षेत्रं धिष्ण्यार्थमुपजायते ।
एवं स्यान्मानभावेन त्वेकाशीत्यधिकं शतम् ॥ २ ॥

कुण्डानां सर्व * * * * * * * * ।
जायतेऽष्टगुणं सङ्ख्या त्वष्टदिक्संस्थिता शुभा ॥ ३ ॥

चतुरश्रादिभेदोत्था काम्यानां कर्मणां द्विज ।
विश्वास-प्रस्तुतिः
सद्रत्नमालाश्रीवत्समुकुटाङ्गदलक्षणाः ।
शङ्खचक्रगदापद्मशार्ङ्गनानाशरोपमाः ॥ ५ ॥
मूलम्
सद्रत्नमालाश्रीवत्समुकुटाङ्गदलक्षणाः ।
शङ्खचक्रगदापद्मशार्ङ्गनानाशरोपमाः ॥ ५ ॥
विश्वास-प्रस्तुतिः
सर्वे सपीठा विहिताश्चतुस्त्रिद्व्येकमेखलाः ।
चक्रपद्मगदाशङ्खसमस्तव्यस्तलाञ्छिताः ॥ ६ ॥

तथाष्टयोनिनिर्वाहैः स्वैरङ्गैरुचिरोत्थिताः 3 ।
प्रत्येकस्वस्व कव्यासद्विद्विद्वादशसङ्ख्यया 4 ॥ ७ ॥

भागं तमङ्गुलं विद्धि सर्वावयवसिद्धये ।
नानाखातवशाच्चैव सर्वेषां पुनरेव हि ॥ ८ ॥

अप्रकाशप्रकाशाख्यं भेदं तु विविधं स्मृतम् ।
सद्भोगलक्षणं बन्धमनन्तफलमर्थिनाम् ॥ ९ ॥

सम्प्रपच्छति कामानां सम्पदं परमेश्वरः ? 5 ॥ १० ॥
प्। १४९)
प्रकाशिलक्षणन्याये तेषां खातो महामते ।
विश्वास-प्रस्तुतिः
आद्वादशाङ्गुला कुण्डाः करान्ते ये त्रयोदश ।
सर्वाकृतिधराश्चैव जङ्गमा मेखलोज्झिताः ॥ १२ ॥

अनुकल्पे तु विहिता 6 जङ्गमा मन्त्रतर्पणे ।
एवं द्विहस्तपर्यन्ताः महालक्षणलक्षिताः ॥ १३ ॥

भूमावुल्लिख्य सम्पूर्य धान्यैर्बीजैर्मृदा तु वा ।
सामग्रीविरहाद्वापि 7 शश्वत्कर्मसमाप्तये ॥ १४ ॥

अनुकल्पानुकल्पे तु नित्यमेवाविरोधकृत् ।
त्वगन्वितैस्समैः 8 पूर्णैः सरसैस्सरलैः 9 स्थिरैः ॥ १५ ॥

दलीकृतैस्तु * * * * ।
विश्वास-प्रस्तुतिः
द्वादशाङ्गुलपूर्वाणां धातूत्थानामपि 10 द्विज ।
विधेया हव्यपूरित्वे चलानामेवमेव हि ॥ १७ ॥

नाकुण्डं हवनं यस्मात्सिद्धिकृन्मन्त्रयाजिनाम् ।
तस्मात्कुण्डं सदा कार्यं सौत्रं वा जङ्गमं स्थिरम् ॥ १८ ॥

हव्यभूमेर्विशेषाच्च 11 पीते तु द्विगुणोच्छ्रिते
तत्तद्द्विचतुरश्रं तु व्यष्टाश्रं 12 परिमण्डलम् ॥ १९ ॥

आपाद्य खातमानं प्राग्यथाभिमतमुच्छ्रितम् ॥ २० ॥
इष्टकाभिरपक्वाभिः पक्वाभिर्वा यथारुचि ।
विश्वास-प्रस्तुतिः
कुर्याद्वाथ समास्तुल्या तेष्वंशं * * * * स्यतः क्षितः ।
द्व्यङ्गुलेनाधिकं जातं वासाद्वासां 13 यथा भवेत् ॥ २२ ॥

प्राङ्मेखलाननाद्देशाद्दत्तद्वा पत्तदु * * * * ।
विश्वास-प्रस्तुतिः
त्रिभागोनमथार्धं च नेमिमानसितात्मना ।
कुण्डानां तत्त्वतो मानादवस्थानं द्वादशानां महामते ॥ २४ ॥

