२७ अध्यायः

अथ सप्तविंशोऽध्यायः

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

एवं कृत्वा यथाशास्त्रं दिव्यमब्जज वै पुरा ।
पित्र्यं तदनु वै कुर्याद्विधिदृष्टेन कर्मणा ॥ १ ॥

मूलम्

पौष्कर उवाच

विश्वास-प्रस्तुतिः

ज्ञातुमिछामि भगवन् कथं त्वच्छासनस्थितैः ।
समुद्दिश्य पितृश्राद्धं कार्यमाचार्यपूर्वकैः ॥ २ ॥

केषां केषां च तत् कार्यं कस्य कस्य च कीदृशम् ।
विदधाति पञ्च पञ्चैव ? सम्यनिर्ड्वर्तितं हि यत् ॥ ३ ॥

कर्तव्यत्वेन वै कुर्यात् कर्मसन्यासिनां सदा ।
निर्वाणदीक्षितानां च भक्तानामपि चाब्जज ॥ ४ ॥

अनिर्दिष्टक्रमाणां च चतुर्थाश्रमिणां तु वै ।
भगवत्पदलिप्सूनां ज्ञानिनां 1 च तथैव हि ॥ ५ ॥

प्रीतये मन्त्रसिद्धानां साधकानां तु पौष्कर ।
शुभजन्माप्तये शश्वन्मन्त्रसाम्मुख्यसिद्धये ॥ ६ ॥

कार्यं तत्पुत्रकाणां तु कृपया देशिकादिकैः ।
कुर्याद्वै समयज्ञानां नित्यं सद्धर्मवृद्धये ॥ ७ ॥

भूयस्सुजन्मलाभाय सद्विद्याधिगमाय च ।
बान्धवानामतोऽन्येषां भक्तानामेवमेव हि ॥ ८ ॥

सद्यो दुष्कृतशान्त्यर्थं कृपया नित्यमाचरेत् ।
कर्ताना ? कर्मसन्यासी परिवृद्धो व्रताश्रयी ॥ ९ ॥

न निर्वाणपदं नीतो 2 दीक्षायां 3 भोगलालसः ।
तीव्रभावं विना यस्तु न सिद्धो मन्त्रसेवनात् ॥ १० ॥

निस्सन्तानोऽपि वै मन्त्री न याति सिद्धिगोचरम् ।
नूनमेतद्द्विजश्रेष्ठ सन्मार्गस्थैः क्रियापरैः ॥ ११ ॥

सत्कर्तव्यप्रकारेण त्वनुग्राह्यास्सदैव हि ।
समासाद्यात्र ? संयाति यथा दिव्यं परं पदम् ॥ १२ ॥

आतस्तु ? दीक्षितानां च सर्वेषां सामयाजिनाम् ।
अवक्तव्यं च वक्तव्यमेतन्निर्वर्तनाय च ॥ १३ ॥

श्राद्धकाले तु वै मुक्तवा तैरप्यन्यत्र पद्मज ।
मन्त्रमुद्राक्रियाध्यानमज्ञानादिक्रियां 4 विना ॥ १४ ॥

नाभ्यस्तव्या न योक्तव्या भक्तैस्सामयिकादिभिः ।
समाश्रित्य निमित्तं वै देशकालादिकं द्विज ॥ १५ ॥

क्रियते यत् पितॄणां च भवत्यनृणवान् नरः ।
प्रयाति 5 तृप्तिमतुलां तेन कर्मवशादपि ॥ १६ ॥

आगते गतिमायान्ति श्राधादाह्लादसंयुताम् ।
सकृद्वैकं तु बहुधा कालमादेहलक्षणम् ॥ १७ ॥

प्। ११२)

विश्वास-प्रस्तुतिः

युक्तं तिथिगणेनैव 6 वात्सरीयेण पौष्कर ।
क्षेत्राप्तिपूर्वेणान्नेन 7 सन्निमित्तगणेन तु ॥ १८ ॥

संसारदुःखशान्त्यर्थं दुष्कृतक्षपणाय च ।
व्यक्ते 8 चेन्द्रियचक्रस्य त्वौर्ध्वदेहिकमाचरेत् ॥ १९ ॥

वासनादेहमाश्रित्य दुःखजं 9 दुष्कृतं हि यत् ।
सवेद्यनन्तकल्पं 10 च कर्मात्मा ये ? यतोऽब्जज ॥ २० ॥

अतो भूतमयं देहं समनन्तरसस्य वै ।
दुःखोपलम्भनं कल्पं यस्मात् कमलसम्भव ॥ २१ ॥

दुःखेन शाम्यते दुःखं सन्यस्कन्धगते ? 11 यथा ।
स्कन्धाद्गुरुतरं 12 भारं नृणां दुष्कृतकारिणाम् ॥ २२ ॥

निद्राक्रान्तस्वपिण्डाद्वै यथा निर्गत्य पौष्कर ।
वासनादेहमाश्रित्य नानाचेष्टां करोति च ॥ २३ ॥

भूतपिण्डं विना तासां न शान्तिमनुविन्दति ।
एवमन्नाश्रितं पूर्वं प्राणमिन्द्रियसङ्ग्रहम् 13 ॥ २४ ॥

व्यक्तीकृतं न वै देव ? देहभावेन 14 देहिनाम् ।
तावत् कर्मक्षयं तेषां कथमेति महामते ॥ २५ ॥

अन्तस्तदुपचारार्थं ज्ञानपूर्वेण कर्मणा ।
सम्पाद्य यद्वशाच्छीघ्रमनन्तं सुखमेधते ॥ २६ ॥

सामान्यं वैष्णवानां च गुर्वादीनां विशेषतः ।
साधारस्सम्प्रधानाख्यस्साम्प्रतं विधिरुच्यते ॥ २७ ॥

निमन्त्रितं वा सम्प्राप्तं नित्यमङ्गीकृतं त्वथ ।
द्विजेन्द्रं पञ्चकालज्ञं षट्कर्मनिरतं तु वा ॥ २८ ॥

स्नानादिना पुरा कृत्वा प्रयतस्संविशेत् पुनः ।
स्वयमर्घ्याम्बुना विप्र पवित्रीकृत्य पाणिना ॥ २९ ॥

सन्ताड्य कुसुमास्त्रेण मन्त्रास्त्राधिष्ठितेन च ।
समुद्धरन्नेत्रमन्त्रं मन्त्रार्थाधिष्ठितेन च ॥ ३० ॥

समुच्चरन्नेत्रमन्त्रमवलोक्याथ कद्विति ? ।
निवेद्य 15 भगवत्यग्रे प्रणवाधिष्ठितासने ॥ ३१ ॥

पूजिते वितते पूते सम्मुखं वोत्तराननम् 16
उदक् दिग्वीक्षमाणं 17 च विनिवेश्य तथा च तत् ॥ ३२ ॥

यथा मन्त्रेशदिग्रश्मिप्रसरेणाभिविष्यते ।
मन्त्रेणाराध्य तं ध्यात्वा ब्रूयात् संयतावाग्भव ॥ ३३ ॥

समाधाय जगन्नाथं हृत्पद्मगगनेऽर्कवत् ।
सत्पात्रस्याथ 18 पात्राणां पात्राभ्यां वाऽब्जसम्भव ॥ ३४ ॥

एवं कृत्वा प्रतिष्ठानं पाग्यत्नेनात्र 19 कर्मणि ।
समुद्दिश्य पितॄन् दद्याद्दानमन्तरवेदिकम् ॥ ३५ ॥

निवेशितं द्विजेन्द्रं यद् वृत्तिस्थमपि 20 मन्त्रराट् ।
अन्तर्वेदी तु सा ज्ञेया त्वाभ्यामभ्यन्तरं हि तत् ॥ ३६ ॥

सम्प्रदानं पितॄणां यत् कुर्यात् सत्पात्रपिण्डकम् ।
तद्दिव्यममलं यस्माच्चैतन्य मवलम्ब्यते 21 ॥ ३७ ॥

तत्कालं संविभज्याश्च तिष्ठन्ति कमलोद्भव ।
प्रदातृसङ्कल्पवशाद्दत्तं 22 पुष्करसम्भव ॥ ३८ ॥

एकस्य वा बहूनां व 23 प्रदद्यादासनोपरि ।
पुनरेवासनं दार्भमग्रन्थि बहुभिः कुशैः ॥ ३९ ॥

प्। ११३)

विश्वास-प्रस्तुतिः

विभोर्यज्ञाङ्गदेहस्य लोमानि तु कुशास्स्मृताः ।
ता एव नाडयस्सर्वस्तस्य 24 भूतशरीरगाः ॥ ४० ॥

रश्म्यो भूतदेहे 25 तु चिन्मूर्तेश्शक्तयोऽखिलाः ।
अत एव हि विप्रेन्द्र पितॄणां तु कुशासनम् ॥ ४१ ॥

श्राद्धकाले तु विहित 26 माहूतानां तदूर्ध्वतः ।
यत्किञ्चिद्दीयते भक्त्या 27 ब्रह्मभूतं तु तद्भवेत् ॥ ४२ ॥

पुरा वै हेतुनाऽनेन नृणामविदितात्मनाम् 28
कर्मण्यत्र कुशाजालं विहितं कमलोद्भव ॥ ४३ ॥

येषां सर्वगतं ब्रह्मन् मन्त्ररूपीश्वरोऽच्युतः ।
भावस्थतत्वतस्ताभिस्तेषां वै 29 न प्रयोजनम् 30 ॥ ४४ ॥

अथास्त्रपरिजप्तेन भूतिनावात्मशङ्कुना ।
मसृणेनाश्मचूर्णेन परिघासु यथाऽथवा ॥ ४५ ॥

बहिस्तदासने कार्या त्वग्रे दैर्घ्याच्छमाधिका ।
वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ॥ ४६ ॥

न्यसेत्तत्राप्यभग्नाग्रानुदङ्मुलान् कुशान् द्विज ।
यस्माद्दिव्यमुदग्भागं पित्र्यं दक्षिणसञ्ज्ञकम् ॥ ४७ ॥

स्वकेनामृतवीर्येण नित्यं संवर्धयन्ति च ।
दर्भमार्गच्छलेनैव पितॄणां तेऽमरान् द्विज ॥ ४८ ॥

वसत्यन्तः पितृगणो भागमाश्रित्य दक्षिणम् ।
चित्कलांशस्वरूपेण नृणामेवं 31 हि चोत्तरे ॥ ४९ ॥

कृतास्पदामला नित्या 32 त्वमृताख्याऽक्षया कला ।
अत एवं हि यत्किञ्चिदाब्रह्मविदितैर्द्विज ॥ ५० ॥

प्रदीयते पितॄणां च तत् सव्येन तु पाणिना ।
येऽधिकृत्य जगद्योनिं 33 मन्त्रात्मानभजं हरिम् ॥ ५१ ॥

प्रयच्छन्ति पितॄणां च तोयतर्पणपूर्वकम् ।
तेषां तदाश्रयत्वाच्च यदुक्तं न न कारणम् 34 ॥ ५२ ॥

कर्तव्यस्य च पारम्यं प्रकृतस्य महामते ।
स्फूरत्यन्तर्गतं येषां मन्त्राराधनपूर्वकम् ॥ ५३ ।

तत् स्वोत्तरवशाद्येषां मन्त्रसाम्मुख्यदिग्वशात् ।
चेतसा निर्विकल्पेन कृतं भवति चाक्षयम् ॥ ५४ ॥

किन्तु पुष्करसम्भूत दुर्लभा भुवि चेतनाः ।
इति चेतसि वै येषां निश्चयीकृत्य वर्तते ॥ ५५ ॥

सत्यतामुपनीये ? तु ह्येव न्यस्ते कुशाचये ।
तिलांस्तथास्त्रजप्तांश्च तदूर्ध्वे विकिरेत् पुनः ॥ ५६ ॥

कुरुविन्दस्तु 35 दर्भाग्रैर्यस्मादेतद्वयं द्विज ।
सर्वस्य भोगजालस्य जनकं भुवनत्रये 36 ॥ ५७ ॥

विशेषात् पितृदेवस्य श्रद्धापूतस्य वस्तुनः ।
अग्नीषोमस्वरूपेण शान्त्यात्मा भगवान् स्वयम् ॥ ५८ ॥

व्यक्तः कर्मात्मक (त) त्वानां मूर्तित्वेनात्मसिद्धये ।
स पित्र्यस्य च 37 च दिव्यस्य व्यापारस्यातिवृद्धये ॥ ५९ ॥

तत्तेजस्तिलभावेन ह्लादो वर्तत्यपात्मना 38
अत एवाप्रबुद्धानां प्रबुधानामपि द्विज ॥ ६० ॥

तिलोदकेन 39 भावं तु गच्छतश्श्राद्धकर्मणि ।
श्राद्धस्य च परा रक्षा ते द्वे नित्यममन्त्रिणाम् ॥ ६१ ॥

तत्स्वरूपविदां चैव विशेषो मन्त्रवेदिनाम् ।
न्यस्तास्त्राण्यभिजप्तानि 40 तत्र 41 पात्राणि विन्यसेत् ॥ ६२ ॥

प्। ११४)

विश्वास-प्रस्तुतिः

तत्राद्यं चक्रवृत्तानि 42 हेमाद्युत्थानि सम्भवे ।
पालाशकदलीपत्रतमालच्छदनान्यथ 43 ॥ ६३ ॥

पुटान्यस्त्राम्बुशुद्धानि शुभपर्णमयानि च ।
पादयोरपि पाद्यार्थं कं क्षिपेद्दक्षिणादितः 44 ॥ ६४ ॥

आमूर्धमर्चयेत् पश्चादर्घ्यपुष्पानुलेपनैः ।
वस्त्रस्रग्धूपदीपैस्तु दध्यन्नं फलवारिणा ॥ ६५ ॥

सताम्बूलेन वित्तेन यथाशक्ति महामते ।
समुद्दिश्य पितॄन् सर्वान् सनाभीयान् 45 यथाक्रमम् ॥ ६६ ॥

शब्दभावस्वरूपास्तु ज्ञवृत्तिस्थानविग्रहान् 46
बहुत्वे सति विप्राणां पितॄणामेवमाचरेत् ॥ ६७ ॥

यत्र द्विजद्वयं विप्र पित्रर्थं विनिवेशितम् ।
एकस्मिन् स्वपितॄणां तु तदा कार्यश्च सन्निधिः ॥ ६८ ॥

द्वितीये जननीयानां तथाऽन्येषां तु संस्थितिम् ।
सर्वेषामेकमाप्तं तु तृप्तये 47 यदि योजितम् ॥ ६९ ॥

ओमाद्यमस्मच्छब्दं तु पितृभ्यस्तदनन्तरम् ।
इदमर्घ्यमिदं पाद्यं तदन्ते 48 संस्मरेत् स्वधाम् ॥ ७० ॥

सर्वस्मिन्नुपचारान्ते ह्येवं वा संस्मरन् 49 नरम् ।
नमस्स्वधाऽथवा ब्रूयान्नमोन्तां त्वथवा स्वधाम् ॥ ७१ ॥

एवमेव हि यः कुर्यात् कर्तव्यत्वेन पौष्कर ।
तुल्यानां च स्वकुल्यानां नमस्तत्र च केवलम् ॥ ७२ ॥

सत्युक्ते व्यत्यये नित्यं विहितं च स्वधा द्विज ।
स्वयमेव हि सन्यासी ददाति च फलार्थिनाम् ॥ ७३ ॥

कार्यस्तेन नमस्कारस्स्वधान्ते नित्यमेव हि ।
ददाति फलकामस्तु यो नित्यफलमर्थिनाम् ॥ ७४ ॥

स्वधाकारावसाने तु हितं तस्य सदा नमः ।
एवमिछावसेनैव संविभज्य पितॄन् द्विज ॥ ७५ ॥

पृष्ट्वा पात्रमुखेनैव सतृप्तिं च पुनः पुनः ।
ततोऽम्भज्ञ्चुलकं पाणौ हृन्मन्त्रेणामृतोपमम् ॥ ७६ ॥

दद्यात् पूर्णेन्दुतुल्यं तद्ध्यातव्यं तत्कलाः पठन् ।
सानुस्वारमकाराद्यैर्भिन्नं षोडशभिस्स्वरैः ॥ ७७ ॥

त्वङ्कारनतिनिष्ठं च तत्र प्राक्स्थस्सतारकम् ।
इत्युक्तं सकलस्येन्दोर्वाचकं मन्त्रमब्जज ॥ ७८ ॥

पाणिप्रक्षालनात्पूर्वं पातव्यं तेन पूर्ववत् ।
येनामृतपुटान्तस्थमन्नवीर्यमनश्वरम् ॥ ७९ ॥

भवत्याप्यायकृद्ब्रह्मन् पितृदेवगणस्य च ।
माषचूर्णादिना पाणिं प्रक्षाल्यामणिबन्धनात् ॥ ८० ॥

समाचम्योपसंहृत्य ह्युच्छिष्टं तु यथाविधि ।
पवित्रीकृत्य वसुधां पाणौ कृत्वा तिलोदकम् ॥ ८१ ॥

प्रीणनं भगवत्यग्रेसमुत्थायाचरेत् ततः ।
तवास्तु भगवन् पूर्वः प्रीतः 50 पितृगणस्तथा ॥ ८२ ॥

शारीरो देवताव्यूह अ (आ) पादा (द्यो) द्या व्यवस्थितः ।
एवं सुवितते कुर्यात् 51 कर्मत्वाराधनालये ॥ ८३ ॥

सङ्कटे पुनरन्यत्र यायादभ्यर्च्य मन्त्रराट् ।
स्थानं संस्कारसंशुद्धं कृत्त्वा प्राक्ताडनादिना ॥ ८४ ॥

व्याप्तिशक्त्याश्रितं 52 भूयस्तोयाधारगतं स्मरेत् ।
मन्त्रमर्चनपूर्वं 53 तु तदग्रे सर्वमाचरेत् ॥ ८५ ॥

पात्राघ्राणपरेणैव 54 तत्पात्रस्थेन भावयेत् ।
मधुयुक्तेन हविषा दर्भकाण्डैस्तिलैस्सह ॥ ८६ ॥

प्। ११५)

विश्वास-प्रस्तुतिः

निर्दोषं वह्निना कृत्वा हृदा दर्भाग्रकेण तु ।
ध्यात्वा धाम द्रुमाकारं ज्ञस्वभावं महत् प्रभम् ॥ ८८ ॥

द्रव्यदोषगणं कृत्स्नं निर्दहन्तं समन्ततः ।
देवतानां पितॄणां यत् तृप्तयेऽन्नं 55 महामते ॥ ८९ ॥

तत् साधनं च विहितं संस्कृतेन पुराऽग्निना ।
द्वाभ्यां देशिकपूर्वाभ्यामेतद्विषयमब्जज ॥ ९० ॥

प्रदापनमतोऽन्येषां तत्कालं तस्य वै हितम् ।
सदैव विधिनाऽनेन तदर्थं शुभसिद्धये ॥ ९१ ॥

एकस्याश्रयबीजस्य नानाकर्मवशात्तु वै ।
नानात्वं भावयेद्बुद्ध्या पितृकर्मण्यतः पुरा ॥ ९२ ॥

तेनैव तर्पणीयं 56 तत् स्वयम्भूता तदात्मना ।
मत्प्रवाहवदन्तस्थो 57 भावयेदन्नपात्रगौ ॥ ९३ ॥

अर्हणाग्राहगर्भौ तु द्वौ दर्भौ तालसम्मितौ ।
हृन्मन्त्रमन्त्रितौ कृत्वा ताभ्यां सह समुद्धरेत् ॥ ९४ ॥

रसरूपस्वभावं तत् स्थ (स्थू)लत्वेनान्नतां गतम् ।
चतुरङ्गुलमात्रं तु ग्रासं ग्रासं महामते ॥ ९५ ॥

अग्नीषोमाश्रयस्थस्य पूर्वं पितृगणस्य च ।
पितॄणां 58 बीजभूतस्य ज्ञस्वभावस्य तत्त्वतः 59 ॥ ९६ ॥

दद्यात् पिण्डद्वयं चैव त्वग्नीषोमसमुद्भवम् ।
नाडीस्वरूपौ तौ 60 दर्भौ पिण्डेन सह तत्र वै ॥ ९७ ॥

लयं नीत्वा द्वितीयेन व्यवहारधियां ? ततः ।
पितॄणां 61 कल्पयेत् तेन पिण्डान्यन्येन साम्प्रतम् ॥ ९८ ॥

क्रमेण प्रागदृष्टानां हृदा सञ्ज्ञापदेन तु ।
एवं दृष्टस्वरूपं च ज्ञात्वा तेषां स्थितिं स्फुटम् ॥ ९९ ॥

प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोङ्कारपूर्वकैः ।
हृन्मन्त्रालङ्कृतैर्विप्र तदा सञ्ज्ञापदान्वितैः ॥ १०० ॥

पिण्डं प्रकल्पयामीति ततः पूर्ववदाचरेत् ।
अञ्जनाभ्यञ्जनाद्यैस्तु ह्युपचारैः प्रपूजनम् ॥ १०१ ॥

क्रमेण तर्पणं कुर्यात् सतिलैश्चाम्भसा ततः ।
शिरसा 62 वनते ? कृत्वा जानुपादौ क्षितौ 63 गतौ ॥ १०२ ॥

पाणियुग्मे लालाटस्थे एकचित्तः पठेदिमम् ।
ॐ नमो वः पितरो नमो वः पुरुषोत्तम ॥ १०३ ॥

नमो विष्णुपदस्हेभ्यस्स्वधा वः 64 पितरो नमः ।
हरये पितृनाथाय ह्यग्नीषोमात्मने नमः ॥ १०४ ॥

सत्सोमपात्मने विष्णो नमो बर्हिषदात्मने ।
आसंसाराभिजनका अग्निष्वात्ता अथाच्युत ॥ १०५ ॥

पितामहास्सोमपास्त्वं त्वमन्ये प्रपितामहाः ।
तुभ्यं नमो भगवते पितृमूर्तेऽच्युताय च ॥ १०६ ॥

नारायणाय हंसाय विष्णो त्रिपुरुषात्मने ।
मुक्त्वा त्वामेव भगवन् न नमाम्यर्चयामि 65 च ॥ १०७ ॥

58 तर्पयामि सर्वेश नान्यमावाहयाम्यहम् ।
स्तुत्वैवं हि पितृव्यूहं भक्त्या परमया पुनः ॥ १०८ ॥

प्। ११६)

विश्वास-प्रस्तुतिः

सम्भवे सति सन्धानं पिण्डमूर्तेस्समाचरेत् ।
तदग्रतोपविष्टस्य क्रमात् पितृगणस्य च ॥ १०९ ॥

अनुसन्धाय वै द्वाभ्यामेकस्मिन् वा द्विजोत्तम ।
ऊष्माग्रावस्थितं ध्यात्वा पित्र्यं पितृगणं क्रमात् ॥ ११० ॥

प्रणवेन स्वरूपं तु समुत्थाय ततस्स्वयम् ।
मध्यतिर्यक्स्थितौ स्थित्वा 66 ह्यदूरं नान्यदृक्स्थितैः ॥ १११ ॥

उत्तराभिमुखैश्चैव दक्षिणस्याथवा द्विज ।
तदुत्तराननवशाद् हृन्मन्त्रं हृदयान्न्यसेत् ॥ ११२ ॥

नमोऽन्तं प्रणवाद्यं तु 67 मरुदम्बरविग्रहम् ।
पिण्डाग्रे ह्युपविष्टस्य प्राणशक्ति ? 68 द्विजस्य वा ॥ ११३ ॥

बहूनां वा प्रयत्नेन स्वातन्त्र्यान्निर्गतां बहिः ।
ध्यात्वा तया सह क्षिप्रमेकीभूतत्वमागतम् ॥ ११४ ॥

आत्मशक्तौ 69 लयं नीत्वा यदि 70 ह्यूष्माख्यलक्षणा ।
कृत्वैवं प्राणसङ्घं च पितॄणां विप्रविग्रहे ॥ ११५ ॥

प्राग्वदासनसंरुद्धे भोजयेत् पूर्ववत् 71 ततः ।
ॐ नयत्वमृतायान्नमिदं विष्णुपुरस्सराः ॥ ११६ ॥

देवा नद्यस्तथा गावस्सूर्यस्सोमो वनस्पतिः ।
ॐ माधवोऽथ भगवान् मन्त्रमूर्तिमयो महान् ॥ ११७ ॥

मधुभावेन वोऽन्यस्मिन् 72 स्थित्वा तृप्तिं करोतु वै ।
अनुज्झितासनं कुर्यात् पितॄणां प्रीणनाय च ॥ ११८ ॥

तस्मिन्नेवास्मि ? भूभागे वस्त्वा तत्पिण्डविक्षितौ ? 73
स्थितिस्सर्वं पितॄणां च साम्प्रतं कमलासन ॥ ११९ ॥

यावत् प्राणविमुक्तानां पिण्डानां नोपसंहृतिः ।
सोच्छिष्टानां कृता सम्यक् तदन्ते संव्रजन्ति ते ॥ १२० ॥

स्वस्थानामाशिषं दत्त्वा श्राद्धकर्तुर्धिया द्विज ।
सामृतं सोदकं स्थाने सतिलं मन्त्रतेजसा ॥ १२१ ॥

विविक्तं विवृतं मार्गं पुनरागमनाय च ।
नारायणाख्यसन्मन्त्रकर्म ब्रह्मजवीकृते 74 ॥ १२२ ॥