द्वादशाङ्गुलनिष्ठानां द्वादाशानां कदाचन ।
संविभज्य चतुर्धात्र त्रिधा वामललोचन ॥ २५ ॥

तन्मानमथ नेमीनामुच्छ्रिता विस्तृतेरपि ।
तत्समा सर्वदा योनेर्येण पृष्ठततः कृते ॥ २६ ॥

किन्तु द्व्यङ्गुलमानेन प्रोन्नता पृष्ठतो वधेः ।
ह्रासयेदनुपातेन त्वन्तु नेम्य * * * * क्रमात् ॥ २७ ॥

खाङ्गुलांश्च तृतीयांशादुल्बणत्वेन सर्वदा ।
विस्तृता मेखलामानात् पादोनात् कमलाद्भव ॥ २८ ॥

विधेयाथ त्रिभागेन तदग्रं सम्प्रसार्य च ।
तं योनिं वृद्धिनिर्वाहं कोष्ठानिष्ठाविधिं क्रमात् ॥ ३० ॥
विश्वास-प्रस्तुतिः
समापाद्यानुपातेन समं श्लक्ष्णं गजोष्ठवत् ।
समाश्रित्य स्वकं ? मूर्तिं विचित्रां गुणलक्षणाम् ॥ ३१ ॥

निर्वहन्ति निशं बोधप्रवाहेना * * * * नादिना 14 ।
पुंसमुद्रे त्वगाधे तु स * * * * क्षालनाश्रये 15 ॥ ३२ ॥

निशम्य 16 योनिं * * * * व्योम्नि रज * * * * ।
द्वाभ्यां गुणाभ्यां तमसो द्विनेमिविनित्ततात् ॥ ३३ ॥

प्। १५०)
विश्वास-प्रस्तुतिः
गुणस्याभिभवादेव * * * कं वत्सत्वमेखलम् ।
यदमूर्तं परं ब्रह्म तद्विद्धि नभसो गतम् ॥ ३४ ॥

सचतुर्मेखले धिष्ण्ये मेखलासु चतसृषु ।
चतुरात्मानमव्यक्तं तत्र प्राक् परिधेः स्वयम् ॥ ३५ ॥

समस्सम्पूर्णमूर्तीनां ममा * * * मोक्षजम् 17 ।
गुणद्वयद्वयात्मानमच्युताद्यं क्रमात् त्रयम् ॥ ३६ ॥

यत्प्रवाहाश्रितं कर्म ब्रह्मण्येकात्मतां व्रजेत् ॥ ३७ ॥
विश्वास-प्रस्तुतिः
विस्तीर्णानन्तयोनीनां दूरतो वन ? मूर्तिनाम् ।
कुण्डनामितिमारी ? 18 * * * * पूर्ववत् ॥ ३८ ॥

विधेया वितताश्चान्गी * * * सुस्थिरवर्तिरा ।
पल्वस्तनगर्भेण तमूर्धक्षणमासपातयेत् ? ॥ ३९ ॥

योनिश्चलरतोऽन्येषामुद्यतानां * * * * ।
विश्वास-प्रस्तुतिः
सङ्कोचः कुण्डनेमीनामनुकाले 19 त्वतः शृणु ।
चतुर्भागा तु पा ? विप्र ह्युत्तमादिव्यपेक्षया ॥ ४१ ॥

करायस्सम्मितं मानमेकैकेनाङ्गुलेन वा ।
वर्धयेत् द्विकरा * * * * न्येति साक्षितः ॥ ४२ ॥

सर्वदिक्करमानाश्चाप्यङ्गुलैः 20 पञ्चभिर्विना ।
सततव्यासमानानां नानाकारवदात्मनाम् ॥ ४३ ॥

विस्तारायामतुल्यानां धिष्ण्यानां 21 मेखलासु च ।
विश्वास-प्रस्तुतिः
द्विहस्ता मूर्धतोऽन्येषां तत्समं तु भवेच्छतम् ।
एवं विचार्य च पुरा देशकालवशादिकम् ॥ ४५ ॥

स्वसामर्थ्यं ततो व्यूहस्तत्र पातं ससिरि ? * * * * ।
विश्वास-प्रस्तुतिः
सवृत्ताष्टाश्रतुर्यान्त्री ? पीठानामूर्ध्वतोऽब्जज ।
खातोऽष्टमेखलानां च योनिः पीठस्य पौष्कर ॥ ४७ ॥

क्षयवृद्ध * * * * प्रत्याय्य 22 द्रुमनस्वयम् ।
विलाप्यन्त 23 * * * * ज्ञानसंशुद्धया धिया ॥ ४८ ॥

द्विशोभात्मना स्वे * * * * तुष्ट्यर्थं साम्प्रतं नयेत् ।
भगवद्वह्निशक्तेर्वै ज्वालाद्या प्रकृतिः परा ॥ ४९ ॥

प्। १५१)
विश्वास-प्रस्तुतिः
अपरा प्रकृतधिष्ण्यानां नानाकारं यथानलात् ।
एतदेवाग्निरूपा वै कुण्डभावान्नि ? कर्मणि ॥ ५० ॥

का * * * * * * * * विहिता विभोर्विप्राननस्य च ।
हव्यं यत्पतिते कुण्डे दीयमानं हि देशिकात् ॥ ५१ ॥

सर्वं सिद्धिदमग्नेर्वै हुतं यद्दहतेऽखिलम् ।
पुरस्तात् * * * * सम्यक् 24 क्रमाल्लङ्घं बलं स्वयम् ॥ ५२ ॥

कोटिलक्षायुतगुणं द्रव्यं यद्विहितं हुतम् ।
विधूमे लेलिहानेऽग्नौ स्वे * * * * स्वशयाश्रिते 25 ॥ ५३ ॥

सहस्रशतसङ्ख्यं च जुहुयाद्द्रव्यसङ्ग्रहम् ।
दण्डकृद्विकपक्षं च * * * * निर्वाहकमक्षयम् ॥ ५४ ॥

धारावाहि ततोऽन्येषा * * * * ।
पुत्र युक्त्याम्बरस्थं च मन्त्रब्रह्माम्बुजोपरि ॥ ५५ ॥

मुख्यकल्पो विलुप्ते 26 तु * * * * युक्तमथाब्जज ।
कुण्डानां विततानां च वंशवीर्यादिकं च यत् ॥ ५६ ॥

कमलालयगर्भन्तु ताम्रमायसजं तु वा ॥ ५७ ॥
विश्वास-प्रस्तुतिः
धर्मान्योद्वहनं येन 27 न स्वेव ? * * * * यति भूतलम् ।
संस्कारसंस्कृतं कुर्यात्कुण्डं तदनु तन्न्यसेत् ॥ ५८ ॥

आज्यदोहैस्तु बहुभिः मन्त्रसन्तर्पणाय च ॥ ५९ ॥
विश्वास-प्रस्तुतिः
वह्नेवो?ङ्कारवेगेनै रसता सूपरि द्विज ।
पातयेदाज्यदोहं द्राक् मध्ये मन्त्रात्मनो विभोः ॥ ६० ॥

मोक्षभोगाप्तये चैवं ब्रह्मरन्ध्रमुखे क्रमात् ।
यथागन्धवनोपेतं सम्पूर्णं च समप्रभम् ॥ ६१ ॥

कृत्वा तु मन्त्रनाथस्य ब्रह्मन्नर्चनसंयुतम् ।
सव्यूहव्याङ्गसंयुक्तं लाञ्छनस्यावृतस्य च ॥ ६२ ॥

कुर्याल्लब्धाधिकारोऽथ सेवार्थमयुतादिकम् ।
जपमारब्धमन्त्रस्य ब्रह्मपूर्वमतन्द्रितः ॥ ६३ ॥

नियतं हि य (था श ?)क्ति प्रभातेऽस्तं गते रवौ ।
रात्रिया मध्यभागे तु यथाशास्त्रनिबन्धनम् ॥ ६४ ॥

पूर्वसेवाविधेरूर्ध्वं प्रीत्यर्थं पूजितस्य च ।
लक्षजापादिके सिद्धे * * * * ब्रह्मदिने * * * * ॥ ६५ ॥

समाप्ते तत्समे होमे * * * * विहितोऽथवाब्जज ।
अङ्गोनमङ्गतुल्यं 28 वा धान्यैर्बीजैस्तिलैः फलैः ॥ ६६ ॥

हरिणानननाराचमुद्रया जलजाख्यया ।
विश्वास-प्रस्तुतिः
षण्माससममानेन द्विगुणेनाथ पौष्कर ।
चतुर्गुणेन वा शक्त्या ह्यन्तरान्तरयोगतः ॥ ६८ ॥

शक्त * * * * शतान्ते 29 च द्विचतुष्परिपूरिते ।
समि 30 * * * * * * * * * * * * * * ॥ ७० ॥
समुच्चरन् धिया सम्यक् स्वशक्त्या वा पृथक् पृथक् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
भिन्नमन्त्रगणं सर्वमाज्यदोहैर्मुद्वं नयेत् ।
ध्रुवाच्चार्चितया ? * * * * त्तु वै ॥ ७२ ॥