स्वे स्वेन्द्रियरथे कृत्वा तृप्ता याताच्युतास्पदम् ।
प्राजापत्यमिदं प्रोक्तं सम्प्रदायसमन्वितम् ॥ १२३ ॥

सम्प्रदानं पितॄणां च पूर्वोक्तफलवर्धनम् ।
समाचरेत् सदा व्यूह्य मन्त्राणां मन्त्रकर्मणा ॥ १२४ ॥

नित्यं बहुत्वे द्वित्वे वा प्रयोगं कमलोद्भव ।
यद्येतदप्यनङ्गं च तदा वै प्रतिकर्मणि ॥ १२५ ॥

हृदाद्यङ्गाङ्गतो योज्यमङ्गि पूर्ववदब्जज ।
आराध्यानामनेत्राणामोङ्करस्तत्क्रियान्तरे 75 ॥ १२६ ॥

अस्मिन्नर्थे विकारस्तु य 76 उक्तो मन्त्रपूर्वकः ।
समयः 77 पुत्रकादीनामन्येषां भावितात्मनाम् ॥ १२७ ॥

गुरोश्च 78 साधकेन्द्रस्य मन्त्रो मम महामते ।
प्रदाने स विरुद्धश्च त्वत्तोऽन्यस्त्वविरुद्धकृत् 79 ॥ १२८ ॥

समयी पुत्रकादीनां वैष्णवानामपि द्विज ।
चतुर्णां मौद्गलान्तानां तथैवाश्रमिणां तु वै ॥ १२९ ॥

दीक्षया संस्कृतानां च दीक्षितानां महामुने ।
सामान्यस्त्वथ 80 सर्वत्र साङ्गस्सिद्धस्सुपूजितः ॥ १३० ॥

प्। ११७)

विश्वास-प्रस्तुतिः

तेषां यश्चोपदेष्टव्यो मन्त्रव्यूहो हि तं शृणु ।
सद्वादशाक्षरो मन्त्रः कवचं ब्रह्मणे नमः ॥ १३१ ॥

एवं विश्वात्मने नेत्रमस्त्रं च परमात्मने ।
एते सप्रणवास्सर्वे शूद्राणां योग्यतावशात् ॥ १३२ ॥

सम्यग्वा दीक्षितानां च तेषां वै प्रणवोज्झिताः ।
विहिता ? 81 च यथा स्त्रीणां सदाचारवशात्तु वै ॥ १३३ ॥

असम्यक् प्रतिपन्नानां शूद्राणां तु महामते ।
न खण्डयेत्तु मन्त्राणां नमस्कारो भवेत् पुनः ॥ १३४ ॥

सजाते 82 र्द्वादशार्णस्य तद्वदष्टाक्षरस्य च ।
षडक्षरस्य 83 वै पूर्वं प्रयोज्यं पूरणार्थतः ॥ १३५ ॥

यदा 84 त्वभिहितोऽष्टार्णे त्वष्टार्णेनावत्तारितः ।
मुख्यता 85 द्वादशार्णस्य मन्त्रस्य विहिता तदा ॥ १३६ ॥

षडक्षरस्य मुख्यत्वं 86 भवेद्भाववशादपि ।
योज्यस्त्वष्टाक्षरो मन्त्रो नित्यमेव शिखावधौ ॥ १३७ ॥

प्रणवस्य 87 च मुख्यत्वं द्विषडष्टषडक्षराः ।
मन्त्रा हृदयपूर्वास्तु परिज्ञेयास्ततः क्रमात् ॥ १३८ ॥

मन्त्राणां वर्मपूर्वाणां वाच्यत्वं यदि कल्प्यते ।
तदात्मता च विहिता तत्स्थाने प्रणवस्य च ॥ १३९ ॥

देवो 88 जितन्तामन्त्रेण चित्तस्थस्सन्निधिकृतः ।
योक्तव्यं तत्र चाङ्गानां मन्त्रषट्कं यथा स्थितम् ॥ १४० ॥

द्वादशाक्षरपूर्वं तु तृतीयं यत् प्रकीर्तितम् ।
तृतीयं ब्रह्मपूर्वं तु धर्मादीनां 89 हि वाचकम् ॥ १४१ ॥

प्रणवस्सर्वमन्त्राणामितश्चासनकर्मणि ।
द्वादशाक्षरपूर्वाणां मन्त्रसामान्यकर्मणाम् ॥ १४२ ॥

दर्भातिलोदकादीनां द्रव्याणां प्रतिकर्मणि ।
जायते 90 च विसृष्टानामुपसान्तिश्च तैजसी ॥ १४३ ॥

अत एवोपयुक्तानां भोगानां कमलोद्भव ।
विरुद्धसङ्ग्रहो भूयस्त्वन्यस्मिन् 91 हि क्रियान्तरे ॥ १४४ ॥

गौणी व्यक्तिर्यतस्तेषामामूलाच्चिदधिष्ठिता ।
वर्तते परमाश्रित्य तत् कर्तुः फलसिद्धये ॥ १४५ ॥

चित्सामान्यविनिर्मुक्ता ह्ययोग्यास्ते शरीरवत् ।
मन्त्राणां स्थायिनो भागा यान्ति वै योग्यतां पुनः ॥ १४६ ॥

कदाचिन्मन्त्रसामर्थ्यात् ज्ञानभावनया द्विज ।

(इति नित्यश्राद्धविधिः)

अथ नैमित्तिकश्राद्धविधिः

विश्वास-प्रस्तुतिः

नैमित्तकमतश्श्राद्धविधानमवधारय ।
गतिप्रदं पितॄणां यत् कर्मणां सिद्धिभूरिदम् 92 ॥ १४७ ॥

सद्यस्सत्पात्रसम्प्राप्तिं विना नैव समाचरेत् ।
एवमाद्यैर्विनिर्मुक्तं 93 श्राद्धमब्जसमुद्भव ॥ १४८ ॥

तिष्ठत्यनुग्रहार्थं च यदि सम्प्रार्थितं हि यत् ।
तदा नियममातिष्ठे * * * * 94 काष्ठादनादिकम् ॥ १४९ ॥

मानमात्सर्यकार्पण्यक्रोधलोभादयोऽखिलाः ।
दोषा 95 दूरतरे त्याज्या ह्यानिष्पत्तिदिनाबधि ॥ १५० ॥

शुद्धिपूर्वेण विधिना सुप्रयत्नेन चेतसा ।
प्रदत्तं फलमूलाद्यं भवेत् तदमृताधिकम् ॥ १५१ ॥

प्। ११८)

विश्वास-प्रस्तुतिः

देशपात्र वशेनैव 96 सम्पत्तौ सति पद्मज ।
एकाहात् सप्तरात्रं तु श्रद्धया तत् समाचरेत् ॥ १५२ ॥

समाश्रित्य शुभं कालमेकाहं कमलोद्भव ।
निर्वर्त्य परया प्रीत्या नैति कालं यथाऽन्यथा ॥ १५३ ॥

त्रयमाश्रित्य ते श्राद्धं सानुकम्पेन चेतसा ।
सत्त्वस्थेन कृतं शक्त्या शुद्धेन द्रविणेन च ॥ १५४ ॥

नयत्यवश्यमचिरात् सत्यलोकं तदर्थितम् ।
देशकालकृतं त्वेतत् तपोलोकं ददाति च ॥ १५५ ॥

देशपात्राश्रितं श्राद्धं जन (नो) लोकं ददाति च ।
फलं महर्लोकगतिं कालपात्रवशात् कृतम् ॥ १५६ ॥

केवलं देशमासाद्य दत्तं स्वर्गं प्रयच्छति ।
कृतं यत् कालमाश्रित्य भुवर्लोकं 97 द्विजायते ? ॥ १५७ ॥

सौम्यपात्राश्रितं श्राद्धं तद्भूलोकगतिप्रदम् ।
सामान्यस्य च देशादेस्त्रितयस्य फलं 98 त्विदम् ॥ १५८ ॥

तत्र पुष्कर पुष्टिं हि प्रसिद्धं देहमब्जज 99
कालं ग्राह्योपरागाद्यं पात्रं 100 तन्मयमब्जज ॥ १५९ ॥

तथा नियमवान् सम्यक् श्राद्धहेतोर्न चान्यथा ।
यदुक्तं त्रितयं श्राद्धे सविशेषं हि तत् पुनः ॥ १६० ॥

भवत्युत्तारकं नॄणां सविज्ञानेन जन्मना ।
प्रसिद्ध्या वैष्णवं देशं पात्रस्तद्भगवन्मया ? ॥ १६१ ॥

द्वादश्याख्यो बृहत्कालस्सङ्क्रान्त्याद्यैः परिष्कृतम् ।
त्रयमेतन्महाबुद्धे सविशेषतरं यदि ॥ १६२ ॥

भवत्युत्तारकं नूनं देहान्तरनिवासिनाम् ।
स्वयंव्यक्तेन विभुना त्वेकमूर्त्यादिनाऽब्जज ॥ १६३ ॥

अधिष्ठितं हि सर्गादावेकदेशात् सहाम्बुना ? ।
तद्विशेषान्तरं देशं सिद्धिकृत् सर्वकर्मणाम् ॥ १६४ ॥

तस्मिन् द्विजोचिते काले द्वादश्याख्ये भवेद्यदि ।
समुहूर्तं सनक्षत्रं वैष्णवं तेन तद्भवेत् ॥ १६५ ॥

प्रोत्तारकं 101 पितॄणां च सव्य ? बाहुसमन्वितम् ।
सम्यक्सिद्धित्रयोपेतं पञ्चकालपरायणम् ॥ १६६ ॥

लब्धलक्षं 102 परे तत्त्वे पात्रमेकायनं द्विज ।
संयमाद्यैरुपेतं 103 च तन्महार्थायनात्तु वै ॥ १६७ ॥

पितृणां सुगतिप्राप्तिश्शश्वदेव हि जायते ।
वेतं च तं महावेगात्तु ? * * * * * * * * जायते ॥ १६८ ॥

देशे शुभे शुभं जन्म ज्ञानसत्कर्मणा सह ।
फलं शुभतरान् भिन्नान् पितॄणां त्रितयात् क्रमात् ॥ १६९ ॥

ज्ञात्वैवं 104 श्राद्धदाने तु देशकालादयो 105 गुणाः ।
चित्तशुद्धि 106 समेताश्च समासन्नाः प्रसन्नतः ॥ १७० ॥

एतदस्त्रादिना सर्वमुपकारं हि कर्मणाम् ।
केवलं भक्तिपूतानां लोकधर्मरतात्मनाम् ॥ १७१ ॥

ज्ञानकर्मरतानां च द्विजानामधिकारिणाम् ।
पञ्चकालरतानां च स्वकर्मण्यब्जसम्भव ॥ १७२ ॥

यान्ति ? व्याघारमन्त्रेण परिक्राम्येन 107 वै ततः ? ।
प्रबन्धब्रह्मवर्णत्वं ? तेषां तद्भगवान् हरिः ॥ १७३ ॥

षाड्गुण्यविग्रहो देवः प्रभवाप्यकृत् स्वयम् ।
गुणमुक्तसमूहेन 108 स्वरूपादच्युतेन च ॥ १७४ ॥

प्। ११९)

विश्वास-प्रस्तुतिः

कालादीनां समुत्थानं षाड्गुण्यादत एव हि ।
न विन्दन्ति परत्वेन ते चान्यस्याच्युतं 109 विना ॥ १७५ ॥

कालादेस्सूक्ष्मभूतस्य त्वाश्रयस्यामलस्य च ।
अतोऽन्यद्भगवद्भक्तास्तन्मन्त्रज्ञानतत्पराः ॥ १७६ ॥

तेषां कमलसम्भूत कालाद्यमखिलं हि यत् ।
सर्वमन्तस्थितं भाति तत्प्रभाववशात् स्फुटम् ॥ १७७ ॥

बहिरन्तरवच्चापि यस्मादेतदधीश्व * * * * 110
विश्वस्य 111 चापि देहत्वं पुरा ते सम्प्रकाशितम् ॥ १७८ ॥

अध्वोपदेशद्वारेण 112 विस्तरेण त एव हि ।
देहज्ञं सत्क्रियानिष्ठं ज्ञानिनं वैष्णवं स्थितम् ॥ १७९ ॥

इच्छन्त्युत्तारकं शुद्धं पितरस्स्वकुले पुमान् ।
देशकालादयस्त्वेवमाश्रित्य 113 प्रयतस्समम् ? ॥ १८० ॥

निस्तुषैरुज्ज्वलैश्शुद्धैस्सक्षीरैरब्जसम्भव ।
सद्व्यञ्जनसमोपेतं संसाद्य श्रद्धया पुरा ? ॥ १८१ ॥

हृदा वा द्वादशार्णेन भाण्डेष्वभिनवेषु वै ।
विनिर्गतेषु वा पाकाद् भूयस्स्नेहोक्षितेष्वथ ॥ १८२ ॥

एवं वा साधनीयं च पुत्रशिष्यात्मना 114 द्विज ।
भगिन्या 115 धर्मसा ? पत्न्या सुहृत्सम्बन्धवर्त्मना ॥ १८३ ॥

शुक्लाम्बरधरेणैव 116 दक्षेण शुचिनाऽत्मना ।
शारीरव्याधिहीनेन 117 क्षुत्तृष्णाविगतेन च ॥ १८४ ॥

खासश्वास * * * * 118 स्वभावाथ दृक्श्रुतिहीनखर्वटैः ।
एवं विमुक्तदोषेण 119 भावभक्तिपरेण च ॥ १८५ ॥

संसाधनीयं श्राद्धार्थं स्वजातीयेन वै चरुः ।
अनुलोमेन विहितं वर्णानां चरुसाधनम् 120 ॥ १८६ ॥

दिव्ये पित्र्येऽब्जसम्भूत प्रतिलोमश्च दोषकृत् ।
तदलाभात् 121 क्रयक्रीतमदुष्टं कारुका शुचिम् ? ॥ १८७ ॥

पूर्वोक्तदोषनिर्मुक्तं तेनापि कमलोद्भव ।
अपिक्षयविधूनां वा ? लौल्यैकनिरतात्मनाम् ॥ १८८ ॥

रजस्वलानां षण्डानां ऋत्वादीनां 122 विशेषतः ।
श्वानसूकरमार्जारमर्कटानां तथैव हि ॥ १८९ ॥

विड्वराहशिवागृध्रपूर्वाणां तु खचारिणाम् ।
तस्मात् सर्वप्रयत्नेन 123 निवातस्थगिताम्बरे ॥ १९० ॥

निश्शल्ये कुट्टिमे भूयस्सुलिप्ते धवलीकृते 124
स्थाने मन्त्रार्चनं देवपितृदेवस्य साधनम् ॥ १९१ ॥

विहितं चैव सर्वेषां सम्भवे सति सर्वदा ।
अन्नव्यञ्जनभाण्डानां 125 सर्वेषां क्रमशो द्विज ॥ १९२ ॥

अन्तश्चराम्भकाले ? तु मध्वाज्यैस्सकुशास्तिलाः 126
क्षेप्तव्या द्वादशार्णेन भूयस्सिद्धेन सङ्ग्रहे ॥ १९३ ॥

अष्टार्णेनाथ वस्त्रेण स्थगयेत् तान् प्रयत्नतः ।
यह्ता न बहिरन्योत्थं वाष्पं 127 निर्याति पद्मज ॥ १९४ ॥

प्। १२०)

विश्वास-प्रस्तुतिः

ऊर्ध्वपुण्ड्रे 128 कृते लिप्ते क्षालिते स्थलिकाचये 129
वर्मणा वाससा च्छन्ने पूर्वादाभ्यन्तरीकृते ॥ १९५ ॥

रक्षपालं च तत्पङ्क्तौ दत्त्वा स्नानाद्यमाचरेत् 130
अग्नेर्विप्रमवासाना * * ? स्थानस्य 131 पौष्कर ॥ १९६ ॥

भाण्डानां भागपूर्वाणां सत्सहायगणस्य च ।
विनियोगं पुरा कृत्वा पूर्णान्त? नित्यमाचरेत् ॥ १९७ ॥

अपा * * * * * * * * नात् प्रतिशाटकम् ।
तस्याधश्शाटिकायां तु विभुयात् ? तनुवेष्टनम् ॥ १९८ ॥

अभूतं 132 विमलं स्वच्छं * * * * सूतं ? वल्कलादिकम् ।
नीलाञ्चितं ? य यत्किञ्चिद्विद्यते चाम्बरादिकम् ॥ १९९ ॥

सर्वत्र विषया चैव ? त्वपास्य भुवनाद्बहिः ।
ततो धियाऽभिसन्धाय मन्त्रमूर्तिगतं परम् ॥ २०० ॥

यजाम्यनुग्रहार्थं 133 च पितॄणां पुनरेव हि ।
निवेश्य प्राग्वदाहूय ह्यासनेषु क्रमाद् 134 द्विजान् ॥ २०१ ॥

तेभ्यः प्रागानौ 135 पूर्वं निवेश्यौ द्वौ द्विजोत्तमौं ।
द्वादशारो धरो धाम त्रितयाधिष्ठितासने 136 ॥ २०२ ॥

अथोक्तान् 137 सर्वसोमान्यान् षडङ्गा द्विजवास्वरा ? 138
अस्त्रमन्त्रशिखायुक्तः क्रमाद्वि 139 * * * * षदन्वितम् ॥ २०३ ॥

नियोज्य प्राङ्मुखस्थाभ्यां देहतादात्म्यताप्तये ।
स्ववाचकेन सद्धाम्नो ह्येकमूर्त्यादिकात्मना ॥ २०४ ॥

न्यस्तव्यं देवताव्यूहं फड्वौषट्कारसंयुतम् 140
नृसिंहाख्यं सवाराहं मन्त्रमूर्तिद्वयं हि यत् ॥ २०५ ॥

अग्नीषोमाख्यदैवत्यं 141 रक्षार्थं सर्वदैव हि ।
अवीक्षयन्नुदग्भागं 142 अतोऽन्ये विनिवेश्य च ॥ २०६ ॥

तत्रादौ हृदयादीनामधः पङ्क्तौ निवेश्य च ।
दृशा सद्वर्णजानां तु सङ्घानामेवमेव हि ॥ २०७ ॥

तस्य दक्षिणतश्चोर्ध्वे जननीयकुलस्य 143 च ।
कवचेनापरं योज्यमेकान्तं भगवन्मयम् ॥ २०८ ॥

पितृनाम्ना च * * * * तस्य 144 दक्षिणतस्ततः ।
तृतीयमाप्तिकारी ? च चतुर्थं हृदयेन तु ॥ २०९ ॥

पितामहाभिधानेन मूर्तिमन्त्रेण पञ्चमम् ।
प्रपितामहनाम्ना वै योज्यमेकायनं द्विज ॥ २१० ॥

जनके जीवभावेन तदतीतत्रयं क्रमात् ।
निवेशनीयं 145 तैर्मन्त्रैर्वर्तते च द्वयं 146 क्रमात् ॥ २११ ॥

प्रपितामहपूर्वं तु समतीतत्रयं न्यसेत् ।
सामान्येन षडङ्गेन त्वेवमुक्तं स्वकेन वा ॥ २१२ ॥

मन्त्रेण श्राद्धदाने तु विनियोगं द्विजार्चने ।
चतुर्मूर्ताधिकारेण द्विधावस्थमथोच्यते ॥ २१३ ॥

सभोगमपवर्गं च मन्त्रैकस्मादवाप्यते ।
कैवल्यं केवलं चैव द्वितीयादमलेक्षण ॥ २१४ ॥

ससुहृन्मन्त्रवर्गस्य न्यसेदव्यक्तमन्त्रराट् 147
त्रयाणां वासुदेवान्तं प्रद्युम्नाद्यमतः क्रमात् ॥ २१५ ॥

प्। १२१)

विश्वास-प्रस्तुतिः

न तद्वै सविशेषं च पुनरेव * * * मे शृणु ।
सुहृत्प्रपूर्वमिश्राणामनि रुद्धं 148 हि वाचकम् ॥ २१६ ॥

प्रद्युम्नमन्त्रवर्गस्य कामाद् 149 द्वाभ्यां द्वयं ततः ।
प्रणवेन परं ब्रह्मस्वरूपं प्रपितामहम् ॥ २१७ ॥

मह(ता तन्मु)दाप्तमुखेनैव तर्पणं यन्महामते ।
नवमूर्त्यधिकारेण त्रिप्रकारमथोच्यते ॥ २१८ ॥

समित्राणां च वात्सल्याद् द्विजानां विष्णुना न्यसेत् ।
ततो वैराजमन्त्रेण मातृवर्गस्य पौष्कर ॥ २१९ ॥

त्रिभिर्नारायणाद्यैस्तु पित्रादीनां त्रयं क्रमात् ।
विद्धि विद्धाख्यमेतद्धि श्राद्ध(श्रद्धा)ज्ञानं ? फलप्रदम् ॥ २२० ॥

पितॄणां यजमानस्य देहलाभेविनैव 150 हि ।
वैराजमन्त्रादारभ्य साङ्कर्षणान्तमब्जज 151 ॥ २२१ ॥

समन्त्रपञ्चकं 152 विद्धि * * * * * * * * * * ।
प्रपितामहनिष्ठानां यत्तच्छ्राद्धं हि पौष्कर ॥ २२२ ॥

प्रयच्छत्यात्मलाभं तु श्राद्धकर्तुः पितृष्वपि ।
आधाराणां * * * * मन्त्राद्वै * * * * * * * * * * * * * * ॥ २२३ ॥

नियोजनं द्विजेन्द्राणां पञ्चानां श्राद्धकर्मणि ।
मित्रवर्गात् समारभ्य परमेतद्धि वैस्वरम् 153 ॥ २२४ ॥

सामग्रीभिस्समोपेतं 154 कर्तुः पितृगणस्य च ।
परं 155 यच्छति निर्वाणं सकृत्स्नं हि च ? किं पुनः ॥ २२५ ॥

कालमाजीवितं विप्र श्रद्धापूतेन चेतसा ।
कृपया च समानानां सम्भवे सति पौष्कर ॥ २२६ ॥

काम्येऽस्मिञ्श्राद्धदाने 156 तु पङ्क्त्या नाऽन्यत्र योजयेत् ।
समूहमेकं पूर्वं तु विप्राणामुत्तराननम् ॥ २२७ ॥

हृन्मन्त्रेणाब्जसम्भूत 157 सर्वेषां विन्यसेत् ततः ।
प्रणवेन स्वनाम्ना च 158 ज्ञात * * * * * * * * हृदादिषु ॥ २२८ ॥

अस्त्रभूसणहेतीश 159 पूर्वमन्त्रान् सगोचरे ।
एवं वा प्राङ्मुखं शक्त्या चक्रमन्त्रेण योजयेत् ॥ २२९ ॥

विप्रमेकमुदग्वक्वं 58 मुख्यमन्त्रेण योजयेत् ।
द्वयं चोदङ्मुखं तत्र हृन्मन्त्रेणानुसन्ध्य च ॥ २३० ॥

सुहृन्मित्रं द्विवेतं तु ? मातृवंशमथाब्जज ।
पितृवंशं 160 हि निश्शेषं स्मरेदपरदेहगम् ॥ २३१ ॥

मब्डले त्वम्बुपात्रस्थं चक्रं वा नृहरिं यजेत् ।
(विप्रमेकमुदग्वक्त्रं मुख्यमन्त्रेण विन्यसेत्) ॥ २३२ ॥

विश्वास-प्रस्तुतिः

तृप्तये पितृवर्गस्य यथा मातृकुलस्य च ।
सर्वं जनमतोऽन्येषां 161 प्रीतये च स्वशक्तितः ॥ २३३ ॥

गवा 58 ग्रासं समुद्धृत्य दद्याद् घृतमधुप्लुतम् ।
दर्भैस्तिलोदकैर्मिश्रं 162 न क्षारं लवणोत्कटम् ॥ २३४ ॥

आत्मवंशाधिकारेण कुर्यादेवमतोऽन्यथा ।
पौरोहित्येन कृपया प्रीत्या वाऽन्यस्य कस्य चित् ॥ २३५ ॥

निर्वर्तने तदीयं हि तत्पूर्वं विहितं कुलम् 163
आपादाज्जानुपर्यन्तमाजानोर्मध्यमस्तकम् 164 ॥ २३६ ॥

प्। १२२)

विश्वास-प्रस्तुतिः

आवस्तिमूर्ध्नो 165 हृदयमाहृदो मस्तकावधि ।
अनिरुद्धादयो मन्त्राश्चत्वारो विनिवेश्य च ॥ २३७ ॥

सुगतिप्राप्तये विप्र पितॄणां नित्यमेव हि ।
तृप्तये वासुदेवाद्यादामूर्ध्नस्त्वङ्घ्रिगोचरम् ॥ २३८ ॥

चत्वारश्चानिरुद्धान्ता 166 योक्तव्या वा महामते ।
प्रणवेन 167 हृदि ब्रह्मन् शान्तं संविन्मयं तु वा ॥ २३९ ॥

समीरानलतोयक्ष्माभूतानां 168 व्यपकं क्रमात् ।
न्यस्तव्यं वासुदेवाद्यमध्यक्षान्तं चतुष्टयम् ॥ २४० ॥

अपेक्षयानिरुद्वाद्यं पृथिव्यादिचतुर्ष्वथ ।
रक्षार्थं नृहरिं न्यस्त्वा नवमूर्तेः परं द्विज ॥ २४१ ॥

मूर्धास्यकण्ठहृन्नाभिगुह्यजानुद्वये 169 त्वथ ।
पादयोः क्ष्माधरान्तं तु न्यस्तव्यं त्वष्टकं क्रमात् ॥ २४२ ॥