प्। १५२)
विश्वास-प्रस्तुतिः
तल्लक्षणमथो वक्ष्ये मानमेयसमन्वितम् ।
प्रसिद्धयज्ञवृक्षोत्थं न दोषैर्दृढमव्रण 31 (त) म् ॥ ७३ ॥

सुस्पष्टं काष्ठमादाय दवाग्नित्रासवर्जितम् ।
निरसञ्जिरका ? * * * * पर्युषितं शुभम् ॥ ७४ ॥

मध्यमाङ्लिपर्यन्तं बाह्वोरामणिबन्धतः ।
तमङ्गुष्ठोदरैर्भूयो * * * * नगुण्य च ॥ ७५ ॥

अष्टावष्टौ त्यजन् 32 यायात् शेषास्त्वेकाधिकाहि * * * * ।
आचास्ते वै परिज्ञेया ध्वजाद्य (न्य) ष्टौ यथाक्रमात् ॥ ७६ ॥

तत्रैवमवशेषं यच्छुभं च शुभनस्स्मृतः ।
यूयं ? युग्मावशेषाच्च तृतीयाच्च मृगाधिपः ॥ ७७ ॥

चतुष्टया स्ववृद्धिं च पञ्चका वृषभस्स्मृतः ।
करष्मका 33 च शेषाच्च गजा वै सप्तकात्तु वै ? ॥ ७८ ॥

एकाख्यस्सप्तकाश्शुद्धेस्तत्रामी शुभदाः स्मृताः ।
गजेन्द्रसिंहवृषभध्वजाद्या ये शुभप्रदाः ॥ ७९ ॥

अशुभाय 34 विघातार्थं स्वशुभाय विवृद्धये ।
अङ्गुलं वाङ्गुलयुतं युक्तिदैर्घ्यं विनिक्षिपेत् ॥ ८० ॥

तद्दिर्घं पञ्चधा कुर्यात्तद्विस्तारं दलेन तु ।
सिद्धये मध्यदेशस्य विधेया यत्र पौष्कर ॥ ८१ ॥

आद्यकौशादयश्वागोः तदुद्देशात् क्रमेण तु ।
पत्रकेसरचक्राङ्गं भूमीनां ह्रासमाचरेत् ॥ ८२ ॥

निर्वर्त्याः कर्णचिह्नास्तु 35 चक्राब्जाभ्यां तु सान्तरात् ॥ ८३ ॥
विश्वास-प्रस्तुतिः
पञ्चमांशेन दैर्घ्यं 36 तु तद्विस्तारसमेन तु ।
द्विभागसंहतं चैव शाखादेशाग्रतो भवेत् ॥ ८४ ॥

आराप्रणालमध्यस्ता नानाकर्मविराजिता ॥ ८५ ॥
विश्वास-प्रस्तुतिः
स्वं स्वं संवेदितं कुर्यात्तेन चावेदिकं 37 शुभम् ।
क्षितिमण्डलमध्यस्थभागेनाद्येन वै ततः ॥ ८६ ॥

कमलं लक्षणोपेतं केवलं षोडशच्छदम् ।
सनालमभिनिर्वर्त्य केसरालं सकर्णिकम् ॥ ८७ ॥

निबीजं कर्णिकाकोशमीषत्परिविभूषितम् ।
यथोक्तलक्षणाढ्येन हेतीशेनावृतं तु वा ॥ ८८ ॥

चक्राधारावनिं कुर्यात् कोणेषूभयतोऽङ्किताम् ।
कौस्तुभैः स्वस्तिकैर्वाथ शङ्काद्यैर्मण्डल ? मण्डितम् ॥ ८९ ॥

तारात्ता 38 (रा) गणाढ्यं वा * * * * * * * * ।
विश्वास-प्रस्तुतिः
अतश्चान्तनुपातार्थं स्वष्टांशं पक्षगं पुनः ।
त्यक्त्वा समाचरेद्ध्रासं यथा स्याद्गजपाणिवत् ॥ ९१ ॥

अन्तरं वसुधाभ्यां * * * * * * * * ष्टांशसम्मितम् ।
कार्यं षडंशतुल्यं वा विस्तृतैश्शुभलक्षणम् ॥ ९२ ॥

तद्विस्तारं द्विधा कृत्वा पञ्चधा वा समैः पदैः ।
अग्रतश्चानुपातार्थं विभज्यैव यथेच्छया ॥ ९४ ॥
विश्वास-प्रस्तुतिः
स्कन्धान्तरं च * * * * * * * * * * * * ।
मत्स्यवल्लाञ्छन * * * * * * * * यथाक्रमम् ॥ ९५ ॥