हृदम्बरे तु भगवान् वासुदेवोऽप्यधोक्षजः ।
क्ष्मान्तानां बुद्धिपूर्वाणां क्रमात् सङ्कर्षणादिकम् ॥ २४३ ॥

याक्तव्यमथवा विप्र पृथिव्यादिक्रमेण तु ।
सप्तकं 170 भूधाराख्यं तु सङ्कर्षणान्तमेव हि ॥ २४४ ॥

अथ 171 चिद्धृत्वधिष्ठाने वासुदेवं तु भावयेत् ।
रसलोहितमांसानां मेदोमज्जास्थिषु द्विज ॥ २४५ ॥

क्रमेण शुक्लधात्वन्तं न्यसेत् सङ्कर्षणादिकम् ।
सप्तकं च वराहान्तमाशुक्लाद् 172 द्वारसिद्धये ॥ २४६ ॥

वराहमन्त्रादारभ्य सङ्कर्षणान्तमब्जज ।
एवं दुष्टनिरासार्थं पूर्ववत् 173 पात्रकं न्यसेत् ॥ २४७ ॥

व्यापकत्वेन भगवान् बहिरभ्यन्तरे खवत् ।
जीववत् साङ्कर्षणं च बीजं हृत्कमलोदरे ॥ २४८ ॥

सृष्टिसंअहारयोगेन सप्तकं धातुसप्तके ।

पौष्कर उवाच

विश्वास-प्रस्तुतिः

सामान्येन स्वमन्त्रेण सति सन्निहितेन वै ।
कारयो ? र्विग्रहे वृत्तौ ज्वालन्ताभ्यन्तरे 174 (यथा) तु वा ॥ २४९ ॥

न्यासार्चनादिमुक्तानां 175 मन्त्राणां युज्यते कथम् ।
विनियोगं चतुर्णां 176 वा नवानां मन्त्रकर्मणि ॥ २५० ॥

सषडङ्गो हि सामान्यस्सर्वेषां विहितस्सदा ।
साधकस्य 177 हि मन्त्रो हि विषमस्स्याद्विरोधकृत् ॥ २५१ ॥

अनुज्ञातस्ससर्वस्य 178 चातुरात्म्यादिकं हि यत् ।
गुरोरिच्छा स्वकीयाऽत्र खमन्त्रादौ महामते ॥ २५२ ॥

तत्रापि 179 हि विषेषाय श्राद्धे द्वाभ्यां स उच्यते ।
मन्त्रग्रामे 180 तु विन्यस्ते विप्राणामिच्छया पुरा ॥ २५३ ॥

स्वमन्त्रमुपसंहृत्य स्वधाम्ना च 181 धिया सता ।
ब्रह्मभावनया व्याप्त एवं कृत्वाऽश्रयादिकम् ॥ २५४ ॥

प्। १२३)

विश्वास-प्रस्तुतिः

यद्विप्रविग्रहे व्यस्तं मन्त्रव्यूहं तदात्मनि ।
अ ? 182 थानियोजनीयं च क्षन्तु ? तत्पाणिपूर्वकम् ॥ २५५ ॥

तत्रायं विहितं विप्र विशेषं तन्निबोधतु ।
व्यापकत्वेन भगवान् प्राक् सव्येतरयोस्ततः ॥ २५६ ॥

दक्षिणे करशाखासु द्वितीयं पञ्चसु न्यसेत् ।
तद्वन्द्वामे तृतीयं हि त्वङ्गुष्ठादिक्रमेण तु ॥ २५७ ॥

तलद्वये 183 दक्षिणादावनिरुद्धमतो न्यसेत् ।
एकं वा वासुदेवान्तं न्यसेदिच्छावशेन तु ॥ २५८ ॥

यदा नवात्मा करयोस्तदङ्गुष्ठद्वयेऽच्युतः ।
अष्टकं च वराहान्तं प्राग्वदातर्जनेः क्रमात् ॥ २५९ ॥

वामतर्जननिष्ठं 184 तु वासुदेवान्तमेव वा ।
स्वाहामध्योदितं कृत्वा पूजासारे ? तथाऽ(र्चने)नले ॥ २६० ॥

हुतमप्यनलं 185 भूतं प्राग्वत् पाव (न) कतां नयेत् ।
एवमिच्छावशेनैव मन्त्राणां परिवर्तनम् ॥ २६१ ॥

स्वाराध्या 186 नवनिष्ठानां श्राद्धकाले विरोधकृत् ।
एवं नियोजनं कृत्वा शिरसाऽभ्यर्च्य साम्प्रतम् ॥ २६२ ॥

सासनं पुष्पपात्रेण समूहं भगवन्मयम् ।
तन्मध्येम्भश्चलं 187 चित्तं पञ्चेन्द्रियसमन्वितम् ॥ २६३ ॥

कुर्यात्तां मन्त्रपीठस्थं 188 मध्ये पारेऽथवा हृदि ।
कालमाचमनान्तं (र्थम्) तु मदनुग्रहकाम्यया ॥ २६४ ॥

सन्निधाने द्विजानां च विभोस्सज्वलनस्य च ।
भाव्यं सुयन्त्रितेनैव 189 सर्वज्ञेनापि जन्तुना ॥ २६५ ॥

एवं भूतैर्द्विजेन्द्रैस्तु (स्तैः) बुद्ध्या तु सुविशद्धया ।
श्रद्धेयमखिलं 190 तस्य सानुकम्पेन चेतसा ॥ २६६ ॥

यस्मादब्जसमुद्भूत मानं यदुभयात्मकम् ।
नासकृत् सर्वभावानां विशेषाच्छ्राद्धकर्मणि ॥ २६७ ॥

समये * * * 191 योज्यं तत् पूरण सर्वकर्मणाम् ।
पावनं तृप्तिजननं कि पुनः पितृकर्मणि ॥ २६८ ॥

आदाय मनसा मान्त्रीमाज्ञां 192 वै शिरसा सह ।
हार्दमापाद्य वै श्राद्धं द्रव्योत्थं यद्वशाद् द्विज ॥ २६९ ॥

सफलं स्यात् पितॄणां तु ज्ञानमूलं हि तत्त्वतः ।
अन्यथा हेतुना केन 193 पितॄणां तद्गतिप्रदम् ॥ २७० ॥

मूलं 194 विना क्ष्मां नाभ्येति पादपानां यथा तथा ।
ज्ञानमाह्लादपूर्वेण फलत्याशु च वर्त्मना ॥ २७१ ॥

कारणं सर्वेन्द्रियग्रामं बहिर्वृत्तिगतं हि यत् ।
स्वयमात्मनि संलीनं कृत्वा हृत्कमलाम्बरे ॥ २७२ ॥

स्वभावशक्त्या सम्पूर्य समास्ते साम्प्रतं तु तत् ।
स्वरूपाद्वन्दनं कुर्याद्विभोस्सर्वेश्वरस्य च ॥ २७३ ॥

शान्तसंवित्स्वरूपस्य स्पन्दानन्दमयात्मनः ।
तवाच्युतं हि चित् स्पन्दं स्वयं परिणतं स्मरेत् ॥ २७४ ॥

सहस्रशशिसूर्याग्निप्रभया प्रोज्वलं स्थिरम् ।
मरीचिचक्रसम्पूर्णचिद्गर्भं 195 सर्वतोमुखम् ॥ २७५ ॥

चिदम्बरान्तरावस्थं 196 सुशान्तं भगवत्पदम् ।
तच्छक्ति 197 (तच्चित्र) ज्ञाननाडेर्वै विलक्षणतरं हि यत् ॥ २७६ ॥

प्। १२४)

विश्वास-प्रस्तुतिः

स्मरेन्मरीचिकोणस्थं स्वभावाह्लादपिण्डकम् ।
स्वकं पितृसमूहं तु स्फुरन्तं कर्मशान्तये ॥ २७७ ॥

महतः 198 पावकाद्यद्वच्छक्तिर्दहनलक्षणा ।
अङ्गारकणमाश्रित्य 199 बाह्यमायाति पौष्कर ॥ २७८ ॥

तद्वदेव 200 हि निर्यातः किन्तु सङ्कल्पनिश्चयात् ।
अग्नीषोमौ समाश्रित्य 201 पितरश्चेश्वरेच्छया ॥ २७९ ॥

प्रकाशमन्त्रराड्बाह्यं 202 मायाकाशव * * * द्विज ।
क्रमेण यत्ततस्स्वेषां 203 सुखदुःखतरं तु वा ॥ २८० ॥

मूलान्तःकरणेनैव 204 सेन्द्रियेण समाब्जज ।
मायाकाशवृतेनैव 205 हृन्मन्त्रं भ्रामयेत्ततः ॥ २८१ ॥

तद्दुः (खगु) खादुपशान्त्यर्थं रश्मिरन्ध्रेण केनचित् ।
ज्ञानतस्त्वरविन्दाक्ष 206 तदाकाशावधे पुनः ॥ २८२ ॥

तत्कालं तत्कुलोद्भूतमनुभाववशाद् द्विज ।
अग्नीषोमाश्रयस्थं च चित्पिण्डं 207 तत्तु वै क्रमात् ॥ २८३ ॥

अन्तःकरणबीजं 208 तु महामोहबलोज्झितम् ।
ज्ञानान्तमम्बरान्तस्थं 209 सुसूक्ष्मं सततोदितम् ॥ २८४ ॥

क्ष्मान्तं 210 नारायणाद्यैस्तु ह्यध्यक्षान्तैरधिष्ठितम् 211
प्राणब्रह्मावसानैर्वा 212 वासुदेवादिकैः क्रमात् ॥ २८५ ॥

बुद्ध्या 213 व्याप्तैर्यथावस्थैः प्रभवस्थितिलक्षणैः ।
मन्त्राङ्गैर्ज्ञस्वरूपैर्वा पञ्चभिर्लोचनोज्झितैः ॥ २८६ ॥

यद्वशात् प्रतिपत्तिर्वै कर्तुर्भवति 214 सुस्फुटा ।
सन्निवेशवशेनातो 215 हार्देऽस्मिन् पितृतर्पणे ॥ २८७ ॥

स्वानुष्ठानवशेनापि 216 मन्त्राणामुदयान् स्मरन् ।
अमूर्तमथवा मूर्तमधिदैवव्यवस्थया ॥ २८८ ॥

चिद्बीजनिचयाधारद्व्यात्मकं यत् पुरोदितम् ।

विश्वास-प्रस्तुतिः

अभिन्नलक्षणेनैव प्रणवेन महामते ।
ध्यायेच्चित्कर्णिकामध्ये 217 भूमौ बीजत्वमागतम् ॥ २९० ॥

सतुर्यमपृथग्भूतैस्सत्वाद्यैरनुपप्लुतम् 218
तस्माद्विनिर्गतं ध्यायेत् त्रितयेनाभिरञ्जितम् ॥ २९१ ॥

प्रपितामहसञ्ज्ञं तु चैतन्यत्वेन पौष्कर ।
सुषुप्तिरूप (सञ्ज्ञ) ताप्राप्तमीषत्कालुष्यमागतम् ॥ २९२ ॥

विश्रान्तं 219 कर्णिकाकाशदेशे चिद्भास्करोदरे ।
तदुद्देशं ततस्तस्माच्चैतन्यान्निर्गतं स्मरेत् ॥ २९३ ॥

स्वेनान्तःकरणेनैव रञ्जितं स्वं 220 पितामहम् ।
एकारेण स्वनाम्ना च स्वप्नेनाविष्वकृतस्य 221 च ॥ २९४ ॥

प्। १९५)

विश्वास-प्रस्तुतिः

संस्थितिं संस्मरेत्तस्य द्व्यात्मनामाश्रितस्य च ।
चिदंशस्य च वैकण्ठ देशे नाभ्यन्तराम्बरे ॥ २९५ ॥

मनोबुद्धिरहङ्काररञ्जितं संस्मरेत्ततः ।
जाग्रेणाकूलितेनैव पिता चैतन्यमब्जज ॥ २९६ ॥

ब्रह्मनाड्यन्तराकाशे 222 ब्रह्मरन्ध्रपथावनौ ।
द्व्यात्मके जीवकोशे तु कारणे तुर्यलक्षणे ॥ २९७ ॥

दैवत्यं वासुदेवं च साकारं वाऽर्कबिम्बवत् ।
तदात्मना च बोद्धव्यौ विबुधौ विश्वसञ्ज्ञकौ ॥ २९८ ॥

तन्मूलं 223 हि यतस्सर्वं कर्मिणां पितृसङ्ग्रहः ।
प्रपितामहसञ्ज्ञं 224 वै त्वधिष्ठायाथवा भवेत् ॥ २९९ ॥

मध्याह्नभास्कराकारं मूर्तं वा ज्ञानमूर्तिभृत् 225
पैतामहीयमेवं हि चैतन्यं कमलोद्भव ॥ ३०० ॥

प्रद्युम्नाधिष्ठितं ध्यायेत् स्वस्थानेन पुरोदितम् ।
पिताधिदेवतारूपमनिरुद्धमतस्स्मरेत् ॥ ३०१ ॥

मूर्ध्नश्छिद्रप्रवेशे 226 तु अमूर्तं मूर्तमेव वा ।
आराध्य मन्त्रेणाढ्यं वा स्थानं कुर्यादधिधिष्ठितम् ॥ ३०२ ॥

हृन्मन्त्रेणापरं विप्र शिरसा तत् परं तु तत् ।
शिखाधिदैवतं ध्यायेच्चतुर्थं सर्वदैव हि ॥ ३०३ ॥

शक्तिमन्त्रेण तनुतीं 227 हृन्मन्त्रानुगतां स्मरेत् ।
शिरसा सह चास्त्राख्यं शिखया सह लोचनम् ॥ ३०४ ॥

नवमूर्तेश्चतुष्कं तु चिद्रूपं केवलं हृदि ।
सत्तामात्रस्वरूपाभिर्विभिन्नं गुणशक्तिभिः ॥ ३०५ ॥

ॐ तत्सदिति चैतद्वत् कर्णिकागहनान्तरे ।
व्यक्तं 228 कण्ठावधोद्देशं कुर्याद्गरुडगादिना 229 ॥ ३०६ ॥

ब्रह्मरन्ध्रगतं ध्यायेत् सवराहनृकेसरि ? ।
भिन्नत्वे भेदबुद्ध्या तु यथैकस्मिन् हि जायते ॥ ३०७ ॥

स्वभावशीतलं चोष्णं स्वादु भिन्नजलद्वयम् ।
एवं भोगाप्तये कुर्यादेतस्माद्व्यत्ययं हि ये ? ॥ ३०८ ॥

ज्ञेयं 230 तन्मोक्षदं विप्र नित्यमेवाफलार्थिनाम् ।
तनुत्रास्त्रदृशो 231 मन्त्राः हृदयान्मस्तकावधि ॥ ३०९ ॥

न्यस्याधिदेवतात्वेन शक्तित्वेन हृदादयः ।
ज्ञानादीनां 232 हि वै यस्माद्भोग्यास्त्रीणि बलादयः ॥ ३१० ॥

ते च षढृदयादीनि निर्णीतानि च वै पुरा ।
एवं कारणमूलं तु देहे पितृगणं क्रमात् ॥ ३११ ॥

न्यस्त्वा 233 मनीषितैरन्यैश्चिद्रूपैः पितृभिस्सह ।
सन्तर्पणं 234 ततः पार्श्वे विश्वेदेवपुरस्सरम् ॥ ३१२ ॥

ज्ञलक्षणेन सन्तर्प्यौ प्रणविन तु तौ पुरा ।
परमानन्दगर्भेण सहस्रशशिरश्मिना ॥ ३१३ ॥

हृदि प्राणकलामूले प्रोच्चरत् प्रणवं स्मरेत् ।
दुग्धबुद्बुदसङ्काशममृतं हिमशीतलम् ॥ ३१४ ॥

तरसारतयं 235 तं च ? ज्ञाननाडीक्रमं महत् ।
यमाश्रित्य च तिष्ठन्ति विश्वेदेवपुरस्सराः ॥ ३१५ ॥

पितरो भगवद्रूपास्साकारां वह्निराकृतिः ।
ब्रह्मरन्ध्रावधिं यावद्विसर्पन्तं स्मरेत् तत् ॥ ३१६ ॥

प्।१२६)

विश्वास-प्रस्तुतिः

सम्पूर्णेन्दुत्वमापन्नं भावयेत्तत्र 236 तद्द्विज ।
यत् पित्र्यदैवतं मन्त्रं ब्रह्मरन्ध्रोपरि स्थितम् ॥ ३१७ ॥

प्राणशक्तिर्ज्वलद्रूपा तदीया तच्छिरोपरि ।
सूर्यमण्डलमध्यस्था युगान्ताऽनलवत् स्मरेत् ॥ ३१८ ॥

तत्तेजसावलीनं 237 तद्ध्यायेन्मण्डलमामृतम् ।
जनकीयकरन्ध्रेण 238 प्रतिस्रोतीकृतं पुनः ॥ ३१९ ॥

(अत्र ग्रन्थपात इव)

विश्वास-प्रस्तुतिः

मूलनिष्ठं क्रमाद्ध्यायेत् चेतसा निर्मलेन तु ।
एवं 239 गतपिपासार्थः प्राग्वदोङ्कारमुच्चरन् ॥ ३२० ॥

तुर्यभूमिं तु पित्रादिलयध्यानधिया न येत् ।
इति भोगाप्तये कुर्याद् 240 भूयो भूयो द्विजोत्तम ॥ ३२१ ॥

पितॄणाममृतं श्राद्धं सर्वदुःखक्षयप्रदम् ।
प्रकाशाह्लादपिण्डस्थं कृत्वा पितृगणं तु वै ॥ ३२२ ॥

अन्तर्मायाम्बराद्यान्तं क्षीणसंस्कारलक्षणम् ।
आमूलादुल्लसन्तं च ऊर्ध्वदेहव्यपेक्षया ॥ ३२३ ॥

औदयेन क्रमेणैव सूर्यबिम्बमिवाम्बरे ।
तत् पुनर्विलयीकुर्याच्चन्द्रभावनया यथा ॥ ३२४ ॥

न रोगमायाति पुनः कर्मभूमौ सचित्फलः ।
एवं यत् पातयेत् पिण्डं ब्रह्मक्षेत्रसमाश्रिते ॥ ३२५ ॥

अनन्ते विपुले पूर्णे चिद्रूपे त्वस्फुटं द्विज ।
स्ववंशोत्तारकं विद्धि ज्ञानकर्मपरायणम् ॥ ३२६ ॥

किन्त्वसौ दुर्लभो यस्य भावनैषा 241 हि तत्त्वतः ।
भगवद्भक्तिपूता (त्मा ?) तन्मन्त्रैकपरायणः ॥ ३२७ ॥

प्रवर्तेताथ सिद्ध्यर्थं बाह्यतश्श्राद्धकर्मणि ।
मन्त्रेशवह्निविप्राणां सन्निधाने यथाक्रमम् ॥ ३२८ ॥

अभ्यर्थासनकर्माख्यं 242 मन्त्रं यदवतारितम् ।
भगवन् पुण्डरीकाक्ष पित्र्यं 243 वर्गं हि मामकम् ॥ ३२९ ॥

स्वयं श्राद्धात्मना भूत्वा प्रोद्धरस्व भवार्णवात् ।
भुङ्क्ष त्वं शक्तिनिष्ठेन स्वयं ज्ञानादिकेन वै ॥ ३३० ॥

करणेन बलाद्यं हि भोगजालं त्रिलक्षणम् ।
एवमभ्यर्थयित्वा च ह्यभिसन्धाय चेतसा ॥ ३३१ ॥

क्रमात् पितृगणं सर्वमिदमुच्चार्य वै ततः ।
ॐ ॐ ॐ ॐ पितॄणां च तृप्तये परमेश्वर ॥ ३३२ ॥

उत्तारणार्थमपि वै यजाम्योम्ॐ नमो नमः ।
सकृच्चतुर्धा नवधा त्विदमुच्चार्य चेतसा ॥ ३३३ ॥

स्मरन् बाह्याम्बरावस्थं विन्यस्तं यत् परात्मनि ।
ततो विभवतस्सर्वैरर्घ्यपाद्यपुरस्सरैः ॥ ३३४ ॥

भोगैस्ताम्बूलपर्यन्तैर्मन्त्रनाथं 244 यजेद् द्विज ।
तत्रेदं सर्वसामान्यं भोगोपादानकर्मणि ॥ ३३५ ॥

मन्त्रमुच्चारणीयं च श्राद्धदानेषु सर्वदा ।
ॐ वौषडमृताभं तु बलवीर्यमयं त्विदम् ॥ ३३६ ॥

प्। १२७)

विश्वास-प्रस्तुतिः

तेजस्स्वभावममलं भोगं भुङ्क्ष्वो नमो नमः ।
नैवेद्यं विद्यमानं तु प्रोक्षयित्वा दृशा बृहत् ॥ ३३७ ॥

एवं यदबृहद्रूपं पाणौ कृत्वा तु पात्रगम् ।
तथा चाविद्यमानं यन्मनसा वाद्य धारणा ॥ ३३८ ॥

पितॄणां तृप्तये ह्येवमिष्ट्वा मन्त्रेश्वरं ततः ।
ततारा ? दर्भलोपे (भे) तं प्रदद्याद्देहमोदकम् ॥ ३३९ ॥

245 नमोऽस्मत्पितृगणात् प्रीतो भव जगन्मय ।
तेषामस्त्विदमक्षय्यं यत् कृतं च त्वयाऽत्मसात् ॥ ३४० ॥

इति 246 कर्तव्यता सा वै पैत्रं स्थानात्मना नयेत् ।
मन्त्रेशरोमकूपानामाशयं चोदयार्कवत् ॥ ३४१ ॥

बहिर्हृत्कमलोद्देशे स्मरेत् पितृगणं क्रमात् ।
अथान्तर्माननिष्ठं तु ह्यर्घ्याद्यैः भोगसञ्चयैः 247 ॥ ३४२ ॥

द्रवत्पूर्णेन्दुधवलं मरीचिचयसङ्कुलम् ।
संविशन्तं स्वशक्त्या वै ध्यायेन्मन्त्रात्मनि स्थिते ॥ ३४३ ॥

तेजोमये पितृव्यूहे पितृसङ्घं हि तत् पुनः ।
मध्याह्नार्कायुताभं च सन्त्मरेद्वि (द्धि) 248 स्फुरत्प्रभम् ॥ ३४४ ॥

तद्व्यापारे निवृत्तेऽथ रोमरन्ध्रे 249 शनैश्शनैः ।
मन्त्रहृत्पुष्कराकाशमाक्रान्तं 250 तैस्स्मरेदथा ॥ ३४५ ॥

पीठसन्निहितं 251 मन्त्रादादायेन्दुधिया ततः ।
यायादग्निसमीपं 252 तु ध्यायेत्तत्रोदितं प्रभुम् ॥ ३४६ ॥

सन्तर्प्य विधिना भक्त्या पूर्णान्तं मन्त्रराट् ततः ।
तत्रापाद्यश्चरुः प्राग्वत् तथा पिण्डार्थमोदनम् ॥ ३४७ ॥

मध्वाज्यतिलदर्भाणां सम्पुटे रजतान्विते ।
अभिमन्त्रितमाराध्यैस्ततस्तैस्ताडनादिभिः ॥ ३४८ ॥

नीत्वा निर्दोषतां पश्चात् स्थगयेदम्बरादिना ।
अथानुसन्धानपूर्वं साधारं त्वासनं यजेत् ॥ ३४९ ॥

क्रमात् कुशानामूर्ध्वे तु यथास्थानविभागशः ।
संसिच्य प्रणवेनाथ सतिलेन तु वारिणा ॥ ३५० ॥

हेमपूर्वाणि तत्राग्रे 253 पात्राणि क्रमशो न्यसेत् ।
पित्राद्यनुक्रमेणैव त्वादावन्त्ये तदग्रतः ॥ ३५१ ॥

मन्त्रपूर्वेण नाम्ना तं सनमस्केन निक्षिपेत् ।
तिलास्त्वम्बुकुशाग्राणि 254 त्विदं तेऽर्घ्यं पठन् क्रमात् ॥ ३५२ ॥

प्रपितामहपर्यन्तामेवं कृत्वार्घ्यकल्पनाम् ।
कामोऽन्यस्मिन् 255 श्राद्धदाने ह्येवमन्येष्वपि द्विज ॥ ३५३ ॥

पूर्ववन्नामगोत्रे 256 तु ह्यर्घ्यमापाद्य पात्रगम् ।
पृथक् पृथग्वा पात्राणामासीनद्विजसङ्ख्यया ॥ ३५४ ॥

प्रकल्पितमथ स्वं स्वं नीत्वा सार्ध्यं तु भोजनम् ।
प्रपितामहनिष्ठानां पाणौ दद्यात् कुशान्वितम् ॥ ३५५ ॥

सावशेषं तथाऽन्येषां हस्तेऽर्घ्यं प्रतिपाद्य च ।
कुर्यात् सार्घ्योदकानां च सुमर्यादासु 257 चान्तरे ॥ ३५६ ॥

संस्थानं सर्वपात्रस्य दत्ते सार्घ्योदके सति ।
विप्रपाणिघृतेनाथ तेन चार्घ्योदकेन तु ॥ ३५७ ॥

विसृज्य नयने स्वे वै पात्रेऽन्यस्मिंस्ततो द्विज ।
क्रमादाहृत्य तत्तोयं प्रयायादग्निसन्निधिम् ॥ ३५८ ॥