पार्श्वाभ्यामन्तरं 39 बाह्यात् शेषं कण्ठात्मना नयेत् ।
यथा स्याद्गोमुखे भास * * * * कण्ठं 40 महर्द्धिदम् ॥ ९६ ॥

प्। १५३)
निर्मुक्तवेदिकानां तु शङ्खादीनां यदन्त * * * * ।
विश्वास-प्रस्तुतिः
वेदिकावासुधांशा(भ्या) त्वनुपात्तेन 41 शातयेत् ।
स्कन्धकण्ठात् समारभ्यत्रयो 42 ग्रीवा यथेच्छया ॥ ९८ ॥

विधाय भागं प्रागुक्त * * * * * * * तम् ।
वेदिकाविधिहीनस्य शङ्खस्य वचनं हि यत् ॥ ९९ ॥

सपादभागसमेतं कुर्यात्पञ्चाङ्गसम्मितम् ।
विस्तृते वाधिकं किञ्चित् न्यूनं 43 वा राजते यथा ॥ १०० ॥

कुम्भभागत्रयं सद्मद्वयं संशातयेत् क्रमात् ।
पृथूदरस्य शङ्खस्य पञ्चमांशेन शातयेत् ॥ १०१ ॥

कुक्षिदेशं 44 द्विधा चैव स्रगाद्यैरर्चयेत्ततः ।
वर्तते मूलमाश्रित्य दैर्घ्याद्भागत्रयं हि यत् ॥ १०२ ॥

तन्मध्यात्कण्ठदेशे प्रागाक्षिप्याङ्गं यथोदितम् ।
शेषं तु दशधा कृत्वा ततः सप्ताङ्गसम्मितम् 45 ॥ १०३ ॥

दण्डं कुर्याद्गदाकारं कण्ठविस्तारविस्तृतम् ।
द्विप्रकारं यथोद्दिष्टमन्ते * * * * लवणान्वितम् 46 ॥ १०४ ॥

अंशकत्रितयेनैव 47 तत्र निर्माणमुच्यते ।
वेदिकोपगतं कुर्यादेकभागसमाशितम् ॥ १०५ ॥
मूलम्
अंशकत्रितयेनैव 47 तत्र निर्माणमुच्यते ।
वेदिकोपगतं कुर्यादेकभागसमाशितम् ॥ १०५ ॥
विश्वास-प्रस्तुतिः
स्वस्तिकं लक्षणोपेतं 48 मध्यतः कमलाङ्कितम् ।
कर्णिका 49 निचयश्श्चान्तं ? प्रत्यंशं रचयेत्ततः ॥ १०६ ॥

अङ्गणे * * * * पेतैः 50 सुसमैरन्तरीकृतैः ।
धारागुणान्वितै रम्यैश्शुक्तिकैरष्टकैः शुभिः ॥ १०७ ॥

धाराचनविधानैवं ? 51 द्विषट्कपरिनिष्ठिते ।
वर्तुलं चतुरश्रं तु * * * * चयमध्यगम् ॥ १०८ ॥

करग्रहवर्ती 52 मुष्टि * * * * मरोदयलक्षणाम् ।
ईषामानाधिकं 53 दण्डं बाह्यमापूरयेत्तथा ॥ १०९ ॥
विश्वास-प्रस्तुतिः
शतपत्रमधोवक्त्रं 54 पृथुलं चोर्ध्वकर्णिकम् ।
मुष्टिनिष्ठायुधौ ? 55 कुर्यात् बहुपर्णं सकेसरम् ॥ ११० ॥

अथवेदिक्षिपेत् ? पीठलक्षणं चापरं शृणु ।
विहितं चार्धकल्पेयं ? देवपीठोपमं शुभम् ॥ १११ ॥

उष्णीवपदपर्यन्तमाचाग्रेस्स ? विभज्य च ।
स(मै)र्भागैः 56 पुरात्र स्यु * * * द्वाद * * * दिष्टमुच्यते ॥ ११२ ॥

पद्मं चक्रारविन्दं वा * * * लक्षणलक्षितम् ।
किन्तु मानं विभागं च भूयः क्षेत्रवशात् शृणु ॥ ११३ ॥

ब्रह्मस्थानावधेः क्षेत्रं कृत्वा षड्भागभाजितम् ।
द्वौ भागौ भूषयेन्मध्ये कर्णिकापदसिद्धये ॥ ११ ४॥

परिधिश्चार्धभागेन त्वर्धेन केसरावलिम् ।
सार्धेन पत्रनिचयं व्योम चार्धेन तद्बहिः ॥ ११५ ॥