प्। १२८)

विश्वास-प्रस्तुतिः

ततस्तदग्रे तत्पात्रं तिलाम्बुपरिपूरितम् ।
कृत्वा तस्मिन् धिया ध्यायेद्विष्टरं परमेश्वरम् ॥ ३५९ ॥

संविभज्य पितृव्यूहं तत्रोङ्कारेण भावयेत् ।
विमलाम्बरसंस्थं तु यथा नक्सत्रसञ्चयम् ॥ ३६० ॥

तथा कमलसम्भूत तस्मिन् पात्रान्तरे स्थिते 258
अपावन्यच्युताकाशे 259 ह्लादवृत्तौ विभावयेत् ॥ ३६१ ॥

अन्तस्सर्वेश्वरं देवं स्पन्दमानं स्वतेजसा ।
ततोऽर्घ्यैः कुसुमैर्गन्धैः कृत्वा तेषां पुरार्चनम् ॥ ३६२ ॥

मधुलिप्ते कुशाकाण्डे तत्र द्वे सलिले न्यसेत् ।
स्थगयित्वा परेणैव पात्रेण च कजेन तु ॥ ३६३ ॥

द्यावापृथिव्यौ ते पात्रे बोद्धव्ये 260 दिव्ज पूरिते ।
निधाय चार्चयित्वा तु स्वोत्तरोत्तरमूलतः ॥ ३६४ ॥

तासु सूक्ष्मपितृव्यक्तिं प्रोच्चरेत् प्रणवं स्मरेत् ।
सामान्यचित्स्वरूपं तु तारशब्दैकतां गतम् ॥ ३६५ ॥

स्ववृत्तिमार्गेणायातां रुद्धां कुर्यात् कुशासने ।
तत्रोदितक्रमेणैव प्रभावेन विभावयेत् ॥ ३६६ ॥

क्वचिच्छब्दैकवृत्तौ 261 तु पूर्वलक्षणलक्षिताम् ।
पङ्तीभूतां स्थितिं पैत्रीमनुमूर्ति प्रकाशिताम् ॥ ३६७ ॥

तिलोदकेन सम्पूर्य अर्घ्यपात्रात् कराञ्जलिम् ।
धारां 262 सन्तानवद्दद्यात् क्रमात्तद्वै पठन् द्विज ॥ ३६८ ॥

नाम प्रणवनिष्ठं तु एतत्ते पाद्यमस्त्विति 263
ततोऽन्यपात्रमुत्पाद्य प्राग्वदग्नौ समर्पयेत् ॥ ३६९ ॥

रजतालङ्कृतेनैव सपवित्रेण पाणिना ।
व्यापकं चित्स्वरूपं तु धातुसप्तकमूर्तिघृत् ॥ ३७० ॥

ब्रह्मभावनयानन्तं निश्चयीकृत्य चेतसा ।
जीवनामिदमाधारमिदमाप्यायनं 264 परम् ॥ ३७१ ॥

सम्भवं च लयस्थानं परमानन्दलक्षणम् ।
अतस्तमादौ पात्रस्थमर्घ्यपुष्पानुलेपनैः ॥ ३७२ ॥

प्रणवेनार्चनीयं च तेनैवापाद्य वै ततः ।
पठंस्तमेव मनसा वर्तयेद्गोलकाकृतिम् ॥ ३७३ ॥

सर्वंशक्त्यात्मकं यस्मात् सन्ति सर्वत्रताङ्खिलाम् ? ।
गृह्णन्ति नियता मूर्तिं कर्मणां प्रतिपत्तये ॥ ३७४ ॥

सनाभीयाननुग्राह्यानधिकृत्याखिलान् पितॄन् ।
यथाऽर्घ्यपूर्वैर्मन्त्रेशमिष्टं भोगैस्सुपुष्कलैः ॥ ३७५ ॥

तथाऽन्नमूर्तिमापन्नांस्तानपि क्रमशो यजेत् ।
अलकाद्यं हि वै भाण्डं पूरितं गालिताम्भसा ॥ ३७६ ॥

मधुदर्भतिलोपेतं कृत्वाऽन्नं तत्र वै स्मरेत् ।
मन्त्रेशं चन्द्रबिम्बस्थममूर्तममितद्युतिम् ॥ ३७७ ॥

बहिस्स्वस्मिन्नुल्लसन्तं ध्यायेत्तेनाम्भसा सह ।
कुम्भादुत्कीर्यमाणेन निर्मलं शीतशीकरम् ॥ ३७८ ॥

आदायाथ कराभ्यां तु प्राक्तिलं मधुसम्प्लुतम् ।
आपूर्यापूर्य चैकस्य श्रद्धया परया द्विज ॥ ३७९ ॥

तिलान् * * * स्तेन 265 भावनासहितेन च ।
पितॄणां क्रमशो दद्यात् तृप्तयेम्भस्तु मन्त्रितान् ॥ ३८० ॥

अथ प्राङ्मुखपूर्वाणां द्विजेन्द्राणां समाचरेत् ।
पूर्ववत् सविशेषं हि स्वश्राद्धे श्रद्धयान्वितम् ॥ ३८१ ॥

सर्वाङ्गिकं 266 क्रमाद्विप्र आपादान्मस्तकावधि ।
अर्घ्याम्बुमिश्रितैः पुष्पैश्चन्दनाद्यैर्विलेपनैः ॥ ३८२ ॥

प्। १२९)

विश्वास-प्रस्तुतिः

ततस्स (स्तु) पक्षव्यजनैस्तेषामुद्बोध्य मारुतम् ।
निवेद्य विविधान् पश्चाद्वस्त्रान् धूपाधिवसितान् ॥ ३८३ ॥

तताऽलङ्कृत्य वै शक्त्या कङ्कणाद्यैर्विभूषितैः ।
उपवीतान् सोत्तरीयान् दद्यात्तेषामनन्तरम् ॥ ३८४ ॥

शिरोमाल्यानि शुभ्राणि ततः कण्ठस्रजानि च ।
दिव्यगन्धं 267 ततः क्षोदं मूर्ध्नि कर्पूरमिश्रितम् ॥ ३८५ ॥

ततो निवेद्य वै तेषां नयनाञ्जनमुत्तमम् ।
दर्शयेद्दर्पणं पश्चात् पुरतः कुसुमान् क्षिपेत् ॥ ३८६ ॥

सुगन्धधूपपूतेन ततस्तान् धूपयेत् क्रमात् ।
सुप्रकाशेन दीपेन पूजनीया महामते ॥ ३८७ ॥

उपानहौ * * * * तेषां 268 छत्त्राणि विविधानि च ।
पादुकाः 269 पादपीठानि आसनानि च तानि च ॥ ३८८ ॥

शयनानि विचित्राणि शिबिकाश्वादि चैव हि ।
कल्पनीयानि सर्वेषां 270 कृत्वा तद्रजतादि च ॥ ३८९ ॥

तन्मूलमथवा शक्त्या सर्वेषां विनिवेद्य (श्य) च ।
समवायश्च 271 साधारस्चेतसः परितुष्टये ॥ ३९० ॥

पुनरर्घ्योदकं पाणौ दत्त्वा मन्त्रं समुच्चरन् ।
कुर्यात् सम्पूजनं तेषां भगवद्यागवत् क्रमात् ॥ ३९१ ॥

मधुपर्केण चान्नेन श्रद्धया विविधेन च ।
भक्षैस्सफलमूलैस्तु पावनैः पानकैस्ततः ॥ ३९२ ॥

रसालाभिस्सुगन्धाभिः शृतेन पयसा सह ।
भक्षितश्चाग्रतस्सर्वमल्पकेषु पुटेषु वा ॥ ३९३ ॥

प्रीतयेऽखिलविप्राणां समं कृत्वा निवेद्य च ।
प्राग्वदर्घ्योदकं पाणौ दद्यात् सम्प्राशनाय च ॥ ३९४ ॥

संस्मरन् मनसा मन्त्रं प्रतिपद्य द्विजाम्भसा ।
जपन् ध्यायंस्तथाऽस्त्रं च आस्तेऽग्रे नान्यमानसः ॥ ३९५ ॥

कलां वै तुष्टये तेषां सुखबोधमहाफलम् ।
तपाधिकं ? 272 धर्मशास्त्रं मोक्षशास्त्र मथोत्तमम् 273 ॥ ३९६ ॥

उद्धोषयन् 274 गुणांस्त (द्य) * * * यस्योपयुज्यते ।
निवेदनीयं तत्तस्य अथ तृप्ते द्विजे * * * * ॥ ३९७ ॥

पूर्ववच्चानुसन्धाने सम्पन्ने सति सर्वदा ।
कुर्यादुदकदानं तु भूयस्सन्तर्पयेद् द्विज ॥ ३९८ ॥

पिण्डदानावशिष्टेन अन्नेन सह वारिणा ।
मधुपर्कतिलक्षीरैराज्यसव्यञ्जनेन च ॥ ३९९ ॥

कराञ्जलिं च सम्पूर्य क्षिपेत् पिण्डं ततो बहिः ।
द्विजानामग्रतश्चाप्रि सह चोदकधारया ॥ ४०० ॥

क्षिपेदुत्तरदिग्भागान्निनयेदन्तकास्पदम् 275
पवित्रकं परित्यागं कृत्वाऽथ प्रतिशाटकम् ॥ ४०१ ॥

तद्वासः परिवर्त्याथ ऊर्ध्वं वा संस्मरन् हृदि ।
स्वमन्त्रेणाचमेत् पश्चाद् हृन्मन्त्रेणामलात्मना ॥ ४०२ ॥

सम्पन्नमस्तु भोस्सर्वं चोदयेदासनस्थितान् ।
द्विजान् संयतचित्तांस्तु 276 दद्यात् पूर्णाहुतिं ततः ॥ ४०३ ॥

अथ पूर्ववदब्दानामाचर्तव्यं 277 यथाक्रमम् ।
प्राङ्मुखाभ्यां 278 विना सर्वैराचर्तव्यमततः स्थितैः ॥ ४०४ ॥

पद्यता(?)भ्यां तदन्तेऽथ सर्वमुद्धृत्य चोदनम् ।
पात्रे सफलमूलं च मध्वाज्यतिलभावितम् ॥ ४०५ ॥

प्। १३०)

विश्वास-प्रस्तुतिः

द्विजनां चोदनं कुर्याद् भुक्तशेषस्य साम्प्रतम् ।
उच्यतां विनियोगं भोः प्रब्रूयुस्ते ह्यनाकुलाः ॥ ४०६ ॥

उद्धृतं त्वस्मदीयं वै भाण्डस्थं विभवेच्छया ।
अथ पैतामहीयं यत् पूजितं चान्नगोलकम् ॥ ४०७ ॥

तस्मिन् किङ्गेहमानीय 279 पृथक्कृत्य 280 स्फुलिङ्गवत् ।
स्वदेहाद्द्रेचकेनैव त्वनुसन्धाय वै ततः ॥ ४०८ ॥

ध्यात्वाऽमृतपुटान्तस्थममृतांशुसमं हृदा ।
कृत्वा द्विषट्कजप्तं तु प्रणताया द्विजेच्छया ॥ ४०९ ॥

प्रतिपाद्य स्वजायायाश्शेषं ब्राह्मणकाम्यया ।
विनियुज्योपसंहृत्य 281 गोष्वापस्वा ? द्विजानले ॥ ४१० ॥

अंषट् ? 282 भोजनपात्राणां कृत्वा प्राग्ज्वलनं ततः ।
तत्र वा भगवत्यग्रे सतिलं चोदकालकम् 283 ॥ ४११ ॥

सहिरण्यं क्रमाद्दद्यात् पितृभ्यः प्रीणनाय च ।
रक्षयेच्च सृगालेभ्यस्साम्प्रतं कमलोद्भव ॥ ४१२ ॥

पितृकर्मणि मात्रेऽस्मिन् 284 सम्यक् स्थानक्रियात्मके 285
क्रियान्नैः 286 प्रापणी पैण्डी निर्वर्त्या भोजनादनु ॥ ४१३ ॥

नाक्षय्यां 287 वाचयेत् प्रीतिमुद्दिष्टेऽप्युदकक्रियाम् ।
न पूर्णाहुतिदानं च न चोदक् परिवर्तनम् 288 ॥ ४१४ ॥

पैत्र्यं पात्रमथोद्घाट्य स्वमन्त्रं हृत्कुशेशयात् ।
विरेच्य 289 देवायान्नेन कल्पान्तार्कानलद्युति ॥ ४१५ ॥

तत्पात्रं 290 गगनोद्देशे तद्दूरे (च) द्विषडङ्गुलात् ।
द्वादशान्तं हि तत्पित्र्यं पात्रादैक्यं यथाक्रमम् ॥ ४१६ ॥

सम्पश्येत्तांश्च 291 मन्त्रेशान् ध्यायेद् ध्यानधिया पितॄन् ।
पातं 292 हि साबलं तद्वन्निशि दीप्तानलाचलं ॥ ४१७ ॥

एवमेकत्वमापन्ना ? मन्त्रेण 293 तेन ते (ताः) ।
शशाङ्कशतसङ्काशमथ मन्त्रेश्वरं हरिम् ॥ ४१८ ॥

निरस्तावयवं ध्याना? शक्तयस्ततत्र वैष्टराः ।
पितृव्यूहवदालीनं कृत्वा तदनु मन्त्रराट् ॥ ४१९ ॥

आत्मसात् 294 पितृमार्गेण तत्र तेनोदकेन 295 च ।
विसृज्य नयने भूयस्सपत्नीको दृशाऽब्जज ॥ ४२० ॥

जलायैव च निक्षिप्य प्राग्दत्तं सह वारिणा ।
क्षान्तानलगतं देवं समासाद्यार्चनालयम् ॥ ४२१ ॥

मन्त्रेशमर्चयित्वा च पूर्ववत् प्रीणयेद् द्विज ।
ततस्तदुपसंहार कृत्वा भोजनमाचरेत् ॥ ४२२ ॥

बान्धवैस्सह मन्त्रेशं ध्यायन् हृत्पुष्करोदरे ।
यतवागमृतप्रख्यैर्ग्रासैस्तदनु पौष्कर ॥ ४२३ ॥

निरुच्छिष्टे तु भूभागे कृते सङ्क्षालने ततः ।
सोदनं व्यञ्जनीयं यद्दुःखा * * * * * * * * 296 ॥ ४२४ ॥

तमाहृत्यापरस्मिन् वै पात्रे दर्भतिलान्विते ।
क्षिपेद्दीपद्वितीयं 297 तद्बहिर्वै दक्षिणेन च ॥ ४२५ ॥

स्मरन्मन्त्रं शुचौ देशे दत्वा दर्भास्तरं ततः ।
नयेद्धर्मकथाभिस्तु योग्य * * * * निशाम् 298 ॥ ४२६ ॥

प्। १३१)

विश्वास-प्रस्तुतिः

इत्येवं विधिना श्राद्धं पितॄणां विहितं द्विज ।
संसारदुःखशमनमचिरादपवर्गदम् ॥ ४२७ ॥

कृतमेकप्रकारं च श्रद्धया चोभयात्मकम् ।
दत्त्वा ज्ञानक्रियानत ? 299 याचोपयुज्यते ॥ ४२८ ॥

लोकधर्मस्थिता सा सम्पूरणे याति 300 वासनाम् ।
तस्माच्चित्तप्रसादं 301 वै जायते येन कर्मणा ॥ ४२९ ॥

आचर्तव्यं प्रयत्नेन मन्त्रज्ञैर्वितताप्तये ।
अथ * * * * मनसंस्कारं 302 सम्पन्नानां समाचरेत् ॥ ४३० ॥

और्ध्वदेहिकसञ्ज्ञं तु व्यापारं समनन्तरम् ।
पूर्वोक्तफलसिद्ध्यर्थं तन्मे निगदतश्शृणु ॥ ४३१ ॥

तच्चापि द्विगुणं विद्धि 303 द्विविधं (प्रथमम्) कमलोद्भव ।
सा दीक्षितानां 304 सर्वेषां मुक्तानाममृतादिकैः 305 ॥ ४३२ ॥

व्यक्तादिवृत्तिस्थानेषु हितं नित्यं तमेव हि ।
प्राग्वदाराधिते मन्त्रे श्रद्धया सम्प्रदत्तवत् 306 ॥ ४३३ ॥

आतृप्तेः भगवत्प्रीतिपर्यन्तममलेक्षण ।
द्वितीयममलाग्रे तु मन्त्रेशे सन्निधीकृते ॥ ४३४ ॥

ओदनेनात्मकेनैव भोजनं क्रिययोज्झितम् ।
आहृष्टेरल्पसत्त्वानां सर्वेषां सर्वदा हितम् ॥ ४३५ ॥

ज्वलदव्यक्तबीजान्तं निविष्टं 307 वर्तते ततः ।
सौम्यवृत्तिससूक्ष्मश्च 308 प्राणशक्तिपरश्चसन् 309 ॥ ४३६ ॥

तद्दशांशं हि वै कालं बाह्यं च दिनलक्षणम् ।
समाश्रित्य क्रमेणैव कर्ता 310 तदनुकल्पवान् ॥ ४३७ ॥

तत्प्राणांशानुविद्धा 311 * * * * व्यक्तमिन्द्रियलक्षणम् ।
आपादयति चाव्यक्तादन्नमूर्तिच्छलेन तु ॥ ४३८ ॥

श्रोत्रेन्द्रियादिकाश्चैव उपस्थेन्द्रियपश्चिमाः ।
यमाश्रित्य लभेताशु 312 समतीते दशाहिके ॥ ४३९ ॥

एकादशेऽह्नि विप्रेन्द्र अस्मिन् शक्तित्वमेव हि ।
त्रयस्त्रिंशाहिकेनैव 313 ब्रह्मन् व्यक्ततरेण तु ॥ ४४० ॥

विनाडि 314 सत्यपूर्वेण तत्प्राणांशेन वै पुनः ।
द्विसट्कलक्षणेनैव शेषं तत्वगणं 315 द्विज ॥ ४४१ ॥

बुद्धितत्वान्धकारं तु व्यञ्जनीयं यथाक्रमम् ।
प्राक् संवत्सरे बुद्धिं द्वितीयेन ततो द्विज ॥ ४४२ ॥

ततस्त्वाशब्दतन्मात्रात् 316 पञ्चभिः पञ्चकं तु वै ।
तन्मात्राणां व्यञ्जनीयमाकाशाद्यमतः परम् ॥ ४४३ ॥

मासानां पञ्चकेनैव क्ष्मान्तं वै भूतपञ्चकम् 317
ततस्सचेले सम्पन्ने (स्ना) स्थाने भुक्तोज्झितं 318 तथा ॥ ४४४ ॥

दन्तकाष्ठे हृदा पीते 319 पञ्चगव्येन ते पुनः ।
मन्त्रे तु विधिवत् स्थाने प्रावृते चाम्बरे तथा ॥ ४४५ ॥

समाचम्य हृदा न्यस्य मूलं पाणितले ततः ।
आमूर्धयाथ ? 320 तेनैव सकलीकृत्य विग्रहम् ॥ ४४६ ॥

प्। १३२)

विश्वास-प्रस्तुतिः

सङ्क्षेपेण निरङ्गेण ततो हृन्मन्त्रमन्त्रिताः ।
सगोत्रविहितं विप्र 321 प्रेतानुग्रहकाम्यया ॥ ४४७ ॥

तोयाञ्जलित्रयं दद्यात् तन्नाम्ना सतिलं द्विज ।
दर्भा राजतसम्मिश्रममुना तस्य वै ततः ॥ ४४८ ॥

शुद्धये शुभशान्त्यर्थं जपेदष्टाधिकं 322 शतम् ।
स्वमन्त्रादस्त्रमन्त्रं 323 वा सामान्यं द्वादशाक्षरम् ॥ ४४९ ॥

नवात्मबीजसङ्घातमेकं वा भावनावशात् ।
प्रवर्तेताथ 324 विधिवत् पूर्वोद्दिष्टे तु कर्मणि ॥ ४५० ॥

तीर्थोद्देशे नदीतरे गृहे वाऽयतने शुभे ।
अतीव श्रेयसं द्वाभ्यां प्रेतश्राद्धं यतेत् द्विज ॥ ४५१ ॥

विघ्नव्यूहतमोरूपं समासाद्या ? स्फूरादिकम् ।
व्यवसायविघातं च न्यूनं कुर्याच्च कर्मणाम् ॥ ४५२ ॥

तस्मात् संरक्षणीयं 325 च ब्रह्ममन्त्रबलेन तु ।
भास्वरेण तमोरूप 326 मामूलाद्वै 327 स्वकं बलम् ॥ ४५३ ॥

तिलदर्भादिकं सर्वं मन्त्रेणाराध्य वै पुरा ।
एतन्निरस्यान्यः ? कार्या प्राङ्मुखश्चोत्थितस्ततः 328 ॥ ४५४ ॥

साम्प्रतं सर्वसामान्यं कुर्यात् स्थानपरिग्रहम् ।
ब्रह्मभावनया मूलमन्त्रं सर्वगतं 329 स्मरेत् ॥ ४५५ ॥

वसुधागगनाभ्यां 330 तु अष्टदिक्ष्वन्तरे स्मरेत् ।
प्रभाकरवदाभासा 331 मूर्तिर्हृन्मन्त्रमब्जज ॥ ४५६ ॥

ध्यायेद्गगन मात्रान्तमखिलं 332 शिरसा ततः ।
स्तम्भभूतं 333 शिवं मध्ये मध्ये संसारमार्गवत् ॥ ४५७ ॥

ब्रह्मनाडीस्वरूपं तु ध्यातव्यममलं महत् ।
कल्पनालक्षणे 334 बाह्ये वर्त्म सद्वस्तु विन्यसेत् ॥ ४५८ ॥

संशान्तकर्मब्रह्मभ्यामन्योन्यस्य 335 तु वेदने (नम्) ।
गवाक्षवत् 336 स्मरेत्तत्र द्वारभूतं तु लोचनम् ॥ ४५९ ॥

भ्रमद्वह्निस्फुलिङ्गो (र्मि) सहस्रमपराजितम् 337
राजहंसपदं 338 तच्च ततो ध्यायेत् सुविघ्नहम् ॥ ४६० ॥

एवमायतनं मन्त्रमूर्तिमन्त्रं 339 मयोदितम् ।
आधारासनपूर्वाणां मन्त्राणां सर्वकर्मणाम् ॥ ४६१ ॥

हंसोपरमनिष्ठानां सिद्धये भावितात्मनाम् ।
न तत्रान्तं स्थितिं ? 340 कुर्यान्मन्त्रन्यासं यहाविधि ॥ ४६२ ॥

उपविश्यासने दार्भे प्रणवव्याप्तिभाविते ।
मूलमन्त्रेण निष्पाद्य प्राणायामं त्रिलक्षणम् ॥ ४६३ ॥

धारणाद्वितयेनाथ देहसंस्कारमाचरेत् ।
मन्त्रन्यासं ततः कुर्यात् पूर्ववत् करदेहयोः ॥ ४६४ ॥

अर्घ्यं पाद्यं समासाद्य प्रोक्षयेच्च तदम्भसा ।
सर्वमन्त्रेण सन्ताड्य दर्भकाण्डगतेन च ॥ ४६५ ॥

निरीक्ष्य प्रोच्चरंस्तत्र 341 दग्धं तत्तेजसा समरेत् ।
मूलेन 342 रविभाकान्तिमापन्नमथ भावयेत् ॥ ४६६ ॥

प्। १३३)

विश्वास-प्रस्तुतिः

सानलां सेन्धनां चुल्लीं प्रोक्षयेदस्त्रवारिणा ।
ज्वालयेन्नेत्रमन्त्रेण ततश्चोद्बोध्य वर्मणा ॥ ४६७ ॥

प्रक्षाल्यास्त्राम्भसा स्थालीं ताडयेत् तदनन्तरम् ।
कृत्वाऽम्बुदर्भमूलेन 343 स्थगयेदथ वर्मणा ॥ ४६८ ॥

तण्डुलानस्त्रमन्त्रेण क्षालयित्वा पुनः पुनः ।
मध्वाज्यतिलगोक्षीरयुक्तं मूलेन निक्षिपेत् ॥ ४६९ ॥

दर्व्याऽस्त्रमन्त्रन्यस्ताया श्रपयेद् हृदयेन तु ।
सिद्धमुत्तारयेत् पश्चान्मूलमन्त्रेण मन्त्रवित् ॥ ४७० ॥

प्रक्षाल्यालिप्य नेत्रेण शिखामन्त्रेण वै ततः ।
दिक्षूर्ध्वपुण्ड्रीकृत्य प्राक् कवचेनावकुण्ठ्य च ॥ ४७१ ॥

प्रणवाधिष्ठिते कुर्यात् संस्थितं च कुशास्तरे ।
सूपलिप्ते तु भूभागे तिलाक्षतसमन्विते ॥ ४७२ ॥

पिधाय चास्त्रमन्त्रेण त्वेवं निष्पाद्य वै चरुम् ।
तं सुसाधनकाले 344 तु ब्रह्मास्तरणकर्मणाम् ॥ ४७३ ॥

हृन्मन्त्रं सम्प्रयोक्तव्यं मन्त्रमार्गे जपन् धिया ।
प्रेतकार्यं ततः कुर्यात् ? 345 * * * * वा तेन लौकिकम् ॥ ४७४ ॥

तत्र दिव्ये पुरा मन्त्रं पूर्ववत् सम्प्रपूज्य च ।
विधिवत् प्रेतमुद्दिश्य भोगैः पूर्वोक्तलक्षणैः ॥ ४७५ ॥

पुरुषाशनमात्रेण पात्रसा (त् ?) चक्रजं हि यत् ।
सर्वान्नेन 346 समापूर्य अभ्यक्ताद्येन वै हृदा ॥ ४७६ ॥

दृशाऽग्निना 347 तु संस्पृश्य कृत्वा सव्यञ्जनं तु वै ।
विनिवेद्य विभोः प्रोक्तं तदनुग्रहकाम्यया ॥ ४७७ ॥

खशब्दमूर्तिं सुव्यक्तामोङ्कारेणाथवाम्बरात् ।
प्रेतं स्वनाम्ना (चाकृष्य) कृत्वा 348 हृद्व्योम्नि तन्तु ? तत् ॥ ४७८ ॥

ईषन्निर्वाणशेषाग्निकणभूतं विचिन्त्य च ।
किञ्चित्प्राणकलायुक्तं कर्माणि च वशीकृतम् ॥ ४७९ ॥

विशेषसत्तामात्रं च शनैश्चानलवर्त्मना ।
बहिर्नि (र्नै) वेद्य स्वस्थाने मन्त्रदृक् विषये स्थिते ॥ ४८० ॥

भावयेत् 349 प्रणवेनाथ तत्वशक्तिगणान्वितम् ।
अन्नवीर्याश्रितं 350 ब्रह्मन् प्राणाख्यमविनश्वरम् ॥ ४८१ ॥

ततस्तदूष्ममार्गेण 351 हृन्मन्त्रेण तु संस्मरन् ।
प्रेतं श्रोत्रेन्द्रियच्छन्नप्राणवत्वाद्विनिर्गतम् ॥ ४८२ ॥

ईषद्भावस्वरूपं तु विद्धि ज्ञानानुरञ्जितम् ।
प्रेतेन सह चैकत्वं समापन्नं च तत्त्वतः ॥ ४८३ ॥

चिन्तयेत्तेन तं विप्र किञ्चिद् 352 हृदिगतं क्रमात् ।
एवं 353 श्रोत्रेन्द्रियैर्व्यक्तप्राणैकैकत्वमागतैः ? ॥ ४८४ ॥

साम्प्रतं कमलोद्भूत समूलमखिलं हितम् ।
लीनमन्नोत्थिते प्राणे स्मर्तव्यं वै यथानिलम् ॥ ४८५ ॥

निघातवदमूर्तं तु प्राणशक्त्या 354 द्विजेरितम् ।
तदिन्द्रियमवध्यायेद् 355 हृदा हृन्मन्त्रतां गतम् ॥ ४८६ ॥

आसीनामासने त्वां ते ? पूर्ववद्व्याप्तिभाविते ।
यजेन्मन्त्रेशवत् पश्चात् शश्वदर्घ्यादिभिश्शुभैः ॥ ४८७ ॥

पुष्पानुलेपनैर्धूपैर्मात्रान्तैः कमलोद्भव ।
दद्यात्तिलोदकं पश्चान्नाम्ना गोत्रेण वै हृदा ॥ ४८८ ॥

प्। १३४)

विश्वास-प्रस्तुतिः

अथानलाश्रयान्तस्थं हृन्मूर्तिं तु तमिन्द्रियम् ।
तर्पयित्वा यथान्यायं पूर्वोक्तेन क्रमेण तु ॥ ४८९ ॥

समाहूय 356 ततः पात्रं पूर्वोक्तं भगवन्मयम् ।
निवेश्य भगवत्यग्रे त्वासने पूर्ववत्स्मृते ॥ ४९० ॥

न्यस्तमन्त्रं हृदा कृत्वा त्वर्घ्याद्यैरर्चयेत्ततः ।
यायादाराधनोद्देशमुपविश्य 357 यथासुखम् ॥ ४९१ ॥

हृदा तमिन्द्रिये ध्यायेत् स्वशक्त्या मूर्ततां 358 गतम् ।
रसात्मनान्नशक्तौ तु * * * * विभागेन 359 च स्थितम् ॥ ४९२ ॥

ध्यातव्यं 360 पूर्ववत् प्रेतं स्मर्तव्यं प्रणवेन तु ।
अन्नाधिष्ठातृभावेन नीत्वा च प्रतिपद्य च ॥ ४९३ ॥

द्विजेन्द्रस्य च मन्त्रान्तं सह चार्घ्योदकेन तु ।
अथ 361 तत्प्राणशक्तौ तु हृदा वैकात्मतां गतम् ॥ ४९४ ॥

नैवेद्यं ग ? नरन्तस्तं ? प्रेतं कमलसम्भव ।
ततस्तद् हृदयाकाशं प्राणेन सह वै क्रमात् ॥ ४९५ ॥

व्यक्तये श्रोत्रवृत्तौ तु प्रयातमनुभावयेत् ।
एवं लब्धात्मकं कृत्वा प्रेतं प्राग्विप्रविग्रहें ॥ ४९६ ॥

दद्यात्तदोदकं पाणौ पूर्ववत्प्राशनाय च ।
सम्प्रवृत्तस्य वै 362 तस्य भोजने संशयस्य च ॥ ४९७ ॥

ध्यायन् धियाग्रतस्तिष्ठेदन्नवीर्याद्बलेन तु ।
हृदा श्रोत्रेन्द्रियात्तस्य तथार्थत्वमुपागतम् 363 ॥ ४९८ ॥

निष्पन्नभोजनस्यैव 364 द्विजेन्द्रस्य द्विजोत्तम ।
स्वदेहात्प्रणवं शब्दं 365 * * * रेच्य दक्षिणवर्त्मना ॥ ४९९ ॥

विप्रहृत्कमलाकाशे प्रेतमाकृष्य तेन वै ।
यथा मृतेन 366 स्वहृदा श्रोत्रे सत्तासमन्वितम् ॥ ५०० ॥

अपनीते त्वथो च्छिष्टे 367 प्रीणनं पूर्ववद्विभोः ।
विहितं विप्रशार्दूल कर्ताथ कृतभोजनः ॥ ५०१ ॥

अस्त्रं विघ्नादिशान्त्यर्थं जपेदष्टाधिकं शतम् ।
साङ्गमाराधनस्थानं कुर्यान्मन्त्रेशमा (त्म) वान् ॥ ५०२ ॥

संहृत्य सार्घ्यपुष्पाद्यं स्वरान्तमखिलं हि यत् ।
जलाशये विनिक्षिप्य कुर्यात्स्वाय * * * * ॥ ५०३ ॥

ततो मन्त्रसमाधानं स जपं तु निशागमे ।
एवं 368 चक्षू ? रसानां च घ्राणसञ्ज्ञं चतुष्टयम् ॥ ५०४ ॥

चतुष्केण दिनानां तु व्यञ्जनीयं महामते ।
पञ्चकं त्वथ वागाद्यं क्रमेणशिरसा 369 ततः ॥ ५०५ ॥

प्रेतश्रेयाप्तये कुर्यात् 370 लब्धसत्त ? द्विजोत्तम ।
एकादशेऽथ 371 दिवसे सम्प्राप्ते साधयेच्चरुम् ॥ ५०६ ॥

सभक्ष्यव्यञ्जनोपेतं 372 श्रद्धया च सुसंयुतम् ।
प्रक्षालिताङ्घ्रिं स्वाचान्तं ताडितं चावलोकितम् 373 ॥ ५०७ ॥

अच्छाम्बुपूतप्रणतं 374 भगवत्तत्त्वभावितम् ।
निवेश्यासनवारे 375 च पूजितेव्याप्तिभाविते ॥ ५०८ ॥

प्। १३५)

विश्वास-प्रस्तुतिः

समालभ्य ततो भक्त्या चन्दनाद्यैर्विलेपनैः ।
सद्वस्त्रवेष्टितं कृत्वा यथाशक्त्या विभूषयेत् ॥ ५०९ ॥

हेमकङ्कणपूर्वैस्तु सरत्नैर्भूषणोत्तमैः ।
माल्यैर्यज्ञोपवीताद्यैश्शिरोवस्त्रैस्सपावनैः 376 ॥ ५१० ॥

भक्ष्यव्यञ्जनहस्तं तत् कृत्वा मन्त्रेशमर्चयेत् ।
श्रद्धया परया विप्रप्रेतानुग्रहकाम्यया 377 ॥ ५११ ॥

उभे हस्ते 378 ततो मूलमङ्गुलीषु हृदादयः ।
नेत्रं सर्वनखाग्राणां देहे त्वामस्तकात्ततः ॥ ५१२ ॥

न्यस्त्वा पादावसाने च स्वस्थानेषु हृदादयः ।
ध्यात्वा मन्त्रस्वरूपं च तदा तदभिमानयुक् 379 ॥ ५१४ ॥

पितृसञ्ज्ञासमेतेन नतिना प्रणवेन च ।
पूजयित्वार्घ्यपुष्पाद्यैस्सविशेषैस्तु पूर्ववत् ॥ ५१५ ॥

प्रतिपाद्याखिलं 380 तस्य मृ(प्रे) तोपकरणं हि यत् ।
गोभूहेमावसानं च तोषमेति च येन तत् ॥ ५१६ ॥

जायते निर्-ऋणं प्रेतं सम्य * * * परं 381 पदम् ।
यथावद्भोजनेनाथतर्पणीयं 382 च पूर्ववत् ॥ ५१७ ॥

व्यापारं 356 हृदयं प्राग्वन्मूलमन्त्रेण भावयेत् ।
किन्त्विन्द्रियगणान्तस्थं 383 समाया ? लक्षणं हि तत् ॥ ५१८ ॥

प्रणवं 384 मूलमन्त्रेण प्रेतं सर्वत्र संस्मरेत् ।
एवं प्राप्तास्मितं 385 सम्यग्युक्तमिन्द्रियशक्तिभिः ॥ ५१९ ॥

बुद्धिपूर्वैर्ध रान्तैस्तु 386 कृत्वैतमनुरञ्जयेत् ।
बुध्यार्थमाचरेत्तत्र 387 शिखामन्त्रेण चालिखेत् ॥ ५२० ॥

व्यक्तये मनसश्चैव कवचं विहितं द्विज ।
तन्मात्राणां 388 व्यक्तयेऽथ पञ्चानामथ वै क्रमात् ॥ ५२१ ॥

भूतानामस्त्रमन्त्रं तु वादितां ? सन्ततं हि तम् ।
मासद्वादशकेनैव दशैकादशकेन तु ॥ ५२२ ॥

प्रेतमापाद्य वै पिण्डं प्राप्ते मासे त्रयोदशे ।
योजना पितृमार्गे तु कार्यास्य भगवन्मये ॥ ५२३ ॥

यथा तथाब्जसम्भूतं शृणु मे गदतः स्फुटम् ।
स्नानं पूर्वे समाख्यातं पश्चात्तदनु साधयेत् ॥ ५२४ ॥

श्राद्धार्थं श्रद्धयानं तु प्रभूतं च सुसंस्कृतम् ।
स्वाचान्तानथ 389 धौताङ्घ्रीन् द्विजेन्द्रानुपवेशयेत् ॥ ५२५ ॥

पुत्रकान् समयज्ञान् वा साधकानथ देशिकान् ।
गृहस्थान् ब्रह्मचारीन् वा वनस्थानथवा यतीन् ॥ ५२६ ॥

सम्मुखान् मन्त्रनाथस्य चत्वारो वाप्युदङ्मुखान् ।
एवं पूर्वानने द्वे तु विनिवेश्य द्विजोत्तम ॥ ५२७ ॥

तयोरेकस्य चास्त्रेण सकली करणं 390 हि यत् ।
वर्मणाथ द्वितीयस्य न्यासकर्म विधीयते ॥ ५२८ ॥

उदङ्मुखेभ्यस्त्वाद्यस्य न्यासकर्मणि 391 लोचनम् ।
तस्मादुपरिसंस्थास्य शिरसा विहितं द्विज ॥ ५२९ ॥

हृन्मन्त्रेण द्वितीयस्य मूलमन्त्रेण वै ततः ।
आचर्तव्यं चतुर्थस्य हस्तन्यासादिकं हि यत् ॥ ५३० ॥

प्। १३६)

विश्वास-प्रस्तुतिः

षण्णामथ 392 शिखामन्त्रं खा द्यखातपविन्यसेत् ।
ततोग्निभवनान्तं तु कृत्वा भगवदर्श्चनम् ॥ ५३१ ॥

पूजयेत् सविशेषं तु कृत्वैवं हि यथोदितम् ।
अस्त्रन्यस्तं ततोऽस्त्रेण पूजनीयं द्विजोत्तम ॥ ५३२ ॥

वर्मणा 393 वर्ममूर्तिं च नामगोत्रद्वयं विना ।
ततः स्वनाम्ना गोत्रेण 394 कुर्यादन्येषु चार्चनम् ॥ ५३३ ॥

स्वेन स्वेन तु मन्त्रेण तत्र प्रेतं द्विजं हि यत् ।
नेत्रमन्त्रकृतन्यासं 395 तत्तेनैव समर्चयेत् ॥ ५३४ ॥

तस्योपर्युपविष्टं तु संस्थितं पितृलक्षणम् 396
पूजने विहितं तस्य शिरोमन्त्रं स्वकं द्विज ॥ ५३५ ॥

विप्र हृन्मन्त्रमभ्यर्च्य यत्तद्विधि पितामहम् ।
प्रेतं तस्यार्चनं कुर्यान्नाम्ना गोत्रेण वै हृदा ॥ ५३६ ॥

मूलमन्त्रकृतन्यासं 397 तद्विधि प्रपितामहम् ।
माननीयं हि तेनैव नाम्ना गोत्रेण वै सह ॥ ५३७ ॥

तेषां वै हृद्गतं ? विप्र पूजितानां च साम्प्रतम् ।
प्रेतादिपितृकॢप्तस्य कार्या चान्तस्थयोजना 398 ॥ ५३८ ॥

यथा तत्पद्मसम्भूत मत्तस्समवधारय ।
नैवेद्यनाशं क्रमशः प्राग्वदन्नरसात्मनाम् ॥ ५३९ ॥

स्वयं 399 देवगणं चिन्त्यं समं ध्यायेद्धिया ततः ।
अजहन् स्वाश्रयं भक्त्या पूर्णेन्द्वा ? 400 सकुल्यताम् ॥ ५४० ॥

सामा ? 401 पैत्रेऽन्नमात्रं तु नेत्रमन्त्रं विचिन्त्य च ।
एवमेव शिरोमन्त्रमुपयातं धिया स्मरेत् ॥ ५४१ ॥

सह लोचनशक्त्या तु पात्रे हृन्मन्त्रभाविते ।
द्वे 402 शक्ती नेत्रमूर्ध्वाख्ये समादायाथ हृन्मयीम् ॥ ५४२ ॥

शक्तिं वै मूलमन्त्रीयैर्नैवेद्यान्तर्गतां स्मरेत् ।
मन्त्रशक्तिच्छलेनैव सान्नेन प्रणवात्मना ॥ ५४३ ॥

मन्त्रब्रह्मणि चैकत्वं कुर्याद्वा 403 तस्य पौष्कर ।
प्रतिपाद्याथ वै स्मस्मिन् नीत्वा नैवेद्यभाजनम् ॥ ५४४ ॥

द्विजानामुपविष्टानां भक्ष्यभोज्यादिकैस्सह ।
गोक्षीरमात्रपर्यन्ते दद्यात्पाणौ ततोदकम् ? ॥ ५४५ ॥

भोजने सम्प्रवृत्तानां यस्य यच्चोपयुज्यते ।
पृष्ट्वा पृष्ट्वा च दद्याद्वै पितॄणां तृप्तये द्विज ॥ ५४६ ॥

स्वाहान्तानां ततस्तेषां तत्र स्थानं समाचरेत् ।
एकत्वं 404 त्विति शक्तीनां विधिनानेन पौष्कर ॥ ५४७ ॥

तत्त्वशक्तिगुणोपेतं प्रदीप्तमिव भास्करम् ।
साम्प्रतं 405 पूर्ववत्प्रेतं आहृत्य द्विद्विविग्रहात् ॥ ५४८ ॥

रेच्य हृत्कमले मन्त्रतेजसा तेन तत्पुनः 406
कुर्याद्युक्ततरं चैव तस्मादाकृष्य 407 वै हृदि ॥ ५४९ ॥

पैतामहे विरेच्याथ हृत्पद्मोपरि वृद्धये 408
तस्मादुद्धृत्य 409 सन्तृप्तं हृदा कुर्याच्च वै हृदि ॥ ५५० ॥

प्रपितामहहृत्पद्मगोचरौ विनिवेश्य च ।
मन्त्रब्रह्मकलादीप्तं कृत्वा तत्रानयेत् हृदि ॥ ५५१ ॥

प्। १३७)

विश्वास-प्रस्तुतिः

विलाप्य 410 प्रणवेनाथ शान्तभावनयात्मनि ।
एवं 411 कृत्वानुसन्धानं ततः प्रभृति तस्य वै ॥ ५५२ ॥

पितृत्वं वात्सरे 412 श्राद्धे काल * * * विशेषतः ।

विश्वास-प्रस्तुतिः

नान्येषां द्विजशार्दूल पितॄणां श्राद्धकाङ्क्षिणाम् ।
प्रेतत्वसुपशान्ते वैः 413 जन्तोर्जाग्रस्थितस्य च ॥ ५५४ ॥

पितृत्वं 414 लब्ध * * * संस्थितं चोत्तरोत्तरम् ।
एवमुक्तं 415 हि साङ्गेन मन्त्रेण कमलोद्भव ॥ ५५५ ॥

और्ध्वदैहिकसञ्ज्ञं तु विधानं 416 भाविनामथ ।
चतुर्भिश्चातुरात्मीयैर्मन्त्रैस्तद्विनिबोध मे ॥ ५५६ ॥

श्रोत्राद्युपस्थपर्यन्तमिन्द्रियाणां द्विपञ्चकम् ।
आपाद्य वासुदेयाख्यं मन्त्रेण दशभिर्दिनैः ॥ ५५७ ॥

अस्मिन् व्यक्तिमतः कुर्यात् साङ्कर्षणेन पौष्कर ।
बुद्धितत्त्वे तृतीयेन व्यञ्जयेन्मनसा सह ॥ ५५८ ॥

क्ष्मान्तमाकाशतन्मात्रादनिरुद्धेन 417 पौष्कर ।
पूर्ववद्व्यञ्जनीयं च एवं संवत्सरे गते ॥ ५५९ ॥

सपिण्डीकरणं कुर्यादनिरुद्धादितः क्रमात् ।
चतुर्भिर्वासुदेवान्तैर्मन्त्रैर्मन्त्रविदां वर ॥ ५६० ॥

एवमिच्छेन्नवात्मज्ञस्समूर्तिनवकेन यत् ।
संविधानं 418 द्विजश्रेष्ठ बान्धवानां शुभाप्तये ॥ ५६१ ॥

तदिदानीं समासेन एकाग्रमवधारय ।
श्रोत्रादीनामिन्द्रियाणां तृप्तये 419 क्ष्माधरं स्मृतम् ॥ ५६२ ॥

भूगादीनां ? 420 नृसिंहं तु अस्मिन् शक्तौ खगासने ।
व्यक्तये ब्रह्मतत्त्वं तु बुद्धे समनसां ? हितम् ॥ ५६३ ॥

तन्मात्राणां सभूतानां मन्त्राणां 421 धारणात्मकम् ।
एवं तत्त्वकलायुक्तं जपं कृत्वा महामते ॥ ५६४ ॥

पञ्चभिस्तु वराहाद्यैः ततस्संवत्सरे गते ।
चतुर्भिरनिरुद्धाद्यैः पितृभावनमानयेत् ॥ ५६५ ॥

पूर्वोक्तेन विधानेन ज्ञानध्यानान्वितेन च ।
दिव्येनानश्वरेणैव कर्मणानेकसाधनम् 422 ॥ ५६६ ॥

संविधानं द्वितीयं तत्प्रोक्तं संसूचितं मया ।
तन्मे स्फुटतरं कृस्वा गदतश्चावधारय ॥ ५६७ ॥

सर्वं पूर्वोदितं कृत्वा विधानं साधने चरोः ।
प्रज्वाल्य पावकं कुर्यात् प्राग्वत्संस्कारसंस्कृतम् ॥ ५६८ ॥

ध्यात्वा तदन्तर्मन्त्रेशं समिद्भिस्तर्पयेत् 423 क्रमात् ।
तदग्रतो दक्षिणाग्रान् कुशानास्तीर्य पूर्ववत् ॥ ५६९ ॥

सवासमासनं ध्यात्वा तदूर्ध्वे कमलासनम् ।
युक्तमाद्यादिकैः 424 प्राग्वद्विन्यसेदन्नगोलकम् ॥ ५७० ॥

तस्मिन् पूर्वोदितं सर्वमापाद्य तदनन्तरम् ।
प्रेतनाम्ना तदग्रेऽथ सतिलानुदकाञ्जलीन् ॥ ५७१ ॥

दत्त्वाथ चोपसंहृत्य विनिक्षिप्य जलान्तरे ।
कृत्वाथ सह मन्त्रेण आत्मसादसनं ? 425 द्विज ॥ ५७२ ॥

जलेऽखिलं समाहृत्य विनिक्षिप्यानलं विना ।
दशाहमेवं 426 निष्पाद्य प्राग्वदेकादशेऽहनि ॥ ५७३ ॥

प्। १३८)

विश्वास-प्रस्तुतिः

श्राद्धं कुर्याद्विधानज्ञः पिण्डदानपुरस्सरम् ।
संवत्सरेऽथ निष्पन्ने पितृत्वापादनाय च ॥ ५७४ ॥

ध्यानं समन्त्रं 427 पूर्वोक्तं * * * त्वाधिकं भवेत् ।
भास्वज्ज्वलनसङ्काशं समर्थैकत्वमागतम् 428 ॥ ५७५ ॥

तदध्यक्षत्वभूतं 429 यन्मन्त्रमध्यात्मलक्षणम् ।
अधिभूतमथापन्नं पिण्डं 430 निर्गत्य संस्मरेत् ॥ ५७६ ॥

तदूर्ध्वदेशे 431 नभसि व्यापारं सन्निरीक्षयेत् ।
एवमन्नात्पृथङ्नीते विप्रेते ? 432 कमलोद्भव ॥ ५७७ ॥

तन्मन्त्रेण च तत्पिण्डादधिभूतमयादथ ।
समादायान्नमुष्टिं 433 च तत्र तत् खण्डितं च यत् ॥ ५७८ ॥

स्मरेत्परिणतं सम्यक् व्यापकत्वेन साम्प्रतम् ।
अथादिभूतं चाध्यात्ममधिदैवमथाब्जज ॥ ५७९ ॥

तदन्नं पितृपिण्डे 434 तु तदूर्ध्वेऽथ स्थितं नयेत् ।
एवमेकत्वमापन्ने प्रेते 435 चित्प्रतिना सह ॥ ५८० ॥

प्रेतपिण्डव दब्जोत्थ 436 वाचर्तव्यं हि चाखिलम् ।
व्यापारमथ तस्याथ 437 तस्मात्पैतामहे ततः ॥ ५८१ ॥

तस्मात्तदपि * * * * तत्प्राग्वत्परतां 438 नयेत् ।
यथोक्तेऽस्मिन्द्विजश्रेष्ठ प्राजापत्ये तु कर्मणि ॥ ५८२ ॥

आदे 439 कादशाद्यावत्पितृत्वापादने दिनम् ।
तावत्पूर्वोदितं शेसं यत्तत्पूर्वं समाचरेत् ॥ ५८३ ॥

किन्तु भोजनभूमौ तु द्विजप्तैरासनस्थितैः ।
वचनीयं हि चाक्षय्यं तिलमिश्रेण वारिणा ॥ ५८४ ॥

एतावतास्य तात्पर्यं यथावत्सम्प्रकाशितम् ।
और्ध्वदैहिकसञ्ज्ञस्य व्या * * * सात्त्विकम् 440 ॥ ५८५ ॥

आसृष्टे सति रागौ च ? यथा 441 स्फूरति वै हृदि ।
प्रत्ययावयवौ चैव * * * पौष्कर 442 ॥ ५८६ ॥

बल्यर्थं विहितं तेषा मन्नं 443 पिण्डं तु सोदकम् ।
प्रेतक्रियाविधौ 444 चैव 445 स्वं स्वं काल कुलोचितं ॥ ५८७ ॥

चातुर्माननिषेधं च विहितं सूतकादिके ।
प्रतिषेधं गृहीतुर्वै आभूतादब्जसम्भव ॥ ५८८ ॥

द्विजेन्द्राणां तु 446 सान्येषां चातुरात्म्यैकयाजिनाम् ।
आराध्यानां प्रभवाच्च नास्तीति द्विजसत्तम ॥ ५८९ ॥

अत एवाधिकारं तु मृतके सूतके तु वा ।
प्रतिग्रहे प्रदाने च तत्कालं सङ्करं विना ॥ ५९० ॥

सहजा प्रतिपत्तिर्वै इत्येषामरयाजिनाम् ।
भगवद्याजिनां 447 चैव निस्सन्दिग्धा ? परस्परम् ॥ ५९१ ॥

मार्गमिच्छति 448 यस्त्वेवमनुसर्तुं हि चाच्युतम् ।
आशौचं समतीतं चेत्ततः कुर्याद्दशाहिकम् ॥ ५९२ ॥

प्। १३९)