पार्थिवं पुरमंशेन 57 विचित्ररचनान्वितम् ।
सान्तराणि समसाद्य क्षेत्राण्येतानि पौष्कर ॥ ११६ ॥

प्। १५४)
विश्वास-प्रस्तुतिः
किञ्चित्किञ्चित्समादाय प्रो * * * ष्ववयवेषु च ।
आख्यातपरि * * * * ब्रहन् दलपादानिकं 58 क्रमात् ॥ ११७ ॥

निम्नतां च नयेदीषत् क्षेत्रात् क्षेत्रं यथोदितम् ।
शेष एव सचक्रम्य * * * * मार्यचान्यथा 59 ॥ ११८ ॥

खातात्मकेसरक्षेत्रमानमत्र यथोदितम् ।
दलजालं समापाद्य सव्योम चांशकेन तु ॥ ११९ ॥

सचक्रनेमिवृत्तं तु सार्धेनांशेन तद्बहिः ।
भाग * * * * क्षेत्रं कुर्यात् प्रागुक्तलक्षणम् ॥ १२० ॥

पृष्ठतस्व * * * * कुर्यात् सपद्मं केवलं तु वा ।
कमलं दलजालं च 60 मुख * * * * ॥ १२१ ॥

एतत्प्रमाणनिर्माणपरि * * * * * * * * ।
तदा प्रमेयमस्यां वै ज्ञातव्यं 61 कर्मसिद्धये ॥ १२२ ॥

शतपत्रात्मनानन्तो 62 मुष्टिस्तेनन्तवात्र ? धृक् ।
अन्तर्बीजात्मभावेन स्थित्वा 63 चोत्थमुखः पुनः ॥ १२३ ॥

पतस्कन्धं यदर्यात्मभूतप्राणमरुन्महत् ।
प्रेरितं ब्रह्मरन्ध्रेण तत्तदिच्छावशात् पुनः ॥ १२४ ॥

सप्तपातालनालं च त्वगमक्षात्मनाम्बुजम् ? ।
यदाश्रित्य स्ववाहे तु ह्यमृतं जलवत् स्थितम् ॥ १२५ ॥

सचक्ररचनाजाले स्थितस्ते 64 सत्रमूर्तिधृक् ।
शङ्खविग्रहधृग्वायुराज्यकोशं च खं ततः ॥ १२६ ॥

निर्बीजमजमक्षोभ्यमाद्यं स्रग्देवतस्याधिदैवतम् ? ।
सत्यभूतममेयं च प्रमेयमिदमच्युतम् ॥ १२७ ॥

संस्कारकाले त्वारोप्य नित्यं सम्मन्त्र्य तर्पणे ।
दैर्घ्यमेव तमुज्झित्य वेदिविस्तारमेव च ॥ १२८ ॥

यथोक्तांशं * * * * * * * * * * * * ।
विश्वास-प्रस्तुतिः
नातिस्थूलं नातिकृशं युक्तमृजुगणेन तु ।
एवं द्रव्यमयं कुर्याच्छुभदारमयं ? तु वा ॥ १३० ॥

स्रुक्स्रुवानां च होमार्थं तल्लक्षणमथोच्यते ।
आयशुद्धं समादाय प्रागुक्तगणलक्षितम् ॥ १३१ ॥

त्रयेंशोनं स्रुचा दैर्घ्यादष्टधा चोच्छ्रितं भजेत् ।
तेन भागप्रमाणेन तद्विस्तारं विधीयते ॥ १३२ ॥

संविभज्य समांशैस्तत्सूत्रैस्स्पष्टैर्यथाक्रमम् ।
कलशं कॢप्तयेन्मूलादष्टांशं 65 चतुरश्रकम् ॥ १३३ ॥

वर्जयित्वाथ बाहुल्यं विस्तारार्धेन कल्प्य वै ।
कुर्यादाधारविश्रान्तं कमलं रचितान्वितम् ॥ १३४ ॥

तं शङ्खं विततास्यं तु नन्द्यावर्तं सुलक्षणम् ।
पार्श्वभागद्वयं त्यक्त्वा चतुरम्श * * * * स्मृतम् 66 ॥ १३५ ॥

पाशवद्ग्रथितं मध्ये सुविभक्तं च वर्तुलम् ।
चतुर्भागाननं दण्डं निर्गतं कलशाननात् ॥ १३६ ॥

वितानं शङ्खवक्त्राद्वा * * * * त्रितयसंयुतम् 67 ।
धारानालद्वयं कुर्यात् * * * * ष्टाङ्गसम्मितान् ॥ १३७ ॥

पीठवत्कण्ठपीठं तु चतुरश्रं समाप्य च ।
तस्मिन् पङ्कजमुल्लिख्य चक्रवृत्तान्तरीकृतम् ॥ १३८ ॥

प्। १५५)
विश्वास-प्रस्तुतिः
मुक्ताजालसमं सूत्रं शङ्खकोणचतुष्टये ।
एकांशेनोन्नता ग्रीवा विस्तारद्व्यङ्गसम्मिता ॥ १३९ ॥

ईषद्वक्त्रा न साष्टांशादूर्ध्वे भागसमुज्झिताम् ।
पद्मवच्चोत्तमाङ्गं च ग्रीवानालं सकर्णिकम् ॥ १४० ॥

अनन्तकेसरप्रान्तैरावृतं कर्णिकाननम् ।
तद्बहिः पत्रजालं तु केसरोच्छ्रायसम्मितम् ॥ १४१ ॥

अविभाग * * * * पृष्ठतस्तिर्यगाननम् 68 ।
कुर्याच्च कर्णिकामध्ये गोलकेनैव मुद्रितम् ॥ १४२ ॥

कौस्तुभेनाङ्कितं चैव सौरभीयाश्रिणाथवा 69 ।
सार्धहोमप्रमाणेन द्रव्यजाज्याहुतेः 70 क्षमम् ॥ १४३ ॥

प्रमाणोपे * * * * * * * लक्षणं समुदाहृतम् ।
स्मृतं सदाज्यहोमार्थं शेषमन्यन्निबोधतु ॥ १४४ ॥

साक्षादमृतमूर्तिर्वै वरुणः 71 कमलात्मना ।
नालात्मना 72 तदस्त्रं च संस्थितं विघ्नभीतिकृत् ॥ १४५ ॥

जगदाप्यायकृच्चन्द्रः पद्मत्वेनाग्रदेश * * * * 73 ।
आनन्दाख्यं हि सामर्थ्यं ज्ञेयं तत्परमेश्वरम् ॥ १४६ ॥

देशिकस्तु तदान्याससाधकस्संयतस्तु वा ।
दैवीयमभिमानं च समाश्रित्य * * * * ते ॥ १४७ ॥

अर्चने सग्निकार्ये तु यथोपकरणाखिलाः ।
सन्नार्य स्वकरणानां तु ह्येकस्मिन् स्वाश्रये स्थिताः ॥ १४८ ॥

तस्मादनधिकार्येऽथ ह्यन्नदेवपरस्तथा ॥ १५० ॥
विश्वास-प्रस्तुतिः
दमहो 74 * * * * * * * * * * संश्रयेत् ।
निषिद्ध * * * * * * * * देहापहरणं शुभम् ॥ १५१ ॥

सम्पाद्य पदवीं याति योऽधिकारपदे स्थितः ।
ददत्यनुज्ञाजुष्टानां त्वद्भक्तानां च तत्प्रति ॥ १५२ ॥

आज्यस्थाली बृहद्ब्रह्मलक्षणे * * * * 75 ।
कुर्यात्कमलगर्भं तु याम्ययात्रात्मतो ? 76 शुभाः ॥ १५३ ॥

गृहीत्वात्मामृतः सम्यक् संस्तुत्वं 77 लभतेऽग्निना ।
ध्रुवं प्रमाणनालं च तन्मूले शुभलक्षणम् ॥ १५४ ॥

कुर्यदमलसारं च * * * * * * * ब्जज ।
तत्समर्थं च तन्नालसञ्ज्ञिताः श्रिनिषेविताः ॥ १५५ ॥

सम्पाद्य नलिनीं दिव्यां प्रफुल्लैरर्धपुष्पितैः ।
तथा 78 मुकुलितैः पद्मैस्सपद्मै रन्तरीकृतैः ॥ १५६ ॥

चतुर्विस्तारवक्त्रां च पुल्लपद्मान्तराणिताम् ? 79 ॥ १५७ ॥
विश्वास-प्रस्तुतिः
चक्रव्योमत्रिभागेन निम्ना वातदलेन तु ।
मूलयेद्गलदेश (स्ता) स्स्यादन्यमन्यं समाप्य वै ॥ १५८ ॥

उष्णीषं 80 चात्पलोपेतं संसिद्धा सुरभीरवैः ।
सनाला नलिनी तेषां तत्पात्रं पारमेश्वरम् ॥ १५९ ॥