विश्वास-प्रस्तुतिः

इत्युक्तमब्जसम्भूत 449 सर ? * * * * * * * * यथा स्थितम् ।
सम्प्रदानादिकं शश्वत् श्राद्धावरणमुत्तमम् ॥ ५९३ ॥

अथ काम्य श्राद्धविधिः

विश्वास-प्रस्तुतिः

विध्यन्तरमथो भूयः प्रसङ्गादवधारय ।
स्वर्गापवर्गफलदं भक्तानां भावितात्मनाम् ॥ ५९४ ॥

व्यवहारपदस्थं यद्विच्छिन्ना शस्त्र ? 450 बन्धुभिः ।
स्वयमिच्छति 451 वैकस्तु द्वादशाहाद्विजाखिलम् ॥ ५९५ ॥

तदिदानीं समासेन यथावत्कथयाम्यहम् ।
पुरा सम्भूतसम्भारः सुसहायैस्समावृतः 452 ॥ ५९६ ॥

मनःप्रसादजनकमेकं वा बहवो 453 द्विजाः ।
पुरस्कृत्य दिने शुभ्रे पितृपक्षात्तु वै पुरा ॥ ५९७ ॥

प्रातृट्काले तु वान्यत्र शरत्काले तु माधवे ।
यायादायतनं विष्णोः पुष्पधूपजनाकुलम् 454 ॥ ५९८ ॥

कूलं नदनदीनां वा सान्वाद्यं सोदकं गिरेः ।
निरातङ्कमस”न्कीर्णं 455 श्वपाकशबरादिकैः ॥ ५९९ ॥

तमासाद्य तपः कुर्याद्यागं च विधिपूर्वकम् ।
गणे 456 च नागस्थाने च भूतानां च वनस्पतेः ॥ ६०० ॥

क्षेत्रवासिमुखेनैव यथाशक्त्या सदक्षिणाम् ।
अपरेऽहनि वै कुर्यात्स्वमन्त्राराधनं तु वै ॥ ६०१ ॥

व्यक्तं वाप्यर्चनीयं च प्रार्थयेत्त (म) दनन्तरम् ॥ ६०२ ॥

विश्वास-प्रस्तुतिः

विभोः 457 प्रणमतेध्यक्षं ? स्वचिद्बीजान्वितस्य च ।
व्यक्ताव्यक्ता * * * * सञ्ज्ञस्य 458 पिण्डमिन्द्रिय * * * * ॥ ६०३ ॥

स्थापयामि सतत्त्वांशैस्सन्धयित्वा यथाविधि ।
भेदरूपमभिन्नं 459 च * * * * यात्मांशुचयस्य च ॥ ६०४ ॥

सुकृतस्य 460 च भोगार्थमन्यथा परमेश्वर ।
समुत्क्रान्तस्य 461 मे देहात् स्थितं मारुतलक्षणम् ॥ ६०५ ॥

सदुःखायाभिलाषा च ? घनेन च समावृताः 462
जायते सम्भ्रमोपेता दीर्घ कालवदक्षया 463 ॥ ६०६ ॥

निष्क्रिया च तथा जन्तोर्वशा * * * स्य 464 च ।
देहान्तरेण चाप्तेन शश्वत्कालान्तरेण वा ॥ ६०७ ॥

सा स्थिता दुस्सहा घोर तत्त्वतो याति सङ्क्षयम् ।
त्वत्प्रसादादतो नाथ शीघ्रमन्नं जलेन तु ॥ ६०८ ॥

पिण्डमिन्द्रियसञ्ज्ञं यन्निष्पाद्यं तन्निरामयम् ।
निस्सन्तान 465 स्त्वसन्देहं निराशः कर्मजालगः ॥ ६०९ ॥

अधिकृत्य 466 त्वमेवाद्य करोति ? त्राणमात्मना ।
पतितानां निराशानां नारकाणां परा गतिः ॥ ६१० ॥

त्वमेव लुप्तपिण्डानां शश्वदुद्धरणक्षमः ।
यतस्त्वमे 467 (व) तत् शश्वद * * * * रभ्य सनातन ॥ ६११ ॥

निष्पत्तिदिनपर्यन्तं विघ्नजालं सवासनम् ।
मम मा यातु भगवन् कर्मसिद्धिर्ममास्तु वै ॥ ६१२ ॥

प्। १४०)

विश्वास-प्रस्तुतिः

एवमभ्यर्थयित्वाजं करमापूर्य वारिणा ।
कुर्यात्तच्छेषपूर्णं तु आसमाप्ति तु संयमम् ॥ ६१३ ॥

लौकिकं व्यवहारं यद्धर्मकामार्थलक्षणम् ।
निरस्य पूर्ववत्सर्वं सावधानं ततो भवेत् ॥ ६१४ ॥

ततोऽभिमतवृत्तौ तु कृत्वा देवार्चनं तु वै ।
तदग्रतो दक्षिणे वा 468 चलयिष्ये शि ? तर्पणम् ॥ ६१५ ॥

द्विजेन्द्रं सन्निवेश्याथ सर्वं कृत्वा यथाविधि ।
निर्विशङ्केन मनसा तद्वदेव धिया ततः ॥ ६१६ ॥

स्वगृहं * * * स्वचैतन्यं ध्यायेत् 469 सान्निध्यमागतम् ।
स्मरेदेकं च निष्पापं प्रणवेनाप्तकालवत् ॥ ६१७ ॥

गतावसं ? 470 यत्संस्कारं यथा शास्त्रोदितं महत् ।
कृतभिक्षस्तु विहितमुक्तदीक्षं 471 तु वा चरेत् ॥ ६१८ ॥

अस्थिसञ्चयमात्रं 472 तु एवं कृत्वा यथाविधि ।
समाचरेत्ततः 473 स्नानं मान्त्रमब्जज तत्र वै ॥ ६१९ ॥

द्विजेन्द्रैः 474 कृतदीक्षैस्तु ऋग्यजु स्सामसङ्गतैः 475
प्रधानमन्त्रैरब्लिङ्गैरुपस्नातो 476 भवेदथ ॥ ६२० ॥

द्वादशाक्षरपूर्वेभ्यो मध्यात्प्रागुक्तलक्षणम् ।
जपेदेकतमं मन्त्रं दीक्षितस्त्वेकमेव हि ॥ ६२१ ॥

स्वमन्त्रादस्त्रमन्त्रैर्वा एवं स्नाने कृते पुनः ।
स्वमन्त्रं द्वादशार्णं वा ध्यायन् हृत्कमलान्तरे ॥ ६२२ ॥

तप्तकाञ्चनवर्णाभमुक्तमूर्ति * * * * मेव वा ।
मुहूर्तार्धं 477 मुहूर्तं वा जपन्नास्ते ह्यनन्यधीः ॥ ६२३ ॥

तेन कल्पाग्निकं विप्र आशौचं स्वकुलोद्भवम् ।
क्षयमेत्यभिसन्धानान्नराणामधिकारिणाम् ॥ ६२४ ॥

तत्वं 478 मानसमन्येभ्यस्सम्भूतानां यथाक्रमम् ।
न पुनस्सर्वशक्तेर्वै सम्भूतानां सुखानले 479 ॥ ६२५ ॥

तद्धा * * * * नां 480 च तज्ज्ञानां द्विजानामधिकारिणाम् ।
एवं संशुद्धदेहस्तु अन्नं संसाद्य पूर्ववत् ॥ ६२६ ॥

सभक्ष्यं व्यञ्जनोपेतं विभोर्यागार्थमेव च ।
तर्पणार्थं हि वै वह्नेः पिण्डनिर्वापणाय च ॥ ६२७ ॥

यथातिवाहिकं देहं द्वितीयं भूतविग्रहम् 481
कर्मणा नाशमभ्येति दीक्षाद्येन च मोक्षिणाम् ॥ ६२८ ॥

स्वयं 482 सम्प्रति दत्वैवमादशाहादिकेन यत् ।
पुरस्तादुपकाराय कर्मणां देहमेति तत् ॥ ६२९ ॥

दीर्घाभ्यासेन 483 कालेन सह कर्मचयं महत् ॥ ६३० ॥

विश्वास-प्रस्तुतिः

शममायाति 484 वै नूनं मन्त्रेशानां प्रसादतः ।
पितृत्वापादनं तेन कर्मणा 485 विमलेन च ॥ ६३१ ॥

अस्माद्गुरुतरं 486 चैव स्वयं सम्पादितं तु वा ।
आदशाहादिकं 487 पुंसामुपकाराय वै भवेत् ॥ ६३२ ॥

प्। १४१)

विश्वास-प्रस्तुतिः

नित्यमन्ते निवृत्ते तु स्वाराध्यं संयजेत्ततः ।
अभिसन्धाय मनसा स्वयं गुरुमुखेन वा ॥ ६३३ ॥

कर्माधारं 488 हि वै भावि देहं श्राद्धच्छलेन तु ।
सन्धामीश्वरतत्त्वाङ्गैर्देहभावात् 489 पृथक्स्थितैः ॥ ६३४ ॥

प्राग्वदिष्ट्वाथ मन्त्रेशं भोगैः सम्पूर्णलक्षणैः ।
सतिलाञ्जलिदानान्तैर्विधिवत्कमलोद्भव ॥ ६३५ ॥

पूर्वोक्तेन विधानेन भक्त्या सश्रद्धया ततः ।
एकाहं बहवो विप्राः पञ्चकालपरायणाः ॥ ६३६ ॥

सन्तर्प्यं भगवद्यागाद्यो हि वाञ्छति सम्पदम् ।
तस्मादुत्तरणे हेतुर्जीवितस्य मृतस्य वा ॥ ६३७ ॥

न पश्यामि ऋते यागदेतस्मान्मन्त्रपूर्वकात् ।
प्रभवात्ययतत्त्वज्ञा 490 व्यामिश्राराधनोज्झिताः ॥ ६३८ ॥

तेऽत्र 491 पात्रास्त्रयो ? नित्यं ज्ञानकर्मपरायणाः ।
मन्त्रप्रतिपरासक्ता इति कर्तव्याच्युतिः ॥ ६३९ ॥

भक्तिश्रद्धासमोपेता परमुत्तारणप्लवः ।
आस्तां तावदपापानामुपायत्वेन 492 पौष्कर ॥ ६४० ॥

यागं ब्रह्ममयं शुद्धं प्रतिषिद्धं परैरपि ।
पतितत्वात्तु वै तेषां पिण्डदानं तिलोदकम् ॥ ६४१ ॥

नामसङ्कीर्तनं चैते प्रयान्ति 493 परमां गतिम् ।
एकमुक्तं समुत्कृष्टमव्यापारं पराक्रमः ? ॥ ६४२ ॥

अधाराधानपूर्वं वा प्राजापत्यं समाचरेत् ।
सपिण्डीकरणान्तं तु आदशाहाद् द्विजोत्तम ॥ ६४३ ॥

अग्नावग्रे तदन्तस्थे मन्त्रेशे तर्पिते सति ।
पिण्डनिर्वापणं कुर्यात्पूर्वोक्तविधिना ततः ॥ ६४४ ॥

विनिवेश्यासने विप्रमेकं शक्त्या बहूनपि ।
तर्पणीयानि विधिवत्तत्त्वसन्धानसिद्धये ॥ ६४५ ॥

भोजने फलमूलैस्तु भक्ष्यैरुच्चावचैस्तथा ।
पावनैर्विविधैः पानैर्लेह्यैः पेयैश्च चोष्यकैः ॥ ६४६ ॥

दक्षिणाभिस्तु ताम्बूलैर्वारिकुम्भसमन्वितैः ।
छत्रोपानहयानैस्तु दानैः काम्यैर्यथोचितैः ॥ ६४७ ॥

प्रीतिमभ्येति वै येन समूहं भगवन्मयम् ।
ज्ञात्वा वा व्यवसायं यद्देशकालबलाबलम् ॥ ६४८ ॥

सह सत्पात्रलोभेन शीघ्रं यत्कर्तुमिच्छति ।
श्राद्धं दशाहपूर्वं वा पितृत्वापादानान्तिकम् ॥ ६४९ ॥

अनेकदिवसोत्थं 494 तु सिद्धान्नेन विना द्विज ।
यथावदर्चनं कृत्वा पत्रपुष्पादिकैर्विभो ? ॥ ६५० ॥

वह्नितर्पणनिष्ठं 495 तु स्वार्थमुद्दिश्य वै पितॄन् ।
पात्रं मध्वाज्यसिक्तैस्तु सम्पूर्णं शालितण्डुलैः ॥ ६५१ ॥

उपरिष्टाद्रसे मूर्तेः फलमूलैर्विभूषितम् ।
सोत्तरीयोपवीताढ्यं सर ? * * * * र्युतम् ॥ ६५२ ॥

सस्य ? एकसमोपेतं वारिकुम्भसमन्वितम् ।
धूपदीपादिकैर्युक्तं पूजयित्वा निवेद्य च ॥ ६५३ ॥

पित्रर्थं तु द्विजात्मार्थं ततो दद्यात्तिलोदकम् ।
एकमेव 496 हि चै * * * * बहवस्तु वा ॥ ६५४ ॥

सिद्धान्नं सद्विजेन्द्राणां पूजित * * * * * * * * ।
प्रतिपाद्य क्रमेणैव पूजनीयं हि वै विभोः ॥ ६५५ ॥

पिण्डं मध्वाज्यसिक्तैर्वा प्राग्वदापाद्य तण्डुलैः ।
अग्निगर्भगतस्याग्रे विभोर्दर्भसु * * * * ॥ ६५६ ॥

प्। १४२)

विश्वास-प्रस्तुतिः

गन्धानां पूर्ववत्कुर्यात् बुध्या च सुविशुद्धया ।
प्रेतोद्दिष्टेन विधिना * * * * * * * त्मनात्मना ॥ ६५८ ॥

विधिना मन्त्रपूर्वेण वत्सरं सम्प्रपूर्य च ।
प्रतिसंवत्सरं श्राद्धं यावज्जीवं समाचरेत् ॥ ६५९ ॥

नानादानसमोपेतं भावश्राद्धविभूषितम् ।
यथोद्दिष्टेन मार्गेण किन्तु गोत्रसमन्विताः ॥ ६६० ॥

मन्त्रान्ते विनियोक्तव्यास्समशब्दपुरस्सराः 497
स्वयं ज्ञनाभिमानाख्यं मूर्तिं ध्यायेत् स्वकं द्विज ॥ ६६१ ॥

अतश्शुद्धां ज्वलद्रूपां क्वचिदाकृतिलक्षणाम् ।
क्वचिद्गोलकरूपां च मध्याह्नादित्यसन्निभात् ॥ ६६२ ॥

क्वचिन्मन्दतराभां च तद्व्यापारवशेन तु ।
एवं समाप्य विधिवत् भगवद्यागपूर्वकम् ॥ ६६३ ॥

विप्रतर्पणपर्यन्तमखिलं पूर्वचोदितम् ।
प्रा * * * * दन * * * * पिण्डाद्यैर्वह्न्यन्ते 498 चोपसंहृतैः ॥ ६६४ ॥

बन्धुभिस्सह 499 चाश्नीयाद्दत्तशिष्टं द्विजोत्तम ।
प्राजापत्ये तु वै दिव्ये और्ध्वदैहिपूर्वके ॥ ६६५ ॥

व्यापारेऽस्मिन् समन्त्रे तु सिद्धिरस्ति ? विदात्मनाम् ।
स्वयमात्मनि कतॄणां भावान्मन्त्रांश्च सा * * * * ॥ ६६६ ॥

येन चोपरतस्याशु यथार्थत्वं प्रयाति च ।
तत्र * * * * * * * * कुर्यान्मन्त्रन्यस्तेन चाखिलम् ॥ ६६७ ॥

आपङ्तिसाधनात्कारि ? 500 तृप्त्यन्तममलेक्षण ।
आचरेद्वचसा 501 सर्वं मन्त्रोच्चारणपूर्वकम् ॥ ६६८ ॥

गृहाणानय 502 संयच्छ त्वेवमाद्यं हि यद्द्विज ।
मनसा भोजनान्तं तु व्यापारमखिलं स्मरेत् ॥ ६६९ ॥

प्रणवेनार्कचन्द्राग्निसमूहद्युतिसन्निभम् ।
संविशन्तं स्वयं मन्त्रमग्नौ तद्रूपलक्षणे ॥ ६७० ॥

परमात्मनि वा भिन्ने चातुरात्म्यं तु विद्धि तत् ।
कदम्बकुसुमाकारं सर्वशक्तिमलेपकम् ॥ ६७१ ॥

इतीदमुक्तमब्जाक्ष जीवभावस्थितस्य च ।
पारत्रिकं विधानं तु मुखकल्पसमं महत् ॥ ६७२ ॥

अत्र पूर्वोदितं विप्र उक्तानुक्तं तु चाखिलम् ।
भगवत्प्रीतिपर्यन्तं विज्ञातव्यं समाहितः ॥ ६७३ ॥

विधिनानेन यत्कुर्यात्पितृप्रेतमयं महत् ।
प्रीतये परतस्तस्य शुभां यच्छन्ति सन्ततिम् ॥ ६७४ ॥

भावमन्त्रक्रियाद्रव्यैरसम्पूर्णस्तु योगवत् ।
पठन् वै श्राद्धभोक्तॄणां श्राद्धाध्यायमिदं द्विज ॥ ६७५ ॥

समस्तं ह्यग्रतो भक्त्या पितॄणामनृणो भवेत् ।
किं पुनर्ब्रह्मसन्मत्त्रं मन्त्रकर्म महामते ॥ ६७६ ॥

व * * * * पुण्येन 503 भगवन् ब्रह्म * * * * * * * * ।

प्। १४३)

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

न तेषां व्रत * * * * सूर्यबिम्बं 504 यथा विना ? ।
तथा भगवतो विष्णोर्मूर्तषाड्गुण्यविग्रान् ॥ ६७८ ॥

प्रकाश * * * * त पूर्व * * * * न्दर्माग्रा * * * * 505
मा * * * * * * * * * * * * * * * 506 ॥ ६७९ ॥

व्यञ्जन्ति कमलोद्भूत त्वदन्येनैव सर्वदा ।
भेद एवं हि ? विभोश्चतुर्मूत्रेः परस्य च ॥ ६८० ॥

यत्तत्पिण्डाकृतानां 507 च रसानां भिन्नरूपिणाम् ।

विश्वास-प्रस्तुतिः

विभोस्सर्वेश्वरस्यैव सर्वस्सर्वासु शक्तिषु ।
वर्तन्ते च यथा * * * * * * * * * * * ॥ ६८२ ॥

(अत्र ग्रन्थपातः)

विश्वात्मा भगवान् विप्र वासुदेवस्सनातनः ॥ ६८३ ॥

चिद्धनास्ताः पुनः सम्यगुमकाराय कर्मणि ।

पूर्णात्मनि पुनस्स (र्वे) र्वाः 508 तथात्वेन च संस्थिताः ॥ ६८५ ॥

विश्वास-प्रस्तुतिः

किन्तु कुर्वन्ति ताः कृत्याः कर्ता प * * * * रा ।
प्रकाशशक्त्या 509 यां शक्ति * * * *स्य च ॥ ६८६ ॥

खचिता रश्मिजालेन यन्मध्यादेकमब्जज ।
प्रकटीकृतमात्मनमादितत्त्वेन वै सह ॥ ६८७ ॥

समाधिसंविधानं च लाभे वा ध्यानकर्मणि ।
परमात्मा ससुद्भूत * * * * * * * * विभुः ॥ ६८८ ॥

स्वप्रकाशांशमात्रेण अत एवानुमीयते ।
एवमाह्लादशक्तेर्वै लवमात्रं हि चन्द्रमाः ॥ ६८९ ॥

ज्ञातव्यमरविन्दाक्ष प्रीतस्य निधि ? मं परम् ।

विश्वास-प्रस्तुतिः

जगत्यस्मिन् हि ये भावा अन्ये तदनुकारिणः ।
ज्ञानादयोऽपि लभ्यन्ते तेन शक्तिज (च) यांशजाः ॥ ६९१ ॥

सर्वत्र भगवानेवं सामान्यत्वेन वर्तते ।
नेदं मायात्मकं रूपं जडशक्तिगुणैर्युतम् ॥ ६९२ ॥

भगवत्यब्जसम्भूत त्वन्तर्ल्लीनं हि विद्यते ।
यतो विचार्यमाणं हि नित्यमच्युतभाविनाम् ॥ ६९३ ॥

अभावभूमिमायाति स्वप्नदृष्टमिवेश्वरम् ।
मन्त्राः श्राद्धे समा ये च ये च दीक्षादिषूदिताः ॥ ६९४ ॥

व्यापारेष्वपि चान्येषु त्ऽप्येवं महिमान्वितम् ।
बुध्यैवं मन्त्रपूर्वं च सा (व्या)पारं शास्त्रचोदितम् ॥ ६९५ ॥

कृतिं (तम्) ज्ञानात्मनाभ्येति ह्यचिरादेव कर्मणाम् ।
श्रोत्रियाणां द्विजेन्द्राणां त्वदर्थाश्रमवर्तिनाम् ॥ ६९६ ॥

यद्वद्भुक्ताद्ध ? वश्शूद्रात् न दोषो ज्ञानगौरवात् ।
एवं स्वभावदीप्तानां निर्मलानां सदैव हि ॥ ६९७ ॥

ननैर्जातं ? न नैर्मल्यं ? भवेच्छूद्रपरिग्रहात् ? ।
यथैतदेव शूद्राणां * * * * ज्ञानगौरवात् ॥ ६९८ ॥

अविरोधोऽस्ति सर्वत्र मन्त्राणां समयैस्सह ।

प्। १४४)

विश्वास-प्रस्तुतिः

त्रयीमयानां मन्त्राणां प्रवृत्तिफलदायिनाम् ।
अस्ति * * * * * * * ष्मान्तद्विजग्रहम् ॥ ७०० ॥

अनिसर्गाद्विजश्रेष्ठ ब्रह्मतेजोविभासितम् ।

विश्वास-प्रस्तुतिः

अनिषेकं 510 च सम्बुद्धं तेषां स वर्तते ।
उपकारत्वमेवास्ति * * * * परस्परम् ॥ ७०२ ॥

द्विजेन्द्राणामृगादीनां 511 मन्त्राणां कमलोद्भव ।
एव * * * * नतरन्तं 512 तु विश्रा * * * * क्रमात् क्रमात् ॥ ७०३ ॥

संस्थितं च चतुर्थस्य शूद्रसञ्ज्ञस्य पौष्कर ।
प्रभाकरं 513 च वाहं च ? तैक्ष्यमध्ववशात्तु वै ॥ ७०४ ॥

निवर्तन्ते तथा ब्रह्मन् तेजोवर्णत्रयं तथा ।
प्रतिषिद्धं 513 यदर्थं वै * * * * * * * * * * * ॥ ७०५ ॥

आधारस्तदृगादीनां मन्त्रणां मन एव हि ।
पवित्रता च या तेषां विद्धि 514 सर्वेश्वरी हि सा ॥ ७०६ ॥

संशयाविष्कृतानां च स्वाहा वौषड्वषट् तथा ॥ ७०७॥

विश्वास-प्रस्तुतिः

प्रतिषिद्धं यदर्थं वै मया ते कथितं पुरा ।
पुरणैर्भगवन्मन्त्राः प्रणव * * * * * * * ॥ ७०८ ॥

सर्वज्ञवाचकास्ते वै सामान्या यद्यपि द्विज ।
मुखत्वेन च तत्रापि वर्तन्ते मखकर्मणि ॥ ७०९ ॥

येन दीप्तिकरत्वं च नोद्वहन्ति महामते ।
आदिदेवेन विभुना * * * * * * * * * * ॥ ७१० ॥

त्रिविधे शब्दराशौ तु त्रिविधा विकृतो जनः ।
अनन्ययाजिनो विप्रा मन्त्रसङ्घेऽञ्चलादिकेः ? ॥ ७११ ॥

ऋग्यजुस्साम * * * * * * * * * * * व्यामिश्रयाजकाः ।
चत्वारो * * * * * * * बीजपिण्डपदादिके ॥ ७१२ ॥

मन्त्रव्यूहे सुशुद्धे च रजोमोहान्वयोज्झिते ।
राजसानां हि मन्त्राणां तामसानां * * * * ॥ ७१३ ॥

सुयन्त्रितेन वै नित्यं भक्तेन च विशेषतः ॥ ७१४ ॥

मन्त्रज्ञेन त्रयाणां च भाव्यं शूद्रेण सर्वदा ।

ऋग्यजुस्सामसञ्ज्ञानां प्रयुक्तानां हि कर्मणि ॥ ७१६ ॥

विश्वास-प्रस्तुतिः

स्वर्गनिष्ठं हि चोत्कृष्टं सफलं साङ्गसां ? तथा ।
सिद्धसर्वज्ञमन्त्राणामणिमा * * * * * * * * ॥ ७१७ ॥

संयुक्तमपवर्गेणाप्रार्थितं 515 सर्वदैव हि ।
अत एव हि सामग्री निश्शेषाराधकस्य च ॥ ७१८ ॥

उपयुज्यति तत्सिध्यै फलं यस्याणिमादयः ।
भागेन सह सामग्ग्र्या * * * * पौष्किअर ॥ ७१९ ॥

साक्षात्करं हि यत्तस्य कैवल्यं शाश्वतं फलम् ।
राजसानां हि मन्त्राणां तामसानां महामते ॥ ७२० ॥

ईषद् 516 दृष्टफलोपेतमात्मसंस्कारमेव हि ।
जन्मोत्कर्षसमेतं च चित्तोत्कर्षफलप्रदम् ॥ ७२१ ॥

एषां प्रधानभूतं यत्फलमुक्तव्यपेक्षया ।
सात्विकानां हि मन्त्राणामेकदेशाश्रितं हि यत् ॥ ७२२ ॥

प्रत्ययार्थं हि मोक्षस्य सिद्धये सम्प्रकीर्तितम् ।
मशनामाकरोन्मन्त्राः ? तत्सिद्धिस्तत्क्रियावशात् ॥ ७२३ ॥

प्। १४५)

क्रियाधिगम्यते शास्त्रात् * * * * * * * * ।

विश्वास-प्रस्तुतिः

भवेत्तत्साधुसम्पर्कात् * * * * * * * भोत् ? ।
सन्मन्त्राणां द्विजेन्द्राणां शाश्वतस्य च कर्मणः ॥ ७२५ ॥

क्वचित्त्रयस्य संयोग * * * * फलम् ।
क्वचिन्महत्ता मन्त्राणां फलनिष्ठा क्रिया द्विज ॥ ७२६ ॥

मुखस्वरूपा * * * * णान् स्थितान् ।
अधिकारं क्वचित्कर्तुं स्थितं मन्त्रवशात् द्विज ॥ ७२७ ॥

जन्मोत्कर्षक्रिया * * * * जायन्ते 517 प्रत्ययैस्सह ।
ज्ञात्वैवं योजनं कार्यं भक्तानां सर्वदैव हि ॥ ७२८ ॥

मन्त्रव्यूहे तु विविधे ब्रह्मन् भोगापवर्गदे ॥

इति श्रीपाञ्चरात्रे श्रीपौष्करसंहितायां श्राद्धाख्यानो नाम

सप्तविंशोऽध्यायः ॥ २७ ॥

(समुदितश्लोकसङ्ख्या ७२९ ॥)

  1. ग्, घ्: यतीनाम् ↩︎ ↩︎

  2. ग्, घ्: न निर्वाणपदन्ती च ↩︎ ↩︎

  3. ग्, घ्: दीक्षया ↩︎ ↩︎

  4. क्, ख्: ध्यान * * * * ↩︎ ↩︎

  5. क्, ख्: प्रया * * * श्राद्धादाह्लादसंयुताम् ↩︎ ↩︎

  6. ग्, घ्: युक्तानिधिगणेनैव ↩︎ ↩︎

  7. क्, ख्: क्षेत्राप्ति संसार इत्याद्यर्धद्वयं गलितम् ↩︎ ↩︎

  8. क्, ख्: व्यक्ते द्वे त्रियचक्रस्य ↩︎ ↩︎

  9. क्, ख्: प्राश्रित्य * * * दुष्कृतम् ↩︎ ↩︎

  10. क्, ख्: सवेव * * * ब्जज ↩︎ ↩︎

  11. क्, ख्: सन्यस्कन्धगतये यथा ↩︎ ↩︎

  12. क्, ख्: * * * रङ्गारम् ↩︎ ↩︎

  13. क्, ख्: प्रणवमिन्द्रिय ↩︎ ↩︎

  14. ग्, घ्: नवैदेयदेह ↩︎ ↩︎

  15. ग्, घ्: निवेश्य ↩︎ ↩︎

  16. क्, ख्: वोत्तरासनम् ↩︎ ↩︎

  17. क्, ख्: उदक् * * * क्षमाणम् ↩︎ ↩︎

  18. ग्, घ्: सपात्रस्याशु पात्राभ्याम् ↩︎ ↩︎

  19. क्, ख्: प्रत्यनेनात्र ↩︎ ↩︎

  20. क्, ख्: व्यक्तिस्थ ↩︎ ↩︎

  21. ग्, घ्: चैतन्यमवलम्ब्य वै ↩︎ ↩︎

  22. क्, ख्: वशाद्दत्तः ↩︎ ↩︎

  23. क्, ख्: बहूनां तु ↩︎ ↩︎

  24. क्, ख्: सर्वास्तस्य * * * ↩︎ ↩︎

  25. क्, ख्: रश्मयो सोथ देहे; ग्, घ्: बोधदेहे ↩︎ ↩︎

  26. क्, ख्: विहितभूतानन्तमुम * * * तः ↩︎ ↩︎

  27. क्, ख्: भक्त्या * * * * ↩︎ ↩︎

  28. क्, ख्: नृणा * * * ↩︎ ↩︎

  29. क्, ख्: स्तेषाञ्चै * * * * ↩︎ ↩︎

  30. क्वचित् नैव प्रयोजनं इति पाठः ↩︎ ↩︎

  31. क्, ख्: नृणामेव ↩︎ ↩︎

  32. क्, ख्: नित्यास्त्वनुताद्याक्षयाः कलाः ↩︎ ↩︎

  33. क्, ख्: * * * * जगद्योनिम् ↩︎ ↩︎

  34. ग्, घ्: नानकारणम् ↩︎ ↩︎

  35. ग्, घ्: कुरुविन्दावस्तु ↩︎ ↩︎

  36. ग्, घ्: भुवनत्रयम् ↩︎ ↩︎

  37. क्, ख्: स्यच * * * ष्यस्य ↩︎ ↩︎

  38. त्यवात्मना इति साधु ↩︎ ↩︎

  39. ग्, घ्: तिलोदकोङ्ग ↩︎ ↩︎

  40. क्, ख्: * * * भिजप्ता * * * ↩︎ ↩︎

  41. ग्, घ्: ताम्रपात्राणि ↩︎ ↩︎

  42. क्, ख्: तत्राद्य * * * * कवृत्तानि ↩︎ ↩︎

  43. क्, ख्: पात्राणि कदलीपत्र ↩︎ ↩︎

  44. ग्, घ्: दक्षिणादिना ↩︎ ↩︎

  45. क्, ख्: सताभि * * * न्यथाक्रमम् ↩︎ ↩︎

  46. क्, ख्: आवृत्ति ↩︎ ↩︎

  47. ग्, घ्: त्रयोजयति ↩︎ ↩︎

  48. क्, ख्: तदन्ते स्वं स्मरेत् ↩︎ ↩︎

  49. ग्, घ्: संस्मरेन्ममम् ? ↩︎ ↩︎

  50. क्, ख्: भगवन् पूर्वप्रीतः ↩︎ ↩︎

  51. क्, ख्: कुर्या * * * नालये; ग्, घ्: राधनेलये ↩︎ ↩︎

  52. ग्, घ्: व्याप्तिशक्त्याश्रियम् ↩︎ ↩︎

  53. क्, ख्: मन्त्रमर्चन इत्याद्यर्धं लुप्तम् ↩︎ ↩︎

  54. क्, ख्: पात्राघ्राणपरेणैव * * * भावयेत्; ग्, घ्: पात्राग्रेण परेणैव ↩︎ ↩︎

  55. क्, ख्: यत्तृप्त * * * ↩︎ ↩︎

  56. ग्, घ्: तर्पणीयस्य स्वयम् ↩︎ ↩︎

  57. क्, ख्: * * * प्रवाहदन्तस्यो ↩︎ ↩︎

  58. क्, ख्: इदमर्धं लुप्तम् ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  59. ग्: कोशे तत्वतः इत्यनन्तरं दद्यात् इत्यक्षराणि सन्ति पश्चात् अन्यत् पिण्डद्वयम् इत्याद्यर्धमस्ति तेनेदमुल्लिख्यमानं नासमञ्जसं भवति अन्यत् पिण्डद्वयम् इत्यत्र अन्यत् पदस्थाने दद्यात् इति पदस्य योजने कृते वाक्यं पूर्णं भवति दद्यादिति पदेन विना न वाक्यार्थः पूर्यते किं च तत्वतः इत्यनन्तरं प्रक्रान्तस्य अर्धस्यादौ अन्यत् पिण्डद्वयम् इति अन्यत् इत्यस्य अन्यात् इति विकृतवर्णन्यासो दृश्यते तेन लेखकदोषात् दद्यात् इत्यस्य अन्यात् इत्यक्षरविकृतिः इति सुधियः प्रमाणम् ↩︎ ↩︎

  60. ग्, घ्: स्वरूपौ द्वौ ↩︎ ↩︎

  61. क्, ख्, ग्, घ्: वीणां वा ↩︎ ↩︎

  62. क्, ख्: शिरसाप्रनते ↩︎ ↩︎

  63. क्, ख्: जानुपादक्षिते ↩︎ ↩︎

  64. क्, ख्: स्वधावापितरः ↩︎ ↩︎

  65. क्, ख्: -र्चयाम्यहम् ↩︎ ↩︎

  66. क्, ख्: स्थित्वा * * * नान्य ↩︎ ↩︎

  67. ग्, घ्: नमोन्तः प्रणवाद्यन्तः ↩︎ ↩︎

  68. ग्, घ्: प्राणशक्तो ↩︎ ↩︎

  69. क्, ख्: कूर्मशक्तौ ↩︎ ↩︎

  70. ग्, घ्: यानि ↩︎ ↩︎

  71. क्वचित् पितृरूपिण इति ↩︎ ↩︎

  72. ग्, घ्: वान्यस्मिन् ↩︎ ↩︎

  73. ग्, घ्: वस्वतत्पिण्डवीक्षितौ ↩︎ ↩︎

  74. क्, ख्: ब्रह्मजपीकृते ↩︎ ↩︎

  75. ग्, घ्: आराध्यानामनैणामोङ्कार ↩︎ ↩︎

  76. क्, ख्, ग्, घ्: स्तु यमुक्तोमन्त्रः ↩︎ ↩︎

  77. ग्, घ्: समयी पुत्रकादीनाम् ↩︎ ↩︎

  78. क्, ख्: गुरो * * * साधक; ग्, घ्: गुरोर्वा ↩︎ ↩︎

  79. क्, ख्: न्यस्य * * * रुकृत् ↩︎ ↩︎

  80. क्, ख्: सामान्यं त्वय ↩︎ ↩︎

  81. क्, ख्: ता च तथा ↩︎ ↩︎

  82. ग्, घ्: सच्छान्ते ↩︎ ↩︎

  83. क्, ख्: षडक्षरस्यैव पूर्वम् ↩︎ ↩︎

  84. क्, ख्: * * * वतारितः ↩︎ ↩︎

  85. ग्, घ्: मूर्ध्वताद्वादश ↩︎ ↩︎

  86. क्, ख्: मुख्यत्वा ? पि ↩︎ ↩︎

  87. क्, ख्: * * * राः ↩︎ ↩︎

  88. क्, ख्: देवोजि * * * कृताः ↩︎ ↩︎

  89. क्, घ्: सर्वादीनाम् ↩︎ ↩︎

  90. क्, ख्: जायते च * * * मुप ↩︎ ↩︎

  91. क्, ख्: भूयस्त्वन्यस्त्वहिनिक्रियान्तरे ↩︎ ↩︎

  92. क्, ख्: ? ↩︎ ↩︎

  93. क्, ख्: एवमाअदिविनि ↩︎ ↩︎

  94. ग्, घ्: तिष्ठेमरकाष्ठा ↩︎ ↩︎

  95. क्, ख्: दोषा * * * प * * * ↩︎ ↩︎

  96. क्, ख्: वशेनेव * * * * सतो पति पद्विज ↩︎ ↩︎

  97. ग्, घ्: भुवर्लोकाद्विजायते ↩︎ ↩︎

  98. क्, ख्: यस्य फलं * * * * ↩︎ ↩︎

  99. ग्, घ्: देशमब्जज ↩︎ ↩︎

  100. क्, ख्: पात्रं तमः * * * मब्जज ↩︎ ↩︎

  101. क्, ख्: प्रोत्तारकं * * * न्वितम् ↩︎ ↩︎

  102. ग्, घ्: लब्धलक्ष्म ↩︎ ↩︎

  103. क्, ख्: अर्धद्वयं गलितम् ↩︎ ↩︎

  104. क्, ख्: ज्ञात्वे वाश्र-इधानेतु ↩︎ ↩︎

  105. क्, ख्: समासान्याः प्रसन्नतः ↩︎ ↩︎

  106. क्, ख्: इदमर्ध लुप्तम् ↩︎ ↩︎

  107. क्, ख्: यान्तो व्याघारमन्त्रेण पराकम्येन ↩︎ ↩︎

  108. ग्, घ्: गुणमूर्तसमूहेन ↩︎ ↩︎

  109. ग्, घ्: ते चान्यस्ताः ↩︎ ↩︎

  110. ग्: यस्माद्दे * * * * विधीश्वकाः; घ्: यस्माद्देशविध ↩︎ ↩︎

  111. क्, ख्: * * * स्य ↩︎ ↩︎

  112. क्, ख्: अर्द्धोपदेशचारेण ↩︎ ↩︎

  113. क्, ख्: कालादय * ** मा ↩︎ ↩︎

  114. क्, ख्: पुत्रशिष्या * * * ज ↩︎ ↩︎

  115. क्, ख्: भटिन्यधर्म * * * पन्त्यासुहृत्सद्धवात्मना ↩︎ ↩︎

  116. क्: मर्धं गलितम्; घ्: शुक्लाम्बरधरेणैव भावभक्तिपरेण च । संसाधनीयं श्राद्धार्थं स्वजातीयेन वै चरुः; ख्: इदमर्धत्रयं लुप्तम् ↩︎ ↩︎

  117. क्, ख्: शरीरव्याधिहीनेषु ↩︎ ↩︎

  118. क्, ख्: कास * * * वातदृक् * * * श्रु * * * वकैः ↩︎ ↩︎

  119. क्, ख्: दोषो * * * परेण च ↩︎ ↩︎

  120. क्, ख्: वर्णानां चारसाधनम् ↩︎ ↩︎

  121. क्, ख्: तदलाभात् * * * कारुकां शुचम् ↩︎ ↩︎

  122. ग्, घ्: मत्वादीनाम् ↩︎ ↩︎

  123. क्, ख्: यत्नेन पातिस्थगिताम्बरे ↩︎ ↩︎

  124. ग्, घ्: यमलीकृते ↩︎ ↩︎

  125. क्, ख्: अङ्गव्यञ्जन ↩︎ ↩︎

  126. क्, ख्: मध्वाज्यै * * * * ↩︎ ↩︎

  127. क्, ख्: वाष्पं ना * * * ↩︎ ↩︎

  128. क्, ख्: * * * किके क्षिप्ते ↩︎ ↩︎

  129. क्, ख्: स्थलिकाद्वये ↩︎ ↩︎

  130. क्, ख्: स्नानाद्यमाद्यमा ↩︎ ↩︎

  131. क्, ख्: * * * जास्नानस्य ↩︎ ↩︎

  132. क्, ख्: अ * * * स्वच्छम् ↩︎ ↩︎

  133. क्, ख्: * * * र्थम् ↩︎ ↩︎

  134. ग्, घ्: क्रमात् द्विज ↩︎ ↩︎

  135. क्, ख्: प्रागानगोषू * * * निवेश्यौ; ग्, घ्: प्रागानने पूर्वम् ↩︎ ↩︎

  136. क्, ख्: त्रिधायास्हिष्ठिता ↩︎ ↩︎

  137. क्, ख्: यथोक्तान् * * * षडङ्गा ↩︎ ↩︎

  138. ग्, घ्: द्विजवास्वकान् ↩︎ ↩︎

  139. ग्, घ्: क्रमाद्विन्योषडन्वितम् ↩︎ ↩︎

  140. क्, ख्: फड्वौषट्कसमायुतम् ↩︎ ↩︎

  141. क्, ख्: अग्नीषोमस्य दैवत्यम् ↩︎ ↩︎

  142. क्, ख्: अधिक्षयन्तदिग्भागम् ↩︎ ↩︎

  143. क्, ख्: जननीयत्रिकस्य ↩︎ ↩︎

  144. क्, ख्: श्रुतसा * * * तस्य ↩︎ ↩︎

  145. क्, ख्: निवेशनीयं यन्त्रेर्मन्त्रैः ↩︎ ↩︎

  146. क्, ख्: द्वयं * * * ↩︎ ↩︎

  147. क्, ख्: न्यरसदव्यक्त ↩︎ ↩︎

  148. क्, ख्: मिश्राणां नि * * * * श्र * * * द्धम् ↩︎ ↩︎

  149. क्, ख्: कामात् * * * न्तकः ↩︎ ↩︎

  150. ग्, घ्: लाभेन्विहैव ↩︎ ↩︎

  151. ग्, घ्: सङ्कर्षणावसानिकम् ↩︎ ↩︎

  152. क्, ख्: समन्त्रपञ्चकम् इत्यास्भ्य * * * इत्यन्तं अर्धचतुष्टयं लुप्तम् ↩︎ ↩︎

  153. क्, ख्: वेश्वरः ↩︎ ↩︎

  154. क्, ख्: * * * भिस्समोपेतं * * * योजयेत् ↩︎ ↩︎

  155. क्, ख्: * * * णं च चतुस्तम्भ * * * किं पुनः ↩︎ ↩︎

  156. क्, ख्: श्राद्धदा * * * ↩︎ ↩︎

  157. क्, ख्: ब्रह्म * * * ब्जसम्भूत ↩︎ ↩︎

  158. क्, ख्: ज्ञातद्याद्वा * * * हृदादिषु; ग्, घ्: ज्ञाताद्याद्वहृदादिषु ↩︎ ↩︎

  159. क्, ख्: सर्वत्राभूषणं हेति ↩︎ ↩︎

  160. क्, ख्: पित्रंशनिहिनिश्शेषं * * * देहगम् ↩︎ ↩︎

  161. क्, ख्: मतो * * * त्रीतये * * * ↩︎ ↩︎

  162. क्, ख्: तिलोदकै * * * णोत्कटम् ↩︎ ↩︎

  163. क्, ख्: क्रमे ↩︎ ↩︎

  164. क्, ख्: पर्यन्तमा * * * मस्तकम् ↩︎ ↩︎

  165. क्, ख्: आ * * * मस्तकावधि ↩︎ ↩︎

  166. क्, ख्: चत्वारश्च * * * ↩︎ ↩︎

  167. क्, ख्: प्रणव * * * संविधं तु वा ↩︎ ↩︎

  168. क्, ख्: तोयक्ष्मा * * * ↩︎ ↩︎

  169. क्, ख्: कण्ठ * * * ↩︎ ↩︎

  170. क्, ख्: * * * कन्धराख्यं तु ↩︎ ↩︎

  171. क्, ख्: कथचि * * * धिष्ठाने ↩︎ ↩︎

  172. क्, ख्: माशुक्लाद्वार ↩︎ ↩︎

  173. ग्, घ्: पात्रगं न्यसेत् ↩︎ ↩︎

  174. क्, ख्: ज्वलन्ता * * * वा ↩︎ ↩︎

  175. क्, ख्: न्यासा * * * मुक्तानाम् ↩︎ ↩︎

  176. क्, ख्: चतुर्व * * * ↩︎ ↩︎

  177. क्, ख्: साध * * * ↩︎ ↩︎

  178. क्, ख्: अनुज्ञान * * * चातु ↩︎ ↩︎

  179. क्, ख्: तत्रापि * * * श्राद्धे द्वाभ्यां सा * * * ↩︎ ↩︎

  180. क्, ख्: * * * या पुरा ↩︎ ↩︎

  181. क्, ख्: विधि * * * ↩︎ ↩︎

  182. क्, ख्: * * * पूर्वकम् ↩︎ ↩︎

  183. क्, ख्: कुलद्वये दक्षिणादि * * * नि ↩︎ ↩︎

  184. क्, ख्: वाम तर्जन * * * वान्तमेववा ↩︎ ↩︎

  185. क्, ख्: हुतमप्यलं * * * प्राग्वत् ↩︎ ↩︎

  186. क्, ख्: ध्यानवनि * * * लेखरोधकृत् ↩︎ ↩︎

  187. क्, ख्: तन्मध्ये * * * पञ्चेन्द्रिय ↩︎ ↩︎

  188. क्, ख्: क्रियताम् ↩︎ ↩︎

  189. क्, ख्: भाव्यं स्वयन्त्रितेनैव ↩︎ ↩︎

  190. क्, ख्: श्रये * * * खिलम् ↩︎ ↩︎

  191. क्, ख्: * * * तत्पूरणम् ↩︎ ↩︎

  192. क्, ख्: मनसामन्त्री * * * ज्ञाम् ↩︎ ↩︎

  193. क्, ख्: केन * * * णां तत्सुतिप्रदम् ↩︎ ↩︎

  194. क्, ख्: मूलं विना क्षानास्येति ↩︎ ↩︎

  195. क्, ख्: मरीचि * * * चिद्गर्भ ↩︎ ↩︎

  196. क्, ख्: मिदम्बरा; ग्, घ्: तदम्बरा ↩︎ ↩︎

  197. क्, ख्: * * * विलक्षण ↩︎ ↩︎

  198. क्, ख्: महतः फलकात् यद्वत् ↩︎ ↩︎

  199. क्, ख्: * * * कणमाश्रित्य बाह्य * * * पौष्कर ↩︎ ↩︎

  200. क्, ख्: तद्वदे बहि * * * * कलनिश्चयात् ↩︎ ↩︎

  201. क्, ख्: समाश्रित्य * * * पीत * * * श्वरेच्छया ↩︎ ↩︎

  202. क्, ख्: बाह्यं * * * द्विजम्; ग्, घ्: बाह्यं मायाकाशवधद्विज ↩︎ ↩︎

  203. क्, ख्: यत्ततः स्वेषां सुख * * * *; ग्, घ्: यत्ततः स्वष्टां सुख ↩︎ ↩︎

  204. क्, ख्: * * * समाब्जज ↩︎ ↩︎

  205. क्, ख्: * * * वतेनैव * * * कः ↩︎ ↩︎

  206. ग्, घ्: ज्ञानतत्वाम्बरावस्वसत्व खरविन्दक्षं तं धाकाशवधे पुनः ↩︎ ↩︎

  207. क्, ख्: चित्पिण्डं * * * क्रमात् ↩︎ ↩︎

  208. क्, ख्: अन्तःकरण * * * ↩︎ ↩︎

  209. क्, ख्: ज्ञानान्तवा * * * सुसूक्ष्मम् ↩︎ ↩︎

  210. क्, ख्: क्षाद्यं नारायणाद्यैस्तु * * * द्याक्षान्तै ↩︎ ↩︎

  211. ग्, घ्: क्षान्तैरनुष्ठितम् ↩︎ ↩︎

  212. क्, ख्: प्राण ब्रह्मवशानेमा ↩︎ ↩︎

  213. क्, ख्: बुध्याव्याप्ता * * * स्थैः ↩︎ ↩︎

  214. क्, ख्: ककुब्भवति ↩︎ ↩︎

  215. क्, ख्: सन्निवेश * * * पितृतर्पणे ↩︎ ↩︎

  216. क्, ख्: * * * तुष्ठान * * * ↩︎ ↩︎

  217. क्, ख्: * * * बीजत्वमागतम् ↩︎ ↩︎

  218. क्, ख्: सत्वोत्थैरनुपप्लवम् ↩︎ ↩︎

  219. ग्, घ्: सुज्ञान्तम् ↩︎ ↩︎

  220. क्, ख्: प्रपितामहम् ↩︎ ↩︎

  221. क्, ख्: स्वप्नान्तः करणेन ↩︎ ↩︎

  222. क्, ख्: ब्रह्मनाध्यानराकाशे ↩︎ ↩︎

  223. क्, ख्: तन्मूलं * * * कर्मिणाम् ↩︎ ↩︎

  224. क्, ख्: सञ्ज्ञा ↩︎ ↩︎

  225. क्, ख्: मूर्त वा ज्ञानमूर्तहृत् ↩︎ ↩︎

  226. क्, ख्: चिद्रूपवेशे ↩︎ ↩︎

  227. क्, ख्: तनुतीं ब्रह्म * * * नुगताम्; ग्, घ्: मनुतिः हृन्मन्त्रानुगता स्फुरेत् ↩︎ ↩︎

  228. ग्, घ्: व्याप्तं कण्ठा ↩︎ ↩︎

  229. ग्, घ्: गगनोदरे ↩︎ ↩︎

  230. क्, ख्: जयन्तं मोक्षदम् ↩︎ ↩︎

  231. क्, ख्: तनुत्रास्त्रमृगो ↩︎ ↩︎

  232. क्, ख्: ज्ञानादीनां हि * * * ↩︎ ↩︎

  233. क्, ख्: निस्त्वामनिष्ठिते ↩︎ ↩︎

  234. क्, ख्: सन्त * * * द्विश्वेदेव ↩︎ ↩︎

  235. क्, ख्: तारका रसयन्तश्च ↩︎ ↩︎

  236. क्, ख्: भावये * * * स्थितम् इत्यन्तं लुप्तम् ↩︎ ↩︎

  237. क्, ख्: तत्तेजसा * * * ध्यायेत् ↩︎ ↩︎

  238. क्, ख्: जनकं * * * च्चेतसा निर्मलेन तु; ग्, घ्: जनकीयकरन्ध्रेण प्रतिस्रोतीकृतम् पुनः मूलनिष्ठं क्रमात् ध्यायेत् चेतसानिर्मलेन तु ↩︎ ↩︎