शयनासनसञ्ज्ञं च सततं चामृतार्णवम् ।
प्। १५६)
विश्वास-प्रस्तुतिः
स्रग्गन्धव 81 तेरस्ते * * * * सपुष्पे चोपलद्वये ।
प्रणीतादीनि 82 पात्राणि तृपयोग्यानि यान्यपि ॥ १६१ ॥

तानि शङ्खाब्जहेतीशसंयुक्तान्यखिलानि च ।
विचित्रं रचना * * * * धातुदार्वमयानि 83 वा ॥ १६२ ॥

यथाभिमतमानानि 84 कुर्यात् पद्मेवतानि ? च ।
मन्त्राराधनपूर्वाणां कर्मणां कमलोद्भव ॥ १६३ ॥

सर्वं सलाञ्छनं कुर्या * * * * पदन्त्र ? कलशादि * * * * ।
विश्वास-प्रस्तुतिः
मुक्ताङ्गुलीयकं चैव भूषकं (णम्) कटकादिकम् ।
उत्तमाङ्गोद्वहं सर्वं शिरोष्णीषादिकं तु वै ॥ १६५ ॥

इति श्रीपाञ्चरात्रे महोपनिषदि पौष्करसंहितायां कुण्डलक्षणं नाम
एकोनत्रिंशोऽध्यायः ॥ २९ ॥
(समुदित श्लोकसङ्ख्या १६५)
-
ग्, घ्: सत्पदं परमेश्वरम् ↩︎
-
क्: कुण्डलानाममि * * * * * * * * पूर्ववत् ।
विधेया वितताङ्गी सुस्थिरवर्ति * * * * * * * * ।
योनिश्चलरतोऽन्येषामुद्यताना * * * * * * * ।
सङ्कोचः कुण्डनेमीनामनुकाले त्वतः शृनु ।
चतुर्भागा तुषा ? विप्रह्युत्तमादिव्यपेक्षया ।
करा * * * * * * * ह्यङ्गुलैः पञ्चभिर्विना ।
सततप्यासमानानां नानाकारवदात्मनाम् ।
विस्तारायामतुल्यां च * * * * * * * ।
बन्धयेद्विकलान्येति साक्षि * * * * * * * ।
तुङ्गद्व * * * * * * * * * * * * * * ।
द्विहस्तमूर्धतोऽन्येषां तत्समं तु भवेच्छतम् ।
एवं विचार्य च पुरा देशकालवशादिकम् ।
स्वसामर्थ्य ततो व्यूहसूत्रपातं स * * * * ।
खातोऽष्टमेखलानां च योनिः पीठस्य पौष्कर । ↩︎ ↩︎ -
ग्, घ्: निध्यानाम् ↩︎
-
क्, ख्: शक्त * * * द्विचतुष्क ↩︎
-
ग्: * * * ↩︎
-
क्: चिह्नास्तु * * * सान्तरात् ↩︎
-
क्: ताराक्ता * * *; ख्: ताराक्ता * * * गणाढ्यं वा ↩︎
-
क्, ख्: समारभ्य * * *; ग्, घ्: समारभ्य सृचो ग्रीव * * * ↩︎ ↩︎
-
क्, ख्: कुक्षिदा * * * सृगाद्यै; ग्, घ्: कुक्षिदेशं चियाच्चैव ↩︎ ↩︎
-
क्: करग्रहपतिं मुष्टि मीदृ * * * लक्षणम्; ख्: मुष्टिमीदृग्रोदपलक्षणाम् ↩︎ ↩︎
-
ग्, घ्: भावेनस्थ * * * प्तकन्ध (य) वदर्या * * * शेत् पुनः ↩︎ ↩︎
-
ग्: जालेस्तिस्तेऽस्त्रमूर्तिधृक् । शङ्खविग्रह * * * यस्याखदेवता । सत्य भूतममेयं च; घ्: सचक्ररजना * * * शेत् पुनः । संस्कारकालेनारोप्य ↩︎ ↩︎
-
क्: शङ्खव * * *; ख्: शङ्खवज्राद्वा * * * त्रितय संयुतम् ↩︎ ↩︎
-
ख्: अविमुक्त * * * पृष्ठतः; ग्, घ्: अविभक्तं * * * पृष्ठतः ↩︎ ↩︎
-
ग्, घ्: पद्मान्तरान्तताम् ↩︎
-
ग्, घ्: कोशयोः प्रणीताअदीनि इत्यारभ्य अर्धपञ्चकं लुप्तम् ↩︎ ↩︎
-
ख्: इदमर्धं तानि शङ्खाब्ज विचित्रम् इत्यर्धयोर्मध्ये वर्तरे ↩︎ ↩︎