  239. क्, ख्: एवं गतविवासास्तु * * * रमुच्चरन् ↩︎ ↩︎

  240. क्, ख्: कुर्यात् न * * * यो यो ↩︎ ↩︎

  241. क्, ख्: भावं तेषाम् ↩︎ ↩︎

  242. ग्, घ्: अभ्यर्थासनगं मुख्यम् ↩︎ ↩︎

  243. पितृ ↩︎ ↩︎

  244. क्, ख्: ताम्बूलचित्त * * * मन्त्र ↩︎ ↩︎

  245. क्, ख्, ग्, घ्: ॐ त्वमस्मत् ↩︎ ↩︎

  246. क्, ख्, ग्, घ्: अथेति ↩︎ ↩︎

  247. क्, ख्: भोगसङ्क्षयम् ↩︎ ↩︎

  248. घ्: संस्मरेद्धि स्मरन् प्रभुम् ↩︎ ↩︎

  249. क्, ख्: रोमरन्ध्रै ↩︎ ↩︎

  250. ग्, घ्: मन्त्रवाक् पुष्करा ↩︎ ↩︎

  251. क्, ख्: * * * यज्ञा * * * त्तत ↩︎ ↩︎

  252. क्, ख्: यायादग्नि * * * ↩︎ ↩︎

  253. ग्, घ्: तत्राधौ; ग्, घ्: त्वादावह्नो तदग्रतः ↩︎ ↩︎

  254. क्, ख्: कुशाग्राणि * * * पठन् ↩︎ ↩︎

  255. क्, ख्: कामान्यस्मिन् ↩︎ ↩︎

  256. पूर्ववन्नामगोत्रैस्तु ↩︎ ↩︎

  257. क्, ख्: सुमध्याचासु ↩︎ ↩︎

  258. ग्, घ्: स्थिरे ↩︎ ↩︎

  259. ग्, घ्: अपापान्यच्युताकेश ↩︎ ↩︎

  260. क्, ख्: योद्धव्ये बीजपूरिते; ग्, घ्: वेद्धव्ये ↩︎ ↩︎

  261. क्, ख्: द्विश्शब्देरेकवृत्ते ↩︎ ↩︎

  262. क्, ख्: धारासन्दवद्द ↩︎ ↩︎

  263. ग्, घ्: पाद्यमोस्तुते (पाद्यमोस्त्विति) ↩︎ ↩︎

  264. क्, ख्: रन्देवमाप्या ↩︎ ↩︎

  265. ख्: तिला* * * ना जलैस्तेन ↩︎ ↩︎

  266. क्, ख्: पूर्वाङ्गिकम् ↩︎ ↩︎

  267. क्, ख्: द्रव्यगन्धं * * * क्षोदम् ↩︎ ↩︎

  268. क्, ख्: पानदेह * * * * सुस्नेहात्; ग्, घ्: उपान होऽथ सुस्तेषाम् ↩︎ ↩︎

  269. क्: पादुकाः * * *; ख्: पादुकाः इत्येतदर्धमारभ्य भक्ष्यैः इति पर्यन्तं अर्धानामष्टकं लुप्तम् ↩︎ ↩︎

  270. क्, ख्: संश्लेषाम् ↩︎ ↩︎

  271. ग्: समवायं च साधारम् ↩︎ ↩︎

  272. ग्, घ्: तयादिकम् ↩︎ ↩︎

  273. क्, ख्: मथोत्तरम् ↩︎ ↩︎

  274. क्, ख्: उद्धोषयन् * * * ↩︎ ↩︎

  275. क्, ख्: दिग्भागम् ↩︎ ↩︎

  276. ग्, घ्: द्विजानां संयतश्चित्तान् ↩︎ ↩︎

  277. ग्, घ्: अथ पूर्ववदब्जाचमाचर्तव्यम् ↩︎ ↩︎

  278. क्, ख्: प्राङ्मुखा * * * ↩︎ ↩︎

  279. ग्, घ्: किं देहमानीय ↩︎ ↩︎

  280. क्, ख्: पृथक् * * * ↩︎ ↩︎

  281. क्, ख्: संहृत्य * * * द्विज ↩︎ ↩︎

  282. क्, ख्: * * * भोजन ↩︎ ↩︎

  283. ग्, घ्: चोदकालुकम् ↩︎ ↩︎

  284. ग्, घ्: मात्रेण ↩︎ ↩︎

  285. क्, ख्: स्थान * * * क्रियाय च ↩︎ ↩︎

  286. क्, ख्: यान्नैः पाणि * * * निर्वर्त्या ↩︎ ↩︎

  287. क्, ख्: अक्षय्याम् ↩︎ ↩︎

  288. ग्, घ्: परिवर्तते ↩︎ ↩︎

  289. क्, ख्: विशो * * * ↩︎ ↩︎

  290. क्, ख्: तत्पात्रे गगनोद्धेशे * * * षडङ्गुलात् ↩︎ ↩︎

  291. संविशोक्तांश्च; क्, ख्: संवि ? मन्त्रेण * * * ↩︎ ↩︎

  292. घ्: पातङ्गीसाबलं यद्वत् ↩︎ ↩︎

  293. क्, ख्: मन्त्रेण … ↩︎ ↩︎

  294. ग्, घ्: * * *? ? मार्गेण ↩︎ ↩︎

  295. ग्, घ्: तदस्तेनोदकेन ↩︎ ↩︎

  296. क्, ख्: यदुःखा * * *; ख्: दुःखाम्बुध * * * ?; ग्, घ्: दुःखापूतं च पाणिना ↩︎ ↩︎

  297. क्, ख्: क्षि * * * र्वैदक्षि ↩︎ ↩︎

  298. ग्, घ्: योग्य (* ?) वानिशाम् ↩︎ ↩︎

  299. ग्, घ्: ज्ञानक्रियावह्नि (न्नि) तया ↩︎ ↩︎

  300. क्, ख्: सपूरणे सति ↩︎ ↩︎

  301. ग्, घ्: यस्माच्चित्त ↩︎ ↩︎

  302. क्, ख्: अ * * * मनस्संस्कारं सपञ्चानाम् ↩︎ ↩︎

  303. क्, ख्: तच्चापि द्विविधं सिद्धि ↩︎ ↩︎

  304. क्, ख्: सुरक्षितानाम् ↩︎ ↩︎

  305. ग्, घ्: मुक्तानां मृतकादिकैः ↩︎ ↩︎

  306. ग्, घ्: सम्प्रदानवत् ↩︎ ↩︎

  307. क्, ख्: * * * * विष्टरं वर्तते मृतम् ↩︎ ↩︎

  308. ग्, घ्: ऊर्ध्ववृत्ति ↩︎ ↩︎

  309. क्, ख्: शक्तिपरःश्वसन् ↩︎ ↩︎

  310. क्, ख्: कर्ता * * * नात् ↩︎ ↩︎

  311. ग्, घ्: तत्प्रमाणांशुविद्यां च ↩︎ ↩︎

  312. ग्, घ्: लभेदाशु ↩︎ ↩︎

  313. क्, ख्: यत्र त्रिंशा ↩︎ ↩︎

  314. ग्, घ्: विनाडीसह्यपूर्वेण ↩︎ ↩︎

  315. क्, ख्: शेषं तेत्वगणम् ↩︎ ↩︎

  316. ग्, घ्: ततः स्वां शब्द ↩︎ ↩︎

  317. ग्, घ्: भूतपञ्चमम् ↩︎ ↩︎

  318. ग्, घ्: भुक्तोज्झिते ↩︎ ↩︎

  319. क्, ख्: हृदापीठे ↩︎ ↩︎

  320. ग्, घ्: आमूर्ध्नया तथैनैव ↩︎ ↩︎

  321. क्, ख्: विप्रविप्रानुग्रह ↩︎ ↩︎

  322. ग्, घ्: धिकं शुभम् ↩︎ ↩︎

  323. क्, ख्: स्वमन्त्रपा * * * द्वादशाक्षरम् ↩︎ ↩︎

  324. ग्, घ्: प्रवर्ते काय ↩︎ ↩︎

  325. क्, ख्: संरक्षणी चैव ↩︎ ↩︎

  326. ग्, घ्: तमोरूपा ↩︎ ↩︎

  327. क्, ख्: गामूलाद्यै * * * ↩︎ ↩︎

  328. क्, ख्: मुखस्योज्झितः ↩︎ ↩︎

  329. क्, ख्: सर्वगतं द्विज ↩︎ ↩︎

  330. क्, ख्: वसुधा * * * ↩︎ ↩︎

  331. क्, ख्: अष्टदिक्ष्वन्तरे * * * मूर्ति ↩︎ ↩︎

  332. मात्रान्त ↩︎ ↩︎

  333. क्, ख्: स्तम्भ इत्याद्यर्ध लुप्तम् ↩︎ ↩︎

  334. क्, ख्: * * * सद्वस्तु ↩︎ ↩︎

  335. क्, ख्: मन्योन्यस्य तु वेधसे ↩︎ ↩︎

  336. क्, ख्: गवाक्षं वै स्मरेत् ↩︎ ↩︎

  337. ग्, घ्: सहस्रपरिराजितम् ↩︎ ↩︎

  338. ग्, घ्: राजहंसपदान्तं च ↩︎ ↩︎

  339. क्, ख्, ग्, घ्: मुक्तमन्त्रैः ↩︎ ↩︎

  340. क्, ख्: तत्रान्तस्संस्थितम् ↩︎ ↩︎

  341. क्, ख्: प्रोक्षयंस्तत्रगन्धम् ↩︎ ↩︎

  342. ग्, घ्: मूलेनाभिप्रभामान्ति ↩︎ ↩︎

  343. क्, ख्: कृत्वाम्बुगर्घां मूल ↩︎ ↩︎

  344. क्, ख्, घ्: तुं संसाधन ↩︎ ↩︎

  345. क्, ख्: कुर्या * * * वातेन; ग्, घ्: कुर्यात् त्रिव्यापातेन ↩︎ ↩︎

  346. ग्, घ्: सर्वं तेन ↩︎ ↩︎

  347. क्, ख्: दृशा * * * तु संस्पृश्य ↩︎ ↩︎

  348. क्, ख्, ग्, घ्: त्वाहृत्य ↩︎ ↩︎

  349. क्, ख्: * * * शक्ति ↩︎ ↩︎

  350. क्, ख्: * * * श्रितं ब्रह्मन् * * * ↩︎ ↩︎

  351. क्, ख्: तनस्तरुषमात्रेण ↩︎ ↩︎

  352. किञ्चिद् दृष्टि ↩︎ ↩︎

  353. ग्, घ्: श्रोत्रेन्द्रियत्वं न प्राण ↩︎ ↩︎

  354. क्, ख्: शक्त्या * * * ↩︎ ↩︎

  355. क्, ख्: * * * ध्यायेत् ↩︎ ↩︎

  356. क्, ख्: * * * ↩︎ ↩︎ ↩︎ ↩︎

  357. क्, ख्: * * * देशमुप ↩︎ ↩︎

  358. क्, ख्: मूर्तिताम् ↩︎ ↩︎

  359. ग्, घ्: शक्तौ * * * चाद्विभागेन ↩︎ ↩︎

  360. क्, ख्: * * * पूर्ववत् प्रेतं * * * प्राण ↩︎ ↩︎

  361. क्, ख्: अथ * * * ↩︎ ↩︎

  362. ग्, घ्: तैस् ↩︎ ↩︎

  363. क्, ख्: तथा त्वर्थ ↩︎ ↩︎

  364. ग्, घ्: भोजनस्यैक ↩︎ ↩︎

  365. क्, ख्: शब्दं * * * व्यदक्षिण सव्यदक्षिण इति स्यात् ↩︎ ↩︎

  366. क्, ख्: यथामृतेन * * * श्रोत्रे * * * सम ↩︎ ↩︎

  367. ग्, घ्: च्छिष्टे प्रणवं पूर्ववत् ↩︎ ↩︎

  368. क्, ख्: एवं * * * घ्राण ↩︎ ↩︎

  369. क्, ख्: क्रमेण * * * सत्तम ↩︎ ↩︎

  370. क्, ख्: कुर्या * * * द्विजोत्तम ↩︎ ↩︎

  371. क्, ख्: एका * * * ↩︎ ↩︎

  372. क्, ख्: * * * साधयेच्चरुम् अत्र साधयेच्चरुम् इत्यक्षरसम्पातस्य कारणं मृग्यम् ↩︎ ↩︎

  373. ग्, घ्: चावलोकिकं न्तता इत्यस्ति ↩︎ ↩︎

  374. क्: अ * * * पूतप्रणवम्; ख्: आश्यामपूतप्रणवं आश्वासभूतं इत्यपि पाठः ↩︎ ↩︎

  375. क्, ख्: निवेश्या * * * ↩︎ ↩︎

  376. क्, ख्: शिरोवासैः ↩︎ ↩︎

  377. ग्, घ्: प्रोतानुग्राह्य ↩︎ ↩︎

  378. ग्, घ्: हस्ततले मूल ↩︎ ↩︎

  379. क्, ख्: तदपि मानधृक् ↩︎ ↩︎

  380. क्, ख्: * * * तस्यप्रीतो ↩︎ ↩︎

  381. क्, ख्: तस्य * * * परम्पदम्; ग्, घ्: तस्यगग्निवरं परम् ↩︎ ↩︎

  382. क्, ख्: जनेनाथ ** * ↩︎ ↩︎

  383. क्, ख्: किञ्च * * * लक्षणम् ↩︎ ↩︎

  384. क्, ख्: प्रबुद्धम् ↩︎ ↩︎

  385. क्: प्राप्तास्मितं * * * शक्तिभिः ↩︎ ↩︎

  386. क्, ख्: धरान्तस्थं कृत्वा ↩︎ ↩︎

  387. क्, ख्: * * * रेत्तत्र ↩︎ ↩︎

  388. क्, ख्, ग्, घ्: तन्मन्त्राणाम् ↩︎ ↩︎

  389. क्, ख्: स्नानान्तानथ ↩︎ ↩︎

  390. क्, ख्: करणे हितम् ↩︎ ↩︎

  391. क्, ख्: कर्मणि * * * ↩︎ ↩︎

  392. क्: षण्णामथ * * * कृत्वाभगवदर्चनम् अत्र त्रुटिस्थाने अर्धद्वयं लुप्तम्; ख्: षण्णामथ नवानां तु भगवदर्चनम् ↩︎ ↩︎

  393. क्, ख्: वर्मणा * * * मूर्तिं च ↩︎ ↩︎

  394. ग्, घ्: गोत्रेषु ↩︎ ↩︎

  395. ग्, घ्: स्वेन स्वेनक्रतुन्यासम् ↩︎ ↩︎

  396. क्, ख्: पितृलक्षणात् ↩︎ ↩︎

  397. क्, ग्: मन्त्रे क्रतुन्यासम् ↩︎ ↩︎

  398. चान्तस्य इति पाठान्तरम् ↩︎ ↩︎

  399. क्, ख्: स्वयं देवगणश्चिन्त्या ↩︎ ↩︎

  400. क्, ख्: भक्त्या पूर्वे द्वाहासतुल्यताम् ↩︎ ↩︎

  401. ग्, घ्: स्वातम्पैत्रे ↩︎ ↩︎

  402. क्, ख्: द्वेशक्तिनेत्रमध्वाख्ये ↩︎ ↩︎

  403. ग्, घ्: कुर्यात् प्रेतस्य ↩︎ ↩︎

  404. क्, ख्: एक * * * शक्तीनाम् ↩︎ ↩︎

  405. क्, ख्: सवृद्धं पूर्व; ग्, घ्: सुपृक्तं पूर्व ↩︎ ↩︎

  406. ग्, घ्: यत्पुनः ↩︎ ↩︎

  407. क्, ख्: दाहृत्य ↩︎ ↩︎

  408. घ्: परि वर्धयेत् ↩︎ ↩︎

  409. क्, ख्: तस्मादु * * * वै ↩︎ ↩︎

  410. ग्, घ्: विलोप्य ↩︎ ↩︎

  411. क्, ख्: एवं कृत्वान्नसन्तानम् ↩︎ ↩︎

  412. ग्, घ्: वत्सरैर्वत्सरे ↩︎

  413. क्, ख्: * * * जयन्तो जाग्रतस्य च ↩︎ ↩︎

  414. क्, ख्: पितृत्वं * * * ञ्चोत्तरे; ग्, घ्: पितृत्वं लब्ध सस्तव्यसंस्थितम् ↩︎ ↩︎

  415. क्, ख्: * * * कमलोद्भव ↩︎ ↩︎

  416. ग्, घ्: विधानमविधानतः ↩︎ ↩︎

  417. क्, ख्: * * * निरुद्धेन ↩︎ ↩︎

  418. क्, ख्: साविधानु ↩︎ ↩︎

  419. क्, ख्: याणां * * * क्ष्माधरम्; ग्, घ्: क्ष्माधराम् ↩︎ ↩︎

  420. क्, ख्: भू * * * दिनाम् ↩︎ ↩︎

  421. ग्, घ्: मन्त्रधारणयात्मकम् ? ↩︎ ↩︎

  422. ग्, घ्: साधुना ↩︎ ↩︎

  423. क्, ख्: समि * * * ↩︎ ↩︎

  424. क्, ख्: युक्तमा * * * प्राग्वत् ↩︎ ↩︎

  425. ग्, घ्: आत्मसादादनम् ↩︎ ↩︎

  426. क्, ख्: * * * निष्पाद्य ↩︎ ↩︎

  427. ग्, घ्: समन्त्रं पूर्वोक्तं कञ्चदञ्चाधिकम् ↩︎ ↩︎

  428. क्, ख्: समयैकत्वमागतम् ↩︎ ↩︎

  429. क्, ख्: * * * भूतं यत् ↩︎ ↩︎

  430. क्, ख्: पिण्डनि * * * मुखस्थितं यत् ↩︎ ↩︎

  431. क्, ख्: * * * हव्यपारम् * * * ↩︎ ↩︎

  432. ग्, घ्: विप्रेति कमलो ↩︎ ↩︎

  433. क्, ख्: * * * व्यापकत्वेन साम्प्रतम् ↩︎ ↩︎

  434. क्, ख्: पिण्डे तु * * * नयेत् ↩︎ ↩︎

  435. क्, ख्: प्रेतचित्प्रतिना; ग्, घ्: प्रेते चित्प्रतिरासह ↩︎ ↩︎

  436. क्, ख्: दब्जोत्थ * * * चाखिलम् ↩︎ ↩︎

  437. ग्, घ्: मथ तस्माद्वै तस्मात् ↩︎ ↩︎

  438. क्: * * * तत्प्राग्वत्परताम्; ख्: तस्मात्तदवधूर्ध्वस्थम्; ग्, घ्: तस्मात्तदपि मूर्ध्वस्थे ? ↩︎ ↩︎

  439. ग्, घ्: आदेक्षेकादशापादने दिनम् ↩︎ ↩︎

  440. ग्, घ्: सञ्ज्ञस्य * * * घाचस्य सचात्विकम् ↩︎ ↩︎

  441. क्, ख्: यथा स्मरति वै ↩︎ ↩︎

  442. ग्: प्रत्ययावयते चैव वनिद्वावाअपि ↩︎ ↩︎

  443. क्, ख्: मग्नं पिण्डे तु ↩︎ ↩︎

  444. ग्, घ्: प्रेतक्रिया यथा ↩︎ ↩︎

  445. क्, ख्: चैव स्वयं कालम् ↩︎ ↩︎

  446. क्, ख्: द्विजेन्द्राणां स * * * चातुरात्म्यैव ↩︎ ↩︎

  447. क्, ख्: द्याजिनश्चैव ↩︎ ↩︎

  448. ग्, घ्: मामामिच्छति यस्यैव ↩︎ ↩︎

  449. क्, ख्: इत्युक्त * * * स्थितम् ↩︎ ↩︎

  450. ग्, घ्: शास्तु बुद्धिभिः ↩︎ ↩︎

  451. ग्, घ्: स्वयमिष्टमिवै कस्तु ↩︎ ↩︎

  452. ग्, घ्: समावृत्तैः ↩︎ ↩︎

  453. ग्, घ्: विभवाद्विज ↩︎ ↩︎

  454. क्: पुष्पजना; ख्: पुष्पभ्रमजना ↩︎ ↩︎

  455. क्, ख्, ग्, घ्: निरातङ्कसमं कीर्ण्य श्वपाकरवरादिकैः ↩︎ ↩︎

  456. क्, ख्: गणेन नाग ↩︎ ↩︎

  457. क्, ख्: विभोः * * * बीजान्वितस्य च ↩︎ ↩︎

  458. क्, ख्: * * * मिन्द्रिय * * * ↩︎ ↩︎

  459. क्, ख्: मभिन्नं च कृपयात्माम् * * * ↩︎ ↩︎

  460. क्: * * * मन्यथा * * *; ख्: स्वे स्वे कृतस्य ↩︎ ↩︎

  461. क्, ख्: स * * * कान्तस्य मे देहा * * * ↩︎ ↩︎

  462. ग्, घ्: समावृतम् ↩︎ ↩︎

  463. ग्, घ्: कालवदाक्रिया ↩︎ ↩︎

  464. ग्, घ्: वशानवशानकपुर ↩︎ ↩︎

  465. ख्: निस्सन्तानस्सहं देहम्; ग्, घ्: विस्सन्तानस्वहं देहम् ↩︎ ↩︎

  466. क्, ख्: अविकृत्य * * * करोमि तृणमात्मना ↩︎ ↩︎

  467. क्, ख्: त्वमेवत * * * सनातन; ग्, घ्: त्वमेतत् शश्वच्च दत्यारग्य ↩︎ ↩︎

  468. क्, ख्: वाचल * * * तर्पणम् ↩︎ ↩︎

  469. क्, ख्: ध्यायेत् * * * ↩︎ ↩︎

  470. ग्, घ्: गतासवम् ↩︎ ↩︎

  471. ग्, घ्: कृतदीक्षम् ↩︎ ↩︎

  472. क्, ख्: * * * कृत्वा ↩︎ ↩︎

  473. ग्, घ्: स्रमाचरेन्नदीस्रानम् ↩︎ ↩︎

  474. क्, ख्: द्विजेन्द्रकृतदीक्षैस्तु ↩︎ ↩︎

  475. ग्, घ्: सामसम्भवैः ↩︎ ↩︎

  476. ग्, घ्: जपस्नातो ↩︎ ↩︎

  477. क्, ख्: मुहूर्तार्धममूर्त वा ↩︎ ↩︎

  478. क्, ख्: * * * सम्भूतानां यथा ↩︎ ↩︎

  479. ग्, घ्: स्वखानवे सुखावने ↩︎ ↩︎

  480. ग्, घ्: द्याजितानां च सत् ज्ञानाम् ↩︎ ↩︎

  481. ग्, घ्: भूतविग्रहे ↩︎ ↩︎

  482. क्, ख्: * * * दिकेन यत् ↩︎ ↩︎

  483. क्, ख्: आचार्याभ्यसने * * * तहन् ↩︎

  484. क्, ख्: * * * शानाम् ↩︎ ↩︎

  485. क्, ख्: कर्मणा * * * लोचन; ग्, घ्: कर्मणाविमलोचन ↩︎ ↩︎

  486. ग्, घ्: तस्माद्गुरु ↩︎ ↩︎

  487. क्, ख्: आदर्शगाहात् * * * सामुप ↩︎ ↩︎

  488. क्: कर्म * * * वै भावि ↩︎ ↩︎

  489. क्, ख्: सन्धायति स्वतत्वांशैः ↩︎ ↩︎

  490. क्, ख्: प्रणवाव्यय ↩︎ ↩︎

  491. ग्, घ्: तत्र पात्रा ↩︎ ↩︎

  492. क्, ख्: तावदवातानाम् ↩︎ ↩︎

  493. ग्, घ्: परियान्ति पराम् ↩︎ ↩︎

  494. ग्, घ्: अनेनादिवसोत्थम् ↩︎ ↩︎

  495. क्, ख्: तर्पणनिष्कम् ↩︎ ↩︎

  496. क्, ख्: एवमेव * * * बहवस्तु ↩︎ ↩︎

  497. ख्, ग्, घ्: मन्त्रान्ते विधयोक्तव्याः ↩︎ ↩︎

  498. ग्, घ्: प्रादोदनमपिण्डाद्यैः * * * ↩︎ ↩︎

  499. क्, ख्: बुद्धिभिस्सह ↩︎ ↩︎

  500. क्, ख्: * * * ममलेक्षण ↩︎ ↩︎

  501. क्, ख्: वचसा पूर्वम् ↩︎ ↩︎

  502. क्, ख्: गृहाण * * * त्वेन ↩︎ ↩︎

  503. क्: * * * पुण्यो * * * भगवान् ↩︎

  504. ग्, घ्: न तेषां व्रत शुश्रावै ↩︎ ↩︎

  505. ग्, घ्: * * * न्धरात्मना ↩︎ ↩︎

  506. क्, ख्: मा * * * त्मना ↩︎ ↩︎

  507. क्, ख्: कृतानां च * * * भिन्न ↩︎

  508. ग्, घ्: * * * तो वर्णनामान्ते * * * रुपचर्यते ↩︎

  509. क्, ख्: प्रका * * * ↩︎ ↩︎

  510. क्, ख्: अनिषेक * * * बोध्यम् ↩︎ ↩︎

  511. क्, ख्: -णां मृगेन्द्राणाम् ↩︎ ↩︎

  512. क्, ख्: एव * * * क्रमात् ↩︎ ↩︎

  513. क्, ख्: * * * । ↩︎ ↩︎ ↩︎ ↩︎

  514. क्, ख्: तेषां वृद्धि ↩︎ ↩︎

  515. क्, ख्: * * * सप्तमवर्गेण ↩︎ ↩︎

  516. क्, ख्: एष दृष्ट ↩︎ ↩︎

  517. ग्, घ्: जन्मोत्कर्षक्रमाद्येन ↩︎ ↩︎